TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रामचरितमहाकाव्य - प्रथमः सर्गः

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच.


प्रथमः सर्गः
अथ माल्यवतः प्रस्थे काकुत्स्थस्य वियोगिनः   ।
दुर्निवाराश्रुसंवेगो जगाम जलदागमः ॥१.१॥

शशाम वृष्टिर्मेघानां उत्सङ्गे तस्य भूभृतः   ।
विरराम न रामस्य धारासन्ततिरश्रुणः ॥१.२॥

इतस्ततः परिणतिं भेजे बर्हिणकूजितं  ।
हा प्रिये राजपुत्रीति न रामपरिदेवितं॥ १.३॥

काप्यभिख्या विरजसोः सूर्याचन्द्रमसोरभूथ् ।
दाशरथ्योस्तथैवासीदयोगोपहता रुचिः ॥१.४॥

निर्मलेन्दु नभो रेजे विकचाब्जं बभौ सरः   ।
परं पर्यश्रुवदनौ मम्लतुर्भ्रातरावुभौ ॥१.५॥

स्मर्तव्यकलिकाजालं जज्ञे कुटजकाननं  ।
आसीत्तथैव तु मनो रामस्योत्कलिकाकुलं॥ १.६॥

प्रपेदे पुनरुद्भेदः शुचिना कच्छकेतकैः   ।
उपक्रियायाः सदृशं नारेभे रविसूनुना ॥१.७॥

आकृष्टमालतीगन्धः सिषेवे राघवं मरुथ् ।
आनीतमैथिलीवार्तस्तं आर्तं न तु मारुतिः ॥१.८॥

रामाय पूरापगमव्यक्तोद्देशाश्चकाशिरे   ।
आस्तेऽस्मासु न सीतेति शंसन्त्य इव निम्नगाः ॥१.९॥

यदार्द्रविरहो रामः प्रापितः प्राणसंशयं  ।
नूनं तेनानुतापेन जग्मुर्जलदराजयः ॥१.१०॥

द्यौर्मुक्तमेघावरणा सवितर्कोन्मुखं मुहुः   ।
ययाचे सारसरुतैर्विचारं इव राघवं॥ १.११॥

दिशो ददृशिरे तेन स्तेनं तं परिमार्गता   ।
मार्गदानापराधिन्यो गता दूरं भयादिव ॥१.१२॥

तस्याकृतिविशेषस्य विशेषात्कष्टं ईदृशं  ।
कच्छाः काशच्छलादूहुरितीव पलितागमं॥ १.१३॥

पश्यन्त्या इव कष्टां तां अवस्थां मैथिलीपतेः   ।
शुष्कपङ्कचयव्याजाद्विदद्रे हृदयं भुवः ॥१.१४॥

वृष्टिविच्छेदजातेन तानवेनासमाप्तिना   ।
प्रपेदिरे जलधरास्तस्य सब्रह्मचारितां॥ १.१५॥

ययौ विरहसंवर्तः पद्मिनीराजहंसयोः   ।
अपारदुःखार्णवयोर्न सीतारामभद्रयोः ॥१.१६॥

शान्तनिर्झरझात्कारधाराः शिखरिणो बभुः   ।
रामस्य विशदालापशुश्रूषानिभृता इव ॥१.१७॥

तस्य चक्रुश्चमत्कारं व्यतीतसमया अपि   ।
स्मिताभमुकुलोद्भेदाः कदम्बवनराजयः ॥१.१८॥

अदृश्यन्त पुरस्तेन खेलाः खञ्जनपङ्क्तयः   ।
अस्मर्यन्त च निश्वस्य प्रियानयनविभ्रमाः ॥१.१९॥

अब्रवीदथ कालज्ञस्तत्कालप्रतिपत्तये   ।
प्रणम्य लक्ष्मणो रामं रामाविरहनिःसहं॥ १.२०॥

जातं विभातं अमलं पश्य प्रावृण्णिशा गता   ।
उत्साहकमलस्यायं विकासावसरस्तव ॥१.२१॥

उच्छ्रयं तीरतरवो रवेरूर्जं अभीषवः   ।
मदं गोपतयो गृह्णन्त्यभियोगं जिगीषवः ॥१.२२॥

प्रसीद दीयतां कर्णः कूजद्भिः कुररैरमी   ।
प्रार्थयन्तीव संचारं तटाः कर्दमदुर्गताः ॥१.२३॥

भुवि भास्वदभीषूणां त्वदिषूणां च शत्रुषु   ।
अयं सम्पतितुं कालः स दुष्कालोऽतिवाहितः ॥१.२४॥

सुदूरोन्नतपर्यन्तास्तीर्यन्ते संक्रमैरिव   ।
अनल्पगाधाः सरितस्तरुभिः पूरपातितैः ॥१.२५॥

आविष्कृतविशुद्धिभ्यां नद्यः सुमहिला इव   ।
कुलाभ्यां इव कूलाभ्यां आपत्स्वपि चकासति ॥१.२६॥

जलजानां सुमनसां वयसां जलसेविनां  ।
अस्य प्रतिजलाधारं सामग्र्यं अवलोक्यते ॥१.२७॥

युयुत्सारभसोत्खातसरित्खातकरोधसः   ।
कुकुद्मन्तो मदकलाः कलयन्ति जगन्त्यधः ॥१.२८॥

विश्वेश कुरु विश्वासं आवर्तन्ते न ते घनाः   ।
अमी श्यामलयन्त्याशाः शुकाः शालिवनोन्मुखाः ॥१.२९॥

मृगाः सम्प्रति शालेयं सम्पन्नं सम्पतन्त्यमी   ।
साकेतं अधितिष्ठन्तं अर्थिनस्त्वां इवोन्मुखाः ॥१.३०॥

कार्यदिग्गृह्यतां कापि किं आर्य स्थीयते वृथा   ।
एवं एवायं अस्माकं इष्टोऽपि किं उपैष्यति ॥१.३१॥

विजयाय भवासीनो मय्यर्पितवपुर्भरः   ।
मूर्च्छानुवलनव्यस्तः प्रस्तरस्त्यज्यतां अयं॥ १.३२॥

प्रतीष्टोपत्यकासालदलाग्रजलबिन्दवः   ।
सार्यन्तां क्षणं उद्धूय स्थगितांसतटा जटाः ॥१.३३॥

मुहूर्तं क्रियतां आर्य कपोलविरही करः   ।
व्युषितो वल्कलग्रन्थिरंसादुन्मोच्यतां अयं॥ १.३४॥

इतो वितत्य दीयन्तां इषवः क्लिन्नयन्त्रणाः   ।
निर्मुक्तार्द्रजरच्चैलं आदत्तां आयतं धनुः ॥१.३५॥

इतोऽवतीर्यतां प्रास्थादस्वास्थ्यं इदं उज्झ्यतां  ।
जहीषुभिर्दशग्रीवं दशदिग्वेधशोधितैः ॥१.३६॥

ऋजुरादीयतां पन्थाः कार्यकन्था गरीयसी   ।
उत्सार्यतां इदं दूरं तमः किंकार्यतामयं॥ १.३७॥

आर्यायाः शिवं एवास्ति शत्रुर्निहत एव ते   ।
अलं दत्त्वावसादाय त्रैलोक्यशरणं वपुः ॥१.३८॥

राक्षसापशदः कोऽसौ त्वयि सज्यशरासने   ।
अनेन तेऽवसादेन दूरं आरोपितः पुनः ॥१.३९॥

अश्रुवेगैः प्रमीलाभिर्विलापैरखिलः स ते   ।
आमृष्टदेहयात्रस्य मासः प्रौष्ठपदो गतः ॥१.४०॥

क्रियतां अधुनोत्साहश्चिन्त्यतां निधनं द्विषः   ।
कः स्वबाहुसहायानां महतां आत्मनिग्रहः ॥१.४१॥

भद्रं भाद्रपदच्छेदच्छिन्नाभ्राजिनरज्जवे   ।
तुभ्यं पुरुषनागाय निर्विघ्नतरसेऽधुना ॥१.४२॥

प्रसीद कुरु भूयोऽपि देहयात्रां यथा तथा   ।
अनुल्लङ्घितविज्ञप्तिर्लक्ष्मणोऽवरजेषु ते ॥१.४३॥

अगाधं धैर्यं आर्यस्य त्रिषु लोकेषु गीयते   ।
जनमात्रोचितः कोऽयं आकल्पकपरिग्रहः ॥१.४४॥

अरोपशमितोदग्रजामदग्न्याग्नितेजसः   ।
प्रतीच्छति शरासारं तवार्य रुषितस्य कः ॥१.४५॥

स्वकृत्यभारसन्न्यासी यावदित्थं विषीदसि   ।
तावदन्तकदंष्ट्राणां अरातिरतिथिर्न ते ॥१.४६॥

आततायी स विज्ञातो जीवत्यार्येति च श्रुतं  ।
प्राप्तो यात्रासहः कालः कालक्षेपस्य को गुणः ॥१.४७॥

न ज्ञायते परं व्यक्तं अरेर्मायाविनः पदं  ।
तन्मार्गणं च सुहृदा सुग्रीवेण प्रतिश्रुतं॥ १.४८॥

दिङ्मुखाहूतविख्यातकपियूथः कपीश्वरः   ।
क्षणान्नूनं असवार्यपादमूले पतिष्यति ॥१.४९॥

शालिपिङ्गमहीपृष्ठस्पर्धयेव भविष्यति   ।
रंहस्विहरिसंघातसम्पातकपिलं नभः ॥१.५०॥

तेषां आरोषरुचिरैरचिरान्मुखमण्डलैः   ।
द्रक्ष्यते तरुणादित्यशतच्छन्नं इवाम्बरं॥ १.५१॥

अहो दीप्तिरहो कान्तिरहो शीलं अहो बलं  ।
अहो शक्तिरहो भक्तिरहो प्रज्ञा हनूमतः ॥१.५२॥

प्रगल्भेनाप्रमत्तेन तेनाभ्यन्तरमन्त्रिणा   ।
नूनं अस्मत्कृते स्वप्तुं सुग्रीवाय न दीयते ॥१.५३॥

स च प्रत्युपकाराय त्वरयत्येनं आदृतः   ।
ध्रुवं बुद्धिवयोवृद्धः सचिवो जाम्बवानपि ॥१.५४॥

तदेवं हेतुना केन वानरेन्द्रो विलम्बते   ।
नासौ कृतघ्नस्य भवेद्गुणवद्भृत्यसंग्रहः ॥१.५५॥

आगन्तव्यं ध्रुवं तेन मार्गितार्या प्रवृत्तिना   ।
प्रपन्नपरकृत्यानां अत्युष्णो हि समुद्यमः ॥१.५६॥

त्वत्प्रसादाप्तसम्भोगसुखसंमीलितेन वा   ।
न तेनामूर्ददृशिरे दिशः प्रोषितकालिकाः ॥१.५७॥

कियच्चिरं पुनरसौ तस्य न श्रुतिं एष्यति   ।
क्रीडातटाकहंसानां निनादो मदमूर्छितः ॥१.५८॥

उक्तैः किं अथ भूयोभिरद्य श्वो वागमिष्यति   ।
पर्युत्सुकितकिष्किन्धः सत्यसन्धो हरीश्वरः ॥१.५९॥

व्यतिरेकेऽपि यत्कार्यं तदप्यार्य प्रधार्यतां  ।
गृह्यतां कार्यसिद्धिर्नस्तद्विलम्बतिरस्कृता ॥१.६०॥

यस्तथोपकृतः पूर्वं आर्येणार्याकृतेऽधुना   ।
स शीतलः स्यादथवा परचित्तानि वेत्ति कः ॥१.६१॥

स प्रतिश्रुतं अर्थं नः स्फीतो विस्मृतवानिव   ।
गत्वाशु स्मार्यतां आर्य कार्यतप्तस्य का क्षमा ॥१.६२॥

तं अहं बोधयिष्यामि दण्डगर्भाभिरुक्तिभिः   ।
साम संमीलयत्येव सुखसक्तान्प्रमादिनः ॥१.६३॥

प्रसीद जीयतां मोहः कोऽहं इत्यवधीयतां  ।
द्रुतं उत्तीर्ण एवास्ते व्यसनाब्धिः कियानयं॥ १.६४॥

सूनृतैरिति स्ॐइत्रेः प्रीतः पीयूषवर्षिभिः   ।
तं अन्तर्वेदनावेगं जिगायेव रघूद्वहः ॥१.६५॥

उन्मीलयामास दृशौ दिशः किंचिदलोकत   ।
उन्ननाम च तल्पान्तान्मोचयन्पक्ष्मला जटाः ॥१.६६॥

सत्वरप्रह्वस्ॐइत्रिचीरोत्सारितरेणुनि   ।
शुचिनि क्वचिदासन्ने निषसाद शिलातले ॥१.६७॥

उपविष्टस्तदा रामो न रेजे सीतया विना   ।
ध्वजो निर्वैजयन्तीकः पौरन्दर इवोच्छ्रितः ॥१.६८॥

अनूपविष्टं अनुजं दनुजारिं इवाद्रिजिथ् ।
प्रत्यभाषत वात्सल्यगद्गदानि पदानि सः ॥१.६९॥

एह्येहि प्रियसंलाप ह्लादयालिङ्गितेन मां  ।
रुद्धं रुद्धं उपैत्यश्रु त्वां अपीक्षे न लक्ष्मण ॥१.७०॥

हा वत्स भवतोऽपीयं अवस्थाङ्गेषु वर्तते   ।
ध्रियतां रामहतकः क्लेशयन्नेकबान्धवं॥ १.७१॥

नास्ति वत्स चिकित्सास्य व्याधेर्विधुरजन्मनः   ।
यस्य यापनया क्षीणं इदं ते सान्त्वनामृतं॥ १.७२॥

नैकदुर्वारघोराधिघट्टनाचलिता अपि   ।
तवाश्वासनया वत्स न गच्छन्ति ममासवः ॥१.७३॥

पितुर्नः प्रियमित्रस्य लूनपक्षस्य मद्द्विषा   ।
संस्मरन्नोत्सहे वत्स मर्मच्छेदं जटायुषः ॥१.७४॥

तातस्य तातमित्रस्य वत्सवत्सलयोस्तयोः   ।
अहं एव गतः पापो निधनाय निमित्ततां॥ १.७५॥

प्रियापहारजः शाम्येत्सम्यगुन्मूलिते रिपौ   ।
मन्युर्देहावधिरयं तातमित्रविपत्तिभूः ॥१.७६॥

नभस्तलात्खगपतौ पतति च्छिन्नपक्षतौ   ।
कोऽपरस्तां मम सुहृन्मा भैषीरित्यभाषत ॥१.७७॥
     
स्याद्वत्स रामहतकात्क्लीबः कः पुरुषोऽपरः   ।
एकपत्नीं अनुगतां अरातेर्यो न रक्षति ॥१.७८॥

तया तेषु तपस्विन्या सीदतोरावयोरपि   ।
दण्डकारण्यकष्टेषु मुखं न विधुरीकृतं॥ १.७९॥

विदेहराजस्य सुता स्नुषा दशरथस्य सा   ।
हतरामस्य जायेति भ्रमति स्म वने वने ॥१.८०॥

स्वं अप्यपुष्णता कायं अपि जायां अरक्षता   ।
मया समः श्रुतः कोऽपि जातः क्लीबो रघोः कुले ॥१.८१॥

त्वं केवलं न सुभ्राता तथा विलपता मुहुः   ।
तिर्यञ्चोऽपि मयामुष्मिन्वने लक्ष्मण रोदिताः ॥१.८२॥

दिक्षु सन्नद्धमेघासु मम घोराधिसाक्षिणां  ।
अवहन्निर्झरनिभान्नगानां अश्रुनिम्नगाः ॥१.८३॥

आरादाकर्णितस्निग्धनवाब्दनिनदैरपि   ।
मत्कारुण्यादरण्येऽपि नानृत्यत कलापिभिः ॥१.८४॥

सत्यं एष्यति सुग्रीवः सत्यं जीवति जानकी   ।
त्वद्वचो न विपर्येति भ्रातर्ब्रूहि पुनः पुनः ॥१.८५॥

त्वद्वाक्यशीकरैरेभिर्निरुद्धबहिरुद्गमः   ।
ममान्तर्लेढि मर्माणि सीताविरहमुर्मुरः ॥१.८६॥

तस्मादपि दहत्युच्चैरयं मां अपरः शिखी   ।
यद्वनौकसि निर्वैरे मुक्तो वालिनि मार्गणः ॥१.८७॥

गुर्वी पुनश्च लज्जेयं उत्तमर्णैरिवाधुना   ।
मार्गितव्यो यदस्माभिः प्लवगाः प्रत्युपक्रियां॥ १.८८॥

नास्ति प्रत्युपकाराशा तत्र नश्चपले कपौ   ।
येनातिलघुनोत्तुङ्गो लङ्घितः सत्यपादपः ॥१.८९॥

उत्तिष्ठ वत्स गच्छावः साधयामोऽन्यतोऽधुना   ।
नवैश्वर्यसुखव्यग्रः सुग्रीवो नागं इष्यति ॥१.९०॥

तपस्वी रमतां एवं चिराद्दारैः समागतः   ।
स पीड्यमानः प्रणयाद्विरसः किं करिष्यति ॥१.९१॥

किं च वत्स दशासाम्याज्जाताः स्मः सुहृदः पुरा   ।
तस्याधुना तु विस्तीर्णविभवान्धस्य के वयं॥ १.९२॥

गृहीतसाधुवर्त्मापि सद्यः सम्प्राप्य सम्पदं  ।
पतति स्खलितोऽतीव प्रमत्तः प्रहते पथि ॥१.९३॥

स वत्स विरलो जन्तुर्विपत्कालप्रतिश्रुतं  ।
सद्यः सम्पन्मदो यस्य न विलुम्पति चेतसि ॥१.९४॥

अस्तु साधुरसाधुर्वा न विचार्यः स मेऽधुना   ।
वत्स नोत्सहते चेतस्तत्र दोग्धुं उपक्रियां॥ १.९५॥

असावनागतः श्रेयानागच्छन्वत्स वार्यतां  ।
प्रवेशयन्ति सुहृदं न धीराः स्वार्थसंकटे ॥१.९६॥

कर्तव्योपकृतिः सद्भिर्यत्र तत्र विपद्गते   ।
अविमृश्य कृतोऽस्माभिः स पुनः कृपणः पणः ॥१.९७॥

किं क्षिप्तं अचलप्रान्तादन्तःसुप्तशिवाशतं  ।
निर्देशपुरुषेणेव कङ्कालं दुन्दुभेर्मया ॥१.९८॥

कस्यार्थस्य कृते विद्धाः सप्त सालास्तपस्विनः   ।
स मा प्रत्येतु वैधेयः किं न साधितं अन्यतः ॥१.९९॥

अक्षात्रं क्षत्रिययुवा को नु राम इव क्षिपेथ् ।
विशिखं वालिनि व्यग्रे सुग्रीवस्य पशोः कृते ॥१.१००॥

न परित्यज्यते मार्गस्तावन्निर्वाच्यकर्दमः   ।
यावत्पिहितकष्टाय कार्यायात्मा न दीयते ॥१.१०१॥

इष्वैकया मया विद्धो बालिशेन वलीमुखः   ।
अनुद्धाराः शरास्तेन रोपिता मयि वाङ्मयाः ॥१.१०२॥

अनवाप्तविपत्पारः स्मरिष्यामि कियन्ति वा   ।
वत्स कालोचितं शाधि न रामः किंचिदीक्षते ॥१.१०३॥

अवलम्बस्व मां भ्रातः सीतास्मरणनिस्सहं  ।
दूरं पुनः प्रभवता मनो मोहेन लुप्यते ॥१.१०४॥

सनाथोभयपार्श्वस्य त्वया वत्स तया च मे   ।
वनेषु च सतः कष्टं अजनिष्ट न किंचन ॥१.१०५॥

हा भीरु हा प्रियतमे हा मद्विरहकातरे   ।
क्वासीत्यर्धोक्तिनिस्संज्ञो जगाम स महीतलं॥ १.१०६॥

मातः कैकेयि तुष्टासि भुङ्क्ष्व राज्यं अकण्टकं  ।
वदन्नित्यपतत्तस्य लक्ष्मणश्चरणाब्जयोः ॥१.१०७॥

ततस्तौ साश्रुनयनौ मृगैर्विधुरवीक्षितौ   ।
निपेततुर्दिव इव भ्रष्टौ विधुरवी क्षितौ ॥१.१०८॥

इति निपतितयोस्तयोर्द्वयोर्दशरथनन्दनयोर्महीतले   ।
दशभिरपि दिगङ्गनामुखैरधृतिवशादिव तत्यजे रुचिः ॥१.१०९॥

एते निकामरसिकस्य जयन्ति पादाः श्रीहारवर्षयुवराजमहीतलेन्दोः   ।
यैर्द्वादशार्ककिरणोत्करदुर्निवारः सृष्टोऽभिनन्दकुमुदस्य महाविकासः ॥१.११०॥

इत्यभिनन्दकृतौ रामचरिते महाकाव्ये प्रथमः सर्गः समाप्तः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:25.1170000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

adjudication of notes

  • नोटों का न्यायनिर्णयन 
RANDOM WORD

Did you know?

जननशांती म्हणजे काय ? ती केव्हा करावी ?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.