TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

व्यास भाष्य - समाधिपादः

प्रस्तुत ग्रंथात हठ योगासंबंधी विस्तृत माहिती देण्यात आलेली आहे.


समाधिपादः
॥१.१॥ अथेत्ययमधिकारार्थः । योगानुशासनं शास्त्रमधिकृतं वेदितव्यम् । योगः समाधिः । स च सार्वभौमश्चित्तस्य धर्मः ।

क्षिप्तं मूढं विक्षिप्तमेकाग्रं निरुध्दमिति चित्तभूमयः । तत्र विक्षिप्ते चेतसि विक्षेपोपसर्जनीभूतः समाधिर्न योगपक्षे वर्तते ।

यस्त्वेकाग्रे चेतसि सद्भूतमर्थं प्रद्योतयति क्षिणोति च क्लेशान्कर्मबन्धनानि श्लथयति निरोधमभिमुखं करोति स संप्रज्ञातो योग

इत्याख्यायते । स च वितर्कानुगतो विचारानुगत आनन्दानुगतोऽस्मितानुगत इत्युपरिष्टात्प्रवेदयिष्यामः । सर्ववृत्तिनिरोधे

त्वसंप्रज्ञातः समाधिः । तस्य लक्षणाभिधित्सयेदं सूत्रं प्रवर्तते --

॥१.२॥ सर्वशब्दाग्रहणात्संप्रज्ञातोऽपि योग इत्याख्यायते । चित्तं हि प्रख्याप्रवृत्तिस्थितिशीलत्वात् त्रिगुणम् । प्रख्यारूपं हि

चित्तसत्त्वं रजस्तमोभ्यां संसृष्टमैश्वर्यविषयप्रियं भवति । तदेव तमसाऽनुविध्दमधर्माज्ञानावैराग्यानैश्वर्योपगं भवति । तदेव

प्रक्षीणमोहावरणं सर्वतः प्रद्योतमानमनुविध्दरजोमात्रया धर्मज्ञानवैराग्यैश्वर्योपगं भवति । तदेव रजोलेशमलापेतं स्वरूपप्रतिष्ठं

सत्त्वपुरुषान्यताख्यातिमात्रं धर्ममेघध्यानोपगं भवति । तत्परं प्रसंख्यानमित्याचक्षते ध्यायिनः । चितिशक्तिपरिणामिन्यप्रतिसंक्रमा

दर्शितविषया शुध्दा चानन्ता च सत्त्वगुणात्मिका चेयमतो विपरीता विवेकख्यातिरिति । अतस्तस्यां विरक्तं चित्तं तामपि ख्यातिं

निरुणध्दि । तदवस्थं संस्कारोपगं भवति । स निर्बीजः समाधिः । न तत्र किंचित्संप्रज्ञायत इत्यसंप्रज्ञातः । द्विविधः स

योगश्चित्तवृत्तिनिरोध इति । तदवस्थे चेतसि विषयाभावाद् बुध्दिबोधात्मा पुरुषः किंस्वभाव इति --

॥१.३॥ स्वरूपप्रतिष्ठा तदानीं चितिशक्तिर्यथा कैवल्ये । व्युत्थानचित्ते तु सति तथाऽपि भवन्ति न तथा । कथं तर्हि,

दर्शितविषयत्वात् --

॥१.४॥ व्युत्थाने याश्चित्तवृत्तयस्तदविशिष्टवृत्तिः पुरुषः । तथा च सूत्रम् ॥ 'एकमेव दर्शनं ख्यातिरेव दर्शनम्' इति ।

चित्तमयस्कान्तमणिकल्पं संनिधिमात्रोपकारि दृश्यत्वे स्वं भवति पुरुषस्य स्वामिनः । तस्माच्चित्तवृत्तिबोधे पुरुषस्यानादिः संबन्धो

हेतुः । ताः पुनर्निरोध्दव्या बहुत्वे सति चित्तस्य --

॥१.५॥ क्लेशहेतुकाः कर्माशयप्रचये क्षेत्रीभूताः क्लिष्टाः । ख्यातिविषया गुणाधिकारविरोधिन्योऽक्लिष्टाः । क्लिष्टप्रवाहपतिता

अप्यक्लिष्टाः । क्लिष्टच्छिद्रेष्वप्यक्लिष्टा भवन्ति । अक्लिष्टच्छिद्रेषु क्लिष्टा इति । तथाजातीयकाः संस्कारा वृत्तिभिरेव क्रियन्ते

संस्कारैश्च वृत्तय इति । वं वृत्तिसंस्कारचक्रमनिशमावर्तते । तदेवंभूतं चित्तमवसिताधिकारमात्मकल्पेन व्यवतिष्ठते प्रलयं वा

गच्छतीति । ताः क्लिष्टाश्चाक्लिष्टाश्च पञ्चधा वृत्तयः ।

॥१.६॥ इस सूत्र में शास्त्रकार ने केवल वृत्तियों के नाम ही बतलाये हैं, इस कारण भाष्यकार ने भी कुछ भाष्य की

आवश्यकता न होने से भाष्य नहीं किया ।

॥१.७॥ इन्द्रियप्रणालिकया चित्तस्य बाह्यवस्तूपरागात्तद्विषया सामान्यविशेषात्मनोऽर्थस्य विशेषावधारणप्रधाना वृत्तिः प्रत्यक्षं

प्रमाणम् । फलमविशिष्टः पौरुषेयश्चित्तवृत्तिबोधः । प्रतिसंवेदी पुरुष इत्युपरिष्टादुपपादयिष्यामः । अनुमेयस्य

तुल्यजातीयेष्वनुवृत्तो भिन्नजातीयेभ्यो व्यावृत्तः संबन्धो यस्तद्विषया सामान्यावधारणप्रधाना वृत्तिरनुमानम् । यथा

देशान्तरप्राप्तेर्गतिमच्चन्द्रतारकं चैत्रवत्, विन्ध्यश्चाप्राप्तिरगतिः । आप्तेन दृष्टोऽनुमितो वाऽर्थः परत्र स्वबोधसंक्रान्तये

शब्देनोपदिश्यते, शब्दात्तदर्थविषया वृत्तिः श्रोतुरागमः । यस्याश्रध्देयार्थो वक्ता न दृष्टानुमितार्थः । स आगमः प्लवते । मूलवक्तरि

तु दृष्टानुमितार्थे निर्विप्लवः स्यात् ।

॥१.८॥ स कस्मान्न प्रमाणम् । यतः प्रमाणेन बाध्यते । भूतार्थविषयत्वात्मप्रमाणस्य । तत्र प्रमाणेन बाधनमप्रमाणस्य दृष्टम् ।

तद्यथा ॥ द्विचन्द्रदर्शनं सद्विषयेणैकचन्द्रदर्शनेन बाध्यत इति । सेयं पञ्चपर्वा भवत्यविद्या, अविद्यास्मितारागद्वेषाभिनिवेशाः

क्लेशा इति । त व स्वसंज्ञाभिस्तमो मोहो महामोहस्तामिस्रोऽन्धतामिस्र इति । ते चित्तमलप्रसङ्गेनाभिधास्यन्ते ।

॥१.९॥ स न प्रमाणोपारोही । न विपर्ययोपारोही च । वस्तुशून्यत्वेऽपि शब्दज्ञानमाहात्म्यनिबन्धनो व्यवहारो दृश्यते । तद्यथा --

चैतन्यं पुरुषस्य स्वरूपमिति । यदा चितिरेव पुरुषस्तदा किमत्र केन व्यपदिश्यते । भवति च व्यपदेशे वृत्तिः । यथा चैत्रस्य

गौरिति । तथा प्रतिषिध्दवस्तुधर्मो निष्क्रियः पुरुषः, तिष्ठति बाणः स्थास्यति स्थित इति, यतिनिवृत्तौ धात्वर्थमात्रं गम्यते ।

तथाऽनुत्पत्तिधर्मा पुरुष इति ॥ उत्पत्तिधर्मस्याभावमात्रमवगम्यते न पुरुषान्वयी धर्मः । तस्माद्विकल्पितः स धर्मस्तेन चास्ति

व्यवहार इति॥९॥

॥१.१०॥ सा च संप्रबोधे प्रत्यवमर्शात्प्रत्ययविशेषः । कथं, सुखमहमस्वाप्सम् । प्रसन्नं मे मनः प्रज्ञां मे विशारदी करोति ।

दुःखमहमस्वाप्सं स्त्यानं मे मनो भ्रमत्यनवस्थितम् । गाढं मूढोऽहमस्वाप्सम् । गुरूणि मे गात्राणि । क्लान्तं मे चित्तम् । अलसं

मुषितमिव तिष्ठतीति । स खल्वयं प्रबुध्दस्य प्रत्यवमर्शो न स्यादसति प्रत्ययानुभवे तदाश्रिताः स्मृतयश्च तद्विषया न स्युः ।

तस्मात्प्रत्ययविशेषो निद्रा । सा च समाधावितरप्रत्ययवन्निरोध्दव्येति ।

॥१.११॥ किं प्रत्ययस्य चित्तं स्मरति आहोस्विद्विषयस्येति । ग्राह्योपरक्तः प्रत्ययो ग्राह्यग्रहणोभयाकारनिर्भासस्तज्जातीयकं

संस्कारमारभते । स संस्कारः स्वव्यञ्जनकाञ्जनस्तदाकारामेव ग्राह्यग्रहणोभयात्मिकां स्मृतिं जनयति । तत्र ग्रहणाकारपूर्वा

बुध्दिः । ग्राह्याकारपूर्वा स्मृतिः । सा च द्वयी ॥ भावितस्मर्तव्या चाभावितस्मर्तव्या च । स्वप्ने भावितस्मर्तव्या । जाग्रत्समये

त्वभावितस्मर्तव्येति । सर्वाश्चैताः स्मृतयः प्रमाणविपर्ययविकल्पनिद्रास्मृतीनामनुभवात्प्रभवन्ति । सर्वाश्चैता वृत्तयः

सुखदुःखमोहात्मिकाः । सुखदुःखमोहाश्च क्लेशेषु व्याख्येयाः । सुखानुशयी रागः । दुःखानुशयी द्वेषः । मोहः पुनरविद्येति । ताः

सर्वा वृत्तयो निरोध्दव्याः । आसां निरोधे संप्रज्ञातो वा समाधिर्भवत्यसंप्रज्ञातो वेति । अथाऽऽसां निरोधे क उपाय इति --

॥१.१२॥ चित्तनदी नामोभयतोवाहिनी वहति कल्याणाय वहति पापाय च । या तु कैवल्यप्राग्भारा विवेकविषयनिम्ना सा

कल्याणवहा । संसारप्राग्भाराऽविवेकविषयनिम्ना पापवहा । तत्र वैराग्येण विषयस्रोतः खिली क्रियते । विवेकदर्शनाभ्यासेन

विवेकस्रोत उद्धाटयत इत्युभयाधीनश्चित्तवृत्तिनिरोधः ।

॥१.१३॥ चित्तस्यावृत्तिकस्य प्रशान्तवाहिता स्थितिः । तदर्थः प्रयत्नो वीर्यमुत्साहः । तत्संपिपादयिषया तत्साधनानुष्ठानमभ्यासः ।

॥१.१४॥ दीर्घकालासेवितो निरन्तरासेवितः सत्कारासेवितः । तपसा ब्रह्मचर्येण विद्यया श्रध्दया च संपादितः

सत्कारवान्दृढ़भूमिर्भवति । व्युत्थानसंस्कारेण द्रागित्येवानभिभूतविषयः इत्यर्थः ।

॥१.१५॥ स्त्रियोऽन्नपानमैश्वर्यमिति दृष्टविषये वितृष्णस्य स्वर्गवैदेह्यप्रकृतिलयत्वप्राप्तावानुश्रविकविषये वितृष्णस्य

दिव्यादिव्यविषयसंयोगेऽपि चित्तस्य विषयदोषदर्शिनः प्रसंख्यानबलादनाभोगात्मिका हेयोपादेयशून्या वशीकारसंज्ञा वैराग्यम् ।

॥१.१६॥ दृष्टानुश्रविकविषयदोषदर्शी विरक्तः पुरुषदर्शनाभ्यासात्तच्छुध्दि प्रविवेकाप्यायितबुध्दिर्गुणेभ्यो व्यक्ताव्यक्तधर्मकेभ्यो

विरक्त इति । तद्द्वयं वैराग्यम् । तत्र यदुत्तरं तज्ज्ञानप्रसादमात्रम् । यस्योदये योगी प्रत्युदितख्यातिरेवं मन्यते ॥ प्राप्तं प्रापणीयं,

क्षीणाः क्षेतव्याः क्लेशाः, छिन्नः श्लिष्टपर्वा भवसंक्रमः । यस्याविच्छेदाज्जनित्वाम्रियते मृत्वा च जायत इति । ज्ञानस्यैव परा

काष्ठा वैराग्यम् । तस्यैव हि नान्तरीयकं कैवल्यमिति । अथोपायद्वयेन निरुध्दचित्तवृत्तेः कथमुच्यते संप्रज्ञातः समाधिरिति --

॥१.१७॥ वितर्कश्चित्तस्याऽऽलम्बने स्थूल आभोगः । सूक्ष्मो विचारः । आनन्दो ह्लादः । कात्मिका संविदस्मिता । तत्र

प्रथमश्चतुष्टयानुगतः समाधिः सवितर्कः । द्वितीयो वितर्कविकलः सविचारः । तृतीयो विचारविकलः सानन्दः ।

चतुर्थस्तद्विकलोऽस्मितामात्र इति । सर्व ते सालम्बनाः समाधयः । अथासंप्रज्ञातः समाधिः किमुपायः किंस्वभाव इति --

॥१.१८॥ सर्ववृत्तिप्रत्यस्तमये संस्कारशेषो निरोधश्चित्तस्य समाधिरसंप्रज्ञातः । तस्य परं वैराग्यमुपायः । सालम्बनो

ह्यभ्यासस्तत्साधनाय न कल्पत इति विरामप्रत्ययो निर्वस्तुक आलम्बनी क्रियते । स चार्थशून्यः । तदभ्यासपूर्वकं हि चित्तं

निरालम्बनमभावप्राप्तमिव भवतीत्येष निर्बीजः समाधिरसंप्रज्ञातः । स खल्वयं द्विविधः ॥ उपायप्रत्ययो भवप्रत्ययश्च ।

तत्रोपायप्रत्ययो योगिनां भवति --

॥१.१९॥ विदेहानां देवानां भवप्रत्ययः । ते हि स्वसंस्कारमात्रोपयोगेन चित्तेन कैवल्यपदमिवानुभवन्तः स्वसंस्कारविपाकं

तथाजातीयकमतिवाहयन्ति । तथा प्रकृतिलयाः साधिकारे चेतसि प्रकृतिलीने कैवल्यपदमिवानुभवन्ति, यावन्न

पुनरावर्ततेऽधिकारवशाच्चित्तमिति ।

॥१.२०॥ उपायप्रत्ययो योगिनां भवति । श्रध्दा चेतसः संप्रसादः । सा हि जननीव कल्याणी योगिनं पाति । तस्य हि श्रद्दधानस्य

विवेकार्थिनो वीर्यमुपजायते । समुपजातवीर्यस्य स्मृतिरुपतिष्ठते । स्मृत्युपस्थाने च चित्तमनाकुलं समाधीयते । समाहितचित्तस्य

प्रज्ञाविवेक उपावर्तते । येन यथार्थं वस्तु जानाति । तदभ्यासत्तद्विषयाच्च वैराग्यादसंप्रज्ञातः समाधिर्भवति । ते खलु नव योगिनो

मृदुमध्याधिमात्रोपाया भवन्ति । तद्यथामृदूपायो मध्योपायोऽधिमात्रोपाय इति । तत्र मृदूपायस्त्रिविधिःमृदुसंवेगो

मध्यसंवेगस्तीव्रसंवेग इति । तथा मध्योपायस्तथाऽधिमात्रोपाय इति । तत्राऽधिमात्रोपायानां --

॥१.२१॥ समाधिलाभः समाधिफलं च भवतीति ।

॥१.२२॥ मृदुतीव्रो मध्यतीव्रोऽधिमात्रतीव्र इति । ततोऽपि विशेषः । तद्विशेषादपि मृदुतीव्रसंवेगस्याऽऽसन्नः, ततो

मध्यतीव्रसंवेगस्याऽऽसन्नतरः, तस्मादधिमात्रतीव्रसंवेगस्याधिमात्रोपायस्याप्यासन्नतमः समाधिलाभः समाधिफलं चेति ।

किमेतस्मादेवाऽऽसन्नतमः समाधिर्भवति । अथास्य लाभे भवत्यन्योऽपि कश्चिदुपायो न वेति --

॥१.२३॥ प्रणिधानाद्भक्तिविशेषादावर्जित ईश्वरस्तमनुगृह्णात्यभिध्यानमात्रेण । तदभिध्यानमात्रादपि योगिन आसन्नतरः

समाधिलाभः समाधिफलं च भवतीति । अथ प्रधानपुरुषव्यतिरिक्तः कोऽयमीश्वरो नामेति --

॥१.२४॥ अविद्यादयः क्लेशाः । कुशलाकुशलानि कर्माणि । तत्फलं विपाकः । तदनुगुणा वासना आशयाः । ते च

मनसिवर्तमानाः पुरुषे व्यपदिश्यन्ते, स हि तत्फलस्य भोक्तेति । यथा जयः पराजयो वा योध्दृषु वर्तमानः स्वामिनि व्यपदिश्यते ।

यो ह्यनेन भोगेनापरामृष्टः स पुरुषविशेष ईश्वरः । कैवल्यं प्राप्तस्तर्हि सन्ति च बहवः केवलिनः । ते हि त्रीणि बन्धनानि

च्छित्त्वा कैवल्यं प्राप्ता ईश्वरस्य च तत्संबन्धो न भूतो न भावी । यथा मुक्तस्य पूर्वा बन्धकोटिः प्रज्ञायते नैवमीश्वरस्य । यथा वा

प्रकृतिलीनस्योत्तरा बन्धकोटिः संभाव्यते नैवमीश्वरस्य । स तु सदैव मुक्तः सदैवेश्वर इति । योऽसौ

प्रकृष्टसत्त्वोपादानादीश्वरस्य शाश्वतिक उत्कर्षः स किं सनिमित्त आहोस्विन्निर्निमित्त इति । तस्य शास्त्रं निमित्तम् । शास्त्रं

पुनः किंनिमित्तं, प्रकृष्टसत्त्वनिमित्तम् । एतयो शास्त्रोत्कर्षयोरीश्वरसत्त्वे वर्तमानयोरनादिः संबन्धः । तस्मादेतद्भवति सदैवेश्वर

सदैव मुक्त इति । तच्च तस्यैश्वर्यं साम्यातिशयविनिर्मुक्तम् । न तावदैश्वर्यान्तरेण तदतिशय्यते । यदेवातिशयिस्यात्तदेव तत्स्यात् ।

तस्माद्यत्र काष्ठाप्राप्तिरैश्वर्यस्य स ईश्वर इति । न च तत्समानमैश्वर्यमस्ति । कस्मात्, द्वयोस्तुल्ययोरेकस्मिन्युगपत्कामितेऽर्थे

नवमिदमस्तु पुराणमिदमस्त्वित्येकस्य सिध्दावितरस्य प्राकाम्यविघातादूनत्वं प्रसक्तम् । द्वयोश्च

तुल्ययोर्युगपत्कामितार्थप्राप्तिर्नास्ति । अर्थस्य विरुध्दत्वात् । तस्माद्यस्य साम्यातिशयैर्विनिर्मुक्तैश्वर्य स वेश्वरः । स च पुरुषविशेष

इति । किं च --

॥१.२५॥ यदिदमतीतानागतप्रत्युत्पन्नप्रत्येकसमुच्चयातीन्द्रियग्रहणमल्पं बह्विति सर्वज्ञबीजमेतद्विवर्धमानं यत्र निरतिशयं स

सर्वज्ञः । अस्ति काष्ठाप्राप्तिः सर्वज्ञबीजस्य सातिशयत्वात्परिमाणवदिति । यत्र काष्ठाप्राप्तिज्र्ञानस्य स सर्वज्ञः । स च पुरुषविशेष

इति । सामान्यमात्रोपसंहारे च कृतोपक्षयमनुमानं न विशेषप्रतिपत्तौ समर्थमिति । तस्य संज्ञादिविशेषप्रतिपत्तिरागमतः पर्यन्वेष्या ।

तस्याऽऽत्मानुग्रहाभावेऽपि भूतानुग्रहः प्रयोजनम् । ज्ञानधर्मोपदेशेन कल्पप्रलयमहाप्रलयेषु संसारिणः पुरुषानुध्दरिष्यामीति । तथा

चोक्तम् ॥ आदिविद्वान्निर्माणचित्तमधिष्ठाय कारुण्याद्भग्वान्परमर्षिरासुरये जिज्ञासमानाय तन्त्रं प्रोवाचेति ।

॥१.२६॥ पूर्वे हि गुरवः कालेनावच्छिद्यन्ते । यत्रावच्छेदार्थेन कालो नोपावर्तते स ष पूर्वेषामपि गुरुः । यथाऽस्य सर्गस्याऽऽदौ

प्रकर्षगत्या सिध्दस्तथाऽतिक्रान्तसर्गादिष्वपि प्रत्येतव्यः ।

॥१.२७॥ वाच्य ईश्वरः प्रणवस्य । किमस्य संकेतकृतं वाच्यवाचकत्वमथ प्रदीपप्रकाशवदवस्थितमिति । स्थितोऽस्य वाच्यस्य

वाचकेन सह संबन्धः । संकेतस्त्वीश्वरस्य स्थितमेवार्थमभिनयति । यथाऽवस्थितः पितापुत्रयो संबन्धः संकेतेनावद्योत्यते, अयमस्य

पिता, अयमस्य पुत्र इति । सर्गान्तरेष्वपिवाच्यवाचकशक्त्यपेक्षस्तथैव संकेतः क्रियते । संप्रतिपत्तिनित्यतया नित्यः शब्दार्थसंबन्ध

इत्यागमिनः प्रतिजानते । विज्ञात वाच्यवाचकत्वस्य योगिनः --

॥१.२८॥ प्रणवस्य जपः प्रणवाभिधेयस्य चेश्वरस्य भावनम् । तदस्य योगिनः प्रणवं जपतः प्रणवार्थ च भावयतश्चित्तमेकाग्रं

संपद्यते । तथा चोक्तम् ॥ स्वाध्यायाद्योगमासीत

॥१.२९॥ ये तावदन्तराया व्याधिप्रभृतयस्ते तावदीश्वरप्रणिधानान्न भवन्ति । स्वरूपदर्शनमप्यस्य भवति । यथैवेश्वरः पुरुषः

शुध्दः प्रसन्नः केवलोऽनुपसर्गस्तथाऽयमपि बुध्दे प्रतिसंवेदी पुरुष इत्येवमधिगच्छति । अथ केऽन्तरायाः । ये चित्तस्य विक्षेपाः । के

पुनस्ते कियन्तो वेति --

॥१.३०॥ नवान्तरायाश्चित्तस्य विक्षेपाः । सहैते चित्तवृत्तिभिर्भवन्ति । तेषामभावे न भवन्ति पूर्वोक्ताश्चित्तवृत्तयः । तत्र १ --

व्याधिर्धातुरसकरणवैषम्यम् । २ ॥ स्त्यानमकर्मण्यता चित्तस्य । ३ ॥ संशय उभयकोटिस्पृग्विज्ञानं स्यादिदमेवं नैवं स्यादिति । ४

-- प्रमादः समाधिसाधनानामभावनम् । ५ ॥ आलस्यं कायस्य चित्तस्य च गुरुत्वादप्रवृत्तिः । ६ ॥ अविरतिश्चित्तस्य

विषयसंप्रयोगात्मा गर्धः । ७ ॥ भ्रान्तिदर्शनं विपर्ययज्ञानम् । ८ ॥ अलब्धभूमिकत्वं समाधिभूमेरलाभः । ९ ॥ अनवस्थितत्वं

लब्धायां भूमौ चित्तस्याप्रतिष्ठा । समाधिप्रतिलम्भे हि सति तदवस्थितं स्यादिति । ते चित्तविक्षेपा नव योगमला योगप्रतिपक्षा

योगान्तराया इत्यभिधीयन्ते ।

॥१.३१॥ दुःखमाध्यात्मिकमाधिभौतिकमाधिदैविकं च । येनाभिहताः प्राणिनस्तदुपघाताय प्रयतन्ते तद्दुःखम् ।

दौर्मनस्यमिच्छाविघाताच्चेतसः क्षोभः । यदङ्गान्येजयति कम्पयति तदङ्गमेजयत्वम् । प्राणो यद्बाह्यं वायुमाचामति स श्वासः ।

यत्कौष्ठयं वायु निःसारयति स प्रश्वासः । ते विक्षेपसहभुवो विक्षिप्तचित्तस्यैते भवन्ति । समाहितचित्तस्यैते न भवन्ति । अथैते

विक्षेपाः समाधिप्रतिपक्षास्ताभ्यामेवाभ्यासवैराग्याभ्यां निरोध्दव्याः । तत्राभ्यासस्य विषयमुपसंहरन्निदमाह --

॥१.३२॥ विक्षेपप्रतिषेधार्थमेकतत्त्वालम्बनं चित्तमभ्यसेत् । यस्य तु प्रत्यर्थनियतं प्रत्ययमात्रं क्षणिकं च चित्तं तस्य सर्वमेव

चित्तमेकाग्रं नास्त्येव विक्षिप्तम् । यदि पुनरिदं सर्वतः प्रत्याहृत्यैकस्मिन्नर्थे समाधीयते सदा भवत्येकाग्रमित्यतो न प्रत्यर्थनियतम् ।

योऽपि सदृशप्रत्ययप्रवाहेण चित्तमेकाग्रं मन्यते तस्यैकाग्रता यदि प्रवाहचित्तस्य धर्मस्तदैकं नास्ति प्रवाहचित्तं क्षणिकत्वात् ।

अथ प्रवाहांशस्यैव प्रत्ययस्य धर्मः, स सर्वः सदृशप्रत्ययप्रवाही वा विसदृशप्रत्ययप्रवाही वा प्रत्यर्थनियतत्त्वादेकाग्र वेति

विक्षिप्तचित्तानुपपत्तिः तस्मादेकमनेकार्थमवस्थितं चित्तमिति । यदि च चित्तेनैकेनान्विताः स्वभावभिन्नाः प्रत्यया जायेरन्नथ

कथमन्यप्रत्ययदृष्टस्यान्यः स्मर्ता भवेत् । अन्यप्रत्ययोपचित्तस्य च कर्माशयस्यान्यः प्रत्यय उपभोक्ता भवेत् ।

कथंचित्समाधीयमानमप्येतद्गोमयपायसीयन्यायमाक्षिपति । किं च स्वात्मानुभवापह्नवश्चित्तस्यान्यत्वे प्राप्नोति । कथं,

यदहमद्राक्षं तत्स्पृशामि यच्चास्प्राक्षं तत्पश्यामीत्यहमिति प्रत्ययः सर्वस्य प्रत्ययस्य भेदे सति प्रत्ययिन्यभेदेनोपस्थितः ।

कप्रत्ययविषयोऽयमभेदात्माऽहमिति प्रत्ययः । कथमत्यन्तभिन्नेषु चित्तेषु वर्तमानः सामान्यमेकं प्रत्ययिनमाश्रयेत्

स्वानुभवग्राह्यश्चायमभेदात्माऽहमिति प्रत्ययः । न च प्रत्यक्षस्य माहात्म्यं प्रमाणान्तरेणाभिभूयते । प्रमाणान्तरं च प्रत्यक्षबलेनैव

व्यवहारं लभते । तस्मादेकमनेकार्थमवस्थितं च चित्तम् । यच्चित्तस्यावस्थितस्येदं शास्त्रेण परिकर्म निर्दिश्यते तत्कथम् --

॥१.३३॥ तत्र सर्वप्राणिषु सुखसंभोगापन्नेषु मैत्रीं भावयेत् । दुःखितेषु करुणाम् । पुण्यात्मकेषु मुदिताम् । अपुण्यशीलेषूपेक्षाम् ।

वमस्य भावयतः शुक्लो धर्म उपजायते । ततश्च चित्तं प्रसीदति । प्रसन्नमेकाग्रं स्थितिपदं लभते ।

॥१.३४॥ कौष्ठयस्य वायोर्नासिकापुटाभ्यां प्रयत्नविशेषाद्वमनं प्रच्छर्दन, विधारणं प्राणायामस्ताभ्यां वा मनसः स्थितिं

संपादयेत् ।

॥१.३५॥ नासिकाग्रे धारयतोऽस्य या दिव्यगन्धसंवित्सा गन्धप्रवृत्तिः । जिह्वाग्रे रससंवित् । तालुनि रूपसंवित् । जिह्वामध्ये

स्पर्शसंवित् । जिह्वामूले शब्दसंविदित्येता वृत्तय उत्पन्नाश्चित्तं स्थितौ निबध्नन्ति, संशयं विधमन्ति, समाधिप्रज्ञायां च द्वारी

भवन्तीति । तेन चन्द्रादित्यग्रहमणिप्रदीपरश्म्यादिषु प्रवृत्तिरूत्पन्ना विषयत्येव वेदितव्या । यद्यपि हि

तत्तच्छास्त्रानुमानाचार्योपदेशैखगतमर्थतत्त्वं सद्भूतमेव भवति, तेषां यथाभूतार्थप्रतिपादनसामर्थ्यात्, तथाऽपि यावदेकदेशोऽपि

कश्चिन्न स्वकरणसंवेद्यो भवति तावत्सर्वं परोक्षमिवापवर्गादिषु सूक्ष्मेष्वर्थेषु न दृढां बुध्दिमुत्पादयति ।

तस्माच्छास्त्रानुमानाचार्योपदेशोपोद्बलनार्थमेवावश्यं कश्चिदर्थविशेषः प्रत्यक्षीकर्तव्यः । तत्र तदुपदिष्टार्थैकदेशप्रत्यक्षत्वे सति सर्वं

सूक्ष्मविषयमपि आऽपवर्गाच्छ्रध्दीयते । तदर्थमेवेदं चित्तपरिकम निर्दिश्यते । अनियतासु वृत्तिषु तद्विषयायां

वशीकारसंज्ञायामुपजातायां समर्थ स्यात्तस्य तस्यार्थस्य प्रत्यक्षीकरणायेति । तथा च सति श्रध्दावीर्यस्मृतिसमाधयोऽस्याप्रतिबन्धेन

भविष्यन्तीति ।

॥१.३६॥ प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनीत्यनुवर्तते । हृदयपुण्डरीके धारयतो या बुध्दिसंवित्, बुध्दिसत्त्वं हि

भास्वरमाकाशकल्पं, तत्र स्थितिवैशारद्यात्प्रवृत्तिः सूर्येन्दुग्रहमणिप्रभारूपाकारेण

॥१.३७॥ वीतरागचित्तालम्बनोपरक्तं वा योगिनश्चित्तं स्थितिपदं लभत इति ।

॥१.३८॥ स्वप्नज्ञानालम्बनं वा निद्राज्ञानालम्बनं वा तदाकारं योगिनश्चित्तं स्थितिपदं लभत इति ।

॥१.३९॥ यदेवाभिमतं तदेव ध्यायेत् । तत्र लब्धस्थितिकमन्यत्रापि स्थितिपदं लभत इति ।

॥१.४०॥ सूक्ष्मे निविशमानस्य परमाण्वन्तं स्थितिपदं लभत इति । स्थूले निविशमानस्य परममहत्त्वान्तं स्थितिपदं चित्तस्य । वं

तामुभयीं कोटिमनुधावतो योऽस्याप्रतीघातः स परो वशीकारः । तद्वशीकारात्परिपूर्णं योगिनश्चित्तं न पुनरभ्यासकृतं

परिकमापेक्षत इति । अथ लब्धस्थितिकस्य चेतसः किंस्वरूपा किंविषया वा समापत्तिरिति, तदुच्यते --

॥१.४१॥ क्षीणवृत्तेरिति प्रत्यस्तमितप्रत्ययस्येत्यर्थः । अभिजातस्येव मणेरिति दृष्टान्तोपादानम् । यथा स्फटिक

उपाश्रयभेदात्तत्तद्रपोपरक्त उपाश्रयरूपाकारेण निर्भासते तथा ग्राह्यलम्बनोपरक्तं चित्तं ग्राह्यसमापन्नं ग्राह्यस्वरूपाकारेण निर्भासते ।

तथा भूतसूक्ष्मोपरक्तं भूतसूक्ष्मसमापन्नं भूतसूक्ष्मस्वरूपाभासं भवति । तथा स्थूलालम्बनोपरक्तं स्थूलरूपसमापन्नं स्थूलरूपाभासं

भवति । तथा विश्वभेदोपरक्तं विश्वभेदसमापन्नं विश्वरूपाभासं भवति । तथा ग्रहणेष्वपीन्द्रियेषु द्रष्टव्यम् । ग्रहणालम्बनोपरक्तं

ग्रहणसमापन्नं ग्रहणस्वरूपाकारेण निर्भासते । तथा ग्रहीतृपुरुषालम्बनोपरक्तं ग्रहीतृपुरुषसमापन्नं ग्रहीतृपुरुषस्वरूपाकारेण

निर्भासते । तथा मुक्तपुरुषालम्बनोपरक्तं मुक्तपुरुषसमापन्नं मुक्तपुरुषस्वरूपाकारेण निर्भासते । तदेवमभिजातमणिकल्पस्य चेतसो

ग्रहीतृग्रहणग्राह्येषु पुरुषेन्द्रियभूतेषु या तत्स्थतदञ्जनता तेषु स्थितस्य तदाकारापत्तिः सा समापत्तिरित्युच्यते ।

॥१.४२॥ तद्यथा गौरितिशब्दो गौरित्यर्थो गौरिति ज्ञानमित्यविभागेन विभक्तानामपि ग्रहणं दृष्टम् । विभज्यमानाश्चान्ये

शब्दधर्मा अन्येऽर्थधर्मा अन्ये ज्ञानधर्मा इत्येतेषां विभक्तः पन्थाः । तत्र समापन्नस्य योगिनो यो गवाद्यर्थ समाधिप्रज्ञायां समारूढः

स चेच्छब्दार्थज्ञानविकल्पानुविध्द उपावर्तते सा संकीर्णा समापत्तिः सवितर्केत्युच्यते । यदा पुनः शब्दसंकेतस्मृतिपरिशुध्दौ

श्रुतानुमानज्ञान विकल्पशून्यायां समाधिप्रज्ञायां स्वरूपमात्रेणावस्थितोऽर्थस्तत्स्वरूपाकारमात्रतयैवावच्छिद्यते । सा च निर्वितर्का

समापत्ति । तत्परं प्रत्यक्षम् । तच्च श्रुतानुमानयोर्बीजम् । ततः श्रुतानुमाने प्रभवतः । न च श्रुतानुमानज्ञानसहभूतं तद्दर्शनम् ।

तस्मादसंकीर्णं प्रमाणान्तरेण योगिनो निर्वितर्कसमाधिजं दर्शनमिति । निर्वितर्कायाः समापत्तेरस्याः सूत्रेण लक्षणं द्योत्यते --

॥१.४३॥ या शब्दसंकेतश्रुतानुमानज्ञानविकल्पस्मृतिपरिशुध्दौ ग्राह्यस्वरूपोपरक्ता प्रज्ञा स्वमिव प्रज्ञास्वरूपं ग्रहणात्मकं त्यक्त्वा

पदार्थमात्रस्वरूपा ग्राह्यस्वरूपापन्नेव भवति सा निर्वितर्का समापत्तिः । तथा च व्याख्यातम् ॥ तस्या कबुद्ध्युपक्रमो

ह्यर्थात्माऽणुप्रचयविशेषात्मा गवादिर्घटादिर्वा लोकः । स च संस्थानविशेषो भूतसूक्ष्माणां साधारणो धर्म आत्मभूतः फलेन

व्यक्तेनानुमितः स्वव्यञ्जकाञ्जनः प्रादुर्भवति । धर्मान्तरस्य कपालादेरुदये च तिरो भवति । स ष धर्मोऽवयवीत्युच्यते ।

योऽसावेकश्च महांश्चारणीयांश्च स्पर्शवांश्च क्रियाधर्मकश्चानित्यश्च तेनावयविना व्यवहाराः क्रियन्ते । यस्य पुनरवस्तुकः स

प्रचयविशेषः सूक्ष्मं च कारणमनुपलभ्यमविकल्पस्य तस्यावयव्यभावादतद्रूपप्रतिष्ठं मिथ्याज्ञानमिति प्रायेण सर्वमेव प्राप्तं

मिथ्याज्ञानमिति । तदा च सम्यग्ज्ञानमपि किं स्याद्विषयाभावात् । यद्यदुपलभ्यते तत्तदवयवित्वेनाऽऽम्नातम् । तस्मादस्त्यवयवी

यो महत्त्वादिव्यवहारापन्नः समापतेर्निर्वितर्काया विषयी भवति ।

॥१.४४॥ तत्र भूतसूक्ष्मेष्वभिव्यक्तधर्मकेषु देशकालनिमित्तानुभवावच्छिन्नेषु या समापत्तिः सा सविचारेत्युच्यते ।

तत्राप्येकबुध्दिनिग्राह्यमेवोदितधर्मविशिष्टं भूतसूक्ष्ममालम्बनीभूतं समाधिप्रज्ञायामुपतिष्ठते । या पुनः सर्वथा सर्वतः

शान्तोदिताव्यपदेश्यधर्मावनच्छिन्नेषु सर्वधर्मानुपातिषु सर्वधर्मात्मकेषु समापत्तिः सा निर्विचारेत्युच्यते । वं स्वरूपं हि

तद्भूतसूक्ष्ममेतेनैव स्वरूपेणाऽऽलम्बनीभूतमेव समाधिप्रज्ञास्वरूपमुपरञ्जयति । प्रज्ञा च स्वरूपशून्येवार्थमात्रा यदा भवति तदा

निर्विचारेत्युच्यते । तत्र महद्वस्तुविषया सवितर्का निर्वितर्का च, सूक्ष्मवस्तुविषया सविचारा निर्विचारा च । वमुभयोरेतयैव

निवितर्कया विकल्पहानिर्व्याख्यातेति ।

॥१.४५॥ पार्थिवस्याणोर्गन्धतन्मात्रं सूक्ष्मो विषयः । आप्यस्य रसतन्मात्रम् । तैजसस्य रूपतन्मात्रम् । वायवीयस्य स्पर्शतन्मात्रम् ।

आकाशस्य शब्दतन्मात्रमिति । तेषामहंकारः । अस्यापि लिङ्गमात्रं सूक्ष्मो विषयः । लिङ्गमात्रस्याप्यलिङ्गं सूक्ष्मो विषयः । न

चालिङ्गात्परं सूक्ष्ममस्ति? । नन्वस्ति पुरुषः सूक्ष्म इति । सत्यम् । यथा लिङ्गात्परमलिङ्गस्य सौक्ष्म्यं न चैवं पुरुषस्य । किन्तु,

लिङ्गस्यान्वयिकारणं पुरुषो न भवति । हेतुस्तु भवतीति । अतः प्रधाने सौक्ष्म्यं निरतिशयं व्याख्यातम् ।

॥१.४६॥ ताश्चतस्रः समापत्तयो बहिर्वस्तुबीजा इति समाधिरपि सबीजः । तत्र स्थूलेऽर्थे सवितर्को निर्वितर्कः । सूक्ष्मेऽर्ये

सविचारो निर्विचार इति चतुर्धोपसंख्यातः समाधिरिति ।

॥१.४७॥ अशुद्ध्यावरणमलापेतस्य प्रकाशात्मनो बुध्दिसत्त्वस्य रजस्तमोभ्यामनभिभूतः स्वच्छः स्थितिप्रवाहो वैशारद्यम् । यदा

निविचारस्य समाधेर्वैशारद्यमिदं जायते तदा योगिनो भवत्यध्यात्मप्रसादो भूतार्थविषयः क्रमाननुरोधी स्फुटः प्रज्ञालोकः । तथा

चोक्तम् ॥ प्रज्ञाप्रसादमारुह्य अशोच्यः शोचतो जनान् । भूमिष्ठानिव शैलस्थः सर्वान्प्राज्ञोऽनुपश्यति॥४७॥

॥१.४८॥ तस्मिन्समाहितचित्तस्य या प्रज्ञा जायते तस्या

तुंभरेति संज्ञा भवति । अन्वर्था च सा, सत्यमेव बिभर्ति न च तत्र विपर्यासज्ञानगन्धोऽप्यस्तीति । तथा चोक्तम् --

आगमेनानुमानेन ध्यानाभ्यासरसेन च । त्रिधा प्रकल्पयन्प्रज्ञां लभते योगमुत्तमम्॥इति॥४८॥ सा पुनः --

॥१.४९॥ श्रुतमागमविज्ञानं तत्सामान्यविषयम् । न ह्यागमेन शक्यो विशेषोऽभिधातुं । कस्मात् । न हि विशेषेण कृतसंकेतः शब्द

इति । तथाऽनुमानं सामान्यविषयमेव । यत्र प्राप्तिस्तत्र गतिर्यत्राप्राप्तिस्तत्र न गतिरित्युक्तम् । अनुमानेन च सामान्येनोपसंहारः ।

तस्माच्छ्रुतानुमानविषयो न विशेषः कश्चिदस्तीति । न चास्य सूक्ष्मव्यवहितविप्रकृटस्य वस्तुनो लोकप्रत्यक्षेण ग्रहणमस्ति । न

चास्य विशेषस्याप्रमाणकस्याभावोऽस्तीति समाधिप्रज्ञानिर्ग्राह्य व स विशेषो भवति भूतसूक्ष्मगतो वा पुरुषगतो वा ।

तस्माच्छ्रुतानुमानप्रज्ञाभ्यामन्यविषया सा प्रज्ञा विशेषार्थत्वादिति । समाधिप्रज्ञाप्रतिलम्भे योगिनः प्रज्ञाकृतः संस्कारो नवो नवो

जायते --

॥१.५०॥ समाधिप्रज्ञाप्रभवः संस्कारो व्युत्थानसंस्काराशयं बाधते । व्युत्थानसंस्काराभिभवात्तत्प्रभवाः प्रत्यया न भवन्ति ।

प्रत्ययनिरोधे समाधिरुपतिष्ठते । ततः समाधिजा प्रज्ञा, ततःप्रज्ञाकृताः संस्कारा इति नवो नवः संस्काराशयो जायते । ततश्च

प्रज्ञा, ततश्च संस्कारा इति । कथमसौ संस्काराशयश्चित्तं साधिकारं न करिष्यतीति । न ते प्रज्ञाकृताः संस्काराः

क्लेशक्षयहेतुत्वाच्चित्तमधिकारविशिष्टं कुर्वन्ति । चित्तं हि ते स्वकायादवसादयन्ति । ख्यातिपर्यवसानं हि चित्तचेष्टितमिति । किं

चास्य भवति --

॥१.५१॥ स न केवलं समाधिप्रज्ञाविरोधी प्रज्ञाकृतानामपि संस्काराणां प्रतिबन्धी भवति । कस्मात् । निरोधजः संस्कारः

समाधिजान्संस्कारान्बाधत इति । निरोधस्थितिकालक्रमानुभवेन निरोधचित्तकृतसंस्कारास्तित्वमनुमेयम् ।

व्युत्थाननिरोधसमाधिप्रभवैः सह कैवल्यभागीयैः संस्कारैश्चित्तं स्वस्यां प्रकृताववस्थितायां प्रविलीयते । तस्मात्ते

संस्काराश्चित्तस्याधिकारविरोधिनो न स्थितिहेतवो भवन्तीति । यस्मादवसिताधिकारं सह कैवल्यभागीयैः संस्कारैश्चित्तं निवर्तते,

तस्मिन्निवृत्ते पुरुषः स्वरूपमात्रप्रतिष्ठोऽतः शुध्दः केवलो मुक्त इत्युच्यत इति । इति श्रीपातञ्जले सांख्यप्रवचने योगशास्त्रे

श्रीमद्व्यासभाष्ये प्रथमः समाधिपादः॥१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-10-04T09:12:47.7500000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

संहत

  • धावि . १ संघटित ; गुंफलेला ; सांधलेला ; जोडलेला . २ एकत्र केलेला ; एकवटलेला ; गोळा केलेला . [ सं . सम् ‍ + हन् ‍ - हत ] 
  • p  Compact. Collected together. Organised. United. 
  • ०जानु जानुक - वि . गुडघे जुळलेला ; ढोंपरें एकत्र केलेला ; संहति - स्त्री . १ संघ ; समुच्चय ; एकत्रितता . २ जोड ; मिलाफ ; जूट . 
RANDOM WORD

Did you know?

प्रासंगिक पूजा म्हणजे काय? त्या कोणकोणत्या?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site