TransLiteral Foundation

व्यास भाष्य - विभूतिपादः

प्रस्तुत ग्रंथात हठ योगासंबंधी विस्तृत माहिती देण्यात आलेली आहे.


विभूतिपादः
॥३.१॥ नाभिचक्रे हृदयपुण्डरीके मूध्र्नि ज्योतिषि नासिकाग्रे जिह्वाग्र इत्येवमादिषु देशेषु बाह्ये वा विषये चित्तस्य वृत्तिमात्रेण

बन्ध इति धारणा ।

॥३.२॥ तस्मिन्देशे ध्येयालम्बनस्य प्रत्ययस्यैकतानता सदृशः प्रवाहः प्रत्ययान्तरेणापरामृष्टो ध्यानम् ।

॥३.३॥ इदमत्रबोध्यम् ॥ ध्यातृध्येयध्यानकलनावत् ध्यानं तद्रहितं समाधिरिति ध्यानसमाध्योर्विभागः । अस्य च समाधिरूपस्य

ङ्गस्याङ्गिसंप्रज्ञातयोगादयं भेदो यदत्र चिन्तारूपतया निःशेषतो ध्येयस्य स्वरूपं न भासते । अङ्गिनि तु संप्रज्ञाते ज्ञातव्य

साक्षात्कारोदये समाध्यविषया अपि विषया भासन्त इति । तथा च साक्षात्कारयुक्तैकायकाले संप्रज्ञातयोगः । अन्यदा ते

समाधिमात्रमिति विभागः समाधिः ध्यानमेव ध्येयाकारनिर्भासं प्रत्ययात्मकेन स्वरूपेण शून्यमिव यदा भवति ध्येयस्वभावावेशात्तदा

समाधिरित्युच्यते ।

॥३.४॥ तदेतध्दारणाध्यानसमाधित्रयमेकत्र संयमः । कविषयाणि त्रीणि साधनानि संयमः इत्युच्यते । तदस्य त्रयस्य तान्त्रिकी

परिभाषा संयम इति ।

॥३.५॥ तस्य संयमस्य जयात्समाधिप्रज्ञाया भवत्यालोको यथा यथा संयमः स्थिरपदो भवति तथा तथेश्वरप्रसादात्समाधिप्रज्ञा

विशारदी भवति ।

॥३.६॥ तस्य संयमस्य जितभूमेर्याऽनन्तरा भूमिस्तत्र विनियोगः । न ह्यजिताधरभूमिरनन्तरभूमिं विलङ्घ्य प्रान्तभूमिषु संयमं

लभते । तदभावाच्च कुतस्तस्य प्रज्ञालोकः । ईश्वरप्रसादाज्जितोत्तरभूमिकस्य च नाधरभूमिषु परचित्तज्ञानादिषु संयमो युक्तः ।

कस्मात् तदर्थस्यान्यथैवावगतत्वात् । भूमेरस्या इयमनन्तरा भूमिरित्यत्र योग वोपाध्यायः । कथम् । वं ह्युक्तम् ॥ योगेन योगो

ज्ञातव्यो योगो योगात्प्रवर्तते । योऽप्रमत्तस्तु योगेन स योगे रमते चिरम्॥इति॥६॥

॥३.७॥ तदेतध्दारणाध्यानसमाधित्रयमन्तरङ्गं संप्रज्ञातस्य समाधेः पूर्वेभ्यो यमादिभ्यः पञ्चभ्यः साधनेभ्य इति ।

॥३.८॥ तदप्यन्तरङ्गं साधनत्रयं निर्बीजस्य योगस्य बहिरङ्गं भवति । कस्मात्, तदभावे भावादिति । अथ निरोधचित्तक्षणेषु

चलं गुणवृत्तमिति कीदृशस्तदा चित्तपरिणामः --

॥३.९॥ व्युत्थानसंस्काराश्चित्तधर्मा न ते प्रत्ययात्मका इति प्रत्ययनिरोधे न निरुध्दा निरोधसंस्कारा अपि

चित्तधर्मास्तयोरभिभवप्रादुर्भावौ व्युत्थानसंस्कारा हीयन्ते निरोधसंस्कारा आधीयन्ते निरोधक्षणं चित्तमन्वेति तदेकस्य चित्तस्य

प्रतिक्षणमिदं संस्कारान्यथात्वं निरोधपरिणामः । तदा संस्कारशेषं चित्तमिति निरोधसमाधौ व्याख्यातम् ।

॥३.१०॥ निरोधसंस्काराभ्यासपाटवापेक्षा प्रशान्तवाहिता चित्तस्य भवति । तत्संस्कारमान्द्ये व्युत्थानधर्मिणा संस्कारेण

निरोधधर्मसंस्कारोऽभिभूयत इति ।

॥३.११॥ सर्वार्थता चित्तधर्मः । काग्रताऽपि चित्तधर्मः । सर्वार्थतायाः क्षयस्तिरोभाव इत्यर्थः । काग्रताया उदय आविर्भाव इत्यर्थः ।

तयोर्धर्मित्वेनानुगतं चित्तं, तदिदं चित्तमपायोपजनयोः स्वात्मभूतयोर्धर्मयोरनुगतं समाधीयते स चित्तस्य समाधिपरिणामः ।

॥३.१२॥ समाहितचित्तस्य पूर्वप्रत्ययः शान्त उत्तरस्तत्सदृश उदितः, समाधिचित्तमुभयोरनुगतं पुनस्तथैवाऽऽसमाधिभ्रेषादिति ।

स खल्वयं धर्मिणश्चित्तस्यैकाग्रतापरिणामः ।

॥३.१३॥ तेन पूर्वोक्तेन चित्तपरिणामेन धर्मलक्षणावस्थारूपेण भूतेन्द्रियेषु धर्मपरिणामो लक्षणपरिणामोऽवस्थापरिणामश्चोक्तो

वेदितव्यः । तत्र व्युत्थाननिरोधयोरभिभवप्रादुर्भावौ धर्मिणि धर्मपरिणामः । लक्षणपरिणामश्च । निरोधस्त्रिलक्षणस्त्रिभिरध्वभिर्युक्तः ।

स खल्वनागतलक्षणमध्वानं प्रथमं हित्वा धर्मत्वमनतिक्रान्तो वर्तमानलक्षणं प्रतिपन्नः । यत्रास्य स्वरूपेणाभिव्यक्तिः । षोऽस्य

द्वितीयोऽध्वा । न चातीतानागताभ्यां लक्षणाभ्यां वियुक्तः । तथा व्युत्थानं त्रिलक्षणं त्रिभिरध्वभिर्युक्तं वर्तमानलक्षणं हित्वा

धर्मत्वमनतिक्रान्तमतीतलक्षणं प्रतिपन्नम् । षोऽस्य तृतीयोऽध्वा । न चानागतवर्तमानाभ्यां लक्षणाभ्यां वियुक्तम् । वं

पुनर्व्युत्थानमुपसंपद्यमानमनागतलक्षणं हित्वा धर्मत्वमनतिक्रान्तं वर्तमानलक्षणं प्रतिपन्नम् । यत्रास्य स्वरूपाभिव्यक्तौ सत्यां

व्यापारः । षोऽस्य द्वितीयोऽध्वा । न चातीतानागताभ्यां लक्षणाभ्यां वियुक्तमिति । वं पुनर्निरोध वं पुनर्व्युत्थानमिति ।

तथाऽवस्थापरिणामः । तत्र निरोधक्षणेषु निरोधसंस्कारा बलवन्तो भवन्ति दुर्बला व्युत्थानसंस्कारा इति । ष धर्माणामवस्था

परिणामः । तत्र धर्मिणो धर्मैः परिणामो धर्माणां त्र्यध्वनां लक्षणैः परिणामो लक्षणनामप्यवस्थाभिः परिणाम इति । वं

धर्मलक्षणवस्थापरिणामैः शून्यं न क्षणमपि गुणवृत्तमवतिष्ठते । चलं च गुणवृत्तम् । गुणस्वाभाव्यं तु प्रवृत्तिकारणमुक्तं गुणानामिति ।

तेन भूतेन्द्रियेषु धर्मधर्मिभेदात्त्रिविधः परिणामो वेदितव्यः । परमार्थतस्त्वेक व परिणामः । धर्मिस्वरूपमात्रो हि धर्मो

धर्मिविक्रियैवैषा धर्मद्वारा प्रपयत इति । तत्र धर्मस्य धर्मिणि वर्तमानस्यैवाध्वस्वतीतानागतवर्तमानेषु भावान्यथात्वं भवति न तु

द्रव्यान्यथात्वम् । यथा सुवर्णभाजनस्य भित्त्वाऽन्यथाक्रियमाणस्य भावान्यथात्वं भवति न सुवर्णान्यथात्वमिति । अपर आह --

धर्मानभ्यधिको धर्मी पूर्वतत्त्वानतिक्रमात् । पूर्वापरावस्थाभेदमनुपतितः कौटस्थ्येनैव परिवर्तेत यद्यन्वयी स्यादिति । अयमदोषः ।

कस्मात् । कान्ततानभ्युपगमात् । तदेतत्त्रैलोक्यं व्यक्तेरपैति नित्यत्वप्रतिषेधात् । अपेतमप्यस्ति विनाशप्रतिषेधात् । संसर्गाच्चास्य

सौक्ष्मयं, सौक्ष्म्याच्चानुपलब्धिरिति । लक्षणपरिणामो धर्मोऽध्वसु वर्तमानोऽतीतोऽतीतलक्षणयुक्तोऽनागतवर्तमानाभ्यां

लक्षणाभ्यामवियुक्तः । तथाऽनागतोऽनागतलक्षणयुक्तो वर्तमानातीताभ्यां लक्षणभ्यामवियुक्तः । तथा वर्तमानो

वर्तमानलक्षणयुक्तोऽतीतानागताभ्यां लक्षणाभ्यामवियुक्त इति । यथा पुरुष कस्यां स्त्रियां रक्तो न शेषासु विरक्तो भवतीति । अत्र

लक्षणपरिणामे सर्वस्य सर्वलक्षणयोगादध्वसंकरः प्राप्नोतीति परैर्दोषश्चोद्यत इति । तस्य परिहारः ॥ धर्माणां धर्मत्वमप्रसाध्यम् ।

सति च धर्मत्वे लक्षणभेदोऽपि वाच्यो न वर्तमानसमय वास्य धर्मत्वम् । वं हि न चित्तं रागधर्मकं स्यात्क्रोधकाले

रागस्यासमुदाचारादिति । किञ्च त्रयाणां लक्षणानां युगपदेकस्यां व्यक्तौ नास्ति संभवः । क्रमेण तु स्वव्यञ्जकाञ्जनस्य भावो

भवेदिति । उक्तं च रूपातिशया वृत्त्यतिशयाश्च विरुध्यते, सामान्यानि त्वतिशयैः सह प्रवर्तन्ते । तस्मादसंकरः । यथा रागस्यैव

क्वचित्समुदाचार इति न तदानीमन्यत्राभावः किंतु केवलं सामान्येन समन्वागत इत्यस्ति तदा तत्र तस्य भावः । तथा

लक्षणस्येति । न धर्मी त्र्यध्वा धर्मास्तु त्र्यध्वानस्ते लक्षिता अलक्षितास्तत्र लक्षितास्तां तामवस्थां प्राप्नुवन्तोऽन्यत्वेन

प्रतिनिर्दिश्यन्तेऽवस्थान्तरतो न द्रव्यान्तरतः । यथैका रेखा शतस्थाने शतं दशस्थाने दशैका चैकस्याने । यथा चैकत्वेऽपि स्त्री

माता चोच्यते दुहिता च स्वसा चेति । अवस्थापरिणामे कौटस्थ्यप्रसङ्गदोषः कैश्चिदुक्तः । कथम् । अध्वनो व्यापारेण

व्यवहितत्वात् । यदा धर्मः स्वव्यापारं न करोति तदाऽनागतो यदा करोति तदा वर्तमानो यदा कृत्वा निवृत्तस्तदाऽतीत इत्येवं

धर्मधर्मिणोर्लक्षणानामवस्थानां च कौटस्थ्यं प्राप्नोतीति परैर्दोष उच्यते । नासौ दोषः । कस्मात् । गुणिनित्यत्वेऽपि गुणानां

विमर्दवैचित्र्यात् । यथा संस्थानमादिमध्दर्ममात्रं शब्दादीनां गुणानां विनाश्यविनाशिनामेवं लिङ्गमादिमध्दर्ममात्रं सत्त्वादीनां गुणानां

विनाश्यविनाशिनां तस्मिन्विकारसंज्ञेति । तत्रेदमुदाहरणं मृध्दर्मी पिण्डाकाराध्दर्माध्दर्मान्तरमुपसंपद्यमानो धर्मतः परिणमते

घटाकार इति । घटाकारोऽनागतं लक्षणं हित्वा वर्तमानलक्षणं प्रतिपद्यत इति लक्षणतः परिणमते । घटो नवपुराणतां

प्रतिक्षणमनुभवन्नवस्थापरिणामं प्रतिपद्यत इति । धर्मिणोऽपि धर्मान्तरमवस्था धर्मस्यापि लक्षणान्तरमवस्थेत्येक व द्रव्यपरिणामो

भेदेनोपदर्शित इति । वं पदार्थान्तरेष्वपि योज्यमिति । त ते धर्मलक्षणावस्थापरिणामा धर्मिस्वरूपमनतिक्रान्ता इत्येक व परिणामः

सर्वानमून्विशेषानभिप्लवते । अथ कोऽयं परिणामः । अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिः परिणाम इति । तत्र --

॥३.१४॥ योग्यतावच्छिन्ना धर्मिणः शक्तिरेव धर्मः । स च फलप्रसवभेदानुमितसद्भाव कस्यान्योऽन्यश्च परिदृष्टः । तत्र वर्तमानः

स्वव्यापारमनुभवन्धर्मी धर्मान्तरेभ्यः शान्तेभ्यश्चाव्यपदेश्येभ्यश्च भिद्यते । यदा तु सामान्येन समन्वागतो भवति तदा

धर्मिस्वरूपमात्रत्वात्कोऽसौ केन भिद्येत । तत्र ये खलु धर्मिणो धर्माः शान्ता उदिता अव्यपदेश्याश्चेति, तत्र शान्ता ये कृत्वा

व्यापारानुपरताः सव्यापार उदितास्ते चानागतस्य लक्षणस्य समनन्तरा । वर्तमानस्यान्तरा अतीताः । किमर्थमतीतस्यानन्तरा न

भवन्ति वर्तमानाः । पूर्वपश्चिमताया अभावात् । यथाऽनागतवर्तमानयोः पूर्वपश्चिमता नैवमतीतस्य । तस्मान्नातीतस्यास्ति

समनन्तरः । तदनागत व समनन्तरो भवति वर्तमानस्येति । अथाव्यपदेश्याः

॥३.१५॥ कस्य धर्मिण क व परिणाम इति प्रसक्ते क्रमान्यत्वं परिणामान्यत्वे हेतुर्भवतीति । तद्यथा

चूर्णमृत्पिण्डमृद्धटमृत्कपालमृत्कणमृदिति च क्रमः । यो यस्य धर्मस्य समनन्तरो धर्मः स तस्य क्रमः । पिण्डः प्रच्यवते घट

उपजायत इति धर्मपरिणामक्रमः । लक्षणपरिणामक्रमो घटस्यानागतभावाद्वर्तमानभावः क्रमः । तथा पिण्डस्य

वर्तमानभावादतीतभावः क्रमः । नातीतस्यास्ति क्रमः । कस्मात् । पूर्वपरतायां सत्यां समनन्तरत्वं, सा तु नास्त्यतीतस्य ।

तस्माद्द्वयोरेव लक्षणयोः क्रमः । तथाऽवस्थापरिणामक्रमोऽपि घटस्याभिनवस्य प्रान्ते पुराणता दृश्यते । सा च

क्षणपरम्परानुपातिना क्रमेणाभिव्यज्यमाना परां व्यक्तिमापद्यत इति । धर्मलक्षणाभ्यां च विशिष्टोऽयं तृतीयः परिणाम इति । य ते

क्रमा धर्मधर्मिभेदे सति प्रतिलब्धस्वरूपाः । धर्मोऽपि धर्मी भवत्यन्यधर्मस्वरूपापेक्षयेति । यदा तु परमार्थतो

धर्मिण्यभेदोपचारसाद्द्वारेण स वाभिधीयते धर्मस्तदाऽयमेकत्वेनैव क्रमः प्रत्यवभासते । चित्तस्य द्वये धर्मा

परिदृष्टाश्चापरिदृष्टाश्च । तत्र प्रत्ययात्मकाः परिदृष्टा वस्तुमात्रात्मका अपरिदृष्टाः । ते च सप्तैव भवन्त्यनुमानेन

प्रापितवस्तुमात्रसद्भावाः । निरोधधर्मसंस्काराः

॥३.१६॥ धर्मलक्षणावस्थापरिणामेषु संयमाद्योगिनां भवत्यतीतानागतज्ञानम् । धारणाध्यानसमाधित्रयमेकत्र संयम उक्तः । तेन

परिणामत्रयं साक्षात्क्रियमाणमतीतानागतज्ञानं तेषु संपादयति ।

॥३.१७॥ तत्र वाग्वर्णेष्वेवार्थवती । श्रोत्रं च ध्वनिपरिणाममात्रविषयम् । पदं पुनर्नादानुसंहारबुध्दिनिग्राह्यमिति । वर्णा

कसमयासंभवित्वात्परस्परनिरनुग्रहात्मानस्ते पदमसंस्पूश्यानुपस्थाप्याऽऽविर्भूतास्तिरोभूताश्चेति प्रत्येकमपदस्वरूपा उच्यन्ते ।

वर्णः पुनरेकैकः पदात्मा सर्वाभिधानशक्तिप्रचितः सहकारिवर्णान्तरप्रतियोगित्वाद्वैश्वरूप्यमिवाऽऽपन्नः पूर्वश्चोत्तरेणोत्तरश्च पूर्वेण

विशेषेऽवस्थापित इत्येवं बहवो वर्णाः क्रमानुरोधिनोऽर्थसंकेतेनावच्छिन्ना इयन्त ते सर्वाभिधानशक्तिपरिवृता

गकारौकारविसर्जनीयाः सास्नादिमन्तमर्थं द्योतयन्तीति । तदेतेषामर्थंसंकेतेनावच्छिन्नानामुपसंहृतध्वनिक्रमाणां य को

बुध्दिनिर्भासस्तत्पदं वाचकं वाच्यस्य संकेत्यते । तदेकं पदमेकबुध्दिविषयमेकप्रयत्नक्षिप्तमभागमक्रमवर्णं

बौध्दमन्त्यवर्णप्रत्ययव्यापारोपस्थापितं परत्र प्रतिपिपादयिषया वर्णैरेवाभिधीयमानैः श्रूयमाणैश्च

श्रोतृभिरनादिवाग्व्यवहारवासनानुविध्दया लोकबुद्ध्या सिध्दवत्संप्रतिपत्त्या प्रतीयते । तस्य संकेतबुध्दितः प्रविभागः

तावतामेवंजातीयकोऽनुसंहार कस्यार्थस्य वाचक इति । संकेतस्तु पदपदार्थयोरितरेतराध्यासरूपः स्मृत्यात्मको योऽयं शब्दः

सोऽयमर्थो योऽयमर्थः सोऽयं शब्द इति । वमितरेतराध्यासरूपः संकेतो भवतीति । वमेते शब्दार्थप्रत्यया इतरेतराध्यासात्संकीर्णा

गौरिति शब्दो गौरित्यर्थो गौरिति ज्ञानम् । य षां प्रविभागज्ञः स सर्ववित् । सर्वपदेषु चास्ति वाक्यशक्तिर्वृक्ष इत्युक्तेऽस्तीति

गभ्यते । न सत्तां पदार्थो व्यभिचरतीति । तथा न ह्यसाधना क्रियाऽस्तीति । तथा च पचतीत्युक्ते सर्वाकारकाणामाक्षेपो

नियमार्थोऽनुवादः कर्तृकरणकर्मणां चैत्राग्नितण्डुलानामिति । दृष्टं च वाक्यार्थे पदरचनं श्रोत्रियश्छन्दोऽधीते, जीवति

प्राणान्धारयति । तत्र वाक्ये पदाथाभिव्यक्तिस्ततः पदं प्रविभज्य व्याकरणीयं क्रियावाचकं वा कारकवाचकं वा । अन्यथा

भवत्यश्वोऽजापय इत्येवमादिषु नामाख्यातसारूप्यादनिज्र्ञातं कथं क्रियायां कारके वा व्याक्रियेतेति । तेषां शब्दार्थप्रत्ययानां

प्रविभागः । तद्यथा श्वेतते प्रासाद इति क्रियार्थः, श्वेतः प्रासाद इति कारकार्थः शब्दः, क्रियाकारकात्मा तदर्थः प्रत्ययश्च ।

कस्मात् । सोऽयमित्यभिसंबन्धादेकाकार व प्रत्ययः संकेत इति । यस्तु श्वेतोऽर्थः स शब्दप्रत्यययोरालम्बनीभूतः । स हि

स्वाभिरवस्थाभिर्विक्रियमाणो न शब्दसहगतो न बुध्दिसहगतः । वं शब्द वं प्रत्ययो नेतरेतरसहगत इत्यन्यथा

शब्दोऽन्यथाऽर्थोऽन्यथा प्रत्यय इति विभागः । वं तत्प्रविभागसंयमाद्योगिनः सर्वभूतरुतज्ञानं संपद्यत इति ।

॥३.१८॥ द्वये खल्वमी संस्काराः स्मृतिक्लेशहेतवो वासनारूपा विपाकहेतवो धर्माधर्मरूपाः । ते पूर्वभवाभिसंस्कृताः

परिणामचेष्टानिरोधशक्तिजीवनधर्मवदपरिदृष्टाश्चित्तधर्माः । तेषु संयमः संस्कारसाक्षात्क्रियायै समर्थः । न च

देशकालनिमित्तानुभवैर्विना तेषामस्ति साक्षात्करणम् । तदित्थं संस्कारसाक्षात्करणात्पूर्वजातिज्ञानमुत्पद्यते योगिनः । परत्राप्येवमेव

संस्कारसाक्षात्करणात्परजातिसंवेदनम् । अत्रेदमाख्यानं श्रूयते ॥ भगवतो जैगीषव्यस्यं संस्कारसाक्षात्करणाद्दशसु महासर्गेषु

जन्मपरिणामक्रममनुपश्यतो विवेकजं ज्ञानं प्रादुरभूत । अथ भगवानावटयस्तनुधरस्तमुवाच ॥ दशसु महासर्गेषु

भव्यत्वादनभिभूतबुध्दिसत्त्वेन त्वया नरकतिर्यग्गर्भसंभवं दुःखं संपश्यता देवमनुष्येषु पुनःपुनरुत्पद्यमानेन सुखदुःखयोः

किमधिकमुपलब्धमिति भगवन्तमावटयं जैगीषव्य उवाच ॥ दशसु महासर्गेषु भव्यत्वादनभिभूतबुध्दिसत्त्वेन मया नरकतिर्यग्भवं

दुःखं संपश्यता देवमनुष्येषु पुनः पुनरुत्पद्यमानेन यत्ंकिचिदनुभूतं तत्सर्वं दुःखमेव प्रत्यवैमि । भगवानावटय उवाच --

यदिदमायुष्मतः प्रधानवशित्वमनुत्तमं च संतोषसुखं किमिदमपि दुःखपक्षे निक्षिप्तमिति । भगवाञ्जैगीषव्य उवाच --

विषयसुखापेक्षयैवेदमनुत्तमं संतोषसुखमुक्तम् कैवल्यसुखापेक्षया दुःखमेव । बुध्दिसत्त्वस्यायं धर्मस्त्रिगुणस्त्रिगुणश्च प्रत्ययो हेयपक्षे

न्यस्त इति दुःखरूपस्तृष्णातन्तुः । तृष्णादुःखसंतापापगमात्तु प्रसन्नमबाधं सर्वानुकूलं सुखमिदमुक्तमिदि ।

॥३.१९॥ प्रत्यये संयमात्प्रत्ययस्य साक्षात्करणात्ततः परचित्तज्ञानम् ।

॥३.२०॥ रक्तं प्रत्ययं जानात्यमुष्मिन्नालम्बने रक्तमिति न जानाति । परप्रत्ययस्य यदालम्बनं तद्योगिचित्तेन नाऽऽलम्बनीकृतं

परप्रत्ययमात्रं तु योगिचित्तस्यालम्बनीभूतामिति ।

॥३.२१॥ कायस्य रूपे संयमाद्रूपस्य या ग्राह्या शक्तिस्तां प्रतिष्टभ्नाति । ग्राह्यशक्तिस्तम्भे सति

चक्षुष्प्रकाशासंप्रयोगेऽऽन्तर्धानमुत्पद्यते योगिनः । तेन शब्दाद्यन्तर्धानमुक्तं वेदितव्यम् ।

॥३.२२॥ आयुर्विपाकं कर्म द्विविधं सोपक्रमं निरुपक्रमं च । तथा यथाऽऽर्द्र वस्त्रं वितानितं लघीयसा कालेन शुष्येत्तथा

सोपक्रमम् । यथा च तदेव संपिण्डितं चिरेण संशुष्येदेवं निरुपक्रमम् । यथा वाऽग्निः शुष्के कक्षे मुक्तो वातेन समन्ततो युक्तः

क्षेपीयसा कालेन दहेत्तथा सोपक्रमम् । यथा वा स वाग्निस्तृणराशौ क्रमशोऽवयवेषु न्यस्तश्चिरेण दहेत्तथा निरुपक्रमम् ।

तदैकभविकमायुष्करं कर्म द्विविधं सोपक्रमं निरुपक्रमं च । तत्संयमादपरान्तस्य प्रायणस्य ज्ञानम् । अरिष्टेभ्यो वेति ।

त्रिविधमरिष्टमाध्यात्मिकमाधिभौतिकमाधिदैविकं च । तत्राऽऽध्यात्मिकं घोषं स्वदेहे पिहितकर्णो न श्रृणोति, ज्योतिर्वा नेत्रेऽवष्टब्धे

न पश्यति । तथाऽऽधिभौतिकं यमपुरुषान्पश्यति, पितृनतीतानकस्मात्पश्यति । तथाऽऽधिदैविकं स्वर्गमकस्मात्सिध्दान्वा पश्यति ।

विपरीतं वा सर्वमिति । अनेन वा जानात्यपरान्तमुपस्थितमिति ।

॥३.२३॥ मैत्री करुणा मुदितेति तिस्रो भावनास्तत्र भूतेषु सुखितेषु मैत्रीं भावयित्वा मैत्रीबलं लभते । दुःखितेषु करुणां

भावयित्वा करुणाबलं लभते । पुण्यशीलेषु मुदितां भावयित्वा मुदिताबलं लभते । भावनातः समाधिर्यः स संयमस्ततो

बलान्यवन्ध्यवीर्याणि जायन्ते । पापशीलेषूपेक्षा न तु भावना । ततश्च तस्यां नास्ति समाधिरित्यतो न बलमुपेक्षातस्तत्र

संयमाभावादिति ।

॥३.२४॥ हस्तिबले संयमाध्दस्तिबलो भवति । वैनतेयबले संयमाद्वैनतेय बलो भवति । वायुबले संयमाद्वायुबलो भवतीत्येवमादि ।

॥३.२५॥ ज्योतिष्मती प्रवृत्तिरुक्ता मनसस्तस्यां च आलोकस्तं योगी सूक्ष्मे वा व्यवहिते वा विप्रकृष्टे वाऽर्थे विन्यस्य

तमर्थमधिगच्छति ।

॥३.२६॥ तत्प्रस्तारः सप्त लोकाः । तत्रावीचेः प्रभृति मेरुपृष्ठं यावदित्येवं भूर्लोकः मेरुपृष्ठादारभ्य --

आध्रुवाद्ग्रहनक्षत्रताराविचित्रोऽन्तरिक्षलोकः । ततः परः स्वर्लोकः पञ्चविधो माहेन्द्रस्तृतीयो लोकः । चतुर्थः प्राजापत्यो महर्लोकः

त्रिविधो ब्राह्मः । तद्यथा ॥ जनलोकस्तपोलोकः सत्यलोक इति । ब्राह्मस्त्रिभूमिको लोकः प्राजापत्यस्ततो महान् । माहेन्द्रश्च

स्वरित्युक्तो दिवि तारा भुवि प्रजाः॥ इति संग्रहश्लोकः । तत्रावीचेरुपर्युपरि निविष्टाः षण्महानरकभूमयो

घनसलिलानलानिलाकाशतमः प्रतिष्ठा महाकालाम्बरीषरौरवमहारौरवकालसूत्रान्धतामिस्राः । यत्र स्वकर्मोपार्जितदुःखवेदनाः

प्राणिनः कष्टमायुर्दीर्घमाक्षिप्य जायन्ते । ततो महातलरसातलातलसुतलवितलतलातलपातालाख्यानि सप्त पातालानि ।

भूमिरियमष्टमी सप्तद्वीपा वसुमती, यस्याः सुमेरुर्मध्ये पर्वतराजः काञ्चनः । तस्य राजतवैदूर्यस्फटिकहेममणिमयानि शृङ्गाणि ।

तत्र वैदूर्यप्रभानुरागान्नीलोत्पलपत्रश्यामो नभसो दक्षिणो भागः, श्वेतः पूर्वः, स्वच्छः पश्चिमः, कुरण्टकाभ उत्तरः । दक्षिणपर्ाश्वे

चास्य जम्बूर्यतोऽयं जम्बूद्वीपः । तस्य सूर्यप्रचाराद्रात्रिंदिवं लग्नमिव वर्तते । तस्य नीलश्वेतशृङ्गवन्त उदीचीनास्त्रयः पर्वता

द्विसाहस्रायामाः । तदन्तरेषु त्रीणि वर्षाणि नव नव योजनसाहस्राणि रमणकं हिरण्मयमुत्तराः कुरव इति । निषधहेमकूटहिमशैला

दक्षिणतो द्विसाहस्रायामाः । तदन्तरेषु त्रीणि वर्षाणि नव नव योजनसाहस्राणि हरिवर्षं किंपुरुषं भारतमिति । सुमेरोः प्राचीना

भद्राश्वमाल्यवत्सीमानः प्रतीचीनाः केतुमाला गन्धमादनसीमानः । मध्ये वर्षमिलावृतम् । तदेतद्योजनशतसाहस्रं सुमेरोर्दिशिदिशि

तदर्धेन व्यूढम् । स खल्वयं शतसाहस्रायामो जम्बूद्वीपस्ततो द्विगुणेन लवणोदधिना वलयाकृतिना वेष्टितः । ततश्च द्विगुणा

द्विगुणाः शाककुशक्रौञ्चशाल्मगोमेधपुष्करद्वीपाः, समुद्राश्च सर्षपराशिकल्पाः सविचित्रशैलावतंसा

इक्षुरससुरासर्पिर्दधिमण्डक्षीरस्वादूदकाः । सप्त समुद्रपरिवेष्टिता वलयाकृतयो लोकालोकपर्वतपरिवाराः

पञ्चाशद्योजनकोटिपरिसंख्याताः । तदेतत्सर्वं सुप्रतिष्ठितसंस्थानमण्डमध्ये व्यूढम् । अण्डं च प्रधानस्याणुरवयवो यथाऽऽकाशे

खद्योत इति । तत्र पाताले जलधौ पर्वतेष्वेतेषु देवनिकाया

असुरगन्धर्वकिन्नरकिंपुरुषयक्षराक्षसभूतप्रेतपिशाचापस्मारकाप्सरोब्रह्मराक्षसकूष्माण्डविनायकाः प्रतिवसन्ति । सर्वेषु द्वीपेषु

पुण्यात्मनो देवमनुष्याः । सुमेरुस्त्रिदशानामुद्यानभूमिः तत्र मिश्रवनं नन्दनं चैत्ररथं सुमानसमित्युद्यानानि । सुधर्मा देवसभा ।

सुदर्शनं पुरम् । वैजयन्तः प्रासादः । ग्रहनक्षत्रताराकास्तु ध्रुवे निबध्दा वायुविक्षेपनियमेनोपलक्षितप्रचाराः सुमेरोरुपर्युपरि संनिविष्टा

दिवि विपरिवर्तन्ते । माहेन्द्रनिवासिनः षड्देवनिकायाः ॥ त्रिदशा अग्निष्वात्ता याम्यास्तुषिता अपरिनिर्मितवशवर्तिनः

परिनिर्मितवशवर्तिनश्चेति । सर्वे संकल्पसिध्दा अणिमाद्यैश्वर्योपपन्नाः कल्पायुषो वृन्दारकाः कामभोगिन औपपादिकदेहा

उत्तमानुकूलाभिरप्सरोभिः कृतपरिचाराः । महति लोके प्राजापत्ये पञ्चविधो देवनिकायः ॥ कुमुदा

भवः प्रतर्दना अञ्जनाभाः प्रचिताभा इति । ते महाभूतवशिनो ध्यानहाराः अल्पसहस्रायुषः । प्रथमे ब्रह्मणो जनलोके चतुर्विधो

देवनिकायो ब्रह्मपुरोहिता ब्रह्मकायिका ब्रह्ममहाकायिका अमरा इति ते भूतेन्द्रियवशिनो द्विगुणद्विगुणोत्तरायुषः । द्वितीयो तपसि

लोके त्रिविधो देवनिकायः ॥ आभास्वरा महाभास्वराः सत्यमहाभास्वराः इति । ते भूतेन्द्रियप्रकृतिवशिनो द्विगुणद्विगुणोत्तरायुषः

सर्वे ध्यानाहारा ऊर्ध्वरेतस ऊर्ध्वमप्रतिहतज्ञाना अधरभूमिष्वनावृताज्ञानविषयाः । तृतीये ब्रह्मणः सत्यलोके चत्वारो देवनिकाया

अकृतभवनन्यासाः स्वप्रतिष्ठा उपर्युपरिस्थिताः प्रधानवशिनो यावत्सर्गीयुषः । तत्राच्युताः सवितर्कध्यानसुखाः, शुध्दनिवासाः

सविचारध्यानसुखाः, सत्याभा आनन्दमात्रध्यानसुखा, संज्ञासंज्ञिनश्चास्मितामात्रध्यानसुखाः । तेऽपि त्रैलोक्यमध्ये प्रतितिष्ठन्ति ।

त ते सप्त लोकाः सर्व व ब्रह्मलोकाः । विदेहप्रकृतिलयास्तु मोक्षपदे वर्तन्त इति न लोकमध्ये न्यस्ता इति । तद्योगिना

साक्षात्करणीयं सूर्य द्वारे संयम कृत्वा, ततोऽन्यत्रापि वं तावदभ्यसेद्यावदिदं सर्वं दृष्टमिति ।

॥३.२७॥ चन्द्रे संयमं कृत्वा ताराणां व्यूहं विजानीयात् ।

॥३.२८॥ ततो ध्रुवे संयमं कृत्वा ताराणां गतिं विजानीयात् । ऊर्ध्वविमानेषु कृतसंयमस्तानि विजानीयात् ।

॥३.२९॥ नाभिचक्रे संयमं कृत्वा कायव्यूहं विजानीयात् । वातपित्तश्लेष्माणस्त्रयो दोषाः । धातवः सप्त

त्वग्लोहितमांसस्नाय्वस्थिमज्जाशुक्राणि । पूर्वं पूर्वमेषां बाह्यमित्येष विन्यासः ।

॥३.३०॥ जिह्वाया अधस्तात्तन्तुस्तन्तोरधस्तात्कण्ठस्ततोऽधस्तात्कूपस्तत्र संयमात्क्षुत्पिपासे न बाधेते ।

॥३.३१॥ कूपादध उरसिकूर्माकारानाड़ी, तस्यां कृतसंयमः स्थिरपदं लभते । यथा सर्पो गोधा चेति ।

॥३.३२॥ शिरः कपालेऽन्तश्चिद्रं प्रभास्वरं ज्योतिस्तत्र संयमं कृत्वा सिध्दानां द्यावापृथिव्योरन्तरालचारिणां दर्शनम् ।

॥३.३३॥ प्रातिभं नाम तारकं तद्विवेकजस्य ज्ञानस्य पूर्वरूपम् । यथोदये प्रभा भास्करस्य । तेन वा सर्वमेव जानाति योगी

प्रातिभस्य ज्ञानस्योत्पत्ताविति ।

॥३.३४॥ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म तत्र विज्ञानं तस्मिसंयमाच्चित्तसंवित् ।

॥३.३५॥ बुध्दिसत्त्वं प्रख्याशीलं समानसत्त्वोपनिबन्धने रजस्तमसी वशीकृत्य सत्त्वपुरुषान्यताप्रत्ययेन परिणतम् । तस्माच्च

सत्त्वात्परिणामिनोऽत्यन्तविधर्मा विशुध्दोऽन्यश्चितिमात्ररूपः पुरुषः । तयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः पुरुषस्य

दर्शितविषयत्वात् । स भोगप्रत्ययः सत्त्वस्य परार्थत्वाद्दृश्यः । यस्तु तस्माद्विशिष्टश्चितिमात्ररूपोऽन्यः पौरुषेयः प्रत्ययस्तत्र

संयमात्पुरुषविषया प्रज्ञा जायते । न च पुरुषप्रत्ययेन बुध्दिसत्त्वात्मना पुरुषो दृश्यते पुरुष व तं प्रत्ययं स्वात्मावलम्बनं पश्यति ।

तथा ह्युक्तम् ॥ विज्ञातारमरे

॥३.३६॥ प्रातिभात्सूक्ष्मव्यवहितविप्रकृष्टातीतानागतज्ञानम् । श्रावणाद्दिव्यशब्दश्रवणम् । वेदनाद्दिव्यस्पर्शाधिगमः ।

आदर्शाद्दिव्यरूपसंवित् । आस्वादाद्दिव्यरससंवित् । वार्तातो दिव्यगन्धविज्ञानमित्येतानि नित्यं जायन्ते ।

॥३.३७॥ ते प्रातिभादयः समाहितचित्तस्योत्पद्यमाना उपसर्गास्तद्दर्शनप्रत्यनीकत्वात् । व्युत्थितचित्तस्योत्पद्यमानाः सिध्दयः ।

॥३.३८॥ लोलीभूतस्य मनसोऽप्रतिष्ठस्य शरीरे कर्माशयवशाद्बन्धः प्रतिष्ठेत्यर्थः । तस्य कर्मणो बन्धकारणस्य शैथिल्यं

समाधिबलाद्भवति । प्रचारसंवेदनं च चित्तस्य समादिजमेव । कर्मबन्धक्षयात्स्वचित्तस्य प्रचारसंवेदनाच्च योगी चित्तं

स्वशरीरान्निष्कृष्य शरीरान्तरेषु निक्षिपति । निक्षिप्तं चित्तं चेन्द्रियाण्यनु पतन्ति । यथा मधुकरराजानं मक्षिका उत्पतन्तमनूत्पतन्ति

निविशमानमनु निविशन्ते तथेन्द्रियाणि परशरीरावेशे चित्तमनु विधियन्त इति ।

॥३.३९॥ समस्तेन्द्रियवृत्तिः प्राणादिलक्षणा जीवनं, तस्य क्रिया पञ्चतयी प्राणो मुखनासिकागतिराहृदयवृत्तिः । समं

नयनात्समानश्चाऽऽनाभिवृत्तिः । अपनयनादपान आपादतलवृत्तिः । उन्नयनादुदान आशिरोवृत्तिः । व्यापी व्यान इति । षां प्रधानं

प्राणः । उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च प्रयाणकाले भवति । तां वशित्वेन प्रतिपद्यते ।

॥३.४०॥ जितसमानस्तेजस उपध्मानं कृत्वा ज्वलयति॥

॥३.४१॥ सर्वश्रोत्राणामाकाशं प्रतिष्ठा सर्वशब्दानां च । यथोक्तम् ॥ तुल्यदेशश्रवणानामेकदेशश्रुतित्वं सर्वेषां भवतीति ।

तच्चैतदाकाशस्य लिङ्गम् । अनावरणं चोक्तम् । तथाऽमूर्तस्याप्यन्यत्रानावरणदर्शनाद्विभूत्वमपि प्रख्यातमाकाशस्य ।

शब्दग्रहणनिमित्तं श्रोत्रम् । बधिराबधिरयोरेकः शब्दं गृह्णात्यपरो न गृह्णातीति । तस्माच्छ्रोत्रमेव शब्द विषयम् । श्रोत्राकाशयोः

संबन्धे कृतसंयमस्य योगिनो दिव्यं श्रोत्रं प्रवर्तते ।

॥३.४२॥ यत्र कायस्तत्राऽऽकाशं तस्यावकाशदानात्कायस्य तेन सम्बन्धः प्राप्तिस्तत्र कृतसंयमो जित्वा तत्संबन्धं लघुषु वा

तूलादिष्वा परमाणुभ्यः समापत्तिं लब्ध्वा जितसंबन्धो लघुर्भवति । लघुत्वाच्च जले पादाभ्यां विहरति । ततस्तूर्णनाभितन्तुमात्रे

विहृत्य रश्मिषु विहरति । ततो यथेष्टमाकाशगतिरस्य भवतीति ।

॥३.४३॥ शरीराद्बहिर्मनसो वृत्तिलाभो विदेहा नाम धारणा । सा यदि शरीरप्रतिष्ठस्य मनसो बहिर्वृत्तिमात्रेण भवति सा

कल्पितेत्युच्यते । या तु शरीर निरपेक्षा बहिर्भूतस्यैव मनसो बहिर्वृत्तिः सा खल्वकल्पिता । तत्र कल्पितया साधयन्त्यकल्पितां

महाविदेहामिति । यया परशरीराण्याविशन्ति योगिनः । ततश्च धारणातः प्रकाशात्मनो बुध्दिसत्त्वस्य यदावरणं

क्लेशकर्मविपाकत्रयं रजस्तमोमूलं तस्य च क्षयो भवति ।

॥३.४४॥ तत्र पार्थिवाद्याः शब्दादयो विशेषाः सहाऽऽकारादिभिर्धर्मैः स्थूलशब्देन परिभाषिताः । तद्भूतानां प्रथमं रूपम् । द्वितीयं

रूपं स्वसामान्यं मूर्तिर्भूमिः स्नेहो जलं वह्निरुष्णता वायुः प्रणामी सर्वतोगतिराकाश इत्येतत्स्वरूपशब्देनोच्यते । अस्य

सामान्यस्य शब्दादयो विशेषाः । तथा चोक्तम् ॥ कजातिसमन्वितानामेषां धर्ममात्रव्यावृत्तिरिति । सामान्यविशेषसमुदायोऽत्र

द्रव्यम् । द्विष्ठो हि समूहः प्रत्यस्तमितभेदावयवानुगतः शरीरं वृक्षो यूथं वनमिति । शब्देनोपात्तभेदावयवानुगतः समूह उभये

देवमनुष्याः । समूहस्य देवा को भागो मनुष्या द्वितीयो भागस्ताभ्यामेवाभिधीयते समूहः । स च भेदाभेदविवक्षितः । आम्राणां वनं

ब्राह्मणानां संघ आम्रवणं ब्राह्मणसंघ इति । स पुनर्द्विविधो युतसिध्दावयवोऽयुतसिध्दावयवश्च  । युतसिध्दावयवः समूहो वनं सघं

इति । अयुतसिध्दावयवः संघातः शरीरं वृक्षः परमाणुरिति । अयुतसिध्दावयवभेदानुगतः समूहो द्रव्यमिति पतञ्जलिः ।

तत्स्वरूपमित्युक्तम् । अथ किमेषां सूक्ष्मरूपं, तन्मात्रं भूतकारणं, तस्यैकोऽवयवः परमाणुः

सामान्यविशेषात्माऽयुतसिध्दावयवभेदानुगतः समुदाय इत्येवं सर्वतन्मात्राण्येतत्तृतीयम् । अथ भूतानां चतुर्थं रूपं

ख्यातिक्रियास्थितिशीला गुणाः कार्यस्वभावानुपातिनोऽन्वयशब्देनोक्ताः । अथैषां पञ्चमं रूपमर्थवत्त्वं, भोगापवर्गार्थता

गुणेष्वेवान्वयिनी, गुणास्तन्मात्रभूतभौतिकेष्विति सर्वमर्थवत् । तेष्विदानीं भूतेषु पञ्चषु पञ्चरूपेषु संयमात्तस्य तस्य रूपस्य

स्वरूपदर्शनं जयश्च प्रादुर्भवति । तत्र पञ्च भूतस्वरूपाणि जित्वा भूतजयी भवति । तज्जयाद्वत्सानुसारिण्य इव गावोऽस्य

संकल्पानुविधायिन्यो भूतप्रकृतयो भवन्ति ।

॥३.४५॥ १ ॥ तत्राणिमा भवत्यणुः । २ ॥ लघिमा लघुर्भवति । ३ ॥ महिमा महान्भवति । ४ ॥ प्राप्तिरङ्गुल्यग्रेणापि स्पृशति

चन्द्रमसम् । ५ ॥ प्राकाम्यमिच्छानभिघातः । भूमावुन्मज्जति निमज्जति यथोदके । ६ ॥ वशित्वं भूतभौतिकेषु वशी

भवत्यवश्यश्चान्येषाम् । ७ ॥ ईशितृत्वं तेषां प्रभवाव्ययव्यूहानामीष्टे॥ ८ ॥ यत्र कामावसायित्वं सत्यसंकल्पता यथा

संकल्पस्तथा भूतप्रकृतीनामवस्थानम् । न च शक्तोऽपि पदार्थविपर्यासं करोति । कस्मात् । अन्यस्य यत्र कामावसायिनः

पूर्वसिध्दस्य तथा भूतेषु संकल्पादिति । तान्यष्टावैश्वर्याणि । कायसंपद्वक्ष्यमाणा । तध्दर्मानभिघातश्च पृथ्वी मर्ूत्या न निरुणाध्दिः

योगिनः शरीरादिक्रियां, शिलामप्यनुविशतीति । नाऽऽपः स्निग्धाः क्लेदयन्ति । नाग्निरुष्णो दहति । न वायु प्रणामी वहति ।

अनावरणात्मकेऽप्याकाशे भवत्यावृतकायः सिध्दानामप्यदृश्यो भवति ।

॥३.४६॥ दर्शनीयः कान्तिमानतिशयबलो वज्रसंहननश्चेति ।

॥३.४७॥ सामान्यविशेषात्मा शब्दादिर्ग्राह्यः । तेष्विन्द्रियाणां वृत्तिर्ग्रहणम् । न च तत्सामान्यमात्रग्रहणाकारं कथमनालोचितः स

विषय विशेष इन्द्रियेण मनसाऽनुव्यवसीयेतेति । स्वरूपं पुनः प्रकाशात्मनो बुध्दिसत्त्वस्य

सामान्यविशेषयोरयुतसिध्दावयवभेदानुगतः समूहो द्रव्यमिन्द्रियम् । तेषां तृतीयं रूपमस्मितालक्षणोऽहंकारः । तस्य

सामान्यस्येन्द्रियाणि विशेषाः । चतुर्थं रूपं व्यवसायात्मकाः प्रकाशक्रियास्थितिशीला गुणा येषामिन्द्रियाणि साहंकाराणि

परिणामः । पञ्चमं रूपं गुणेषु यदनुगतं पुरुषार्थवत्त्वमिति । पञ्चस्वेतेष्विन्द्रियरूपेषु यथाक्रमं संयमस्तत्र तत्र जयं कृत्वा

पञ्चरूपजयादिन्द्रियजयः प्रादुर्भवति योगिनः ।

॥३.४८॥ कायस्यानुत्तमो गतिलाभो मनोजवित्वम् । विदेहानामिन्द्रियाणामभिप्रेतदेशकालविषयापेक्षो वृत्तिलाभो विकरणभावः ।

सर्वप्रकृतिविकारवशित्वं प्रधानजय इत्येतास्तिस्रः सिध्दयो मधुप्रतीका उच्यन्ते । ताश्च करणपञ्चरूपजयादधिगम्यन्ते ।

॥३.४९॥ निर्धूतरजस्तमोमलस्य बुध्दिसत्त्वस्य परे वैशारद्ये परस्यां वशीकारसंज्ञायां वर्तमानस्य

सत्त्वपुरुषान्यताख्यातिमात्ररूपप्रतिष्ठस्य सर्वभावाधिष्ठातृत्वम् । सर्वात्मानो गुणा व्यवसायव्यवसेयात्मकाः स्वामिनं क्षेत्रज्ञं

प्रत्यशेषदृश्यात्मत्वेनोपस्थिता इत्यर्थः । सर्वज्ञातृत्वं सर्वात्मनां गुणानां शान्तोदिताव्यपदेश्यधर्मत्वेन व्यवस्थितानामक्रमोपारूढं

विवेकजं ज्ञानमित्यर्थः । इत्येषा विशोका नाम सिध्दिर्यां प्राप्य योगी सर्वज्ञः क्षीणक्लेशबन्धनो वशी विहरति ।

॥३.५०॥ यदाऽस्यैवं भवति क्लेशकर्मक्षये सत्त्वस्यायं विवेकप्रत्ययो धर्मः सत्त्वं च हेयपक्षे न्यस्तं पुरुषश्चापरिणामी शुध्दोऽन्यः

सत्वादिति । वमस्य ततो विरज्यमानस्य यानि क्लेशबीजनि दग्धशालिबीजकल्पान्यप्रसवसमर्थानि तानि सह मनसा प्रत्यस्तं

गच्छन्ति । तेषु प्रलीनेषु पुरुषः पुनरिदं तापत्रयं न भुङ्क्ते । तदेतेषां गुणानां मनसि कर्मक्लेशविपाकस्वरूपेणाभिव्यक्तानां

चरितार्थानाम् प्रतिप्रसवे पुरुषस्याऽऽत्यन्तिको गुणवियोगः कैवल्यम्, तदा स्वरूपप्रतिष्ठा चितिशक्तिरेव पुरुष इति ।

॥३.५१॥ चत्वारः खल्वमी योगिनः प्रथमकल्पिको मधुभूमिकः प्रज्ञाज्योतिरतिक्रान्तभावनीयश्चेति । तत्राभ्यासी प्रवृत्तमात्रज्योतिः

प्रथमः ।

तंभरप्रज्ञो द्वितीयः । भूतेन्द्रियजयी तृतीय सर्वेषु भावितेषु भावनीयेषु कृतरक्षाबन्धः कर्तव्यसाधनादिमान् । चतुर्थो

यस्त्वतिक्रान्तभावनीयस्तस्य चित्तप्रतिसर्ग कोऽर्थः । सप्तविधाऽस्य प्रान्तभूमिप्रज्ञा । तत्र मधुमतीं भूमिं साक्षात्कुर्वतो ब्राह्मणस्य

स्थानिनो देवाः सत्त्वविशुध्दिमनुपश्यन्तः स्थानैरुपनिमन्त्रयन्ते भो इहाऽऽस्यतामिह रन्यतां । कमनीयोऽयं भोगः कमनीयेयं

कन्या रसायनमिदं जरामृत्युं बाधते वैहायसमिदं यानममी कल्पद्रुमाः पुण्या मन्दाकिनी सिध्दा महर्षय उत्तमा अनुकूला अप्सरसो

दिव्ये श्रोत्रचक्षुषी वज्रोपमः कायः स्वगुणैः सर्वमिदमुपार्जितमायुष्मताप्रतिपद्यतामिदमक्षयमजरममरस्थानं देवानां प्रियमितिट

एवमभिधीयमानः सङ्गदोषान्भावयेद्धोरेषु संसाराङ्गारेषु पच्यमानेन मया जननमरणान्धकारे विपरिवर्तमानेन कथंचिदासादितः

क्लेशतिमिरविनाशी योगप्रदीपस्तस्य चैते तृष्णायोनयो विषयवायवः प्रतिपक्षाः । स खल्वहं लब्धालोकः कथमनया

विषयमृगतृष्णया वञ्चितस्तस्यैव पुनः प्रदीप्तस्य संसाराग्नेरात्मानमिन्धनी कुर्यामिति । स्वस्ति वः स्वप्नोपमेभ्यः

कृपणजनप्रार्थनीयेभ्यो विषयेभ्य इत्येवं निश्चितमतिः समाधिं भावयेत् । सङ्गमकृत्वा स्मयमपि न कुर्यादेवमहं देवानामपि

प्रार्थनीय इति । स्मयादयं सुस्थितंमन्यतया मृत्युना केशेषु गृहीतमिवाऽऽत्मानं न भावयिष्यति । तथा चास्य छिन्द्रान्तरप्रेक्षी नित्यं

यत्नोपचर्यः प्रमादो लब्धविवरः क्लेशानुत्तम्भाविष्यति ततः पुनरनिष्टप्रसङ्गः । वमस्य सङ्गस्मयावकुर्वतो भावितोऽर्थो दृढी

भविष्यति । भावनीयश्चार्थोऽभिमुखी भविष्यतीति ।

॥३.५२॥ यथाऽपकर्षपर्यन्तं द्रव्यं परमाणुरेवं परमापकर्षपर्यन्तः कालः क्षणः यावता वा समयेन चलितः परमाणुः पूर्वदेशं

जह्यादुत्तरदेशमुपसंपद्येत स कालः क्षणः । तत्प्रवाहाविच्छेदस्तु क्रमः । क्षण तत्क्रमयोर्नास्ति वस्तुसमाहार इति बुध्दिसमाहारो

मुहूर्ताहोरात्रादयः । स खल्वयं कालो वस्तुशून्योऽपि बुध्दिनिर्माणः शब्दज्ञानानुपाती लौकिकानां व्युत्थितदर्शनानां वस्तुस्वरूप

इवावभासते । क्षणस्तु वस्तुपतितः क्रमावलम्बी क्रमश्च क्षणानन्तयात्मा तं कालविदः काल इत्याचक्षते योगिनः । नच द्वौ क्षणौ

सह भवतः । क्रमश्च न द्वयोः सहभुवोरसंभवात् । पूर्वस्मादुत्तरभाविनो यदानन्तर्यं क्षणस्य स क्रमः । तस्माद्वर्तमान वैकः क्षणो न

पूर्वोत्तरक्षणाः सन्तीति । तस्मान्नास्ति तत्समाहारः । ये तु भूतभाविनः क्षणास्ते परिणामान्विता व्याख्येयाः । तेनैकेन क्षणेन कृत्स्नो

लोकः परिणाममनुभवति । तत्क्षणोपारूढाः खल्वमी सर्वे धर्माः । तयोः क्षणतत्क्रमयोः संयमात्तयोः साक्षात्करणम् । ततश्च

विवेकजं ज्ञानं प्रादुर्भवति । तस्य विषयविशेष उपक्षिप्यन्ते --

॥३.५३॥ तुल्ययोर्देशलक्षणसारूप्ये जातिभेदोऽन्यताया हेतुः, गौरियं वडवेयमिति । तुल्यदेशजातीयत्वे लक्षणमन्यत्वकरं

कालाक्षी गौः स्वस्तिमती गौरिति । द्वयोरामलकयोर्जातिलक्षणसारूप्याद्देशभेदोऽन्यत्वकर इदं पूर्वमिदमुत्तरमिति । यदा तु

पूर्वमामलकमन्यव्यग्रस्य ज्ञातुरुत्तरदेश उपावर्त्यते तदा तुल्यदेशत्वे पूर्वमेतदुत्तरमेतदितिप्रविभागानुपपत्तिः । असंदिग्धेन च

तत्वज्ञानेन भवितव्यमित्यत इदमुक्तं ततः प्रतिपत्तिर्विवेकज्ञानादिति । कथं, पूर्वामलकसहक्षणो देश

उत्तरामलकसहक्षणाद्देशाद्भिन्नः । ते चाऽऽमलके स्वदेशक्षणानुभवभिन्ने । अन्यदेशक्षणानुभवस्तु तयोरन्यत्वे हेतुरिति । तेन

दृष्टान्तेन परमाणोस्तुल्यजातिलक्षणदेशस्य पूर्वपरमाणुदेशसहक्षणसाक्षात्करणादुत्तरस्य परमाणोस्तद्देशानुपपत्तावुत्तरस्य

तद्देशानुभवो भिन्नः सहक्षणभेदात्तयोरीश्वरस्य योगिनोऽन्यत्वप्रत्ययो भवतीति । अपरे तु वर्णयन्ति ॥ येऽन्त्या

विशेषास्तेऽन्यताप्रत्ययं कुर्वन्तीति । तत्रापि देशलक्षणभेदो मूर्तिव्यवधिजातिभेदश्चान्यत्वे हेतुः । क्षणभेदस्तु योगिबुध्दिगम्य वेति ।

अत उक्तं मूर्तिव्यवधिजातिभेदाभावान्नास्ति मूलपृथक्त्वमिति वार्षगण्यः ।

॥३.५४॥ तारकमिति स्वप्रतिभोत्थमनौपदेशिकमित्यर्थः । सर्वविषयं नास्य किंचिदविषयीभूतमित्यर्थः ।

सर्वथाविषयमतीतानागतप्रत्युत्पन्नं सर्वं पर्यायैः सर्वथा जानातीत्यर्थः । अक्रममित्येकक्षणोपारूढं सर्वं सर्वथा गृह्णातीत्यर्थः ।

तद्विवेकजं ज्ञानं परिपूर्णम् । अस्यैवांशो योगप्रदीपो मधुमतीं भूमिमुपादाय यावदस्य परिसमाप्तिरिति ।

प्राप्तविवेकजज्ञानस्याप्राप्तविवेकजज्ञानस्य वा --

॥३.५५॥ यदा निर्धूतरजस्तमोमलं बुध्दिसत्त्वं पुरुषस्यान्यताप्रतीतिमात्राधिकारं दग्धक्लेशबीजं भवति तदा पुरुषस्य

शुध्दिसारूप्यमिवाऽऽपन्नं भवति, तदा पुरुषस्योपचरितभोगाभावः शुध्दिः । तस्यामवस्थायां कैवल्यं भवतीश्वरस्यानीश्वरस्य वा

विवेकजज्ञानभागिन इतरस्य वा । नहि दग्धक्लेशबीजस्य ज्ञाने पुनरपेक्षा काचिदस्ति । सत्वशुध्दिद्वारेणैतत्समाधिजमैश्वर्यं ज्ञानं

चोपक्रान्तम् । परमार्थतस्तु ज्ञानादर्दशनं निवर्तते तस्मिन्निवृते न सन्त्युत्तरे क्लेशाः । क्लेशाभावात्कर्मविपाकाभावः ।

चरिताधिकाराश्चैतस्यामवस्थायां गुणा न पुरुषस्य पुनर्दृश्यत्वेनोपतिष्ठन्ते । तत्पुरुषस्य कैवल्यं, तदा पुरुषः

स्वरूपमात्रज्योतिरमलः केवली भवति ।

इति श्री पातञ्जले सांख्यप्रवचने योगशास्त्रे श्रीमद्व्यासभाष्ये तृतीयः विभूतिपादः॥३॥
Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-10-04T09:16:26.3770000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

hyperholic angle

  • अपास्तिक कोन 
RANDOM WORD

Did you know?

पत्नीला अर्धांगिनी कां म्हणतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.