TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

व्यास भाष्य - साधनापादः

प्रस्तुत ग्रंथात हठ योगासंबंधी विस्तृत माहिती देण्यात आलेली आहे.


साधनापादः
॥२.१॥ नातपस्विनो योगः सिध्यति । अनादिकर्मक्लेशवासनाचित्रा प्रत्युपस्थितविषयजाला चाशुध्दिर्नान्तरेण तपः

संभेदमापद्यत इति तपस उपादानम् । तच्च चित्तप्रसादनमबाधमानमनेनाऽऽसेव्यमिति मन्यते । स्वाध्यायः प्रणवादिपवित्राणां जपो

मोक्षशास्त्राध्ययनं वा । ईश्वरप्रणिधानं सर्वक्रियाणां परमगुरावर्पणं तत्फलसंन्यासो वा । स हि क्रियायोगः --

॥२.२॥ स ह्यासेव्यमानः समाधि भावयति क्लेशांश्च प्रतनू करोति । प्रतनूकृतान्क्लेशान्प्रसंख्यानाग्निना

दग्धबीजकल्पानप्रसवधमिणः करिष्यतीति । तेषां तनूकरणात्पुनः क्लेशैरपरामृष्टा सत्त्वपुरुषान्यतामात्रख्यातिः सूक्ष्मा प्रज्ञा

समाप्ताधिकारा प्रतिप्रसवाय कल्पिष्यत इति । अथ के क्लेशाः कियन्तो वेति --

॥२.३॥ क्लेशा इति पञ्च विपर्यया इत्यर्थः । ते स्यन्दमाना गुणाधिकारदृढयन्ति, परिणाममवस्थापयन्ति, कार्यकारणस्रोत

उन्नमयन्ति, परस्परानुग्रहतन्त्री भूत्वा कर्मविपाकं चाभिनिर्हरन्तीति ।

॥२.४॥ अत्राविद्या क्षेत्रं प्रसवभूमिरुत्तरेषामस्मितादीनां चतुर्विधविकल्पानां प्रसुप्तनुविच्छिन्नोदाराणाम् । तत्र का प्रसुप्तिः । चेतसि

शक्तिमात्रप्रतिष्ठानां बीजभावोपगमः । तस्य प्रबोध आलम्बने संमुखीभावः । प्रसंख्यानवतो दग्धक्लेशबीजस्य संमुखीभूतेऽप्यालम्बने

नासौ पुनरस्ति । दग्धबीजस्य कुतः प्ररोह इति । अतः क्षीणक्लेशः कुशलश्चरमदेह इत्युच्यते । तत्रैव सा दग्धबीजभावा पञ्चमी

क्लेशावस्था नान्यत्रेति । सतां क्लेशानां तदा बीजसामर्थ्यं दग्धमिति विषयस्य संमुखीभावेऽपि सति न भवत्येषां प्रबोध इत्युक्ता

प्रसुप्तिर्दग्धबीजानामप्ररोहश्च । तनुत्वमुच्यते ॥ प्रतिपक्षभावनोपहताः क्लेशास्तनवो भवन्ति । तथा विच्छिद्य विच्छिद्य तेन

तेनाऽऽत्मना पुनः पुनः समुदाचरन्तीति विच्छिन्न । कथं, रागकाले क्रोधस्यादर्शनात् । न हि रागकाले क्रोधः समुदाचरति ।

रागश्च क्वचिद्दृश्यमानो न विषयान्तरे नास्ति । नैकस्यां स्त्रियां चैत्रो रक्त इत्यन्यासु स्त्रीषु विरक्तः किं तु तत्र रागो

लब्धवृत्तिरन्यत्र तु भविष्यद्वृत्तिरिति । स हि तदा प्रसुप्ततनुविच्छिन्नो भवति । विषये यो लब्धवृत्तिः स उदारः । सर्व वैते

क्लेशविषयत्वंनातिक्रामन्ति । कस्तर्हि विच्छिन्नः प्रसुप्तस्तनुरुदारो वा क्लेश इति । उच्यते ॥ सत्यमेवैतत्, किंतु

विशिष्टानामेवैतेषां विच्छिन्नादित्वम् । यथैव प्रतिपक्षभावनातो निवृत्तस्तथैव स्वव्यञ्जकाञ्जनेनाभिव्यक्त इति । सर्व वामी क्लेशा

अविद्याभेदाः । कस्मात्, सर्वेष्वविद्यैवाभिप्लवते । यदविद्यया वस्त्वाकार्यत तदेवानुशेरते क्लेशा विपर्यासप्रत्ययकाल उपलभ्यन्ते

क्षीयमाणां चाविद्यामनु क्षीयन्त इति । तत्राविद्यास्वरूपमुच्यते --

॥२.५॥ अनित्ये कार्ये नित्यख्यातिः । तद्यथा ॥ ध्रुवा पृथिवी, ध्रुवा सचन्द्रतारका द्यौः । अमृता दिवौकस इति । तथाऽशुचौ

परमबीभत्से काये ॥ स्थानाद्वीजादुपष्टम्भान्निः स्यन्दान्निधनादपि । कायमाधेयशौचत्वात्पण्डिता ह्यशुचिं विदुः॥ इति अशुचौ

शरीरे शुचिख्यातिर्दृश्यते । नवेव शशाङ्कलेखा कमनीयेयं कन्या मध्वमृतावयवनिर्मितेव चन्द्रं भित्त्वा निःसृतेव ज्ञायते,

नीलोत्पलपत्रायताक्षी हावगर्भाभ्यां लोचनाभ्यां जीवलोकमाश्वासयन्तीवेति कस्य केनाभिसंबन्धः । भवति चैवमशुचौ

शुचिविपर्यासप्रत्यय इति । तेनापुण्ये पुण्यप्रत्ययस्तथैवानर्थे चार्थ प्रत्ययो व्याख्यातः । तथा दुःखे सुखख्यातिं वक्ष्यति --

परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च

॥२.६॥ पुरुषो दृक्शक्तिर्बुध्दिर्दर्शनशक्तिरित्येतयोरेकस्वरूपापत्तिरिवास्मिता क्लेश उच्यते ।

भोक्तृभोग्यशक्त्योरत्यन्तविभक्तयोरत्यन्तसंकीर्णयोरविभागप्राप्ताविव सत्यां भोगः कल्पते । स्वरूपप्रतिलम्भे तु तयोः कैवल्यमेव

भवति कुतो भोग इति । तथा चोक्तम् ॥ 'बुध्दितः परं पुरुषमाकारशीलविद्यादिभिर्विभक्तपश्यन्कुर्यात्तत्राऽऽत्मबुध्दिं मोहेन' इति ।

॥२.७॥ सुखाभिज्ञस्य सुखानुस्मृतिपूर्वः सुखे तत्साधने वा यो गर्धस्तृष्णा लोभः स राग इति ।

॥२.८॥ दुःखाभिज्ञस्य दुःखानुस्मृतिपूर्वो दुःखे तत्साधने वा यः प्रतिघोमन्युर्जिघांसा क्रोधः स द्वेषः ।

॥२.९॥ सर्वस्य प्राणिन इयमात्माशीर्नित्या भवति मा न भूवं भूयासमिति । न चाननुभूतमरणधर्मकस्यैषा भवत्यात्माशीः । तया

च पूर्वजन्मानुभवः प्रतीयते । स चायमभिनिवेशः क्लेशः स्वरसवाही कृमेरपि जातमात्रस्य प्रत्यक्षानुमानागमैरसंभावितो मरणत्रास

उच्छेददृष्टयात्मकः पूर्वजन्मानुभूतं मरणदुःखमनुमापयति । यथा चायमत्यन्तमूढेषु दृश्यते क्लेशस्तथा विदुषोऽपि

विज्ञातपूर्वापरान्तस्य रूढः । कस्मात् । समाना हि तयोः कुशलाकुशलयोर्मरणदुःखानुभवादियं वासनेति ।

॥२.१०॥ ते पञ्च क्लेशा दग्धबीजकल्पा योगिनश्चरिताधिकारे चेतसि प्रलीने सह तेनैवास्तं गच्छन्ति । स्थितानां तु

बीजभावोपगतानाम् --

॥२.११॥ क्लेशानां या वृत्तयः स्थूलास्ताः क्रियायोगेन तनूकृताः सत्य प्रसंख्यानेन ध्यानेन हातव्या यावत्सूक्ष्मीकृता

यावद्दग्धबीजकल्पा इति । यथा वस्त्राणां स्थूलो मलः पूर्वं निर्धूयते पश्चात्सूक्ष्मो यत्नेनोपायेन वाऽपनीयते तथा स्वल्पप्रतिपक्षाः

स्थूला वृत्तयः क्लेशानां, सूक्ष्मास्तु महाप्रतिपक्षा इति ।

॥२.१२॥ तत्र पुण्यापुण्यकर्माशयः कामलोभमोहक्रोधप्रभवः स दृष्टजन्मवेदनीयश्चादृष्टजन्मवेदनीयश्च । तत्र तीव्रसंवेगेन

मन्त्रतपः समाधिभिर्निर्वर्तितः ईश्वरदेवतामहर्षिमहानुभावानामाराधनाद्वा यः परिनिष्पन्नः स सद्यः परिपच्यते पुण्यकर्माश्य इति ।

तथा तीव्रक्लेशेन भीतव्याधितकृपणेषु विश्वासोपगतेषु वा महानुभावेषु वा तपस्विषु कृतः पुनः पुनरपकारः स चापि पापकर्माशयः

सद्य व परिपच्यते । यथा नन्दीश्वरः कुमारो मनुष्यपरिणामं हित्वा देवत्वेन परिणतः । तथा नहुषोऽपि देवानामिन्द्रः स्वकं

परिणामं हित्वा तिर्यक्त्वेन परिणत इति । तत्र नारकाणां नास्ति दृष्टजन्मवेदनीयः कर्माशयः । क्षीणक्लेशानामपि

नास्त्यदृष्टजन्मवेदनीयः कर्माशय इति ।

॥२.१३॥ सत्सु क्लेशेषु कर्माशयो विपाकारम्भी भवति । नोच्छिन्नक्लेशमूलः । यथा तुषावनध्दाः शालितण्डुला अदग्धबीजभावाः

प्ररोहसमर्था भवन्ति नापनीततुषा दग्धबीजभावा वा, तथा क्लेशावनध्दः कर्माशयो विपाकप्ररोही भवति नापनीतक्लेशो न

प्रसंख्यानदग्धक्लेशबीजभावो वेति । स च विपाकस्त्रिविधो जातिरायुर्भोग इति । तत्रेदं विचार्यते ॥ किमेकं कर्मैकस्य जन्मनः

कारणमथैकं कर्मानेकं जन्माऽऽक्षिपतीति । द्वितीया विचारणा ॥ किमनेकं कर्मानेकं जन्म निर्वर्तयति अथानेकं कर्मैकं जन्म

निर्वर्तयतीति । न तावदेकं कर्मैकस्य जन्मनः कारणम् । कस्मात्, अनादिकालप्रचितस्यासंख्येयस्यावशिष्टस्य कर्मणः सांप्रतिकस्य

च फलक्रमानियमादनाश्वासो लोकस्य प्रसक्तः, स चानिष्ट इति । न चैकं कमानेकस्य जन्मनः कारणम् । कस्मात्, अनेकेषु

कर्मसु कैकमेव कर्मानेकस्यजन्मनः कारणमित्यवशिष्टस्य विपाककालाभावः प्रसक्तः, स चाप्यनिष्ट इति । न चानेकं कर्मानेकस्य

जन्मनः कारणम् । कस्मात्, तदनेकं जन्म युगपन्न संभवतीति क्रमेणैव वाच्यम् । तथा च पूर्वदोषानुषङ्गः ।

तस्माज्जन्मप्रायणान्तरे कृतः पुण्यापुण्यकर्माशयप्रचयो विचित्रः प्रधानोपसर्जनभावेनावस्थितः प्रायणाभिव्यक्त कप्रघट्टकेन मरणं

प्रसाध्य संमूर्छित कमेव जन्म करोति । तच्च जन्म तेनैव कर्मणा लब्धायुष्कं भवति । तस्मिन्नायुषि तेनैव कर्मणा भोगः संपद्यत

इति । असौ कर्माशयो जन्मायुर्भोगहेतुत्वात् त्रिविपाकोऽभिधीयत इति । अत कभविकः कर्माशय उक्त इति ।

दृष्टजन्मवेदनीयस्त्वेकविपाकारम्भी भोगहेतुत्वादद्विविपाकारम्भी वाऽऽयुर्भोगहेतुत्वान्नन्दीश्वरवन्नहुषवद्वेति ।

क्लेशकर्मविपाकानुभवनिर्वर्तिताभिस्तु वासनाभिरनादिकालसंमूर्छितमिदं चित्तं विचित्रीकृतमिव सर्वतो मत्स्यजालं

ग्रन्थिभिरिवाऽऽततमित्येता अनेकभवपूर्विका वासनाः । यस्त्वयं कर्माशय ष वैकभविक उक्त इति । ये संस्काराः स्मृतिहेतवस्ता

वासनास्ताश्चानादिकालीना इति । यस्त्वसावेकभविकः कर्माशयः स नियतविपाकश्चानियतविपाकश्च । तत्र दृष्टजन्मवेदनीयस्य

नियतविपाकस्यैवायं नियमो न त्वदृष्टजन्मवेदनीयस्यानियतविपाकस्य । कस्मात् । यो ह्यदृष्टजन्मवेदनीयोऽनियतविपाकस्तस्य

त्रयो गतिः ॥ कृतस्याविपक्वस्य विनाशः प्रधानकर्मण्यावापगमनं वा, नियतविपाकप्रधानकर्मणाऽभिभूतस्य वा चिरमवस्थानमिति ।

तत्र कृतसयाविपक्वस्य नाशो यथा शुक्लकर्मोदयादिहैव नाशः कृष्णस्य । यत्रेदमुक्तम् ॥ द्वे

॥२.१४॥ ते जन्मायुर्भोगाः पुण्यहेतुकाः सुखफला अपुण्यहेतुका दुःखफला इति । यथा चेदं दुःखं प्रतिकूलात्मकमेवं

विषयसुखकालेऽपि दुखःमस्त्येव प्रतिकूलात्मकं योगिनः । कथं, तदुपपद्यते ---

॥२.१५॥ सर्वस्यायं रागानुविध्दश्चेतनाचेतनसाधनाधीनः सुखानुभव इति तत्रास्ति रागजः कर्माशयः । तथा च द्वेष्टी

दुःखसाधनानि मुह्यति चेति द्वेषमोहकृतोऽप्यस्ति कर्माशयः । तथा चोक्तम् ॥ नानुपहत्य

॥२.१६॥ दुःखमतीतमुपभोगेनातिवाहितं न हेयपक्षे वर्तते । वर्तमानं च स्वक्षणे भोगरूढ़मिति न तत्क्षणान्तरे हेयतामापद्यते ।

तस्माद्यदेवानागतं दुःखं तदेवाक्षिपात्रकल्पं योगिनं क्लिश्नाति नेतरं प्रतिपत्तारम् । तदेवहेयतामापद्यते । तस्माद्यदेव

हेयमित्युच्यते तस्यैव कारणं प्रतिनिर्दिश्यते --

॥२.१७॥ द्रष्टा बुध्देः प्रतिसंवेदी पुरुषः । दृश्या बुध्दिसत्त्वोपारूढा सर्वे धर्माः । तदेतद्दृश्यमयस्कान्तमणिकल्पं

संनिधिमात्रोपकारिदृश्यत्वेन स्वं भवति पुरुषस्य दृशिरूपस्य स्वामिनः, अनुभवकर्मविषयतामापन्नं यतः । अन्यस्वरूपेण

प्रतिपन्नमन्यस्वरूपेण प्रतिलब्धात्मकं स्वतन्त्रमपि परार्थत्वात्परतन्त्रम् । तयोर्दृग्दर्शनशक्त्योरनादिरर्थकृतः संयोगो हेयहेतुर्दुःखस्य

कारणमित्यर्थः । तथा

॥२.१८॥ प्रकाशशीलं सत्त्वम् । क्रिया शीलं रजः । स्थितिशीलं तम इति । ते गुणाः परस्परोपरक्तविभागाः परिणामिन

संयोगवियोगधर्माण इतरेतरोपाश्रयेणोपार्जितमूर्तयः

परस्पराङ्गाङ्गित्वेऽप्यसंभिन्नशक्तिप्रविभागास्तुल्यजातीयातुल्यजातीयशक्तिभेदानुपातिनः प्रधानवेलायामुपदर्शितसंनिधाना

गुणत्वेऽपि च व्यापारमात्रेण प्रधानान्तर्णीतानुमितास्तिताः पुरुषार्थकर्तव्यतया प्रयुक्तसामर्थ्याः

संनिधिमात्रोपकारिणोऽयस्कान्तमणिकल्पाः प्रत्ययमन्तरेणैकतमस्य वृत्तिमनु वर्तमाना प्रधानशब्दवाच्या भवन्ति ।

तद्दुश्यमित्युच्यते । तदेतद्दभूतेन्द्रियात्मकं भूतभावेन पृथिव्यादिना सूक्ष्मस्थूलेन परिणमते । तथेन्द्रियभावेन श्रोत्रादिना

सूक्ष्मस्थूलेन परिणमत इति । तत्तु नाप्रयोजनमपि तु प्रयोजनमुररीकृत्य प्रवर्तत इति भोगापवर्गार्थं हि तद्दृश्यंपुरुषस्येति ।

तत्रेष्टानिष्टगुणस्वरूपावधारणमविभागापन्नं भोगो भोक्तुः स्वरूपावधारणमपवर्ग इति । द्वयोरतिरिक्तमन्यद्दर्शनं नास्ति । तथा

चोक्तम् ॥ अयं तु खलु त्रिषु गुणेषु कर्तृष्वकर्तरि च पुरुषे तुल्यातुल्यजातीये चतुर्थे

तत्क्रियासाक्षिण्युपनीयमानान्सर्वभावानुपपन्नाननुपश्यन्नदर्शनमन्यच्छङ्कत इति । तावेतौ भोगापवर्गौ बुध्दिकृतौ बुध्दावेव वर्तमानौ

कथं पुरुषे व्यपदिश्येते इति । यथा विजयः पराजयो वा योध्दृषु वर्तमानः स्वामिनि व्यपदिश्यते, स हि तत्फलस्य भोक्तेति, वं

बन्धमोक्षौ बुध्दावेव वर्तमानौ पुरुषे व्यपदिश्यते, स हि तत्फलस्य भोक्तेति । बुध्देरेव पुरुषार्थापरिसमाप्तिर्बन्धस्तदर्थावसायो मोक्ष

इति । तेन ग्रहणधारणोहापोहतत्त्वज्ञानाभिनिवेशो बुध्दौ वर्तमानाः पुरुषेऽध्यारोपितसद्भावा । स हि तत्फलस्य भोक्तेति । दृश्यानां

गुणानां स्वरूपभेदावधारणार्थमिदमारभ्यते --

॥२.१९॥ तत्राऽऽकाशवाय्वग्न्युदकभूमयो भूतानि शब्दस्पर्शरूपरसगन्धतन्मात्राणामविशेषाणां विशेषाः । तथा

श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि बुध्दीन्द्रियाणि, वाक्पाणिपादपायूपस्थानि कर्मेन्द्रियाणि, कादशं मनः सर्वार्थम्,

इत्येतान्यस्मितालक्षणस्याविशेषस्य विशेषाः । गुणानामेष षोड़शको विशेषपरिणामः । षडविशेषाः । तद्यथा ॥ शब्दतन्मात्रं

स्पर्शतन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रं चेति कद्वित्रिचतुष्पञ्चलक्षणाः शब्दादयः पञ्चाविशेषाः,

षष्ठश्चाविशेषोऽस्मितामात्र इति । ते सत्तामात्रस्याऽऽत्मनो महतः षडविशेषपरिणामाः । यत्तत्परमविशेषेभ्यो लिङ्गमात्रं महत्तत्त्वं

तस्मिन्नेते सत्तामात्रे महत्यात्मन्यवस्थाय विवृध्दिकाष्ठामनुभवन्ति । प्रतिसंसृज्यमानाश्च तस्मिन्नेव सत्तामात्रे महत्यात्मन्यवस्थाय

यत्तन्निः सत्तासत्तं निःसदसन्निरसदव्यक्तमलिङ्गं प्रधानं तत्प्रतियन्ति । ष तेषां लिङ्गमात्रः परिणामो निःसत्तासत्तं

चालिङ्गपरिणाम इति । आलिङ्गावस्थायां न पुरुषार्थो हेतुर्नालिङ्गावस्थायामादौ पुरुषार्थता कारणं भवतीति । न तस्याः

पुरुषार्थता कारणं भवतीति । नासौ पुरुषार्थकृतेति नित्याऽऽख्यायते । त्रयाणां त्ववस्थाविशेषणमादौ पुरुषार्थता कारणं भवति । स

चार्थो हेतुर्निमित्तं कारणं भवतीत्यनित्याऽऽख्यायते गुणास्तु सर्वधर्मानुपातिनो न प्रत्यस्तमयन्ते नोपजायन्ते ।

व्यक्तिभिरेवातीतानागतव्ययागमवतीभिगुणान्वयिनीभिरुपजननापायधर्मका इव प्रत्यवभासन्ते । यथा देवदत्तो दरिद्राति । कस्मात् ।

यतोऽस्य म्रियन्ते गाव इति, गवामेव मरणात्तस्य दरिद्रता न स्वरूपहानादिति समः समाधिः । लिङ्गमात्रमलिङ्गस्य प्रत्यासन्नं,

तत्र तत्संसृष्टं विविच्यते क्रमानतिवृत्तेः । तथा षडविशेषा लिङ्गमात्रे संसृष्टा विविच्यन्ते परिणामक्रमनियमात् । तथा

तेष्वविशेषेषु भूतेन्द्रियाणि संसृष्टानि विविच्यन्ते । तथा चोक्तं पुरस्तात् । न विशेषेभ्यः परं तत्त्वान्तरमस्तीति विशेषाणां नास्ति

तत्त्वान्तरपरिणामः । तेषां तु धर्मलक्षणावस्थापरिणामा व्याख्यायिष्यन्ते । व्याख्यातं दृश्यमथ द्रष्टुः स्वरूपावधारणार्थमिदमारभ्यते

--

॥२.२०॥ दृशिमात्र इति दृक्शक्तिरेव विशेषणापरामृष्टेत्यर्थः । स पुरुषो बुध्देः प्रतिसंवेदी । स बुध्देर्न सरूपो नात्यन्तं विरूप

इति । न तावत्सरूपः । कस्मात् । ज्ञाताज्ञातविषयत्वात्परिणामिनि हि बुध्दिः । तस्याश्च विषयो गवादिर्घटादिर्वा ज्ञातश्चाज्ञातश्चेति

परिणमित्वं दर्शयति । सदाज्ञातविषयत्वं तु पुरुषस्यापरिणामित्वं परिदीपयति । कस्मात् । नहि बुध्दिश्च नाम पुरुषविषयश्च

स्यादगृहीता चेति सिध्दं पुरुषस्य सदाज्ञातविषयत्वं ततश्चापरिणामित्वमिति । किं च परार्था बुध्दिः संहत्यकारित्वात्, स्वार्थः

पुरुष इति । तथा सर्वार्थाध्यवसायकत्वात्त्रिगुणा बुध्दिस्त्रिगुणत्वादचेतनेति । गुणानां तूपद्रष्टा पुरुष इत्यतो न सरूपः । अस्तु

तर्हि विरूप इति । नात्यन्तं विरूपः । कस्मात्, शुध्दोऽप्यसौ प्रत्ययानुपश्यो यतः । प्रत्ययं बौध्दमनुपश्यति, तमनुपश्यन्नतदात्माऽपि

तदात्मक इव प्रत्यवभासते । तथा चोक्तम् ॥ अपरिणामिनीहि भोक्तृशक्तिरप्रतिसंक्रमा च परिणामिन्यर्थे प्रतिसंक्रान्तेव तद्वृत्तिमनु

पतति, तस्याश्च प्राप्तचैतन्योपग्रहरूपाया बुध्दिवृत्तेरनुकारमात्रतया बुध्दिवृत्त्यविशिष्टा हि ज्ञानवृत्तिरित्याख्यायते ।

॥२.२१॥ दृशिरूपस्य पुरुषस्य कर्मविषयतामापन्नं दृश्यमिति तदर्थ व दृश्यस्याऽऽत्मा भवति । स्वरूपं भवतीत्यर्थः । तत्स्वरूपं

तु पररूपेण अतिलब्धात्मकं भोगापवर्गार्थतायां कृतायां पुरुषेण न दृश्यत इति । स्वरूपहानादस्य नाशः प्राप्तो न तु विनश्यति ।

कस्मात् --

॥२.२२॥ कृतार्थमेकं पुरुषं प्रति दृश्यं नष्टमपि नाशं प्राप्तमप्यनष्टं तदन्यपुरुषसाधारणत्वात् । कुशलं पुरुषं प्रति नाशं

प्राप्तमप्यकुशलान्पुरुषान्प्रति न कृतार्थमिति तेषां दृशेः कर्मविषयतामापन्नं लभत व पुरुषेणाऽऽत्मरूपमिति । अतश्च

दृग्दर्शनशक्त्योर्नित्यत्वादनादिः संयोगो व्याख्यात इति । तथा चोक्तम् ॥ धर्मिणामनादिसंयोगाध्दर्ममात्रणामप्यनादिः संयोग इति ।

संयोगस्वरूपाभिधित्सयेदं सूत्रं प्रवर्तते --

॥२.२३॥ पुरुषः स्वामी दृश्येन स्वेन दर्शनार्थं संयुक्तः । तस्मात्संयोगाद्

 श्यस्योपलब्धिर्या स भोगः । या तु द्रष्टुः स्वरूपोपलब्धिः सोऽपवर्गः । दर्शनकार्यावसानः संयोग इति दर्शनं वियोगस्य

कारणमुक्तम् । दर्शनमदर्शनस्य प्रतिद्वंद्वीत्यदर्शनं संयोगनिमित्तमुक्तम् । नात्र दर्शनं मोक्षकारणमदर्शनाभावादेव बन्धाभावः स मोक्ष

इति । दर्शनस्य भावे बन्धकारणस्यादर्शनस्य नाश इत्यतो दर्शनं ज्ञानं कैवल्यकारणमुक्तम् । किंचेदमदर्शनं नाम, किं

गुणानामधिकार आहोस्विद्दृशिरूपस्य स्वामिनो दर्शितविषयस्य प्रधानचित्तस्यानुत्पादः । स्वस्मिन्दृश्ये विद्यमाने यो दर्शनाभावः ।

किमर्थवत्तागुणानाम् । अथाविद्या स्वचित्तेन सह निरुध्दा स्वचित्तस्योत्पत्तिबीजम् । किं स्थितिसंस्कारक्षये गतिसंस्काराभिव्यक्तिः ।

यत्रेदमुक्तं प्रधानं स्थित्यैव वर्तमानं विकाराकरणादप्रधानं स्यात् । तथा गत्यैव वर्तमानं विकारनित्यत्वादप्रधानं स्यात् । उभयथा

चास्य वृत्तिः प्रधानव्यवहारं लभते नान्यथा । करणान्तरेष्वपि कल्पितेष्वेव समानश्चर्चः । दर्शनशक्तिरेवादर्शनमित्येके,

'प्रधानस्याऽऽत्मख्यापनार्था प्रवृत्तिः

॥२.२४॥ विपर्यज्ञानवासनेत्यर्थः । विपर्यज्ञानवासनावासिता च न कार्यनिष्ठां पुरुषख्यातिं बुध्दिः प्राप्नोति साधिकारा

पुनरावर्तते । सा तु पुरुषख्यातिपर्यवसानां कार्यनिष्ठां प्राप्नोति, चरिताधिकारा निवृत्तादर्शना बन्धकारणाभावान्न पुनरावर्तते ।

अत्र कश्चित्षण्डकोपाख्यानेनोद्धाटयति ॥ मुग्धया भार्ययाऽभिधीयते ॥ षण्डकाऽऽर्यपुत्र, अपत्यवती मे भगिनी किमर्थं

नाहमिति, स तामाह ॥ मृतस्तेऽहमपत्यमुत्पादयिष्यामीति । तथेदं विद्यमानं ज्ञानं चित्तनिवृत्तिं न करोति, विनष्टं करिष्यतीति

का प्रत्याशा । तत्राऽऽचार्यदेशीयो वक्ति ॥ ननु बुध्दिनिवृत्तिरेव मोक्षोऽदर्शनकरणाभावाद्बुध्दिनिवृत्तिः । तच्चादशनं बन्धकारणं

दर्शनान्निवर्तते । तत्र चित्तनिवृत्तिरेव मोक्षः, किमर्थमस्थान वास्य मतिविभ्रमः । हेयं दुःखमुक्तम् हेय कारणं च संयोगाख्यं

सनिमित्तमुक्तमतः परं हानं वक्तव्यम् --

॥२.२५॥ तस्यादर्शनस्याभावादबुध्दिपुरुषसंयोगाभाव आत्यन्तिको बन्धनोपरम इत्यर्थः । तध्दानम् । तद्दृशेः कैवल्यं

पुरुषस्यामिश्रीभावः पुनरसंयोगो गुणैरित्यर्थः । दुःखकारणनिवृत्तौ दुःखोपरमो हानम् । तदा स्वरूपप्रतिष्ठः पुरुष इत्युक्तम् । अथ

हानस्य कः प्राप्त्युपाय इति --

॥२.२६॥ सत्त्वपुरुषान्यताप्रत्ययो विवेकख्यातिः । सा त्वनिवृत्तमिथ्याज्ञाना प्लवते । यदा मिथ्याज्ञानं दग्धबीजभावं वन्ध्यप्रसवं

संपद्यते तदा विधूतक्लेशरजसः सत्त्वस्य परे वैशारद्ये परस्यां वशीकारसंज्ञायां वर्तमानस्य विवेकप्रत्ययप्रवाहो निर्मलो भवति ।

सा विवेकख्यातिरविप्लवा हानोपायः । ततो मिथ्याज्ञानस्य दग्धबीजभावोपगमः पुनश्चाप्रसव इत्येष मोक्षस्य मार्गो हानस्योपाय

इति ।

॥२.२७॥ तस्येति प्रत्युदितख्यातेः प्रत्याम्नायः । सप्तधेति अशुद्ध्यावरणमलापगमाच्चित्तस्य प्रत्ययान्तरानुत्पादे सति

सप्तप्रकारैव प्रज्ञा विवेकिनो भवति । तद्यथा ॥ १ ॥ परिज्ञातं हेयं नास्य पुनः परिज्ञेयमस्ति । २ ॥ क्षीणा हेय हेतवो न

पुनरेतेषां क्षेतव्यमस्ति । ३ ॥ साक्षात्कृतं निरोधसमाधिना हानम् । ४ ॥ भावितो विवेकख्यातिरूपो हानोपाय इति । षा चतुष्टयी

कार्या विमुक्तिः प्रज्ञायाः । चित्तविमुक्तिस्तु त्रयी । ५ ॥ चरिताधिकारा बुध्दिः । ६ ॥ गुणा गिरिशिखरतटच्युता इव ग्रावाणो

निरवस्थानाः स्वकारणे प्रलयाभिमुखाः सह तेनास्तं गच्छन्ति । न चैषां प्रविलीनानां पुनरस्त्युत्पादः प्रयोजनाभावादिति । ७ --

तस्यामवस्थायां गुणसम्बन्धातीतः स्वरूपमात्रज्योतिरमलः केवली पुरुष इति । तां सप्तविधां प्रान्तभूमिप्रज्ञानमनुपश्यन्पुरुषः

कुशल इत्याख्यायते । प्रतिप्रसवेऽपि चित्तस्य मुक्तः कुशल इत्येव भवति गुणातीतत्वादिति । सिध्दा भवति विवेकख्यातिर्हानोपाय

इति । न च सिध्दिरन्तरेण साधनमित्येतदारभ्यते --

॥२.२८॥ योगाङ्गान्यष्टावभिधायिष्यमाणानि । तेषामनुष्ठानात्पञ्चपर्वणो विपर्ययस्याशुध्दिरूपस्य क्षयो नाशः । तत्क्षये

सम्यग्ज्ञानस्याभिव्यक्तिः । यथा यथा च साधनान्यनुष्ठीयन्ते तथा तथा तनुत्वमशुध्दिरापद्यते । यथा यथा च क्षीयते तथा तथा

क्षयक्रमानुरोधिनी ज्ञानस्यापि दीप्तिर्विवर्धते । सा खल्वेषा विवृध्दिः प्रकर्षमनुभवत्या विवेकख्यातेः, आ

गुणपुरुषस्वरूपविज्ञानादित्यर्थः । योगाङ्गानुष्ठानमशुध्देर्वियोगकारणम् । यथा परशुश्छेद्यस्य । विवेकख्यातेस्तु प्राप्तिकारणं यथा

धर्मः सुखस्य नान्यथा कारणम् । कति चैतानि कारणानि शास्त्रे भवन्ति । नवैवेत्याह । तद्यथा --

उत्पत्तिस्थित्यभिव्यक्तिविकारप्रत्ययाप्तयः ।

॥२.२९॥ यथाक्रममेषामनुष्ठानं स्वरूपं च वक्ष्यामः । तत्र --

॥२.३०॥ तत्राहिंसा सर्वथा सर्वदा सर्वभूतानामनभिद्रोहः । उत्तरे च यमनियमास्तन्मूलास्तत्सिध्दिपरतयैव तत्प्रतिपादनाय

प्रतिपाद्यन्ते । तदवदातरूपकरणायैवोपादीयन्ते । तथा चोक्तम् ॥ स खल्वयं ब्राह्मणो यथा यथा व्रतानि बहूनि समादित्सते तथा

तथा प्रमादकृतेभ्यो हिंसानिदानेभ्यो निवर्तमानस्तामेवावदातरूपामहिंसां करोति । सत्यं यथार्थे वाङ्मनसे । यथा दृष्टं

यथाऽनुमितं यथा श्रुतं तथा वाङ्मनश्चेति । परत्र स्वबोधसंक्रान्तये वागुक्ता, सा यदि न वञ्चिता भ्रान्ता वा प्रतिपत्तिवन्ध्या वा

भवेदिति । षा सर्वभूतोपकारार्थं प्रवृत्ता न भूतोपघाताय । यदि चैवमप्यभिधीयमाना भूतोपघातपरैव स्यान्न सत्यं भवेत्पापमेव

भवेत्तेन पुण्याभासेन पुण्यप्रतिरूपकेण कष्टं तमः प्राप्नुयात् । तस्मात्परीक्ष्य सर्वभूतहितं सत्यं ब्रूयात् । स्तेयमशास्त्रपूर्वकं

द्रव्याणां परतः स्वीकरणं, तत्प्रतिषेधः पुनरस्पृहारूपमस्तेयमिति । ब्रह्मचर्यं गुप्तेन्दियस्योपस्थस्य संयमः ।

विषयाणामर्जनरक्षणाक्षयसङ्गहिंसादोषदर्शनादस्वीकरणमपरिग्रह इत्येते यमाः । ते तु --

॥२.३१॥ तत्राहिंसा जात्यवच्छिन्ना मत्स्यवधकस्य मत्स्येष्वेव नान्यत्र हिंसा । सैव देशावच्छिन्ना न तीर्थे हनिष्यामीति । सैव

कालावच्छिन्ना न चतुर्दश्यां न पुण्येऽहनि हनिष्यामीति । सैव त्रिभिरुपरतस्य समयावच्छिन्ना देवब्राह्मणार्थे नान्यथा हनिष्यामीति ।

यथा च क्षत्रियाणां युध्दा व हिंसा नान्यत्रेति । भिर्जातिदेशकालसमयैरनवच्छिन्ना अहिंसादयः सर्वथैव परिपालनीयाः । सर्वभूमिषु

सर्वविषयेषु सर्वथैवाविदितव्यभिचाराः सार्वभौमामहाव्रतमित्युच्यन्ते ।

॥२.३२॥ तत्र शौचं मृज्जलादिजनितं मेध्याभ्यवहरणादि च बाह्यम् । आभ्यन्तरं चित्तमलानामाक्षालनम् । संतोषः

संनिहितसाधनादधिकस्यानुपादित्सा । तपो द्वंद्वसहनम् । द्वंद्वं च जिघत्सापिपासे शीतोष्णे स्थानासने काष्ठमौनाकारमौने च ।

व्रतानि चैषां यथायोगं कृच्छ्रचान्द्रायणसांतपनादीनि । स्वाध्यायो मोक्षशास्त्राणामध्ययनं प्रणवजपो वा । ईश्वरप्रणिधानं

तस्मिन्परमगुरौ सर्वकर्मार्पणम् । शय्यासनस्थोऽथ पथि व्रजन्वा स्वस्थः परिक्षीणवितर्कजालः । संसारबीजक्षयमीक्षमाणः

स्यान्नित्ययुक्तोऽमृतभोगभागी॥ यत्रेदमुक्तं ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्चेति॥३२॥ एतेषां यमनियमानाम् --

॥२.३३॥ यदाऽस्य ब्राह्मणस्य हिंसादयो वितर्का जायेरन्हनिष्याम्यहमपकारिणमनृतमपि वक्ष्यामि द्रव्यमप्यस्य स्वी करिष्यामि

दारेषु चास्य व्यवायी भविष्यामि परिग्रहेषु चास्य स्वामी भविष्यामीति । वमुन्मार्गप्रवणवितर्कज्वरेणातिदीप्तेन

बाध्यमानस्तत्प्रतिपक्षान्भावयेत् । घोरेषु संसाराङ्गारेषु पच्यमानेन मया शरणमुपागतः सर्वभूताभयप्रदानेन योगधर्मः । स खल्वहं

त्यक्त्वा वितर्कान्पुनस्तानाददानस्तुल्यः श्ववृत्तेनेति भावयेत् । यथा श्वा वान्तावलेही तथा त्यक्तस्य पुनराददान इति । वमादि

सूत्रान्तरेष्वपि योज्यम् ।

॥२.३४॥ तत्र हिंसा तावत् ॥ कृता कारिताऽनुमोदितेति त्रिधा । कैका पुनस्त्रिधा लोभेन मांसचर्मार्थेन, क्रोधेनापकृतमनेनेति,

मोहेन धर्मो मे भविष्यतीति । लोभक्रोधमोहाः पुनस्त्रिविधा मृदुमध्याधिमात्रा इति । वं सप्तविंशतिर्भेदा भवन्ति हिंसायाः ।

मृदुमध्याधिमात्राः पुनस्त्रिविधाः ॥ मृदुमृदुर्मध्यमृदुस्तीव्रमृदुरिति । तथा मृदुमध्यो मध्यमध्यस्तीव्रमध्य इति । तथा मृदुतीव्रो

मध्यतीव्रोऽधिमात्रतीव्र इति वमेकाशीतिभेदा हिंसा भवति । सा पुनर्नियमविकल्पसमुच्चयभेदादसंख्येया,

प्राणभृद्भेदस्यापरिसंख्येयत्वादिति । वमनृतादिष्वपि योज्यम् । ते खल्वमी वितर्का दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् ।

दुःखमज्ञानं चानन्तं फलं येषामिति प्रतिपक्षभावनम् । तथा च हिंसकस्तावत्प्रथमं वध्यस्य वीर्यमाक्षिपति । ततश्च शस्त्रादिनिपातेन

दुःखयति । ततो जीवितादपि मोचयति । ततो वीर्याक्षेपादस्य चेतनाचेतनमुपकरणं क्षीणावीर्यं भवति ।

दुःखोत्पादान्नरकतिर्यक्मनुष्यादिषु दुःखमनुभवति । जीवितव्यपरोपणात्प्रतिक्षणं च जीवितात्यये वर्तमानो मरणमिच्छन्नापि

दुःखविपाकस्य नियतविपाकवेदनीयत्वात्कथंचिदेवोच्छ्वसिति । यदि च कथंचित्पुण्यावापगता हिंसा भवेत्तत्र सुखप्राप्तौ

भवेदल्पायुरिति । वमनृतादिष्वपि योज्यं यथासंभवम् । वं वितर्काणां चामुमेवानुगतं विपाकमनिष्टं भावयन्न वितर्केषु मनः

प्रणिदधीत ।

॥२.३५॥ सर्वप्राणिनां भवति ।

॥२.३६॥ धार्मिको भूया इति भवति धार्मिकः । स्वर्गंप्राप्नुहीति स्वर्गं प्राप्नोति । अमोघाऽस्य वाग्भवति ।

॥२.३७॥ सर्वदिक्स्थान्यस्योपतिष्ठन्ते रत्नानि ।

॥२.३८॥ यस्य लाभादप्रतिघान्गुणानुत्कर्षयति । सिध्दश्च विनेयेषु ज्ञानमाधातुं समर्थो भवतीति ।

॥२.३९॥ अस्य भवति । कोहमासं कथमहमासं किंस्विदिदं कथं स्विदिदं के वा भविष्यामः कथं वा भविष्याम इत्येवमस्य

पूर्वान्तपरान्तमध्येष्वात्मभावजिज्ञासा स्वरूपेणोपावर्तते । ता यमस्थैर्ये सिध्दयः । नियमेषु वक्ष्यामः --

॥२.४०॥ स्वाङ्गे जुगुप्सायां शौचमारभमाणः कायावद्यदर्शी कायानभिष्वङ्गी यतिर्भवति । किं च परैरसंसर्गः

कायस्वभावावलोकी स्वमपि कायं जिहासुर्मृज्जलादिभिराक्षालयन्नपि कायशुध्दिमपश्यन्कथं परकायैरत्यन्तमेवाप्रयतैः संसृज्येत ।

किं च --

॥२.४१॥ भवन्तीति वाक्यशेषः । शुचेः सत्त्वशुध्दिस्ततः सौमनस्यं तत कायं तत इन्द्रियजयस्ततश्चाऽऽत्मदर्शनयोग्यत्वं

बुध्दिसत्त्वस्य भवतीत्येच्छौचस्थैर्यादधिगम्यत इति ।

॥२.४२॥ तथा चोक्तम् ॥ यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् । तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं

कलाम्॥इति॥४२॥

॥२.४३॥ निरर््वत्यमानमेव तपो हिनस्त्यशुद्ध्यावरणमलं तदावरणमलापगमात्कायसिध्दिरणिमाद्या ।

तथेन्द्रियसिध्दिर्दूराच्छ्रवर्णादर्शनाद्येति ।

॥२.४४॥ देवा

षयः सिध्दाश्च स्वाध्यायशीलस्य दर्शनं गच्छन्ति, कार्ये चास्य वर्तन्त इति ।

॥२.४५॥ ईश्वरार्पितसर्वभावस्य समाधिसिध्दिर्यया सर्वमीप्सितमवितथं जानाति देशान्तरे देहान्तरे कालान्तरे च । ततोऽस्य

प्रज्ञा यथाभूतं प्रजानातीति । उक्ताः सह सिध्दिभिर्यमनियमाः । आसनादीनि वक्ष्यामः । तत्र --

॥२.४६॥ तद्यथा पद््मासनं वीरासनं भद्रासनं स्वस्तिकं दण्डासनं सोपाश्रयं पर्यङ्कं क्रौञ्चनिषदनं हस्तिनिषदनमुष्ट्रनिषदनं

समसंस्थानं स्थिरसुखं यथासुखं चेत्येवमादीनि ।

॥२.४७॥ भवतीति वाक्यशेषः । प्रयत्नोपरमात्सिध्यत्यासनं येन नाङ्गमेजयो भवति । अनन्ते वा समापन्नं चित्तमासनं

निर्वर्तयतीति ।

॥२.४८॥ शीतोष्णादिभिर्द्वंद्वैरासनजयान्नाभिभूयते ।

॥२.४९॥ सत्यासने बाह्यस्य वायोराचमनं श्वासः, कौष्ठयस्य वायोर्निःसारणं प्रश्वासः, तयोर्गतिविच्छेद उभयाभावः

प्राणायामः । स तु --

॥२.५०॥ यत्र प्रश्वासपूर्वको गत्यभावः स बाह्यः । यत्र श्वासपूर्वको गत्यभावः स आभ्यन्तरः । तृतीयः

स्तम्भवृत्तिर्यत्रयोभयाभावः । सकृत्प्रयत्नाद्भवति । यथा तप्ते न्यस्तमुपले जलं सर्वतः संकोचमापद्यते तथा द्वयोर्युगपद्गत्यभाव ।

इति त्रयोऽप्येते देशेन परिदृष्टा इयानस्य विषयो देश इति । कालेन परिदृष्टा क्षणानामियत्तावधारणेनावच्छिन्ना इत्यर्थः ।

संख्याभिः परिदृष्टा तावद्भिः श्वासप्रश्वासैः प्रथम उद्धातस्तद्वन्निगृहीतस्यैतावद्भिर्द्वितीय उद्धात वं तृतीयः । वं मृदुरेवं मध्य

वं तीव्र इति संख्यापरिदृष्टः । स खल्वयमेवमभ्यस्तो दीर्घसूक्ष्मः ।

॥२.५१॥ देशकालसंख्याभिर्बाह्यविषयपरिदृष्ट आक्षिप्तः । तथाऽऽभ्यन्तरविषयपरिदृष्ट आक्षिप्तः । उभयथा दीर्घसूक्ष्मः ।

तत्पूर्वको भूमिजयात्क्रमेणोभयोर्गत्यभावश्चतुर्थः प्राणायामः । तृतीयस्तु विषयानालोचितो गत्यभावः सकृदारब्ध व

देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः । चतुर्थस्तु श्वासप्रश्वासयोर्विषयावधारणात्क्रमेण भूमिजयादुभयाक्षेपपूर्वको

गत्यभावश्चतुर्थः प्राणायाम इत्ययं विशेष इति ।

॥२.५२॥ प्राणायामानभ्यस्यतोऽस्य योगिनः क्षीयते विवेकज्ञानावरणीयं कर्म । यत्तदाचक्षते ॥ महामोहमयेनेन्द्रजालेन

प्रकाशशीलं सत्त्वमावृत्य तदेवाकार्ये नियुङ्क्त इति । तदस्य प्रकाशावरणं कर्म संसारनिबन्धनं प्राणायामाभ्यासाद्दुर्बलं भवति

प्रतिक्षणं च क्षीयते । तथा चोक्तम् ॥ तपो

॥२.५३॥ प्राणायामाभ्यासादेव । प्रच्छर्दनविधारणाभ्यां वा प्राणस्य । (१ ।३४) इति वचनात् । अथ कः प्रत्याहारः --

॥२.५४॥ स्वविषयसंप्रयोगाभावे चित्तस्वरूपानुकार इवेति चित्तनिरोधे चित्तवन्निरुध्दानीन्द्रियाणि

नेतरेन्द्रियजयवदुपायान्तरमपेक्षन्ते । यथा मधुकरराजं मक्षिका उत्पतन्तमनूत्पतन्ति निविशमानमनुनिविशन्ते तथेन्द्रियाणि

चित्तनिरोधे निरुध्दानीत्येष प्रत्याहारः ।

॥२.५५॥ शब्दादिष्वव्यसनमिन्द्रियजय इति केचित् । सकर््तिव्यसनं व्यस्यत्येनं श्रेयस इति । अविरुध्दा प्रतिर्पत्तिन्याय्या ।

शब्दादिसंप्रयोगः स्वेच्छयेत्यन्ये रागद्वेषाभावे सुखदुःखशून्यं शब्दादिज्ञानमिन्द्रियजय इति केचित् । चित्तैकायादप्रतिपत्तिरेवेति

जैगीषव्यः । ततश्च परमात्वियं वश्यता यच्चित्तनिरोधे निरुध्दानीन्द्रियाणि नेतरेन्द्रियजयवत्प्रयत्नकृतमुपायान्तरमपेक्षन्ते योगिन

इति ।

इति श्रीपातञ्जले सांख्यप्रवचने योगशास्त्रे श्रीमद्व्यासभाष्ये द्वितीयः साधनपादः॥२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-10-04T09:14:20.6870000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

लांब जिभेची

  • भारी वटवट करणारी बाई 
  • दुरुत्तरें करणारी बाई. ‘ ज्या लाडक्या लांब महाजिभांच्या। तशाच त्या मानित जाय भाच्या॥ ’ -सारुह ७.११०. 
RANDOM WORD

Did you know?

गांवे, नद्या, समुद्र, देवदेवता किंवा अन्य नांवांची उत्पत्ती काय असेल? नांवे कशी पडली असतील?
Category : Hindu - Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site