आर्या सप्तशती - ह-कार-व्रज्या

आर्या सप्तशती हा आचार्य गोवर्धनाचार्य यांनी रचलेला पवित्र ग्रंथ आहे.


हृदयज्ञया गवाक्षे विसदृक्षं किम् अपि कूजितं सख्या ।
यत् कलह-भिन्न-तल्पा भय-कपटाद् एति मां सुतनु ॥६८६॥


हरति हृदयं शलाका-निहितो ऽञ्जन-तन्तुर् एष सखि मुग्धे ।
लोचन-बाण-मुचान्तर्-भ्रूधनुषा किण इवोल्लिखितः ॥६८७॥


हससि चरण-प्रहारे तल्पाद् अपसारितो भुवि स्वपिषि ।
नासदृशेऽपि कृते प्रिय मम हृदयात् त्वं विनिःसरसि ॥६८८॥


हसति सपत्नी श्वश्रू रोदिति वदनं च पिदधते सख्यः ।
स्वप्नायितेन तस्यां सुभग त्वन्-नाम जल्पन्त्याम् ॥६८९॥


हृदयं मम प्रतिक्षण-विहितावृत्तिः सखे प्रियाशोकः ।
प्रबलो विदारयिष्यति जल-कलशं नीर-लेखेव ॥६९०॥


हन्त विरहः समन्ताज् ज्वलयति दुर्वार-तीव्र-संवेगः ।
अरुणस् तपन-शिलाम् इव पुनर् न मां भस्मतां नयति ॥६९१॥


हृत्वा तटिनि तरङ्गैर् भ्रमितश् चक्रेषु नाशये निहितः ।
फल-दल-वल्कल-रहितस् त्वयान्तरिक्षे तरुस् त्यक्तः ॥६९२॥


हृत-काञ्चि-वल्लि-बन्धोत्तर-जघनाद् अपर-भोग-भुक्तायाः ।
उल्लसति रोम-राजिः स्तन-शम्भोर् गरल-लेखेव ॥६९३॥


इति विभाव्याख्या-समेता ह-कार-व्रज्या ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP