TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

आश्चर्यरासप्रबन्धः - भाग २

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच.


भाग २
पश्यन्नपि स न पश्यति किञ्चित्
शृण्वन्नपि न शृणोति स किञ्चित।
त्वामनु चिन्तयते व्रजनाथः
सन्ततविहितत्वद्गुणगाथः ॥१०१॥

क्वासि प्रेयसि हा हा राधे
मय्यनुकम्पां कुरु पुरुबाधे ।
स्मृत्वा मामुपयाहि त्वरितं
वृन्दाविपिनं कुरु सुखभरितम् ॥१०२॥

अथवा सहजसुवत्सलहृदये
नायास्यसि कथमनुगतसदये ।
तिष्ठसि कुञ्जे क्वापि निलीना
रीतिरियंतव सुरसधुरीणा ॥१०३॥

एवं प्रलपति बहुधा कृष्णस्
त्वत्सङ्गमरसमात्रसतृष्णः ।
त्वामुपनीय ध्यानात्पुरतः
स भवति रसमयचेष्टानिरतः ॥१०४॥

चन्द्रावल्याद्यखिलमनोज्ञ
व्रजवररामा अपि स रसज्ञः ।
कृतचाटूक्तीः पश्यति न दृशा
श्वसिति परं तव रतिरससतृषा ॥१०५॥

नान्यतरुण्या वार्ताः कुरुते
नान्यादत्तं पिबति न भुङ्क्ते ।
अन्यास्पर्शनदर्शनविरुचिस्
त्वत्परतायामास्ते स शुचिः ॥१०६॥

विलसत्यतिकरुणं तव बन्धुर्
धृतबाष्पौघो युवति मुखेन्दुः ।
स्थिरचरसत्त्वान्यपि चक्रन्दुर्
वृन्दाविपिनमश्रुजलसिन्धुः ॥१०७॥

शोषं नेष्यति हरिवपुरुष्मा
तव वृन्दावनमथ रुचिराश्मा ।
केलिगिरिस्ते द्रवतां यायात्
प्लावितमखिलं वाश्रैर्भूयात॥१०८॥

सकलं श्रीमद्वृन्दाविपिनं
सकलं गोकुलमपि च व्यसनम् ।
परमदुरन्तमद्य समुपैति
सकलप्राणधने परिषीदति ॥१०९॥

तदुरुनितम्बे न कुरु विलम्बं
चल सखि कृतमत्पाण्यवलम्बम् ।
मदकलकादम्बकनिकुरम्बं
तव गतिभङ्ग्या भजतु विडम्बम् ॥११०॥

अथ दुर्धरतरमन्मथबाधा
किमपि गदितुमशकन्नहि राधा ।
तद्दयितालिर्बहुरसवलिता
गिरमतिललितामवदल्ललिता ॥१११॥

चल सुन्दरि किं बहुवचनेन
वयमतितृप्ताः कृष्णगुणेन ।
यैरनुभूतंतस्य न चरितं
तच्छ्रवणं कुरु तद्गुणभरितम् ॥११२॥

वक्रिमशालिश्यामलवपुषः
कावस्था ऋजुशुचितायां मनसः ।
कृत्रिम एव प्रेमविकारस्
तस्य मृषा वा त्वद्व्याहारः ॥११३॥

पश्य दूति बहुवल्लभ एष
व्रजपुरतरुणीमोहनवेशः ।
वेणुध्वनिहृतगोपीवृन्दः
कथमिह सख्या मम सुखगन्धः ॥११४॥

मनुते यदि दयितागणमुख्यां
स मम सखीं निजपरमाभिख्याम् ।
तत्कथमादौ न तया मिलितं
प्राप्तानुज्ञोऽन्याभिर्न युतः ॥११५॥

तदलमलं कपटैकपरेण
प्रकटितमिथ्याप्रेमभरेण ।
तेन दिनद्वयमेकीभवता
पुनरथ परमौदास्यं भजता ॥११६॥

किं चास्माकं कण्ठगतेषु
प्राणेष्वन्यां व्रजवरतनुषु ।
राधाभर्ता कथमिव शयनं
नेष्यति धन्यमपि कृतकरुणम् ॥११७॥

लक्ष्मीतत्पतिमोहन्यपि का
व्रजभुव्यस्मत्सख्यनुचरिका ।
भवितुं योग्या सह तत्पतिना
या निर्लज्जा कृतरतिकलना ॥११८॥

गत्वा सर्वमिदं त्वं वर्णय
कामुकमुकुटमणिं सखि सुखय ।
स सुखं विहरतु सहबहुरामस्
तादृशनिकटं न वयं यामः ॥११९॥

क्रीडति स बहुकपटनाटिकया
मुग्धव्रजपुरयुवतीघटया ।
सुमुखि वयं तनुरागमनन्यं
बिभ्रतमेव भजामो धन्यम् ॥१२०॥

राधैकान्तिकभावो न भवेत्
स यदि तदा स्यां सङ्गतिविभवे ।
अस्तु निराशो मम तु सखीयं
तादृशरतिहृद्गमयतु समयम् ॥१२१॥

तत आगत्य तया परिकथिते
सकले राधालीजनलपिते ।
गोपीवेशस्थगितसमाजः
स्वयमचलच्छ्रीव्रजयुवराजः ॥१२२॥

दूतीगिरापि च यदा वृषभानुपुत्री
नैवागता रसविलासविधौ विदग्धा ।
गत्वा तदा स्वयमसौ युवतीसुवेशस्
तां प्रेमविह्वलतनुं हरिरानिनाय ॥१२३॥

द्रुतमिव स गतो राधारामः
तद्गुणचरितैः परमाभिरामः ।
शिरसि निहिततच्चरणपरागः
प्राह ललितमतिवलदनुरागः ॥१२४॥

अहह महाद्भुतभाग्यविपाके
तव पदमतिदुर्लभमपि नाके ।
अद्य दृशातितृषा परिदृष्टं
स्पृष्टं जनिफलमखिलं जुष्टम् ॥१२५॥

तव पदपङ्कजनखमणिचन्द्र
ज्योतिःप्रसराद्दिशि दिशि सान्द्रः ।
स्स्वानन्दामृतसिन्धुरपारः
स्यन्दत एवाद्भुतरससारः ॥१२६॥

आश्चर्या ते रूपचमत्कृतिर्
आश्चर्या ते रुचिरुच्छलति ।
आश्चर्या ते मधुरवयःश्रीर्
लास्यैर्हरिरपि मूर्च्छति सश्रीः ॥१२७॥

जन्मनि जन्मनि दास्या अपि ते
दास्यपदाशां का न हि कुरुते ।
आस्तामपरं श्यामरसोऽपि
त्वत्पदकमले लभ्यः कोऽपि ॥१२८॥

क्O,यमहो मम भाग्यविशेषः
फलितो गलितस्तर्कोऽशेषः ।
यदिह मया गतया हरिकार्ये
प्रापि परश्चिन्तामणिरार्ये ॥१२९॥

रमयाप्यतिदुर्लभपदरजसां
मृग्यो निरवधि गोकुलसुदृशाम् ।
वृन्दावनविधुरपि तव दासी
भाग्यकलायाश्चिरमभिलाषी ॥१३०॥

नापेक्षा मम मोहनराजे
तद्धितहेतोः कृतिमपि न भजे ।
यन्मे त्वत्सङ्गादन्यदकाम्यं
तदपि तदुक्तं कथये रम्यम् ॥१३१॥

अयि वरसुन्दरि नागरि राधे
कुरु हरिवचने हृदयमबाधे ।
यन्मम मुखतः श्रवणपुटेन
स्वदितं त्वां वशयेत रसेन ॥१३२॥

पयस इव द्रवभावः सहजः
प्रणयमहौघस्तव मयि सुनिजः ।
सुमुखि तदद्य किमेवमसारं
मयि कुरुषे गुणदोषविचारम् ॥१३३॥

तव रसपुष्टिकृते व्रजरामा
मुरलिरवेण हृता अभिरामाः ।
तत्र वृथा किमुद्घटय दोषं
भवतु प्राणेश्वरि भज तोषम् ॥१३४॥

गोपकिशोर्यस्त्वद्भ्रमभुक्ताः
काश्चन थुत्कृत्याथ त्यक्ताः ।
श्रुत्वा काश्चिदनुत्तमरूपास्
त्यक्ता अनुभूयानुरूपाः ॥१३५॥

अन्या दशपञ्चैकीभूय
क्षिप्तह्रियो मां रह आनीय ।
पाणौ पीतपटे वा धृत्वा
मत्ताः सकृदधरमधु पीत्वा ॥१३६॥

एका कापि तवास्ते योग्या
व्रज इति दूतीजनवाग्भङ्ग्या ।
काचन काचन भुक्त्वा त्यक्ता
साम्प्रतमत्र वयं सुविरक्ताः ॥१३७॥

हरि हरि काममहाम्बुधिपारं
का वा नेष्यति मां सविकारम् ।
स्थितवानेवमहर्निशमन्तश्
चिन्ताततिममिलन्निजकान्तः ॥१३८॥

त्वद्वनमध्यसुप्तमतिविधुरं
त्वं मा बोधितवत्यसि मधुरम् ।
स्वात्मानं श्रीराधानाम्नीं
प्रकटितमच्चिन्तातिगधाम्नीम् ॥१३९॥

स्वप्ने जागरणे वा प्रेयसि
पूर्वमपि त्वं हृदि मे स्फुरसि ।
बहिरिदमनुपलभ्य तव रूपं
बम्भ्रमीमि कृतमिथ्यारोपम् ॥१४०॥

सहजादेव तु दिव्या मुरली
स्वयमधिगायति नामगुणालीः ।
तव परमाद्भुतमधुरिमभरिता
दिननिशि न मया क्षणमपि रहिता ॥१४१॥

गायति मुरली मम किमपूर्वं
सन्ततमिति विस्मितधीरभवम् ।
अहह पुरा करुणामयि सम्प्रति
धन्यतमां स्तौम्यनिशममुं प्रति ॥१४२॥

अनया सहजत्वद्गुणरसयाप्य्
अद्य कृतास्त्वयि काकुप्रचयाः ।
दुस्तरकामकदनदलनाय
प्रेयसि कथमपि तव मिलनाय ॥१४३॥

त्वन्नामैकपरा मम मुरली
स्वयमायन्मुग्धा कुलटाली ।
तत्र न कुरु मयि दोषारोपं
ननु रसरूपमपि त्यज कोपम् ॥१४४॥

त्वत्सङ्गमरसनिरसज्जीवः
प्रणयिनि शङ्कारहितोऽतीव ।
दीनदयार्तः कुतुकितहृदयः
खेलाम्याहृतगोपीनिचयः ॥१४५॥

सुप्रसन्नवदनां न निरीक्षे
त्वां यदि कृतमज्जीवनरक्षे ।
को नु तदा मम कौतुककामः
कायादेरपि वृत्तिविरामः ॥१४६॥

क्षान्तिस्नेहकृपामयप्रकृते
निजभृत्ये मयि दीने प्रणते ।
कर्णजापमपि कुर्वत्याली
निकरे नेष्याप्यागःपटली ॥१४७॥

अथ हतभाग्यतमे मयि राधे
नाशु प्रसीदस्यमदपराधे ।
त्वत्पदकाङ्कितवृन्दाविपिने
कापि दशा स्यान्मम मृगनयने ॥१४८॥

श्रुत्वैवं हरिवाक्यकदम्बा
नेष्यसि यदि चल तिष्ठ सुखं वा ।
मम तु भवत्याः श्रीपदकमलाद्
इतरपदे धीस्तनुरपि न चला ॥१४९॥

साश्रु सगद्गदमिति निगदन्तं
कान्तावेशधरं निजकान्तम् ।
विस्मयमूकास्वालिषु राधा
प्राह सरसमिदमनुरागाद्धा ॥१५०॥

श्यामलगोपकिशोरि त्वयि मे
कृष्ण इवात्मा प्रीतिं चकमे ।
क्व स्थितवयसि कालमियन्तं
पुण्यैस्तव मुखमैक्षि सुकान्तम् ॥१५१॥

प्रायस्तीव्रतरानुध्यातः
कृष्णस्त्वं मम सुसखीभूतः ।
इदमतिभद्रतरं यदशङ्कं
साधु निधास्ये प्रियतममङ्कम् ॥१५२॥

यदि मम कथमपि तादृशवेशः
स्मृतिपथमेयान्निजहृदयेशः ।
बर्होत्तंसा वादितवंशा
सुखयिष्यसि मां त्वं तद्वेशा ॥१५३॥

यदपि परार्धान्हरिरपराधान्
अकृत तथापि क्षमते राधा ।
यत्ते वदनचन्द्रसौन्दर्यं
स्वमपि ममाक्रीणादाश्चर्यम् ॥१५४॥

एह्येहि स्फुटनीलसरोरुह
सुकुमाराङ्गि सखीमुपगूह ।
स्नेहोत्तरले मां हरिविरह
प्रभवः शाम्यतु बत तनुदाहः ॥१५५॥

इत्युक्त्वासीद्वृषभानुसुता
सपदि विवृद्धप्रणयावशता ।
प्राणपतिं पुलकाञ्चितगात्रा
परिरभ्यास्ते मुकुलितनेत्रा ॥१५६॥

अथ परिरभ्य हरिः परिचुम्बन्
मुखमरसयदपि चाधरबिम्बम् ।
कुचमुकुले नखराङ्कुरदायी
कृष्णोऽभूत्पुनरिति वा कुस्मायी ॥१५७॥

ज्ञातं ज्ञातमहो रसभरितं
धूर्तमणे तव स्कलं चरितम् ।
इति सहसितराधेरितहृष्टः
कुञ्जगृहान्तः सपदि प्रविष्टः ॥१५८॥

कलितयुवतिवेशो मानिनीमेत्य राधां
हरिरनुनयकाकुव्याकुलोक्तिप्रपञ्चैः ।
सपदि सहजवृद्धप्रीतिदत्ताङ्गसङ्गां
स जयति परिहृष्यन्गाढमालिङ्ग्य कान्ताम् ॥१५९॥

अथ सहजोज्ज्वलभावोज्जृम्भः
प्रियया लम्भितभुजपरिरम्भः ।
प्रकटतनुः स श्यामकिशोरस्
तन्मिलितश्चलितो रतिचोरः ॥१६०॥

तौ रसमूर्ती राधाकृष्णौ
श्रीवृन्दावनराससतृष्णौ ।
अतिशुशुभाते मोहनवेशौ
प्रतिपदविरचितकेलिविशेषौ ॥१६१॥

गौरश्यामलमोहनमूर्ती
निरवधिवर्धिमदनरसपूर्ती ।
निरुपमनवतारुण्यप्रवेशौ
रासविलासोचितवरवेशौ ॥१६२॥

वेणीचूडारचितसुकेशौ
मिथ उद्भवदतिमदनावेशौ ।
अरुणपीतपटवरपरिधानौ
दिशि दिशि विसरद्दीप्तिवितानौ ॥१६३॥

रतिरतिनायककोटिविलासौ
मधुरविलोकपरस्परहासौ ।
मिथ आश्लेषितनिजतनुदेशौ
पुलकमुकुलकुलसततोन्मेषौ ॥१६४॥

मिथ उरुविधकृतनर्मालापौ
नवनवनिर्मितकेलिकलापौ ।
विविधभङ्गिगतिविजितमरालौ
नूपुररसनाक्वणितरसालौ ॥१६५॥

रुचिरान्दोलनसुभुजमृणालौ
गलदोलायमानवरमालौ ।
मिथ उत्पुलकभुजाकलितांसौ
सव्यतदन्यभुजाम्बुजवंशौ ॥१६६॥

मिथ ईक्षितमुखचन्द्रसहासौ
श्रुतपूरनिरतेरितवंशौ ।
द्रुतकाञ्चनमरकतरुचिचौरौ
सर्वाद्भुततमदिव्यकिशोरौ ॥१६७॥

नित्यमधुरवृन्दावनकेली
शुद्धमहारसपूर्णगुणाली ।
कलितमुरजवरतालसुवीणैर्
नृत्यगीतवरवाद्यप्रवीणैः ।
राधाकृष्णरसैकप्रथनैः
सहितौ सुरसोल्लसितालिजनैः ॥१६८॥

मणिमयपेटिकान्तरुपनिहितं
रासविलासोपकरणजातम् ।
आदायातिहर्षभरभरितास्
तत्सेवैकपरा अनुयाताः ॥१६९॥

शुद्धोज्ज्वलप्रेमरसैकशक्ति
तद्वत्स्वरूपौ सुखसारराशी ।
तौ नः किशोरौ गौरनीलौ
खेलायतां चित्रमनोजलीलौ ॥१७०॥

गत्वा तावथ वृन्दारण्यं
स्वगतिपुरस्तादुत्सवशून्यम् ।
परिचरणोल्लसितव्रजयुवती
मध्ये रेजतुरद्भुतदीप्ती ॥१७१॥

काश्चन चक्रुः पदसंवाहं
काश्चन भेजुः सुरतोत्साहम् ।
काश्चन गन्धैर्व्यालपन्नपराः
कण्ठे निदधुर्माला रुचिराः ॥१७२॥

चक्रुरथैका भृकुटिविलासं
विदधुः काश्चन रतिपरिहासम् ।
काश्चन मृदु मृदु विदधुर्व्यजनं
का अपि चक्रुर्भूषारचनम् ॥१७३॥

नागवल्लिदलमुज्ज्वलचन्द्रं
दत्तवती काप्यधिमुखचन्द्रम् ।
नवनवकामकलाविर्भावं
व्यञ्जितवत्यः काश्चन भावम् ॥१७४॥

मृदु मृदु वीणाद्यतिनिरवद्यं
वादितवत्यः काश्चन वाद्यम् ।
काश्चन सञ्जगू रसानुरागा
मधुरमुदञ्चितपञ्चमरागाः ॥१७५॥

बहुविधहस्तकगतिलीलाभिः
काश्चन वलिता नृत्यकलाभिः ।
प्रिययोरुपरि सुपुच्छच्छत्रं
काश्चन जगृहुः परमविचित्रम् ॥१७६॥

वरनागरिकावरनागरयोर्
उन्मदमदनरसप्रहसितयोः ।
प्राप्य तयोः करपद्मात्प्रमदाः
कमपि प्रसादं व्यलसन्प्रमुदाः ॥१७७॥

छित्त्वा छित्त्वा वीटकभेदान्
ललितलवङ्गक्रमुकच्छेदान।
रसिकमिथुनमुपयोजितवत्यः
काश्चन काश्च पतद्ग्रहवत्यः ॥१७८॥

कर्पूरादिसुवासितशीतं
भृङारेण सलिलमुपनीतम् ।
कृत्वा प्रियमिथुनेन निपीतं
स्वं विदधुः काश्चन सुप्रीतम् ॥१७९॥

आपुः काश्चन कण्ठगमालाः
स्वाभरणानि च का अपि बालाः ।
वरताम्बूलसुवीटकमन्याश्
चर्वितमेव तु काश्चन धन्याः ॥१८०॥

एकाः स्निग्धालिङ्गनमापुः
करधृत्यैव काश्च पर्यापुः ।
काश्चन कर्णकथाभिर्मुदिताः
काश्चित्क्वचन श्लाघनमहिताः ॥१८१॥

अथ सुरतोत्सुकरामावृन्दं
दुर्धरकामार्तिभिरत्यन्धम् ।
दृष्ट्वात्युत्कटभावविकारं
राधा निजपतिमवददुदारम् ॥१८२॥

अबलाः प्रिय विषमस्मरबाधास्
तां तु न दित्सेत्त्रुटिमपि राधा ।
तच्छृणु कथयाम्येकमुपायं
रमयसि येन युवतिसमुदायम् ॥१८३॥

कान्त कदाचिन्मम संकल्पः
समभूदकृतविचारोऽनल्पः ।
बहुरूपं त्वां रमयितुमुरुभिर्
बहुभी रूपैर्बहुविधरतिभिः ॥१८४॥

अत्युत्कण्ठाभरभावनतस्
त्वन्मद्रूपस्तोमोदयतः ।
केलय उरुवैदग्ध्या विहिता
मानसपूर्तिः काप्यत उदिताः ॥१८५॥

प्रियसखि किं नु करोषीत्युक्त्वा
गात्रे मम करघातं कृत्वा ।
सख्या भग्नसमाधिर्नयने
उन्मील्याहसमखिलाकलने ॥१८६॥

सम्प्रत्यपि च मुहूर्तं ध्यात्वा
कुर्वे बहुरूपं रसयित्वा ।
रूपैस्तैरभिरूपैर्नागर
गोकुलयुवतिगणैस्त्वं विहर ॥१८७॥

शैशव इष्टयोगमायादान्
मम सङ्कल्पसिद्धिमतिरसदा ।
त्वमनन्यानुरागपतिरभवस्
तदस्तु सुखसीमानुभवः ॥१८८॥

अथ चित्रेक्षणकुतुकिनि रमणे
स्मयवति चाथ रहस्यालिगणे ।
किञ्चित्स्मितरुचि मोहनवदनं
दध्यौ राधा मुकुलितनयनम् ॥१८९॥

प्रकटाः प्रियतममूर्तीर्मधुरा
दृष्टा लोभादतिकामधुरा ।
कृत्वा स्वमपि च सा तावन्तं
व्यसृजच्चुम्बितपरिरब्धं तम् ॥१९०॥

अथ कलितप्रियपाणिसरोजा
राधातीवविवृद्धमनोजा ।
मञ्जुलकुञ्जविलोकनकपटाद्
गहनवनं सहसैव प्रविष्टा ॥१९१॥

स बहुरूपहरिररमत ताभिः
प्रथमोज्ज्वलरसरभसयुताभिः ।
रसिकशिरोमणिरतिरसिकाभिर्
मधुरिमराशिरधिकमधुराभिः ॥१९२॥

प्रथमसमागमह्रीभयवलिता
दूरात्तूष्णीमास्थितविनताः ।
काश्चन निन्ये शयनमुदारः
सानुनयं कृतबाहुप्रसारः ॥१९३॥

किमपि करोमि न ते भज शयनं
स्वजने किमिदमहो सङ्कुचनम् ।
पायय किमपि वचोऽमृतमतुलं
स्वीकुरु गन्धमाल्यताम्बुलम् ॥१९४॥

कामपि धन्यामित्यनुनीय
स्मितरुचिरुचिरां सहसानीय ।
शयनं नेति सगद्गदवचनाम्
अलमाश्लिष्याचुम्बत्प्रमनाः ॥१९५॥

निद्राव्याजविमुद्रितनयानं
वदनं चुम्बितमन्याः शयनम् ।
प्राप्ताः स्वस्य हसन्नुरुपुलकः
पर्यरभत नवनागरतिलकः ॥१९६॥

नेतिवचनरचना अपि चान्याः
करकमले धृतवानतिधन्याः ।
आनीयाङ्कमसौ कुसुमालीम्
अरचयदलकचये वनमाली ॥१९७॥

काश्चन हारलतार्पणकपटाद्
उन्मदकरमृदितस्तनसुघटाः ।
सुखमपि दुःखमिवाभिनयन्तीर्
वीक्ष्य हरिः स जहास लसन्तीः ॥१९८॥

कुचमुकुलादौ कृतनखलिखनः
पीताधरदलकृतरददलनः ।
तासामुत्तम्भितपुरुमदनः
स हरिरखेलच्चुम्बितवदनः ॥१९९॥

सहसा नीवीबन्धनमिलितं
सम्भ्रमयुतयुवतीकरविधृतम् ।
अतिदुर्धरमदनात्युत्तरालं
तदतिविरेजे हरिकरकमलम् ॥२००॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:19.3330000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

quarry faced dressing

  • स्त्री. खाणघडाई 
RANDOM WORD

Did you know?

देवाच्या दानपेटीत पैसे का टाकतात आणि देवाला नैवेद्य का दाखवतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site