TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

योगिनीहृदयम् - प्रथमः पटलः

योगिनीहृदय हा एक सुप्रसिद्ध ग्रंथ आहे. योगिनीहृदय हे वामकेश्वर तंत्र असून ते नित्याहृदय ह्या नावाने प्रसिद्ध आहे.


प्रथमः पटलः
श्रीदेव्युवाच
देवदेव महदेव परिपूर्णप्रथामय ।
वामकेश्वरतन्त्रेऽस्मिन्नज्ञातर्थास्त्वनेकशः ॥१॥
तांस्तानर्थानशेषेण वक्तुमर्हसि भैरव ।
श्रीभैरव उवाच
शृणु देवि महागुह्यं योगिनिहृदयं परम् ॥२॥
त्वत्प्रीत्या कथयाम्यद्य गोपनीयं विशेषतः ।
कर्णात्कर्णोर्पदेशेन सम्प्राप्तमवनीतलम् ॥३॥
न देयं परशिष्येभ्यो नास्तिकेभ्यो न चेश्वरि ।
न शुश्रूषालसानाञ्च नैवानर्थप्रदायिनाम् ॥४॥
परीक्षिताय दातव्यं वत्सरार्धोषिताय च ।
एतज्ज्ञात्वा वररोहे सद्यः खेचरतां व्रजेत् ॥५॥
चक्रसङ्केतको मन्त्रपूजासङ्केतकौ तथा ।
त्रिविधस्त्रिपुरादेव्याः सङ्केतः परमेश्वरि ॥६॥
यावदेतन्न जानाति सङ्केतत्रयमुत्तमम् ।
न तावत्रिपुराचक्रे परमाज्ञाधरो भवेत् ॥७॥
तच्छक्तिपञ्चकं सृष्ट्या लयेनाग्निचतुष्टयम् ।
पञ्चशक्तिचतुर्वह्निसंयोगाच्चक्रसम्भवः ॥८॥
एतच्चक्रावतारन्तु कथयामि तवानघे ।
यदा सा परमा शक्तिः स्वेच्छया विश्वरूपिणी ॥९॥
स्फुरत्तामात्मनः पश्येत्तदा चक्रस्य सम्भवः ।
शून्याकाराद्विसर्गान्ताद् बिन्दोः प्रस्पन्दसंविदः ॥१०॥
प्रकाशपरमार्थत्वात् स्फुरत्तालहरीयुतात् ।
प्रसृतं विश्वलहरीस्थानं मातृत्रयात्मकम् ॥११॥
बैन्दवं चक्रमेतस्य त्रिरूपत्वं पुनर्भवेत् ।
धर्माधर्मौ तथात्मानो मातृमेयौ तथा प्रमा ॥१२॥
नवयोन्यात्मकं चक्रं चिदानन्दघनं महत् ।
चक्रं नवात्मकमिदं नवधा भिन्नमन्त्रकम् ॥१३॥
बैन्दवासनसंरूढसंवर्तानलचित्कलम् ।
अम्बिकारूपमेवेदमष्टारस्थं स्वरावृतम् ॥१४॥
नवत्रिकोणस्फुरितप्रभारूपदशारकम् ।
शक्त्यादिनवपर्यन्तदशार्णस्फूर्तिकारकम् ॥१५॥
भूततन्मात्रदशकप्रकाशालम्बनत्वतः ।
द्विदशारस्फुरद्रूपं क्रोधीशादिदशारकम् ॥१६॥
चतुश्चक्रप्रभारूपसंयुक्तपरिणामतः ।
चतुर्दशाररूपेण संवित्तिकरणात्मना ॥१७॥
खेचर्यादिजयान्तार्णपरमार्थप्रथामयम् ।
एवं शक्त्यनलाकारस्फुरद्रौद्रीप्रभामयम् ॥१८॥
ज्येष्टारूपचतुष्कोणं वामारूपभ्रमित्रयम् ।
चिदंशान्तस्त्रिकोणं च शान्त्यतिताष्टकोणकं ॥१९॥
शान्त्यंशद्विदशारञ्च तथैव भुवनारकम् ।
विद्याकलाप्रमारूपदलाष्टकसमावृतम् ॥२०॥
प्रतिष्टावपुषा सृष्टस्फुरद्द्व्यष्टदलाम्बुजम् ।
निवृत्त्याकारविलसच्चतुस्ष्कोणविराजितम् ॥२१॥
त्रैलोक्यमोहनाद्ये तु नवचक्रे सुरेश्वरि ।
नादो बिन्दुः कला ज्येष्टा रौद्रीई वामा तथा पुनः ॥२२॥
विषघ्नीई दूतरी चैव सर्वानन्दा क्रमात् स्थिताः ।
निरंशौ नादबिन्दू च कला चेच्छास्वरूपकम् ॥२३॥
ज्येष्टा ज्ञानं क्रिया शेषमित्येवं त्रितयात्मकम् ।
चक्रं कामकलारूपं प्रसारपर, मार्थतः ॥२४॥
अकुले विषुसंज्ञे च शक्ते वह्नौ तथा पुनः ।
नाभावनाहते शुद्धे लम्बिकाग्रे भ्रुवोऽन्तरे ॥२५॥
बिन्दौ तदर्धे रोधिन्यां नादे नादान्त एव च ।
शक्तौ पुनर्व्यापिकायां समनोन्मनि गोचरे ॥२६॥
महाबिन्दौ पुनश्चैव त्रिधा चक्रं तु भावयेत् ।
आज्ञान्तं सकलं प्रोक्तं ततः सकलनिष्कलम् ॥२७॥
उन्मन्यन्तं परे स्थाने निष्कलञ्च त्रिधा स्थितम् ।
दीपाकारोऽर्धमात्रश्च ललाटे वृत्त इष्यते ॥२८॥
अर्धचन्द्रस्तथाकारः पादमात्रस्तदूर्ध्वके ।
ज्योत्स्नाकारा तदष्टांशा रोधिनी त्र्यस्रविग्रहा ॥२९॥
बिन्दुद्वयान्तरे दण्डः शेवरूपो मणिप्रभः ।
कलांशो द्विगुणांशश्च नादान्तो विद्युदुज्ज्वलः ॥३०॥
हलाकारस्तु सव्यस्थबिन्दुयुक्तो विराजते ।
शक्तिर्वामस्थबिन्दुद्यत्स्थिराकारा तथा पुनः ॥३१॥
व्यापिका बिन्दुविलसत्त्रिकोणाकारतां गता ।
बिन्दुद्वयान्तरालस्था ऋजुरेखामयी पुनः ॥३२॥
समना बिन्दुविलसदृजुरेखा तथोन्मना ।
शक्त्यादीनां वपुः स्फूर्जद्द्वादशादित्यसन्निभम् ॥३३॥
चतुःषष्टिस्तदूर्ध्वं तु द्विगुणं दिगुणं ततः ।
शक्त्यादीनां तु मात्रांशो मनोन्मन्यास्तथोन्मनी ॥३४॥
दैशकालानवच्छिन्नं तदूर्ध्वे परमं महत् ।
निसर्गसुन्दरं तत्तु परानन्दविघूर्णितम् ॥३५॥
आत्मनह स्फुरणं पश्येद्यदा सा परमा कला ।
अम्बिकारूपमापन्न परा वाक् ससुदीरिता ॥३६॥
बीजभावस्थितं विश्वं स्फुटीकर्तुं यदोन्मुखी ॥
वामा विश्वस्य वमनादङ्कुशाकारतां गता ॥३७॥
इच्छाशक्तिस्तदा सेयं पश्यन्ती वपुषा स्थिता ।
ज्ञानशक्तिस्तथा ज्येष्टा मध्यमा वागुदीरिता ॥३८॥
ऋजुरेखामयी विश्वस्थितौइ प्रथितविग्रहा ।
तत्संहृतिदशायां तु बैन्दवं रूपमास्थिता ॥३९॥
प्रत्यावृत्तिक्रमेणैवं शृङ्गटवपुरुज्ज्वला ।
क्रियाशक्तिस्तु रौद्रीयं वैखरी विश्वविग्रहा ॥४०॥
भासनाद्विश्वरूपस्य स्वरूपे बाह्यतोऽपि च ।
एताश्चतस्त्रः शक्त्यस्तु का पू जा ओ इति क्रमात् ॥४१॥
पीठाः कन्दे पदे रूपे रूपातीते क्रमात् स्थिताः ।
चतुरस्त्रं तथ बिन्दुषट्कयुक्तं च वृत्तकम् ॥४२॥
अर्धचन्द्रं त्रिकोणं च रूपाण्येषां क्रमेण तु ।
पीतो धूम्रस्तथा श्वेतो रक्तो रूपं च कीर्तितम् ॥४३॥
स्वयम्भुर्बाणलिङ्गं च इतरं च परं पुनः ।
पीठेष्वेतानि लिङ्गानि संस्थितानि वरानने ॥४४॥
हेमबन्धृककुसुमशरच्चन्द्रनिभानि तु ।
स्वावृतं त्रिकूटं च महालिङ्गं स्वयम्भुवम् ॥४५॥
कादितान्ता क्षरोपेतं बाणलिङ्गं त्रिकोणकम् ।
कदम्बगोलकाकारं थादिसान्ताक्षरावृतम् ॥४६॥
सूक्ष्मरूपं समस्तार्णवृतं परमलिङ्गकम् ।
बिन्दुरूपं परानन्दकन्दं नित्यपओदितम् ॥४७
बीअत्रितययुक्तास्य सकस्य मनोः पुनः ।
एतानि वाच्यरूपाणि कुलकौलमयानि तु ॥४८॥
जाग्रत्स्वप्नसुषुप्त्याख्यतुर्यरूपाण्यमूनि तु ।
अतितं तु परं तेजः स्वसंविदुदयात्मकम् ॥४९॥
स्वेच्छाविश्वमयोल्लेखखचितं विश्वरूपकम् ।
चैतन्यमात्मनो रूपं निसर्गानन्दसुन्दरम् ॥५०॥
मेयमातृप्रमामानप्रसरैः संकुचत्प्रभम् ।
शृङ्गाटरूपमापन्नमिच्छाज्ञानक्रियात्मकम् ॥५१॥
विश्वाकारप्रथाधारनिजरूपशिवाश्रयम् ।
कामेश्वराङ्कपर्यङ्कनिविष्टमतिसुन्दरम् ॥५२॥
इच्छाशक्तिमयं पाशमङ्कुशं ज्ञनरूपिणम् ।
क्रियाशक्तिमये बाणधनुषी दधदुज्ज्वलम् ॥५३॥
आश्रयाश्रयिभेदेन अष्टधा भिन्नहेतिमत् ।
अष्टारचक्रसंरूढं नवचक्रासनस्थितम् ॥५४॥
एवंरूपं परं तेजः श्रीचक्रवपुषा स्थितम् ।
तदीयशक्तिनिकरस्फुरदूर्मिसमावृतम् ॥५५॥
चिदात्मभित्तौ विश्वस्य प्रकाशामर्शने यदा ।
करोति स्वेच्छया पूर्णविचिकीर्षासमन्विता ॥५६॥
क्रियाशक्तिस्तु विश्वस्य मोदनाद् द्रावणात्तथा ।
मुद्राख्या सा यदा संविदम्बिका त्रिकलामयी ॥५७॥
त्रिखण्डारूपमापन्ना सदा सन्निधिकारिणी ।
सर्वस्य चक्रराजस्य व्यापिका परिकीर्तित ॥५८॥
योनिप्राचुर्यतः सैषा सर्वसंक्षोभिका पुनः ।
वामाशक्तिप्रधानेयं द्वारचक्रे स्थिता भवेत् ॥५९॥
क्षुब्धाविश्वस्थिततिर्करी ज्येष्टाप्राचुर्यमाश्रिता ।
स्थूलनादकलारूपा सर्वानुग्रहकारिणी ॥६०॥
सर्वाशपूरणाख्ये तु सैषा स्फुरितविग्रहा ।
ज्येष्टावामासमन्त्वेन सृष्टेः प्राधान्यमाश्रिता ॥६१॥
आकर्षिणी तु मुद्रेयं सर्वसंक्षोभिणी स्मृता ।
व्योमद्वयान्तरालस्थबिन्दुरूपा महेश्वरि ॥६२॥
शिवशक्त्यात्मसंश्लेषाद्दिव्याकेशकरी स्मृता
चतुर्दशारचक्रस्था संविदानन्दविग्रहा ॥६३॥
बिन्द्वन्तरालविलसत्सूक्ष्म रेखाशिखामयी ।
ज्येष्टाशक्तिप्रधाना तु सर्वोन्मादनकारिणी ॥६४॥
दशारचक्रमास्थाय संस्थिता वीरवन्दिते ।
वामाशक्तिप्रधाना तु महाङ्कुशमयी पुनः ॥६५॥
तद्वद्विश्वं वमन्ती सा दिव्तीये तु दशारके ।
संस्थिता मोदनपरा मुद्रारूपत्वमास्थिता ॥६६॥
धर्माधर्मस्य संघट्टादुत्थिता वित्तीरूपिणी ।
विकल्पोत्थक्रियालोपरूपदोषविधातिनी ॥६७॥
विकल्परूपरोगाणां हारिणी खेचरी परा ।
सर्वरोगहराख्ये तु चक्रे संविन्मयी स्थिता ॥६८॥
शिवशक्तिसमाश्लेषस्फुरद्व्योमान्तरे पुनः ।
प्रकाशयति विश्वं सा सूक्ष्मरूपस्थित सदा ॥६९॥
बीजरूपा महामुद्रा सर्वसिद्धिमये स्थिता ।
सम्पूर्णस्य प्रकाशस्य लाभभूमिरियं पुनः ॥७०॥
योनिमुद्रा कलारूपा सर्वानन्दमये स्थिता ।
क्रिया चैतन्यरूपत्वादेवं चक्रमयं स्थितम् ॥७१॥
इच्छारूपं परं तेजाः सर्वदा भावयेद् बुधः ।
त्रिधा च नवधा चैव चक्रसङ्केतकः पुनः ॥७२॥
वह्निनैकेन शक्तिभ्यां द्वाभ्यां चैकोऽप्रः पुनः ।
तैश्च वह्नित्रयेणापि शक्तीनां त्रितयेन च ॥७३॥
पद्मद्वयेन चान्यः स्याद भूगृहत्रितयेन च ।
पञ्चशक्ति चतुर्वह्निपद्मद्वयमहीत्रयम् ॥७४॥
परिपूर्णं महचक्रं तत्प्रकारः प्रदर्श्यते ।
तत्राद्यं नवयोनि स्यात् तेन द्विदशासंयुतम् ॥७५॥
मनुयोनि परं विद्यात् तृतीयं तदनन्तरम् ।
अष्टद्व्यष्टदलोपेतं चतुरस्रत्रयान्वितम् ॥७६॥
चक्रस्य त्रिप्रकारत्वं कथितं परमेश्वरि ।
सृष्टिःस्यान्नवयोन्यादिपृथ्व्यन्तं संहृति पुनः ॥७७॥
पृथ्व्यादिनवयोन्यन्तमिति शास्त्रस्य निर्णयः ।
एतत्समष्टिरूपं तु त्रिपुराचक्रमुच्यते ॥७८॥
यस्य विज्ञानमात्रेण त्रिपुराज्ञानवान् भवेत् ।
चक्रस्य नवधात्वं च कथयामि तव प्रिये ॥७९॥
आदिमं भूत्रयेण स्याद द्वितीयं षोडशारकम् ।
अन्यदष्टदलं प्रोक्तं मनुकोणमनन्तरम् ॥८०॥
पञ्चमं दशकोणं स्यात् षष्टं चापि दशारकम् ॥
सप्तमं वसुकोणं स्यान्मध्यत्र्यस्रमथाष्टमम् ॥८१॥
नवमं त्र्यस्रमध्यं स्यात् तेषां नामान्यतः शृणु ।
त्रैलोक्यमोहनं चक्रं सर्वाशापरिपूरकम् ॥८२॥
सर्वसंक्षोभणं गौरि सर्वासौभाग्यदायकम् ।
सर्वार्थसाधकं चक्रं सर्वरक्षाकरं परम् ॥८३॥
सर्वरोगहरं देवि सर्वसिद्धिमयं तथा ।
सर्वानन्दमयं चापि नवमं शृणु सुन्दरि ॥८४॥
अत्र पुज्या महादेवी महात्रिपुरसुन्दरी ।
परिपूर्णं महाचक्रमजरामरकारकम् ॥८५॥
एतमेव महाचक्रसङ्केतः परमेश्वरि ।
कथितस्त्रिपुरादेव्या जीवन्मुक्तिप्रवर्तकः ॥८६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:40.3570000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

मुतसदी

  • पु. 
  • कारभारी ; राजकारणी ; राजकार्यधुरंधर . सर्कारचे मुतसदी रात्रंदिवस नालिशी करितात . - रा २२ . १०४ . 
  • ( ल . ) धोरणी ; धूर्त ; कारस्थानी . [ अर . मुतसद्दी = कार्यकारी ] 
  • ०असून - पु . शहाणा असून वेळीं तलवारहि चालविण्यास समर्थ असा मनुष्य . 
More meanings
RANDOM WORD

Did you know?

ADHYAY 43 OF GURUCHARITRA IS WRONGLY PRINTED AND ADHYAY 47 AND 48 ARE SAME KINDLY CHANGE or make correction for it
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site