साङ्ख्यकारिका - कारिका १-१५

साङ्ख्यकारिका ग्रंथ ईश्वरकृष्ण यांनी लिहीलेला असून अतिशय चिंतन करण्याजोगा आहे.


दुःखत्रयाभिघाताज्जिज्ञासा तद्पघातके हेतौ।
दृष्टेसाऽपार्था चेन्नैकान्तत्यन्ततोऽभावात्  ॥१॥


दृष्टवदानुश्रविकः, स ह्यविशुद्धिक्षयातिशयुक्तः।
तद्विपरीतः श्रेयान्, व्यक्ताव्यक्तज्ञविज्ञानात्  ॥२॥


मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त।
षोडशकस्तु विकारो, न प्रकृतिर्न विकृतिः पुरुषः ॥३॥


दृष्टमनुमानमाप्तवचनं च, सर्वप्रमाणसिद्धत्वात्।
त्रिविधम्प्रमाणमिष्टं, प्रमेयसिद्धिः प्रमाणाद्धि ॥४॥


प्रतिविषयाध्यवसायो दृष्टं, त्रिविधमनुमानमाख्यातम्।
तल्लिङ्गलिङ्गिपूर्वकम्, आप्तश्रुतिराप्तवचनं तु ॥५॥

TOP
सामान्यतस्तु दृष्टात् अतीन्द्रियाणाम्प्रतीतिरनुमानात्।
तस्मादपि चासिद्धिं परोक्षमाप्तागमात् सिद्धम् ॥६॥


अतिदूरात् सामीप्यात् इन्द्रियघातान्मनोऽनवस्थानात्।
सौक्ष्म्याद्यवधानात् अभिभवात्, समानाभिहाराच्च ॥७॥


सौक्ष्म्यात्तदनुपलब्धिर्नाभावात्, कार्य्यतस्तदुपलब्धेः।
महदादि तच्च कार्य्यं प्रकृतिसरूपं विरूपं च ॥८॥


असदकरणादुपादानग्रहणात् सर्वसंभवाभावात्।
शक्तस्य शक्यकरणात्, कारणभावाच्चसत्कार्य्यम् ॥९॥


हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम्।
सावयवं परतन्त्रं व्यक्तं, विपरीतमव्यक्तम् ॥१०॥


त्रुगुणमविवेकि विषयः सामान्यमचेतनम्प्रसवधर्मि।
व्यक्तं, तथा, प्रधानम्, तद्विपरीतस्तथा च पुमान् ॥११॥


प्रीत्यप्रीतिविषादात्मकाः प्रकाशप्रवृत्तिनियमार्थाः।
अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः ॥१२॥


सत्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलं च रजः।
गुरु वरणकमेव तमः, प्रदीपवच्चार्थतो वृत्तिः ॥१३॥


अविवेक्यादेः सिद्धिस्त्रैगुण्यात्तद्विपर्याभावात्।
कारणगुणात्मकत्वात्कार्यस्याव्यक्तमपि सिद्धम् ॥१४॥


भेदानां परिमाणात् समन्वयात् कार्यतः प्रवृत्तेश्च।
कारणकार्यविभागादविभागाद्वैश्वरूपस्य ॥१५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP