तत्त्वचिन्तामणी - योग्यतावादः

तत्त्वचिन्तामणी शब्दाप्रामाण्यवादावरील एक असामान्य ग्रंथ आहे.


पूर्वपक्षः

ननु का योग्यता, न तावत् सजातीयेऽन्वयदर्शनं, यथाकथञ्चित् साजात्यस्याव्यावर्त्तकत्वात् ।

पदार्थतावच्छेदकेन साजात्यस्याद्यजातः पयः पिबतीत्यदावभावात् वाक्यार्थस्यापूर्वत्वाच्च ।

नापि समभिव्याहृतपदार्थसंसर्गव्याप्यधर्मवत्त्वं, वाक्यार्थस्यानुमेयत्वापत्तेः ।

न च वस्तुगत्या संसर्गव्याप्यो यो धर्मस्तद्वस्तं तच्च न ज्ञातुमुपयुज्यते इति नानुमेयः संसर्ग इति वाच्यम् ।

योग्यताभ्रमाच्छाब्दभ्रमानुपपत्तेः ।

अत एवान्वयनिश्चयविरह एव योग्यता स्वरूपसत्ती हेतुः तत्र तद्धर्माभावनिश्चये तत्प्रकारकशाब्दज्ञानानुदयात् इति परास्तम् ।

नापि समभिव्याहृतपदार्थसंसर्गाभावव्याप्यधर्मश्रून्यत्वम्, प्रमेयमभिधेयमित्यादौ संसर्गाभावस्याप्रसिद्ध्या तदनिरूपणात् गेहनिष्ठघटाभावे प्रमिते घटोऽस्तीतिवाक्यात्तन्निश्चयेऽप्यन्वयज्ञानानुदयाच्च ।

नापि बाधकप्रमाणाभावः, अन्यच्च यद्बाधकं तदभावस्यायोग्येऽपि सत्त्वात् । नापि प्रकृतसंसर्गबाधकस्याभावः, प्रतियोगिसिद्ध्यसिद्धिव्याघातात् ।

न च प्रकृतसंसर्गे अन्यत्र सिद्धस्य बाधकप्रमाणस्याभावः, प्रकृतसंसर्गस्य प्रथमप्रतीतेः अयोग्येऽपि तत्सत्वाच्च ।

तत्र बाधकमप्यस्तीति चेत्, तर्हि प्रकृतसंसर्गबाधकस्याभावः तच्चाप्रसिद्धम् ।

अत एव तत्र बाधकस्याप्यनिरूपणम् ।

नापीतरपदार्थसंसर्गाभावप्रमाविषयत्वाभावोऽपदपदार्थे, केवलान्वयिन्यप्रसिद्धेः ।

एतेन यत्रासम्बन्धग्राहकं प्रमाणं नास्ति तद्योग्यमिति निरस्तम् ।

नापि बोधनीयसंसर्गाभावप्रमाविरहः, प्रतियोग्यप्रसिद्धेः, बोधनीयसंसर्गस्य प्रागप्रतीतेः योग्यता च न स्वरूपसत्युपयुज्यते इत्युक्तम्, अयोग्ये तत् सत्त्वस्यानिरूपणाच्च ।

अपि च स्वीयबाधकप्रमाविरहस्यायोग्येऽपि सत्त्वात् बाधकप्रमामात्रविरहस्य योग्येऽपि ज्ञातुमशक्यत्वात् परप्रमाया अयोग्यत्वात् ।

न च स्वरूपसन्नेवायं हेतुः, स्वीयबाधकप्रमाविरहदाशायां योग्यताभ्रमेण शाब्दभ्रमानुपपत्तेः, अन्वयप्रयोजकरूपवत्त्वेन बाधकप्रमामात्रविरहोऽनुमेय इति चेत् । न ।

सेकानान्विततोये द्रवद्रव्यत्वे सत्यपि बाधकसत्त्वेन व्यभिचारात् उपजीव्यत्वेन तस्यैव योग्यतात्वापत्तेश्च ।

न चैवमेवेति वाच्यम् ।

आकाङ्क्षासत्त्यन्वयप्रयोजकरूपवत्त्वे सत्यप्यनाप्तवाक्ये बाधकप्रमायामन्वाबोधात्, बाधकप्रमाविरहो हेतुरिति चेत्तर्ह्यावश्यकत्वात् सैव योग्यता ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP