पुंसि क्लीबे च कर्पूरः सिताभ्रो हिमवालुकः  -
घनसारश्चन्द्रसंज्ञो हिमनामापि स स्मृतः  -- १
कर्पूरः शीतलो वृष्यश्चक्षुष्यो लेखनो लघुः  -
सुरभिर्मधुरस्तिक्तः कफपित्तविषापहः  -- २
तृष्णास्यवैरस्यमेदोदौर्गन्ध्यनाशनः  -
कर्पूरो द्विविधः प्रोक्तः पक्वापक्वप्रभेदतः  -
पक्वात्कर्पूरतः प्राहुरपक्वं गुणवत्तरं  -- ३
चीनाकसंज्ञः कर्पूरः कफक्षयकरः स्मृतः  -
कुष्ठकण्डूवमिहरस्तथा तिक्तरसश्च सः  -- ४
मृगनाभिर्मृगमदः कथितस्तु सहस्रभित् -
कस्तूरिका च कस्तूरी वेधमुख्या च सा स्मृता  -- ५
कामरूपोद्भवा कृष्णा नैपाली नीलवर्णयुक् -
काश्मीरी कपिलच्छाया कस्तूरी त्रिविधा स्मृता  -- ६
कामरूपोद्भवा श्रेष्ठा नैपाली मध्यमा भवेत् -
काश्मीरदेशसम्भूता कस्तूरी ह्यधमा मता  -- ७
कस्तूरिका कटुस्तिक्ता क्षारोष्णा शुक्रला गुरुः  -
कफवातविषच्छर्दिशीतदौर्गन्ध्यशोषहृत् -- ८
लता कस्तूरिका तिक्ता स्वाद्वी वृष्या हिमा लघुः  -
चक्षुष्या छेदिनी श्लेष्मतृष्णावस्त्यास्यरोगहृत् -- ९
गन्धमार्जारवीर्यं तु वीर्यकृत्कफवातहृत् -
कण्डूकुष्ठहरं नेत्र्यं सुगन्धं स्वेदगन्धनुत् -- १०
श्रीखण्डं चन्दनं न स्त्री भद्रश्रीस्तैलपर्णिकः  -
गन्धसारो मलयजस्तथा चन्द्रद्युतिश्च सः  -- ११
स्वादे तिक्तं कषे पीतं छेदे रक्तं तनौ सितं  -
ग्रन्थिकोटरसंयुक्तं चन्दनं श्रेष्ठं उच्यते  -- १२
चन्दनं शीतलं रूक्षं तिक्तं आह्लादनं लघु  -
श्रमशोषविषश्लेष्मतृष्णापित्तास्रदाहनुत् -- १३
कालीयकं तु कालीयं पीताभं हरिचन्दनं  -- १४
हरिप्रियं कालसारं तथा कालानुसार्यकं  -
कालीयकं रक्तगुणं विशेषाद्व्यङ्गनाशनं  -- १५
रक्तचन्दनं आख्यातं रक्ताङ्गं क्षुद्रचन्दनं  -
तिलपर्णं रक्तसारं तत्प्रवालफलं स्मृतं  -- १६
रक्तं शीतं गुरु स्वादु छर्दितृष्णास्रपित्तहृत् -
तिक्तं नेत्राहतं वृष्यं ज्वरव्रणविषापहं  -- १७
पतंगं रक्तसारं च सुरङ्गं रञ्जनं तथा  -
पट्टरञ्जकमाख्यातं पत्तूरं च कुचन्दनं  -- १८
पतंगं मधुरं शीतं पित्तश्लेष्मव्रणास्रनुत् -
हरिचन्दनवद्वेद्यं विशेषाद्दाहनाशनं  -- १९
चन्दनानि तु सर्वाणि सदृशानि रसादिभिः  -
गन्धेन तु विशेषोऽस्ति पूर्वः श्रेष्ठतमो गुणैः  -- २०
अगुरु प्रवरं लोहं राजार्हं योगजं तथा  -
वंशिकं कृमिजं वापि कृमिजग्धं अनार्यकं  -- २१
अगुरूष्णं कटु त्वच्यं तिक्तं तीक्ष्णं च पित्तलं  -
लघु कर्णाक्षिरोगघ्नं शीतवातकफप्रणुत् -- २२
कृष्णं गुणाधिकं तत्तु लोहवद्वारि मज्जति  -
अगुरुप्रभवः स्नेहः कृष्णागुरुसमः स्मृतः  -- २३
देवदारु स्मृतं दारुभद्रं दार्विन्द्रदारु च  -
मस्तदारु द्रुकिलिमं किलिमं सुरभूरुहः  -- २४
देवदारु लघु स्निग्धं तिक्तोष्णं कटुपाकि च  -
विबन्धाध्मानशोथामतन्द्राहिक्काज्वरास्रजित् -
प्रमेहपीनसश्लेष्मकासकण्डूसमीरनुत् -- २५
सरलः पीतवृक्षः स्यात्तथा सुरभिदारुकः  -
सरलो मधुरस्तिक्तः कटुपाकरसो लघुः  -- २६
स्निग्धोष्णः कर्णकण्ठाक्षिरोगरक्षोहरः स्मृतः  -
कफानिलस्वेददाहकासमूर्छाव्रणापहः  -- २७
कालानुसार्यं तगरं कुटिलं नहुषं नतं  -
अपरं पिण्डतगरं दण्डहस्ती च बर्हिणं  -- २८
तगरद्वयमुष्णं स्यात्स्वादु स्निग्धं लघु स्मृतं  -
विषापस्मारशूलाक्षिरोगदोषत्रयापहं  -- २९
पद्मकं पद्मगन्धि स्यात्तथा पद्माह्वयं स्मृतं  -
पद्मकं तुवरं तिक्तं शीतलं वातलं लघु  -- ३०
वीसर्पदाहविस्फोटकुष्ठश्लेष्मास्रपित्तनुत् -
गर्भसंस्थापनं रुच्यं वमिव्रणतृषाप्रणुत् -- ३१
गुग्गुलुर्देवधूपश्च जटायुः कौशिकः पुरः  -
कुम्भोलूखलकं क्लीबे महिषाक्षः पलंकषः  -- ३२
महिषाक्षो महानीलः कुमुदः पद्म इत्यपि  -
हिरण्यः पञ्चमो ज्ञेयो गुग्गुलोः पञ्च जातयः  -- ३३
भृङ्गाञ्जनसवर्णस्तु महिषाक्ष इति स्मृतः  -
महानीलस्तु विज्ञेयः स्वनामसमलक्षणः  -- ३४
कुमुदः कुमुदाभः स्यात्पद्मो माणिक्यसंनिभः  -
हिरण्याक्षस्तु हेमाभः पञ्चानां लिङ्गमीरितं  -- ३५
महिषाक्षो महानीलो गजेन्द्राणां हितावुभौ  -
हयानां कुमुदः पद्मः स्वस्त्यारोग्यकरौ परौ  -- ३६
विशेषेण मनुष्याणां कनकः परिकीर्तितः  -
कदाचिन्महिषाक्षश्च मतः कैश्चिन्नृणामपि  -- ३७
गुग्गुलुर्विशदस्तिक्तो वीर्योष्णः पित्तलः सरः  -
कषायः कटुकः पाके कटू रूक्षो लघुः परः  -- ३८
भग्नसंधानकृद्वृष्यः सूक्ष्मः स्वर्यो रसायनः  -
दीपनः पिच्छिलो बल्यः कफवातव्रणापचीः  -- ३९
मेदोमेहाश्मवातांश्च क्लेदकुष्ठाममारुतान् -
पिटिकाग्रन्थिशोफार्शोगण्डमालाकृमीञ् जयेत् -- ४०
माधुर्याच्छमयेद्वातं कषायत्वाच्च पित्तहा  -
तिक्तत्वात्कफजित्तेन गुग्गुलुः सर्वदोषहा  -- ४१
स नवो बृंहणो वृष्यः पुराणस्त्वतिलेखनः  -- ४२
स्निग्धः काञ्चनसंकाशः पक्वजम्बूफलोपमः  -
नूतनो गुग्गुलुः प्रोक्तः सुगन्धिर्यस्तु पिच्छिलः  -- ४३
शुष्को दुर्गन्धकश्चैव त्यक्तप्रकृतिवर्णकः  -
पुराणः स तु विज्ञेयो गुग्गुलुर्वीर्यवर्जितः  -- ४४
अम्लं तीक्ष्णमजीर्णं च व्यवायं श्रममातपं  -
मद्यं रोषं त्यजेत्सम्यग्गुणार्थी पुरसेवकः  -- ४५
श्रीवासः सरलस्रावः श्रीवेष्टो वृक्षधूपकः  -
श्रीवासो मधुरस्तिक्तः स्निग्धोष्णस्तुवरः सरः  -- ४६
पित्तलो वातमूर्धाक्षिस्वरोगकफापहः  -
रक्षोघ्नः स्वेददौर्गन्ध्ययूकाकण्डूव्रणप्रणुत् -- ४७
रालस्तु शालनिर्यासस्तथा सर्जरसः स्मृतः  -
देवधूपो यक्षधूपस्तथा सर्वरसश्च सः  -- ४८
रालो हिमो गुरुस्तिक्तः कषायो ग्राहको हरेत् -
दोषास्रस्वेदवीसर्पज्वरव्रणविपादिकाः  -
ग्रहभग्नाग्निदग्धांश्च शूलातीसारनाशनः  -- ४९
कुन्दुरुस्तु मुकुन्दः स्यात्सुगन्धः कुन्द इत्यपि  -- ५०
कुन्दुरुर्मधुरस्तिक्तस्तीक्ष्णस्त्वच्यः कटुर्हरेत् -
ज्वरस्वेदग्रहालक्ष्मीमुखरोगकफानिलान् -- ५१
सिह्लकस्तु तुरुष्कः स्याद्यतो यवनदेशजः  -
कपितैलं च संख्यातस्तथा च कपिनामकः  -- ५२
सिह्लकः कटुकः स्वादुः स्निग्धोष्णः शुक्रकान्तिकृत् -
वृष्यः कण्ठ्यः स्वेदकुष्ठज्वरदाहग्रहापहः  -- ५३
जातीफलं जातिकोशं मालतीफलमित्यपि  -
जातीफलं रसे तिक्तं तीक्ष्णोष्णं रोचनं लघु  -
कटुकं दीपनं ग्राहि स्वर्यं श्लेष्मानिलापहं  -- ५४
निहन्ति मुखवैरस्यं मलदौर्गन्ध्यकृष्णताः  -
कृमिकासवमिश्वासशोषपीनसहृद्रुजः  -- ५५
जातीफलस्य त्वक्प्रोक्ता जातीपत्त्री भिषग्वरैः  -- ५६
जातीपत्त्री लघुः स्वादुः कटूष्णा रुचिवर्णकृत् -
कफकासवमिश्वासतृष्णाकृमिविषापहा  -- ५७
लवंगं देवकुसुमं श्रीसंज्ञं श्रीप्रसूनकं  -
लवंगं कटुकं तिक्तं लघु नेत्रहितं हिमं  -- ५८
दीपनं पाचनं रुच्यं कफपित्तास्रनाशकृत् -
तृष्णां छर्दिं तथाध्मानं शूलमाशु विनाशयेत् -
कासं श्वासं च हिक्कां च क्षयं क्षपयति ध्रुवं  -- ५९
एला स्थूला च बहुला पृथ्वीका त्रिपुटापि च  -- ६०
भद्रैला बृहदेला च चन्द्रबाला च निष्कुटिः  -
स्थूलैला कटुका पाके रसे चानलकृल्लघुः  -- ६१
रूक्षोष्णा श्लेष्मपित्तास्रकण्डूश्वासतृषापहा  -
हृल्लासविषबस्त्यास्यशिरोरुग्वमिकासनुत् -- ६२
सूक्ष्मोपकुञ्चिका तुत्था कोरङ्गी द्राविडी त्रुटिः  -
एला सूक्ष्मा कफश्वासकासार्शोमूत्रकृच्छ्रहृत् -
रसे तु कटुका शीता लघ्वी वातहरी मता  -- ६३
त्वक्पत्त्रं च वराङ्गं स्यद्भृङ्गं चोचं तथोत्कटं  -
त्वचं लघूष्णं कटुकं स्वादु तिक्तं च रूक्षकं  -- ६४
पित्तलं कफवातघ्नं कण्ड्वामारुचिनाशनं  -
हृद्वस्तिरोगवातार्शःकृमिपीनसशुक्रहृत् -- ६५
त्वक्स्वाद्वी तु तनुत्वक्स्यात्तथा दारुसिता मता  -- ६६
उक्ता दारुसिता स्वाद्वी तिक्ता चानिलपित्तहृत् -
सुरभिः शुक्रला वर्ण्या मुखशोषतृषापहा  -- ६७
पत्त्रकं तमालपत्त्रं च तथा स्यात्पत्त्रनामकं  -
पत्त्रकं मधुरं किंचित्तीक्ष्णोष्णं पिच्छिलं लघु  -
निहन्ति कफवातार्शोहृल्लासारुचिपीनसान् -- ६८
नागपुष्पः स्मृतो नागः केसरो नागकेसरः  -
चाम्पेयो नागकिञ्जल्कः कथितः काञ्चनाह्वयः  -- ६९
नागपुष्पं कषायोष्णं रूक्षं लघ्वामपावनं  -- ७०
ज्वरकण्डूतृषास्वेदच्छर्दिहृल्लासनाशनं  -
दौर्गन्ध्यकुष्ठवीसर्पकफपित्तविषापहं  -- ७१
त्वगेलापत्त्रकैस्तुल्यैस्त्रिसुगन्धि त्रिजातकं  -
नागकेसरसंयुक्तं चातुर्जातकं उच्यते  -- ७२
तद्द्वयं रोचनं रूक्षं तीक्ष्णोष्णं मुखगन्धहृत् -
लघु पित्ताग्निकृद्वर्ण्यं कफवातविषापहं  -- ७३
कुङ्कुमं घुसृणं रक्तं काश्मीरं पीतकं वरं  -
संकोचं पिशुनं धीरं वाह्लीकं शोणिताभिधं  -- ७४
काश्मीरदेशजे क्षेत्रे कुङ्कुमं यद्भवेद्धि तत् -
सूक्ष्मकेसरं आरक्तं पद्मगन्धि तदुत्तमं  -- ७५
वाह्लीकदेशसंजातं कुङ्कुमं पाण्डुरं स्मृतं  -
केतकीगन्धयुक्तं तन्मध्यमं सूक्ष्मकेसरं  -- ७६
कुङ्कुमं पारसीकं तन्मधुगन्धि तदीरितं  -
ईषत्पाण्डुरवर्णं तदधमं स्थूलकेसरं  -- ७७
कुङ्कुमं कटुकं स्निग्धं शिरोरुग्व्रणजन्तुजित् -
तिक्तं वमिहरं वर्ण्यं व्यङ्गदोषत्रयापहं  -- ७८
गोरोचना तु मङ्गल्या वन्द्या गौरी च रोचना  -
गोरोचना हिमा तिक्ता वर्ण्या मङ्गलकान्तिदा  -
विषालक्ष्मीग्रहोन्मादगर्भस्रावक्षतास्रहृत् -- ७९
नखं व्याघ्रनखं व्याघ्रायुधं तच्चक्रकारकं  -- ८०
नखं स्वल्पं नखी प्रोक्ता हनुहट्टविलासिनी  -
नखद्रव्यं ग्रहश्लेष्मावातास्रज्वरकुष्ठहृत् -- ८१
लघूष्णं शुक्रलं वर्ण्यं स्वादु व्रणविषापहं  -
अलक्ष्मीमुखदौर्गन्ध्यहृत्पाकरसयोः कटु  -- ८२
बालं ह्रीवेरबर्हिष्ठोदीच्यं केशाम्बुनाम च  -
बालकं शीतलं रूक्षं लघु दीपनपाचनं  -
हृल्लासारुचिवीसर्पहृद्रोगामातिसारजित् -- ८३
स्याद्वीरणं वीरतरुर्वीरं च बहुमूलकं  -
वीरणं पाचनं शीतं वान्तिहृल्लघु तिक्तकं  -- ८४
स्तम्भनं ज्वरनुद्भ्रान्तिमदजित्कफपित्तहृत् -
तृष्णास्रविषवीसर्पकृच्छ्रदाहव्रणापहं  -- ८५
वीरणस्य तु मूलं स्यादुशीरं नलदं च तत् -
अमृणालं च सेव्यं च समगन्धिकं इत्यपि  -- ८६
उशीरं पाचनं शीतं स्तम्भनं लघु तिक्तकं  -- ८७
मधुरं ज्वरहृद्वान्तिमदनुत्कफपित्तहृत् -
तृष्णास्रविषवीसर्पदाहकृच्छ्रव्रणापहं  -- ८८
जटामांसी भूतजटा जटिला च तपस्विनी  -
मांसी तिक्ता कषाया च मेध्या कान्तिबलप्रदा  -
स्वाद्वी हिमा त्रिदोषास्रदाहवीसर्पकुष्ठनुत् -- ८९
शैलेयं तु शिलापुष्पं वृद्धं कालानुसार्यकं  -- ९०
शैलेयं शीतलं हृद्यं कफपित्तहरं लघु  -
कण्डूकुष्ठाश्मरीदाहविषहृद्गुदरक्तहृत् -- ९१
मुस्तकं न स्त्रियां मुस्तं त्रिषु वारिदनामकं  -
कुरुविन्दश्च संख्यातोऽपरः क्रोडकसेरुकः  -- ९२
भद्रमुस्तं च गुन्द्रा च तथा नागरमुस्तकः  -
मुस्तं कटु हिमं ग्राहि तिक्तं दीपनपाचनं  -- ९३
कषायं कफपित्तास्रतृड्ज्वरारुचिजन्तुहृत् -
अनूपदेशे यज्जातं मुस्तकं तत्प्रशस्यते  -
तत्रापि मुनिभिः प्रोक्तं वरं नागरमुस्तकं  -- ९४
कर्चूरो वेधमुख्यश्च द्राविडः कल्पकः शटी  -
कर्चूरो दीपनो रुच्यः कटुकस्तिक्त एव च  -- ९५
सुगन्धिः कटुपाकः स्यात्कुष्ठार्शोव्रणकासनुत् -
उष्णो लघुर्हरेच्छ्वासं गुल्मवातकफक्रिमीन् -- ९६
मुरा गन्धकुटी दैत्या सुरभिः शालपर्णिका  -- ९७
मुरा तिक्ता हिमा स्वाद्वी लघ्वी पित्तानिलापहा  -
ज्वरासृग्भूतरक्षोघ्नी कुष्ठकासविनाशिनी  -- ९८
शठी पलाशी षड्ग्रन्था सुव्रता गन्धमूलिका  -
गान्धारिका गन्धवधूर्वधूः पलाशिका  -- ९९
भवेद्गन्धपलाशी तु कषाया ग्राहिणी लघुः  -
तिक्ता तीक्ष्णा च कटुकानुष्णास्यमलनाशिनी  -
शोथकासव्रणश्वासशूलसिध्मग्रहापहा  -- १००
प्रियङ्गुः फलिनी कान्ता लता च महिलाह्वया  -- १०१
गुन्द्रा गन्धफला श्यामा विष्वक्सेनाङ्गनाप्रिया  -
प्रियङ्गुः शीतला तिक्ता तुवरानिलपित्तहृत् -- १०२
रक्तातियोगदौर्गन्ध्यस्वेददाहज्वरापहा  -
गुल्मतृड्विषमोहघ्नी तद्वद्गन्धप्रियङ्गुका  -- १०३
तत्फलं मधु रूक्षं कषायं शीतलं गुरु  -
विबन्धाध्मानबलकृत्संग्राहि कफपित्तजित् -- १०४
रेणुका राजपुत्री च नन्दिनी कपिला द्विजा  -
भस्मगन्धा पाण्डुपुत्री स्मृता कौन्ती हरेणुका  -- १०५
रेणुका कटुका पाके तिक्तानुष्णा कटुर्लघुः  -
पित्तला दीपनी मेध्या पाचिनी गर्भपातिनी  -
बलासवातकृच्चैव तृट्कण्डूविषदाहनुत् -- १०६
ग्रन्थिपर्णं ग्रन्थिकं च काकपुच्छं च गुच्छकं  -
नीलपुष्पं सुगन्धं च कथितं तैलपर्णकं  -- १०७
ग्रन्थिपर्णं तिक्ततीक्ष्णं कटूष्णं दीपनं लघु  -
कफवातविषश्वासकण्डूदौर्गन्ध्यनाशनं  -- १०८
स्थौणेयकं बर्हिबर्हं शुकबर्हं च कुक्कुरं  -
शीर्णरोमशुकं चापि शुकपुष्पं शुकच्छदं  -- १०९
स्थौणेयकं कटु स्वादु तिक्तं स्निग्धं त्रिदोषनुत् -- ११०
मेधाशुक्रकरं रुच्यं रक्षोघ्नं ज्वरजन्तुजित् -
हन्ति कुष्ठास्रतृड्दाहदौर्गन्ध्यतिलकालकान् -- १११
निशाचरो धनहरः कितवो गणहासः  -
चोरकः शङ्कितश्चण्डो दुष्पत्त्रः क्षेमको रिपुः  -
रोचको मधुरस्तिकः कटुः पाके कटुर्लघुः  -- ११२
तीक्ष्णो हृद्यो हिमो हन्ति कुष्ठकण्डूकफानिलान् -
रक्षोऽश्रीस्वेदमेदोऽस्रज्वरगन्धविषव्रणान् -- ११३
तालीशं उक्तं पत्त्राढ्यं धात्रीपत्त्रं च तत्स्मृतं  -
तालीशं लघु तीक्ष्णोष्णं श्वासकासकफानिलान् -
निहन्त्यरुचिगुल्मामवह्निमान्द्यक्षयामयान् -- ११४
कङ्कोलं कोलं प्रोक्तं चाथ कोशफलं स्मृतं  -- ११५
कङ्कोलं लघु तीक्ष्णोष्णं तिक्तं हृद्यं रुचिप्रदं  -
आस्यदौर्गन्ध्यहृद्रोगकफवातामयान्ध्यहृत् -- ११६
स्निग्धोष्णा कफहृत्तिक्ता सुगन्धा गन्धकोकिला  -
गन्धकोकिलया तुल्या विज्ञेया गन्धमालती  -- ११७
लामज्जकं सुनालं स्यादमृणालं लवं लघु  -
इष्टकापथकं सव्यं नलदं च विदातकं  -- ११८
लामज्जकं हिमं तिक्तं लघु दोषत्रयास्रजित् -
त्वगामयस्वेदकृच्छ्रदाहपित्तास्ररोगनुत् -- ११९
एलवालुकं ऐलेयं सुगन्धि हरिवालुकं  -
ऐलवालुकं एलालु कपित्थं पत्त्रं ईरितं  -- १२०
एलालु कटुकं पाके कषायं शीतलं लघु  -
हन्ति कण्डूव्रणच्छर्दितृट्कासारुचिहृद्रुजः  -
बलासविषपित्तास्रकुष्ठमूत्रगदक्रिमीन् -- १२१
कुटन्नटं दासपुरं बालेयं परिपेलवं  -
प्लवगोपुरगोनर्दकैवर्तीमुस्तकानि च  -- १२२
मुस्तावत्पेलवपुटं शुकाभं स्याद्वितुन्नकं  -- १२३
वितुन्नकं हिमं तिक्तं कषायं कटु कान्तिदं  -
कफपित्तास्रवीसर्पकुष्ठकण्डूविषप्रणुत् -- १२४
स्पृक्कासृग्ब्राह्मणो देवो मरुन्माला लता लघुः  -
समुद्रान्ता वधूः कोटिवर्षा लङ्कोपिकेत्यपि  -- १२५
स्पृक्का स्वाद्वी हिमा वृष्या तिक्ता निखिलदोषनुत् -
कुष्ठकण्डूविषस्वेददाहाश्रीज्वररक्तहृत् -- १२६
पर्पटी रञ्जनी कृष्णा जतुका जननी जनी  -
जतुकृष्णाग्निसंस्पर्शा जतुकृच्चक्रवर्तिनी  -- १२७
पर्पटी तुवरा तिक्ता शिशिरा वर्णकृल्लघुः  -
विषव्रणहरा कण्डूकफपित्तास्रकुष्ठनुत् -- १२८
नलिका विद्रुमलता कपोतचरणा नटी  -
धमन्यञ्जनकेशी च निर्मेध्या सुषिरा नली  -- १२९
नलिका शीतला लघ्वी चक्षुष्या कफपित्तहृत् -
कृच्छ्राश्मवाततृष्णास्रकुष्ठकण्डूज्वरापहा  -- १३०
प्रपौण्डरीकं पौण्डर्यं चक्षुष्यं पौण्डरीयकं  -
पौण्डर्यं मधुरं तिक्तं कषायं शुक्रलं हिमं  -
चक्षुष्यं मधुरं पाके वर्ण्यं पित्तकफप्रणुत् -- १३१

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP