वृत्तरत्नाकर - पञ्चमोऽध्यायः

वृत्तरत्नाकर, केदारभट्ट यांनी १४व्या शतकात लिहीलेले प्रसिद्ध साहित्य आहे.
Vritta Ratnakara of Kedara Bhatta (14th Century CE) is one of the most popular texts on Sanskrit prosody.


पदचतुरूर्ध्व-प्रकरणम् (१-५)
मुखवादो ऽष्टभिर्वर्णैः परे स्युर्मकरालयैः क्रमाद् वृद्धैः ॥ सततं यस्य विचित्रैः पादैः सम्पन्नसौन्दर्यं तदुदितममलमतिभिः पदचतुरूर्ध्वाभिधं वृत्तम् ॥१॥
प्रथममुदितवृत्ते विरचितविषमचरणभाजि ॥ गुरुकयुगलनिधन इह सहित आङा लघुविरतपदविततियतिरिति भवति पीडः ॥२॥
प्रथममितरचरणसमुत्थं श्रयति स यदि लक्ष्म । इतरदितरगतितमपि यदि च तुर्यं चरणयुगलकमिति कलिका सा ॥३॥
द्विगुरुयुतसमलचरणान्ता मुखचरणगतमनुभवति च तृतीयः । अपरमिह लक्ष्म प्रकृतमखिलमपि यदिदमनुभवति लवली सा ॥४॥
प्रथमधिवसति यदि तुर्यं, चरमचरणपदमवसितगुरुयुग्मम् । निखिलमपरमुपरिगतमिति ललितपदयुक्ता, तदिदममृतधारा ॥५ ॥
उद्गता-प्रकरणम् (६-८)
सजादिमे सलघुकौ च नसजगुरुकैरथोद्गता । त्र्यङ्घ्रिगतभनजला गयुताः सजसा अगौ चरणमेकतः पठेत् ॥६ ॥
चरणत्रयं व्रजति लक्ष्म यदि सकलमुद्गतागतम् । ना भगौ भवति सौरभकं चरणे यदीह भवतस्तृतीयके ॥७ ॥
नयुगं सकारयुगलं च भवति चरणे तृतीयके । तदुदितमुरुमतिभिर्ललितं यदि शेषमस्य खलु पूर्वतुल्यकम् ॥८ ॥
उपस्थितप्रचुपित-प्रकरणम् (९-११)
म्सौ ज्भौ गौ प्रथमाङ्घ्रिरेकतः पृथगन्यत्त्रितयं सनजरगास्ततो ननौ सः । त्रिनपरिकलितजयौ प्रचुपितमिदमुदितमुपस्थितपूर्वम् ॥९ ॥
नौ पादे ऽथ तृतीयके सनौ नसयुक्तौ प्रथमाङ्घ्रिकृतयतिस्तु वर्धमानम् । त्रितयमपरमपि पूर्वसदृशमिह भवति प्रततमतिभिरिति गदितं लघु वृत्तम् ॥१०॥
प्रथमे च विरतिरार्षभं ब्रुवन्ति ॥ तच्छुद्धविराट् पुरः स्थितं त्रितयमपरमपि यदि पूर्वसमं स्यात् ॥११॥
विषमाक्षरपादं वा पादैरसमं दशध्र्मवत् । यच्छन्दो नोक्तमत्र गाथेति तत्सूरिभिः प्रोक्तम् ॥१२॥

इति श्रीमद्भट्टरामेश्वरसूनुनारायणभट्टविरचितायां वृत्तरत्नाकरव्याख्यायां पञ्चमो ऽध्यायः ॥

N/A

References : N/A
Last Updated : September 15, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP