TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

नारायणीय - भाग ९

"नारायणीय" काव्याचे कवी नारायण भट्ट संस्कृत भाषेतील एक प्रकांड पंडित, प्रतिभाशाली कवी होते.


भाग ९
९-३३-१-१ वैवस्वताख्यमनुपुत्रनभागजात-
९-३३-१-२ नाभागनामकनरेन्द्रसुतोऽम्बरीषुः ।
९-३३-१-३ सप्तार्णवावृतमहीदयितोऽपि रेमे
९-३३-१-४ त्वत्सङ्गिषु त्वयि च मग्नमनाः सदैव ॥
९-३३-२-१ त्वत्प्रीतयेसकलमेव वितन्वतोऽस्य
९-३३-२-२ भक्त्यैव देव! नचिरादभृथाः प्रसादं ।
९-३३-२-३ येनास्य याचनमृतेऽप्यभिरक्षणार्थं
९-३३-२-४ चक्रं भवान्प्रविततार सहस्रधारं ॥
९-३३-३-१ स द्वादशीव्रतमथो भ्वदर्चनार्थं
९-३३-३-२ वर्षं दधौ मधुवने यमुनोपकण्ठे ।
९-३३-३-३ पत्न्या समं सुमनसा महतीं वितन्दन्
९-३३-३-४ पूजां द्विजेषु विसृजन्पशुषष्टिकोटिं ॥
९-३३-४-१ तत्राथ पारणदिने भवदर्चनान्ते
९-३३-४-२ दुर्वाससास्य मुनिना भवनं प्रपेदे ।
९-३३-४-३ भोक्तुं वृतश्च स नृपेण परार्तिशीलो
९-३३-४-४ मन्दं जगाम यमुनां नियमान्विधास्यन् ॥
९-३३-५-१ राज्ञाथ पारणमुह्ङ्र्तसमाप्तिखेदाद्
९-३३-५-२ वारैव पारणमकारि भवत्परेण ।
९-३३-५-३ प्राप्तो मुनिस्तदथ दिव्यदृशा विजानन्
९-३३-५-४ क्षिप्यन्क्रुधोद्धृतजटो विततान कृत्यां ॥
९-३३-६-१ कृत्यां च तामसिधरां भुवनं दहन्ती-
९-३३-६-२ मग्रेऽभिवीक्ष्य नृपतिर्न पदाच्चकम्पे ।
९-३३-६-३ त्वद्भक्तबाधमभिवीक्ष्य सुदर्शनं ते
९-३३-६-४ कृत्यानलं शलभयन्मुनिमन्वधावीत् ॥
९-३३-७-१ धावन्नशेषभुवनेषु भिया स पश्यन्
९-३३-७-२ विश्वत्र चक्रमपि ते गतवान्विरिञ्चं ।
९-३३-७-३ कः कालचक्रमतिलङ्घयतीत्यपास्तः
९-३३-७-४ शर्वं ययौ स च भवन्तमवन्दतैव ॥
९-३३-८-१ भूयो भवन्निलयमेत्य मुनिं नमन्तं
९-३३-८-२ प्रोचे भवानहमृषे! ननु भक्तदासः ।
९-३३-८-३ ज्ञानं तपश्च विनयान्वितमेव मान्यं
९-३३-८-४ याह्यम्बरीषपदमेव भजेति भूमन्! ॥
९-३३-९-१ तावत्समेत्य मुनिना स गृहीतपादो
९-३३-९-२ राजापसृत्य भवदस्त्रमसाव (नौषी?नावी) ते ।
९-३३-९-३ चक्रे गते मुनिरदादखिलाशिषोऽस्मै
९-३३-९-४ त्वद्भक्तिमागसि कृतेऽपि कृपां च शंसन् ॥
९-३३-१०-१ राजा प्रतीक्ष्य मुनिमेकसमामनाश्वान्
९-३३-१०-२ सम्भोज्य साधु तमृषिं विसृजन्प्रसन्नं ।
९-३३-१०-३ भुक्त्वा स्वयं त्वयि ततोऽपि दृढं रतोऽभूत्
९-३३-१०-४ सायुज्यमाप च स मां पवनेश! पायाः ॥
९-३४-१-१ गीर्वाणैरर्थ्यमानो दशमुखनिधनं कोसलेष्वृश्यशृङ्गे
९-३४-१-२ पुत्रीयामिष्टिमिष्ट्वा ददुषि दशरथक्ष्माभृते पायसाग्र्यं ।
९-३४-१-३ तद्भुक्त्या तत्पुरन्ध्रीष्वपि तिसृषु समं जातगर्भासु जातो
९-३४-१-४ रामस्त्वं लक्ष्मणेन स्वयमथ भरतेनापि शत्रुघ्ननाम्ना ॥
९-३४-२-१ कोदण्डी कौशिकस्य क्रतुवरमवितुं लक्ष्मणेनानुयातो
९-३४-२-२ यातोऽभूस्तातवाचा मुनिकथितमनुद्वन्द्वशान्ताध्वखेदः ।
९-३४-२-३ न्णां त्राणाय बाणैर्मुनिवचनबलात्ताटकां पाटयित्वा
९-३४-२-४ लब्ध्वास्मादस्त्रजालं मुनिवनमगमो देव! सिद्धाश्रमाख्यं ॥
९-३४-३-१ मारीचं द्रावयित्वा मखशिरसि शरैरन्यरक्षांसि निघ्नन्
९-३४-३-२ कल्यां कुर्वन्नहल्यां पथि पदरजसा प्राप्य वैदेहगेहं ।
९-३४-३-३ भिन्दानश्चान्द्रचूडं धनुरवनिसुतामिन्दिरामेव लब्ध्वा
९-३४-३-४ रायं प्रातिष्ठथास्त्वं त्रिभिरपि च समं भ्रातृवीरैः सदारैः ॥
९-३४-४-१ आरुन्धाने रुषान्धे भृगुकुलतिलके संक्रमय्य स्वतेजो
९-३४-४-२ याते यातोऽस्ययोध्यां सुखमिह निवसन्कान्तया कान्तमूर्ते! ।
९-३४-४-३ शत्रुघ्नेनैकदाथो गतवति भरते मातुलस्याधिवासं
९-३४-४-४ तातात्रब्धोऽभिषेकस्तव किल विहतः केकयाधीशपुत्र्या ॥
९-३४-५-१ तातोक्या यातुकामो वनमनुजवधूसंयुतश्चापधारः
९-३४-५-२ पौरानारूध्य मार्गे गुहनिलयगतस्त्वं जटाचीरधारी ।
९-३४-५-३ नावा सन्तीर्य गङ्गामधिपदवि पुनस्तं भरद्वाजमारा-
९-३४-५-४ न्नत्वा तद्वाक्यहेतोरतिसुखमवसश्चित्रकूटे गिरीन्द्रे ॥
९-३४-६-१ श्रुत्वा पुत्रार्तिखिन्नं खलु भरतमुखात्स्वर्गयातं स्वतातं
९-३४-६-२ तप्तो दत्त्वाम्बु तस्मै निदधिथ भरते पादुकां मेदिनीं च ।
९-३४-६-३ अत्रिं नत्वाथ गत्वा वनमतिविपुलां दण्डकां चण्डकायं
९-३४-६-४ हत्वा दैत्यं विराधं सुगतिमकलयश्चारु भोः! शारभङ्गीं ॥
९-३४-७-१ नत्वागस्त्यं समस्ताशरनिकरसपत्राकृतिं तापसेभ्यः
९-३४-७-२ प्रत्यश्रौषीः प्रियैषी तदनु च मुनिना वैष्णवे दिव्यचापे ।
९-३४-७-३ ब्रह्मास्त्रे चापि दत्ते पथि पितृसुहृदं दीक्ष्य जटायुं
९-३४-७-४ मोदाद्गोदातटान्ते परिरमसि पुरा पञ्चवत्यां वधूट्या ॥
९-३४-८-१ प्राप्तायाः शूर्पणख्या मदनचलधृतेरर्थनैर्निस्सहात्मा
९-३४-८-२ तां स्ॐइत्रौ विसृज्य प्रबलतमरुषा तेन निर्लुननासां ।
९-३४-८-३ दृष्ट्वैनां रुष्टचित्तं खरमभिपतितं दुषणं च त्रिमूर्धं
९-३४-८-४ व्याहिंसीराशरानप्ययुतसमधिकांस्तत्क्षणादक्षतोष्मा ॥
९-३४-९-१ सोदर्याप्रोक्तवार्ताविवशदशमुखादिष्टमारीचमाया-
९-३४-९-२ सारङ्गं सारसाक्ष्या स्पृहितमनुगतः प्रावधीर्बाणघातं ।
९-३४-९-३ तन्मायाक्रन्दनिर्यापितभवदनुजां रावणस्तामहार्षीत्
९-३४-९-४ तेनार्तोऽपि त्वमन्तः किमपि मुदमधास्तद्वधोपायायलाभात् ॥
९-३४-१०-१ भूयस्तन्वीं विचिन्वन्नहृत दशमुखस्त्वद्वधूं मद्वधेने-
९-३४-१०-२ त्युक्त्वा याते जटायौ दिवमथ सुहृदः प्रातनोः प्रेतकार्यं ।
९-३४-१०-३ गृह्णानं तं कबन्धं जघनिथ शबरीं प्रेक्ष्य पम्पातटे त्वं
९-३४-१०-४ सम्प्राप्तो वातसूनुं भृशमुदितमनाः पाहि वातालयेश! ॥
९-३५-१-१ नीतः सुग्रीवमैत्रीं तदनु दुन्दुभेः कायमुच्चैः
९-३५-१-२ क्षिप्त्वाङ्गुष्ठेन भूयो लुलविथ युगपत्पत्रिणा सप्त सालान् ।
९-३५-१-३ हत्वा सुग्रीवघातोद्यतमतुलबलं वालिनं व्याजवृत्त्या
९-३५-१-४ वर्षावेलामनैषीर्विरहतरलैतस्त्वं मतङ्गाश्रमान्ते ॥
९-३५-२-१ सुग्रीवेणानुजोक्त्या सभयमभियता व्यूहितां वाहिनीं ता-
९-३५-२-२ मृक्षाणां वीक्ष्य दिक्षु द्रुतमथ दयितामार्गणायावनम्रां ।
९-३५-२-३ सन्देशं चान्गुलीयं पवनसुतकरे प्रादिशो मोदशाली
९-३५-२-४ मार्गे मार्गे ममार्गे कपिभिरपि तदी त्वत्प्रिया सप्रयासः ॥
९-३५-३-१ त्वद्वार्ताकर्णनोद्यद्गरुदुरुजवसम्पातिसम्पातिवाक्य-
९-३५-३-२ प्रोत्तीर्णार्णोधिरन्तर्नगरि जनकजां वीक्ष्य दत्त्वाङ्गुलीयं ।
९-३५-३-३ प्रक्षुद्योद्यानमक्षक्षपणचणरणः सोढबन्धो दशास्यं
९-३५-३-४ दृष्ट्वा प्लुष्ट्वा च लङ्कां झटिति स हनुमान्मौलिरत्नं ददौ ते ॥
९-३५-४-१ त्वं सुग्रीवाङ्गदादिप्रबलकपिचमूचक्रविक्रान्तभूमि-
९-३५-४-२ चक्रोऽभिक्रम्य पारेजल्धि निशिचरेन्द्रानुजाश्रीयमाणः ।
९-३५-४-३ तत्प्रोक्तां शत्रुवार्तां रहसि निशमयन्प्रार्थनापार्थ्यरोष-
९-३५-४-४ प्रास्ताग्नेयास्त्रतेजस्त्रमदुदधिगिरा लब्धवान्मध्यमार्गं ॥
९-३५-५-१ कीशैराशान्तरोपाहृतगिरिनिकरैः सेतुमाधाप्य यातो
९-३५-५-२ यातून्यामर्द्य दंष्ट्रानखशिखरिशिलासालशस्त्रैः स्वसैन्यैः ।
९-३५-५-३ व्याकुर्वन्सनुजस्त्वं समरभुवि परं विक्रमं शक्रजेत्रा
९-३५-५-४ वेगान्नागास्त्रबद्धः पतगपतिगरुन्मारुतैर्मोचितोऽभूः ॥
९-३५-६-१ स्ॐइत्रिस्त्वत्र शक्तिप्रहृतिगलदसुर्वातजानीतशैल-
९-३५-६-२ घ्राणात्प्रणानुपेतो व्यकृणुत कुसृतिश्लाघिनं मेघनादं ।
९-३५-६-३ मायाक्षोभेषु वैभीषणवचनहृतस्तम्भनः कुम्भकर्णं
९-३५-६-४ सम्प्राप्तं कम्पितोर्वीतलमखिलचमूभक्षिणं व्यक्षिणोस्त्वं ॥
९-३५-७-१ गृह्णन्जम्भारिसम्प्रेषितरथकवचौ रावणेनाभियुध्यन्
९-३५-७-२ ब्रह्मास्त्रेणास्य भिन्दन्गलततिमबलामग्निशुद्धां प्रगृह्णन् ।
९-३५-७-३ देव! श्रेणीवरोज्जीवितसमरमृतैरक्षतैरृक्षसङ्घैर्-
९-३५-७-४ लङ्काभर्त्रा च साकं निजनगरमगाः सप्रियः पुष्पकेण ॥
९-३५-८-१ प्रीतो दिव्याभिषेकैरयुतसमधिकान्वत्सरान्पर्यरंसीर्-
९-३५-८-२ मैथिल्यां पापवाचा शिव शिव किल तां गर्भिणीमभ्यहासीः ।
९-३५-८-३ शत्रुघ्नेनार्दयित्वा लवणनिशिचरं प्रार्दयः शूद्रपाशं
९-३५-८-४ तावद्वाल्मीकिगेहे कृतवसतिरुपासूत सीत सुतौ ते ॥
९-३५-९-१ वाल्मीकेस्त्वत्सुतोद्गापितमधुरकृतेराज्ञया यज्ञवाटे
९-३५-९-२ सीतां त्वय्यासुकामे क्षितिमविशदसौ त्वं च कालार्थितोऽभूः ।
९-३५-९-३ हेतोः स्ॐइत्रिघाती स्वयमथ सरयूमग्ननिश्शेषभृत्यैः
९-३५-९-४ साकं नाकं प्रयातो निजपदमगमो देव! वैकुण्ठमाद्यं ॥
९-३५-१०-१ सोऽयं मर्त्यावतारस्तव खलु नियतं मर्त्यशिक्षार्थमेवं
९-३५-१०-२ विश्लेषार्तिर्निरागस्त्यजनमपि भवेत्कामधर्मातिसक्त्या ।
९-३५-१०-३ नो चेत्स्वात्मानुभूतेः क्वनु तव मनसो विक्रिया चक्रपाणे!
९-३५-१०-४ स त्वं सत्त्वैकमूर्ते! पवनपुरपते! व्याधुनु व्याधितापान् ॥
९-३६-१-१ अत्रेः पुत्रतया पुरा त्वमनसूयायां हि दत्ताभिधो
९-३६-१-२ जातः शिष्यानिषन्धतन्द्रितमनाः स्वस्थश्चरन्कान्तया ।
९-३६-१-३ दृष्तो भक्ततमेन हेहयमहीपालेन तस्मै वरा-
९-३६-१-४ नष्टैश्वर्यमुखान्प्रदाय ददिथ स्वेनैव चान्ते वधं ॥
९-३६-२-१ सत्यं कर्तुमथार्जुनस्य च वरं तच्छक्तिमात्रानतं
९-३६-२-२ ब्रह्मद्वेषि तदाखिलं नृपकुलं हन्तुं च भूमेर्भरं ।
९-३६-२-३ सञ्जातो जमदग्नितो भृगुकुले त्वं रेणुकायां हरे!
९-३६-२-४ रामो नाम तदात्मजेष्ववरजः पित्रोरधाः सम्मदं ॥
९-३६-३-१ लब्धाम्नायगणश्चतुर्दशवया गन्धर्वराजे मना-
९-३६-३-२ गासतां किल मातरं प्रति पितुः क्रोधाकुलस्याज्ञया ।
९-३६-३-३ ताताज्ञातिगसोदरैः सममिमां छित्वाथ शान्तात्पितुस्-
९-३६-३-४ तेषां जीवनयोगमापिथ वरं माता च तेऽदाद्वरं ॥
९-३६-४-१ पित्रा मातृमुदे स्तवाहृतवियद्धेनोर्निजादाश्रमात्
९-३६-४-२ प्रस्थायाथ भृगोर्गिरा हिमगिरावाराध्य गौरीपतिं ।
९-३६-४-३ लब्ध्वा तत्परशुं तदुक्तदनुजच्छेदी महास्त्रादिकं
९-३६-४-४ प्राप्तो मित्रमथाकृतवृअणमुनिं प्राप्यागमः स्वाश्रमं ॥
९-३६-५-१ आखेटेपगतोऽर्जुनः सुरगवीसम्प्राप्तसम्पद्गणैस्-
९-३६-५-२ त्वत्पित्रा परिपूजितः पुरगतो दुर्मन्त्रिवाचा पुनः ।
९-३६-५-३ गां क्रेतुं सचिवं न्ययुङ्क्त कुधिया तेनापि रुन्धन्मुनि-
९-३६-५-४ प्राणक्षेपसरोषगोहतचमूचक्रेण वत्सो हृतः ॥
९-३६-६-१ शुक्रोज्जीविततातवाक्यचलितक्रोधोऽथ सख्या समं
९-३६-६-२ बिभ्रुद्ध्यातमहोदरोपनिहितं चापं कुठारं शरन् ।
९-३६-६-३ आरूढः सहवाहयन्तृकरथं माहिष्मतीमाविशन्
९-३६-६-४ वाग्भिर्वत्समदाशुषि क्षितिपतौ सम्प्रास्तुथाः सङ्गरं ॥
९-३६-७-१ पुत्राणामयुतेनसप्तदशभिश्चाक्षौहिणीभिर्महा-
९-३६-७-२ सेनानीभिरनेकमित्रनिवहिर्व्याजृम्भितीयोधनः ।
९-३६-७-३ सद्यस्त्वत्ककुठारबाणविदलन्निश्शेषसैन्योत्करो
९-३६-७-४ भीतिप्रद्रुतनष्टशिष्टनयस्त्वामापतद्धेहयः ॥
९-३६-८-१ लीलावारितनर्मदाजलवलल्लङ्केशगर्वापह-
९-३६-८-२ श्रीमद्बाहुसहस्रमुक्तबहुशस्त्रास्त्रं निरुन्धन्नमुं ।
९-३६-८-३ चक्रे त्वय्यथ वैष्णवेऽपि विकले बुद्ध्वा हरिं त्वां मुदा
९-३६-८-४ ध्यायन्तं छितस्र्वदोषमवधीः सोऽगात्परं ते पदं ॥
९-३६-९-१ भूयोऽमर्षितहेहयात्मजगणैस्ताते हते रेणुका-
९-३६-९-२ माघ्नानां हृदयं निरीक्ष्य बहुशो घोरां प्रतिज्ञां वहन् ।
९-३६-९-३ ध्यानानीतरथायुधस्त्वमकृथा विप्रद्रुहः क्षत्रियान्
९-३६-९-४ दिक्चक्रेषु कुठारयन्विशिखयन्निःक्षात्रियां मेदिनीं ॥
९-३६-१०-१ तातोज्जीवनकृन्नृपालककुलं त्रिःसप्तकृत्वो जयन्
९-३६-१०-२ सन्तर्प्याथ समन्तपञ्चकमहारक्तहृदौधे पित्न् ।
९-३६-१०-३ यज्ञे क्ष्मामपि काश्यपादिषु दिशन्साल्वेन युध्यन्पुनः
९-३६-१०-४ कृष्णोऽमुं निहनिष्यतीति शमितो युद्धात्कुमारैर्भवान् ॥
९-३६-११-१ न्यस्यास्त्राणि महेन्द्रभूभृति तपस्तन्वन्पुनर्मज्जितां
९-३६-११-२ गोकर्णावधि सागरेण धरणीं दृष्ट्वार्थितस्तापसैः ।
९-३६-११-३ ध्यातेष्वासघृतानलास्त्रचकितं सिन्धुं स्रुवक्षेपणा-
९-३६-११-४ दुत्सार्योद्धृतकेरलो भृगुपते! वातेश! संरक्ष मां ॥
९-३६-११-५ सान्द्राननन्दतनो! हरे! ननु पुरा दैवासुरे सङ्गरे
९-३६-११-६ त्वत्कृत्ता अपि कर्मशेषवशतो ये ते न याता गतिं ।
९-३६-११-७ तेषां भूतलजन्मनां दितिभुवां भारेण दुरार्दिता
९-३६-११-८ भूमिः प्राप विरिञ्चमाश्रितपदं देवैः पुरैवागतैः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:24.6930000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

सथाउं

  • वि. आवेशयुक्त ; जोरदार ; जलद ; चपल . तो सथाउं धोटा । न साहे आंगा सानटा । - शिशु ५७२ . नीगतां सथावां गतीं । आसूडितां दोहो हातीं । - शिशु ५३३ . [ ? ] 
RANDOM WORD

Did you know?

Why Cows are considered secred in Hinduism?
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.