नारायणीय - भाग ४

"नारायणीय" काव्याचे कवी नारायण भट्ट संस्कृत भाषेतील एक प्रकांड पंडित, प्रतिभाशाली कवी होते.


४-१६-१-१ दशो विरिञ्चतनयोऽथ मनोस्तनूजां
४-१६-१-२ लब्ध्वा प्रसूतिमिह षोडश चाप कन्याः ।
४-१६-१-३ धर्मे त्रयोदश ददौ पिऋषु स्वधां च
४-१६-१-४ स्वाहां हविर्भुजि सतीं गिरिशे त्वदंशे ॥
४-१६-२-१ मूर्तिर्हि धर्मगृहिणी सुषुवे भवन्तं
४-१६-२-२ नारायणं नरसखं महितानुभावं ।
४-१६-२-३ यज्जन्मनि प्रमुदिताः कृततुर्यघोषाः
४-१६-२-४ पुष्पोत्करान्प्रववृषुर्नुनुवुः सुरौघाः ॥
४-१६-३-१ दैत्यं सहस्रकवचं कवचैः परीतं
४-१६-३-२ साहस्रवत्सरतपस्समराभिलव्यैः ।
४-१६-३-३ पर्यायनीर्मिततपस्समरौ भवन्तौ
४-१६-३-४ शिष्टैककङ्कटममुं न्यहतां सललिं ॥
४-१६-४-१ अन्वाचरन्नुपदिशन्नपि मोक्षधर्मं
४-१६-४-२ त्वं भ्रातृमान्बदरिकाश्रममध्यवात्सीः ।
४-१६-४-३ शक्रोऽथ ते शमतपोबलनिस्सहात्मा
४-१६-४-४ दिव्याङ्गनापरिवृतं प्रजिघाय मारं ॥
४-१६-५-१ कामो वसन्तमलयानिलबन्धुशाली
४-१६-५-२ कान्ताकटाक्षविशिखैर्विकसद्विलासैः ।
४-१६-५-३ विध्यन्मुहुर्मुहुरकम्पमुदीक्ष्य च त्वां
४-१६-५-४ भीतस्त्वायाथ जगदे मृदुहासभाजा ॥
४-१६-६-१ भीत्यालमङ्गजवसन्तसुराङ्गना! वो
४-१६-६-२ मन्मानसं त्विह जुषुध्वमिति ब्रुवाणः ।
४-१६-६-३ त्वं विस्मयेन परितः स्तुवतामथैषां
४-१६-६-४ प्रदर्शयः स्वपरिचारककातराक्षीः ॥
४-१६-७-१ सम्मोहनाय मिलिता मदनादय्स्ते
४-१६-७-२ त्वद्दासिकापरिमलैः किल मोहमापुः ।
४-१६-७-३ दत्तां त्वया च जगृहुस्त्रपयैव सर्व-
४-१६-७-४ स्वर्वासिगर्वशमनीं पुनरुर्वशीं तां ॥
४-१६-८-१ दृष्ट्वोर्वशीं त्वं कथां च निशम्य शक्रः
४-१६-८-२ पर्याकुलोऽजानि भवन्महिमावमर्शात् ।
४-१६-८-३ एवं प्रशान्तरमणीयतरोऽवतारस्
४-१६-८-४ त्वत्तोऽधिको वरद! कृष्णतनुस्त्वमेव ॥
४-१६-९-१ दक्षस्तु धातुरतिलालनया रजोन्धो
४-१६-९-२ नात्यादृतस्त्वयि च कष्टमशान्तिरासीत् ।
४-१६-९-३ येन व्यन्रुन्ध स भवत्तनुमेव शर्वं
४-१६-९-४ यज्ञो च वैरपिशुने स्वसुतां व्यमानीत् ॥
४-१६-१०-१ क्रुद्धेशमर्दितमखः स तु कृत्तशीर्षो
४-१६-१०-२ देवप्रसादितहरादथ लब्धजीवः ।
४-१६-१०-३ त्वत्पूरितक्रतुवरः पुनराप शान्तिं
४-१६-१०-४ स त्वं प्रशान्तिकर! पाहि मरुत्पुरेश्! ॥
४-१७-१-१ उत्तानपादनृपतेर्मनुनन्दनस्य
४-१७-१-२ जाया बभूव सुरुचिर्नितरामभीष्टा ।
४-१७-१-३ अन्या सुनीतिरिति भर्तुनराद्दता सा
४-१७-१-४ त्वामेव नित्यमगतिः शरणं गताभूत् ॥
४-१७-२-१ अङ्के पितुः सुरुचिपुत्रकमुत्रमं तं
४-१७-२-२ दृष्ट्वा ध्रुवः किल सुनीतिसुतोऽधिरोक्ष्यन् ।
४-१७-२-३ आचिक्षिपे किल शिशुः सुतरां सुरुच्या
४-१७-२-४ दुस्सन्त्यजा खलु भवद्विमुखैरसूया ॥
४-१७-३-१ त्वन्मोहिते पितरि पश्यति दारवश्ये
४-१७-३-२ दूरं दुरुक्तिनिहतः स गतो निजाम्बां ।
४-१७-३-३ सापि स्वकर्मगतिसन्तरणाय पुंसां
४-१७-३-४ त्वत्पादमेव शरणं शिशवे शशंस ॥
४-१७-४-१ आकर्ण्य सोऽपि भवदर्चनिश्चितात्मा
४-१७-४-२ मानी निरेत्य नगरात्किल पञ्चवर्षः ।
४-१७-४-३ सन्दृष्टनारदनिवेदितमन्त्रमार्गस्
४-१७-४-४ त्वामारराध तपसा मधुकाननान्ते ॥
४-१७-५-१ ताते विषण्णहृदये नगरीं गतेन
४-१७-५-२ श्रीनारदेन परिसान्त्वितचित्तवृत्तौ ।
४-१७-५-३ बालस्त्वदर्पितमनाः क्रमवर्धितेन
४-१७-५-४ निन्ये कठोरतपसा किल पञ्च मासान् ॥
४-१७-६-१ तावत्तपोबलनिरुच्छ्वसिते दिगन्ते
४-१७-६-२ देवार्थितस्त्वमुदयत्करुणार्द्रचेताः ।
४-१७-६-३ त्वद्रूपचिद्रसनिलीनमतेः पुरस्ता-
४-१७-६-४ दाविर्बभूविथ विभो! गरुडाधिरूढः ॥
४-१७-७-१ त्वद्दर्शनप्रमदभारतरङ्गितं तं
४-१७-७-२ दृग्भ्यां निमग्नमिव रूपरसायने ते ।
४-१७-७-३ तुष्टूषमाणमवगम्य कपोलदेशे
४-१७-७-४ संस्पृष्टवानसि दरेण तथादरेण ॥
४-१७-८-१ तावद्विबोधविमलं प्रणुवन्तमेण-
४-१७-८-२ माभाषथास्त्वमवगम्य तदीयभावं ।
४-१७-८-३ राज्यं चिरं समनुभूय भजस्व भूयः
४-१७-८-४ सर्वोत्तरं ध्रुव! पदं विनिवृत्तिहीनं ॥
४-१७-९-१ इत्यूचुषि त्वयि गते नृपनन्दनोऽसा-
४-१७-९-२ वानन्दिताखिलजनो नगरीमुपेतः ।
४-१७-९-३ रेमे चिरं भवदनुग्रहपूर्णकामस्
४-१७-९-४ ताते गते च वनमादृतराज्यभारः ॥
४-१७-१०-१ यक्षेण देव! निहते पुनरुत्तमेऽस्मिन्
४-१७-१०-२ यक्षैः स युद्धनिरतो विरतो मनूक्या ।
४-१७-१०-३ शान्त्या प्रसन्नहृदयाद्धनदादुपेतात्
४-१७-१०-४ त्वद्भक्तिमेव सुदृढामवृणोन्महात्मा ॥
४-१७-११-१ अन्ते भवत्पुरुषनीतविमानयातो
४-१७-११-२ मात्रा समं ध्रुवपदे मुदितोऽयमास्ते ।
४-१७-११-३ एवं स्वभृत्यजनपालनलोलधीस्त्वं
४-१७-११-४ वातालयाधिप! निरुन्धि ममामयौघान् ॥
४-१८-१-१ जातस्य ध्रुवकुल एव तुङ्गकीर्ते-
४-१८-१-२ रङ्गस्य व्यजनि सुतः स वेननामा ।
४-१८-१-३ यद्दोषव्यथितमतिः स राजवर्य-
४-१८-१-४ स्त्वत्पादे विहितमना वनं गतोऽभूत् ॥
४-१८-२-१ पापोऽपि क्षितितलपालनाय वेनः
४-१८-२-२ पौराद्यैरुपनिहितः कठिरवीर्यः ।
४-१८-२-३ सर्वेभ्यो निजबलमेव सम्प्रशंसन्
४-१८-२-४ भूचक्रे तव यजनान्ययं न्यरौत्सीत् ॥
४-१८-३-१ सम्प्राप्ते हितकथनाय तापसौधे
४-१८-३-२ मत्तोऽन्यो भवनपतिर्न कश्चनेति ।
४-१८-३-३ त्वन्निन्दावचनपरो मुनीश्वरैस्तैः
४-१८-३-४ शापाग्नौ शलभदशामनायि वेनः ॥
४-१८-४-१ तन्नाशात्खलजनभीरुकैर्मुनीन्द्रै-
४-१८-४-२ स्तन्मात्रा चिरपरिरक्षिते तदङ्गे ।
४-१८-४-३ त्यक्ताघे परिमथितादथोरुदण्डाद्
४-१८-४-४ दोर्दण्डे परिमथिते त्वमाविरासीः ॥
४-१८-५-१ विख्यातः पृथुरिति तापसोपदिष्टैः
४-१८-५-२ सूताद्यैः परिणुतभाविभूरिवीर्यः ।
४-१८-५-३ वेनार्त्या कबलितसम्पदं धरित्री-
४-१८-५-४ माक्रान्तां निजधनुषा समामकार्षी ॥
४-१८-६-१ भूयस्तां निजकुलमुख्यवत्सयुक्तैर्
४-१८-६-२ देवाद्यैः समुचितचारुभाजनेसु ।
४-१८-६-३ अन्नादीन्यभिलषितानि यानि तानि
४-१८-६-४ स्वच्छन्दं सुरभितनूमदूदुहस्त्वं ॥
४-१८-७-१ आत्मानं यहति सखैस्त्वयि त्रिधाम-
४-१८-७-२ न्नारब्धे शततमवाजिमेधयागे ।
४-१८-७-३ स्पर्धालुः शतमख एत्य नीचवेषो
४-१८-७-४ हृत्वाश्वं तव तनयात्पराजितोऽभूत् ॥
४-१८-८-१ देवेन्द्रं मुहुरिति वाजिनं हरन्तं
४-१८-८-२ वह्नौ तं मुनवरमण्डले जुहूषौ ।
४-१८-८-३ रुन्धाने कमलभवे क्रतोः समाप्तौ
४-१८-८-४ साक्षात्त्वं मधुरिपुमैक्षथाः स्वयं स्वं ॥
४-१८-९-१ तद्दतं वरमुपलभ्य भक्तिमेकां
४-१८-९-२ गङ्गान्ते विहितपदः कदापि देव! ।
४-१८-९-३ सत्रस्थं मुनिनिवहं हितानि शंस-
४-१८-९-४ न्नैक्षिष्ठाः सनकमुखान्मुनीन्पुरस्तात् ॥
४-१८-१०-१ विज्ञानं सनकमुखोदितं दधानः
४-१८-१०-२ स्वात्मानं स्वयमगमो वनान्तसेवी ।
४-१८-१०-३ तत्तादृक्पृथुवपुरीश! सत्वरं मे
४-१८-१०-४ रोगौघं प्रशमय वातगेहवासिन्! ॥
४-१९-१-१ पृथोस्तु नप्ता पृथुधर्मकर्मठः प्राचीनबर्हिर्युवतौ शतद्रुतौ ।
४-१९-१-२ प्रचेतसो नाम सुचेतसः सुतानजीजनत्त्वत्करुणाङ्कुरानिव ॥
४-१९-२-१ पितुः सिसृक्षानिरतस्य शासनाद्भवत्तपस्यानिरता दशापि ते ।
४-१९-२-२ पयोनिधिं पश्चिममेत्य तत्तटे सरोवरं सन्ददृशुर्मनोहरं ॥
४-१९-३-१ तदा भवत्तीर्थमिदं समागतो भवो भवत्सेवकदर्शनादृतः ।
४-१९-३-२ प्रकाशमासाद्य पुरः प्रचेतसामुपादिशद्भक्ततमस्तव स्तवं ॥
४-१९-४-१ स्तवं जपन्तस्तममी जलान्तरे भवन्तमासेविषतायुतं समाः ।
४-१९-४-२ भवत्सुखास्वादरसादमीष्वियान्बभूव कलो ध्रुववन्न शीघ्रता ॥
४-१९-५-१ तपोभिरेषामतिमात्रवर्धिभिः स यज्ञहिंसानिरतोऽपि पावितः ।
४-१९-५-२ पितापि तेषां गृहयातनारदप्रदर्शितात्मा भवदात्मतां ययौ ॥
४-१९-६-१ कृपाबलेनैव ततः प्रचेतसां प्रकाशमागाः पतगेन्द्रवाहनः ।
४-१९-६-२ विराजिचक्रादिवरायुधांशुभिर्भुजाभिरष्टाभिरुदञ्चितद्युतिः ॥
४-१९-७-१ प्रचेतसां तावदयाचतामपि त्वमेव कारुण्यभराद्वारानदाः ।
४-१९-७-२ भवद्विचिन्तापि शिवायदेहिनां भवत्वसौ रुद्रनुतिश्च कामदा ॥
४-१९-८-१ अवाप्य कान्तां तनयां महीरुहां तया रमध्वं दशलक्षवत्सरीं ।
४-१९-८-२ सुतोऽस्तु दक्षो ननु तत्क्षणाच्च मां प्रयास्यथेति न्यगदो मुदैव तान् ॥
४-१९-९-१ ततश्च ते भूतलरोधिनस्तरून्क्रूधा दहन्तो द्रुहिणेन वारिताः ।
४-१९-९-२ द्रुमैश्च दत्तां तनयामवाप्य तां त्वदुक्तकालं सुखिनोऽभिरेमिरे ॥
४-१९-१०-१ अवाप्य दक्षं च सुतं कृताध्वराः प्रचेतसो नारदलब्धया धिया ।
४-१९-१०-२ अवापुरानन्दपदं तथाविधुस्त्वमीश! वातालयनाथ! पाहि मां ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP