मृदु श्लश्र्णं सिदं सूत्रं नासानाले प्रवेशयेत्।

मुखान्निर्गमयेद्दस्रौ चिन्तयेन्नेतिका स्मृता ॥६७॥

वर्तितावर्तिताभेदा द्विविधा सा प्रकीर्तिता।

कपालशोधिनी दृष्टिशोधिनी जन्तुनीशिनी ॥६८॥

ऊर्ध्वरोगहरा चैषा द्व्याहिकव्रतपुण्यदा।

प्रथमाद्यं पञ्चमोपान्त्ये तृतीयाष्टमपञ्चम ॥६९॥

द्वतीये प्रथमान्त्यं तु द्वितीय-चतुर्थे।

तृतीयषष्टं प्रथमान्त्यं द्वितीयोपान्त्यं च ॥७०॥

पञ्चमोपान्त्या द्वे द्वितीयोपान्त्यं पञ्चमोपान्त्ये ॥

तृतीयाष्टमपञ्चमद्वतीये। द्वितीयपञ्चमद्वितीये ॥

द्वितीयचतुर्थं तृतीयं। तृतीयद्वितीयचतुर्थं प्रणवाद्यम् ॥

अथ त्रोटनम्।

वामदक्षिणतो हस्तौ तर्जयेद्वायुल्लभाम् ॥७१॥

संचित्योर्ध्वत्रोटकम् कर्म श्रीशंभुतोदितम्।

एवं कट्यां कृतं कर्म चक्रत्रोटनकं भवेत् ॥७२॥

पादयोर्हस्तयोर्वापि सर्वाङ्त्रोटनं भवेत् ॥७२॥

पादयोर्हस्तयोर्वापि सर्वाङ्गत्रोटनं भवेत्।

चं चतुर्थं षष्ठं पञ्चमोपान्त्ये ॥७३॥

अथोद्गारकर्म

बलादुग्दारकरणमुद्गाराख्यं प्रकीर्तितम्।

उदानाख्योऽनेन देवो वायुदोषं निवर्तयेत् ॥७४॥

अथ शिरासंचालनम्।

शिरासंचालनं कर्म वायुवश्यतया भवेत्।

अनेन कर्मणा प्राणः सर्वशुद्धिं विधास्यति ॥७५॥

अथ वाराहम्।

उत्तानसुप्ततैलाक्तजठरस्योपरि न्यसेत्।

उल्मुकं मृत्तिकापात्रपिहितं तच्च कर्षयेत् ॥७६॥

उदरे कर्म तत्प्रोक्तं वाराहं शम्भुना पुरा।

ग्रन्थदोषं च धरणीसंभवं नलसंभवम् ॥७७॥

आन्त्रदोषमण्डदोषं वायुदोषं च नाशयेत्।

चिन्तनीयोऽत्र भगवान् समानो ज्वलनप्रभः ॥७८॥

एवान्यतमं वाराहं पृष्ठावाराहमेव च।

अथ मर्दनम्।

औषधस्नेहतोयैश्च केवलं वाथ पाणिना ॥७९॥

मर्दनं मर्दनं प्रोक्तं मुनिभिस्तु चतुर्विधम्।

प्रभंजनसखा देवश्चिन्तनीयो विचक्षणैः ॥८०॥

अथ शालाक्यम्।

नेत्रोपान्ते तु यद्द्वारं कथितं पीर्वसूरिभिः।

उद्घाटयेत्तु तत्सम्यक् तीक्ष्णलोहशलाकया ॥८१॥

शलाकां ताम्रसंभूतां तस्मिंद्वारे प्रवेश्य च।

मलनिर्हरणं कुर्याद् भ्रामयित्वा शालाकिकाम् ॥८२॥

दूरीकृत्य शलाकां तु पटं तत्र निबन्धयेत्।

नेत्रनालाक्यकर्मैतत्सद्यो दृष्टिप्रदायकम् ॥८३॥

गुरूपदिष्मार्गेण यस्याभ्यासोऽथ वै भवेत्।

तेन कार्यमिदं नान्यदैर्यत्र धन्वन्तरिः प्रभुः ॥८४॥

शलाकया कर्णगूथं निर्हरेद् यत्नतो मुनिः।

कर्णशालाक्यमेतद्धि कर्म प्रोक्तं मनीषिभिः ॥८५॥

यथामलं यथादोषं यथास्थानं तु यद्व्रणम्।

व्रणशालातक्येतद्धि तृतीयं कर्म चोदितम् ॥८६॥

सिद्धिकारिणी

पीत्वा तोयं कण्ठनालेन नौलीं कृत्वा नालावुत्थितौ शमयित्वा।

आश्वीं त्यक्त्वा कारिणीं चित्रानाम्नीं कृत्वा सम्यग्रेचयेत्पायुनालात् ॥८७॥

पीत्वा तोयं पायुनालेन पश्चात् यावत्कण्ठं लौलिकां संविधाय।

वारंवारं रेचयेत्कण्ठनालात् शुद्धो देहश्चक्रनाडीगणश्च ॥८८॥

वह्नेर्दीप्तिः कफपित्तामयानां नीशं कार्श्यं कान्तयुक्तं शरीरम्।

नेत्रे तेजो बिन्दुवश्यं निरुक्तं नादस्फौट्यं मलशुद्धिश्च कोष्ठात् ॥८९॥

कासश्वासप्लीहकुष्ठादिनाशं कुर्यात्सैषा कारिणि सिद्धिपुर्वा।

ग्रन्थान्दृष्ट्वा प्राक्तनान्नाथमार्गान् शुद्धिर्दिव्या राघवेण प्रणीता ॥९०॥

प्राणापानौ चिन्तनीयौ च देवो यं यं मन्त्रं ध्यानपूर्वं जपेच्च।

शुण्ठी यवानी मरिचमभया लवणं तथा।

समं समं चूर्णयित्वा प्रपिबेदूष्णवारिणा ॥९१॥

नासादन्त्यां तथ ाचास्यां नागबन्धो रहस्यकम्।

अथ वमनम्।

अङ्गुलिं वक्त्रमध्ये तु वमनं तु यथाचरेत् ॥९२॥

यद्वा एरण्डपत्रस्य नालं कण्ठे प्रवेशयेत्।

वमेद्वा तत्र पिष्टेन मदनस्य फलेन तु ॥९३॥

मदनादिगणेनैव वमनं कारयेत्सुधीः।

उदानेनैव वमनमुपवासफलप्रदम् ॥९४॥

अथ विरेचनम्

कम्पिल्लकं च मृद्वीकां भुक्त्वा तदनु कं पिबेत्।

अपान-दैवतो रेकः पूर्वच्च फलं भवेत् ॥९५॥

शर्करां यवपत्रेण भिंडीफलरसेन वा।

पीत्वा विरेचनं श्रेष्ठं गुरुयुक्त्या प्रकल्पयेत् ॥९६॥

वमनं च विरेकश्च स्नेहस्वेदनपूर्वकौ।

रसाञ्जनाञ्जनं नेत्रे रेचनं सूर्यदैवतम् ॥९७॥

देवदालीफलघ्राणं कपालस्य विरेचनम्।

अथ रक्तस्रावः।

सुतीक्ष्णं निर्मलं श्लक्ष्णमत्यल्पं शस्त्रमुच्यते ॥९८॥

कूर्पराभ्यन्तरे वापि गुल्फयोर्वा ललाटके।

अन्यत्र वा यथायोग्यं शिरां बुध्वा हि वेधयेत् ॥९९॥

रुधिरं स्रावयेत्कृष्णं ततश्चापि निरोधयेत्।

दशाहफलदं तद्धि रक्तदोषे विधीयते ॥१००॥

मिहिरो देवता चात्र षष्ठाद्यं बिन्दुगं हि तत्।

अथ करणाप्यायनानि।

गोघृतं केसरोन्मिश्रं नासाप्यायनमुच्यते ॥१०१॥

आज्यं शर्करया युक्तं रसनाप्यायनं स्मृतम्।

दुग्धाप्लाविततूलेन नयनाप्यायनं परम् ॥१०२॥

स्रोतोञ्जनं वा गव्यं वा घृतमक्ष्णोर्हितं मतम्।

तैलाभ्यङ्गः कृतो यत्नात्वगाप्यायकारकः ॥१०३॥

प्राजापत्याप्यायनं तु शाल्मली शर्करायुता।

भक्षिता वाथ दुग्धेन यष्टी वा दुग्धसंयुता ॥१०४॥

करणस्य तु दैवत्यं संस्मरेत्तत्र सिद्धिदम्।

अथाश्योतनम्।

त्रिफला शीततोयेन नेत्राश्चयोतनमुत्तम् ॥१०५॥

जलेन वा यथायोग्यमन्यत्रापि प्रकल्पयेत्।

अथ जलधारा।

नाभौ पात्रं तु संस्थाप्य चोर्ध्वतो धारया जलम् ॥१०६॥

शीतं ज्वरे तु तत्कार्यं पीडायामुष्णवारिणा।

धरणीनलयोर्दोषः शूलदोषश्च नश्यति ॥१०७॥

धन्वत्तरिप्रसादेन व्रणे धारा तु केवला।

N/A

References : N/A
Last Updated : October 04, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP