ऐश्वर्य कादम्बिनी - पञ्चमी वृष्टिः

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. ऐश्वर्य कादम्बिनी काव्याचे कवी आहेत,श्रीबलदेवविद्याभूषण.


प्रादुर्भूतो नन्दमेवं स कृष्णः
श्रीमान्शौरीं चाविवेशाम्बुजाक्षः ।
ताभ्यां न्यस्तं वैधदीक्षान्विताभ्यां
तत्पत्न्यौ सम्प्राप्य तं दध्रतुस्ते ॥१॥

सख्योस्तयोर्देवगर्भत्वयोगाद्
विद्युन्निभा कायकान्तिर्बभासे ।
सङ्घसतां मोदयन्ती समन्ताद्
वृन्दं द्विषां तापयन्ती समासीत॥२॥

प्रादुर्भावं भजन्माने मुकुन्दे
वादित्राणि स्वयमेव प्रणेदुः ।
सम्फुल्लाभूद्वनराजीसमन्तात्
सार्धं चित्तैर्द्विजभक्तव्रजानाम् ॥३॥

नमस्यभासि पाद्मभेऽसिताष्टमीनिशार्धके
व्रजेश्वरी सदुर्गकं हरिं सुखादजीजनत।
असूत देवकी च तं तदैव केवलं मुदा
बभूव मोदसञ्चयः सतां विशुद्धचेतसाम् ॥४॥

दृष्ट्वा पुत्रं वसुदेवः परेशं
हृष्टः प्रादादयुतङ्गाः हृदैव ।
कंसाद्भीतो व्रजराजस्य गेहं निन्ये
भ्रातुस्त्वरितं तं प्रवीरम् ॥५॥

हित्वा तस्मिन्नात्मपुत्रं यशोदा
कन्यां नीत्वा सोऽभ्यदात्कंसराजे ।
ऐक्यं बिम्बीरर्भयोर्वा तदाभूद्
एकानंशाचिन्त्यशक्तिर्यतोऽसौ ॥६॥

सूतंवदन्परिजनवक्त्रतो हरिं
परिप्लुतः परिहितवेशभूषणः ।
अचीकरन्निजतनयस्य जातकं
द्विजोत्तमैः श्रुतविधिना व्रजाधिपः ॥७॥

पुत्रोत्सवे सम्प्रददौ सनन्दो
हर्षार्दितो भूपतिरत्युदारः ।
स्वलङ्कृता वत्सयुताश्च धेनूः
श्रद्धान्वितो द्वे नियुते द्विजेभ्यः ॥८॥

सप्तप्रासाद्ब्राह्मणेभ्यस्तिलाद्रीन्
रौक्मैश्चैलै रत्नवृन्दैश्च जुष्टान।
जातः सर्वेइस्तत्र चित्रो व्रजेऽसौ
गावः सर्वा मण्डिताङ्गा बभूवुः ॥९॥

सोमाङ्गल्यं भूसुरास्तत्र पेठुः
सूतास्तद्वन्मागधा वन्दिनश्च ।
वादित्राणि स्फोतमाशु प्रणेदुर्
गीतिं नृत्यं चातिचित्रं दिदीपे ॥१०॥

सुतममितगुणं निशम्य गोपा
व्रजनृपतेर्मुदिताः सुरम्यवेशाः ।
धृतमणिमयभूषणाः सुयत्नाः
सदनमथ बलिपाणयः समीयुः ॥११॥

व्रजपुरवनिता विचित्रवेशा
वरमणिकुण्डलनूपुरोरुहाराः ।
तमुपाययुरुपायनाग्रहस्ता
नृपनिलयं हरिमीक्षितुं प्रहर्षात॥१२॥

घृतदधिरजनीरसात्किरन्तो
व्रजनिलया जयघोषभूषितास्याः ।
विधिशिवसनकादयश्च तस्मिन्
परिननृतुर्नृपचत्वरेऽतिमत्ताः ॥१३॥

व्रजपतिरथ भूषणैरनर्घ्यैर्
वसनचयैर्वरसौरभैश्च बन्धून।
परिजनसहितानपि प्रपूर्णान्
मुदितमनाः सकलानपि समार्चीत॥१४॥

तनयजन्ममहे नृपतिर्बभौ
रचितकोशकपाटविमोचनः ।
प्रतिजगुर्निजवाञ्छितपूरणं
प्रमदसम्प्लुतियाचकसञ्चयः ॥१५॥

परिमितमिव यद्बभूव सौख्यं
व्रजनगरे व्रजभूपतत्प्रजानाम् ।
तदपरिमिततामवाप सद्यो
यदवधि तत्परमो जगाम कृष्णः ॥१६॥

श्रीराम श्रीदाममुख्या बभुर्ये
पूर्वपश्चादुज्ज्वलाद्याश्च डिम्भाः ।
ज्योतिष्मद्भिर्भ्राजमानो व्रजस्तै
रत्नव्यूहै रत्नसानुर्यथाभूत॥१७॥

नन्दादीनां तिष्ठतां गोष्ठभूम्यां
गोविन्दाद्यैरात्मजैर्लक्ष्मवद्भिः ।
नानासम्पत्सेवितानां समेषां
गेहे गेहे सौख्यपुञ्जोजजृम्भे ॥१८॥

यां नन्दसूनुर्मनुते पुमर्थः
पुमर्थभूतोऽपि परः परेशः ।
राधादिरूपादिगुणैरगाधा
बभूव सा धामनि कीर्तिदायाः ॥१९॥

जन्मोत्सवेनैव जगत्सुतृप्तं
यस्याः सुरेशैरपि संस्तुतेन ।
पादाब्जलक्ष्माणि निरीक्ष्य नार्यो
रमेव कन्येयमिति प्रतीयुः ॥२०॥

यां वर्णयन्तः कवयोऽपि बिभ्युश्
चन्द्रारविन्दादि निनिन्दुरुच्चैः ।
धान्येन यस्या नतिभिश्च शश्वत्
प्रमोदमुच्चैर्हृदयेषु भेजुः ॥२१॥

कटाक्षपातादभजन्त यस्या
विभूतयः सर्वविद्याः प्रकाशम् ।
गुणव्रजान्वक्तुमधीश्वरोऽपि
शशाक नो नन्दसुतः समस्तान॥२२॥

सख्यस्तु तस्याः समरूपशील
गुणाः स्वसेवातिपटुत्वभाजः ।
प्रादुर्बभूवुर्व्रजराजधान्यां
तदैव गोपप्रवरालयेषु ॥२३॥

इत्यैश्वर्यकादम्बिन्यां
सपरिकरभगवज्जन्मोत्सववर्णनं नाम
पञ्चमी वृष्टिः
॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP