TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

आर्या सप्तशती - प-कार-व्रज्या

आर्या सप्तशती हा आचार्य गोवर्धनाचार्य यांनी रचलेला पवित्र ग्रंथ आहे.


प-कार-व्रज्या
पथिकासक्ता किंचिन् न वेद घन-कलम् अगोपिता गोपी ।
केलि-कला-हुङ्कारैः कीरावलि मोघम् अपसरसि ॥३४६॥


प्रणमति पश्यति चुम्बति संश्लिष्यति पुलक-मुकुलितैर् अङ्गैः ।
प्रिय-सङ्गाय स्फुरितां वियोगिनी वाम-बाहुलताम् ॥३४७॥


प्रविशसि न च निर्गन्तुं जानासि व्याकुलत्वम् आतनुषे ।
बालक चेतसि तस्याश् चक्र-व्यूहेऽभिमन्युर् इव ॥३४८॥


पश्यानुरूपम् इन्दिन्दिरेण माकन्द-शेखरो मुखरः ।
अपि च पिचु-मन्द-मुकुले मौकुलि-कुलम् आकुलं मिलति ॥३४९॥


प्रतिबिम्ब-सम्भृताननम् आदर्शं सुमुख मम सखी-हस्तात् ।
आदातुम् इच्छसि मुधा किं लीला-कमल-मोहेन ॥३५०॥


प्राचीनाचल-मौलेर् यथा शशी गगन-मध्यम् अधिवसति ।
त्वां सखि पश्यामि तथा छायाम् इव सङ्कुचन् मानाम् ॥३५१॥


प्राङ्गण-कोणेऽपि निशापतिः स तापं सुधामयो हरति ।
यदि मां रजनि-ज्वर इव सखि स न निरुणद्धि गेह-पतिः ॥३५२॥


पति-पुलक-दून-गात्री स्वच्छायावीक्षणेऽपि या सभया ।
अभिसरति सुभग सा त्वां विदलन्ती कण्टकं तमसि ॥३५३॥


प्रतिभूः शुको विपक्षे दण्डः शृङ्गार-सङ्कथा गुरुषु ।
पुरुषायितं पणस् तद्-बाले परिभाव्यतां दायः ॥३५४॥


पर-मोहनाय मुक्तो निष्करुणे तरुणि तव कटाक्षो ऽयम् ।
विशिख इव कलित-कर्णः प्रविशति हृदयं न निःसरति ॥३५५॥


प्रपदालम्बित-भूमिश् चुम्बन्ती प्रीति-भीति-मधुराक्षी ।
प्राचीराग्र-निवेशित-चिबुकतया न पतिता सुतनुः ॥३५६॥


प्रातर् उपागत्य म्र्षा वदतः सखि नास्य विद्यते व्रीडा ।
मुख-लग्नयापि यो ऽयं न लज्जते दग्ध-कालिकया ॥३५७॥


पश्योत्तरस् तनूदरि फाल्गुनम् आसाद्य निर्जित-विपक्षः ।
वैराटिर् इव पतङ्गः प्रत्यानयनं करोति गवाम् ॥३५८॥


प्रमद-वनं तव च स्तन-शैलं मूलं गभीर-सरसां च ।
जगति निदाघ-निरस्तं शैत्यं दुर्ग-त्रयं श्रयति ॥३५९॥


प्रोञ्छति तवापराधं मानं मर्दयति निर्वृतिं हरति ।
स्वकृतान् निहन्ति शपथाञ् जागर-दीर्घा निशा सुभग ॥३६०॥


प्रिय आयाते दूराद् अभूत इव सङ्गमो ऽभवत् पूर्वः ।
मान-रुदित-प्रसादाः पुनर् आसन्न-पर-सुरतादौ ॥३६१॥


पूर्व-मही-धर-शिखरे तमः समासन्न-मिहिर-कर-कलितम् ।
शूल-प्रोतं सरुधिरम् इदम् अन्धक-वपुर् इवाभाति ॥३६२॥


परिवृत्त-नाभि लुप्त-त्रिवलि श्याम-स्तनाग्रम् अलसाक्षि ।
बहु-धवल-जघन-रेखं वपुर् न पुरुषायितं सहते ॥३६३॥


प्रारब्ध-निधुवनैव स्वेद-जलं कोमलाङ्गि किं वहसि ।
ज्याम् अर्पयितुं नमिता कुसुमास्त्र-धनुर्-लतेव मधु ॥३६४॥


पुंसां दर्शय सुन्दरि मुखेन्दुम् ईषत् त्र्पाम् अपाकृत्य ।
जायाजित इति रूढा जन-श्रुतिर् मे यशो भवतु ॥३६५॥


प्रसरतु शरत्-त्रियामा जगन्ति धवलयतु धाम तुहिनांशोः ।
पञ्जर-चकोरिकाणां कणिकाकल्पो ऽपि न विशेषः ॥३६६॥


प्रथमागत सोत्कण्ठा चिर-चलितेयं विलम्ब-दोषे तु ।
वक्ष्यन्ति साङ्ग-रागाः पथि तरवस् तव समाधानम् ॥३६७॥


पतितेऽंशुके स्तनार्पित-हस्तां तां निविड-जघन-पिहितोरुम् ।
रद-पद-विकलित-फूत्कृति-शत-धुत-दीपां मनः स्मरति ॥३६८॥


परितः स्फुरित-महौषधि-मणि-निकरे केलि-तल्प इव शैले ।
काञ्ची-गुण इव पतितः स्थितैक-रत्नः फणी स्फुरति ॥३६९॥


प्रावृषि शैल-श्रेणी-नितम्बम् उह्हन् दिग्-अन्तरे भ्रमसि ।
चपलान्तर घन किं तव वचनीयं पवन-वश्यो ऽसि ॥३७०॥


प्रति-दिवस-क्षीण-दशस् तवैष वसनाञ्चलो ऽतिकर-कृष्टः ।
निज-नायकम् अतिकृपणं कथयति कुग्राम इव विरलः ॥३७१॥


पथिक कथं चपलोज्ज्वलम् अम्बुद-जल-बिन्दु-निह्वहम् अविषह्यम् ।
मयपुर-कनक-द्रवम् इव शिव-शर-शिखि-भावितं सहसे ॥३७२॥


पथिकं श्रमेण सुप्तं दर-तरला तरुणि सुमधुर-च्छाया ।
व्यालम्बमान-वेणिः सुखयसि शाखेव सारोहा ॥३७३॥


प्रददाति नापरासां प्रवेशम् अपि पीन-तुङ्ग-जघनोरूः ।
या लुप्त-कील-भावं याता हृदि बहिर् अदृश्यासि ॥३७४॥


प्रातर् निद्राति यथा यथात्मजा लुलित-निःसहैर् अङ्गैः ।
जामातरि मुदित-मनास् तथा तथा सादरा श्वश्रूः ॥३७५॥


प्रणय-चलितो ऽपि सकपट-कोप-कटाक्षैर् मयाहित-स्तम्भः ।
त्रास-तरलो गृहीतः सहास-रभसं प्रियः कण्ठे ॥३७६॥


प्रिय-दुर्नयेन हृदय स्फुटसि यदि स्फुटनम् अपि तव श्लाघ्यम् ।
तत्-केलि-समर-तल्पी-कृतस्य वसनाञ्चलस्येव ॥३७७॥


पवनोपनीत-सौरभ-दूरोदक-पूर-पद्मिनी-लुब्धः ।
अपरीक्षित-स्वपक्षो गन्ता हन्तापदं मधुपः ॥३७८॥


प्रेम-लघू-कृत-केशव- वक्षो-भर-विपुल-पुलक-कुच-कलशा ।
गोवर्धन-गिरि-गुरुतां मुग्ध-वधूर् निभृतम् उपहसति ॥३७९॥


प्रिय-विरह-निःसहायाः सहज-विपक्षाभिर् अपि सपत्नीभिः ।
रक्ष्यन्ते हरिणाक्ष्याः प्राणा गृह-भङ्ग-भीताभिः ॥३८०॥


प्रकटयसि रागम् अधिकं लपनम् इदं वक्रिमाणम् आवहति ।
प्रीणयति च प्रतिपदं दूति शुकस्येव दयितस्य ॥३८१॥


प्रविशन्त्याः प्रिय-हृदयं बालायाः प्रबल-यौवत-व्याप्तम् ।
नव-निशित-दर-तरङ्गित-नयन-मयेनासिना पन्थाः ॥३८२॥


प्रणयापराध-रोष-प्रसाद-विश्वास-केलि-पाण्डित्यैः ।
रूढ-प्रेमा ह्रियते किं बाला-कुतुक-मात्रेण ॥३८३॥


पूर्वैर् एव चरितैर् जरतो ऽपि पूज्यता भवतः ।
मुञ्च मदम् अस्य गन्धाद् युवभिर् गज गऊजनीयो ऽसि ॥३८४॥


प्रथमं प्रवेशिता या वासागारं कथञ्चन सखीभिः ।
न शृणोतीव प्रातः सा निर्गमनस्य सङ्केतम् ॥३८५॥


पूजा विना प्रतिष्ठां नास्ति न मन्त्रं विना प्रतिष्ठा च ।
तद्-उभय-विप्रतिपन्नः पश्यतु गीर्-वाण-पाषाणम् ॥३८६॥


पूर्वाधिको गृहिण्यां बहु-मानः प्रेम-नर्म-विश्वासः ।
भीर् अधिकेयं कथयति रागं बाला-विभक्तम् इव ॥३८७॥


पुलिकत-कठोर-पीवर-कुच-कलशाश्लेष-वेदनाभिज्ञः ।
शम्भोर् उपवीत-फणी वाञ्छति मान-ग्रहं देव्याः ॥३८८॥


प्रिय आयातो दूराद् इति या प्रीतिर् बभूव गेहिन्याः ।
पथिकेभ्यः पूर्वागत इति गर्वात् सापि शत-शिखरा ॥३८९॥


पृष्ठं प्रयच्छ मा स्पृश दूराद् अपसर्प विहित-वैमुख्य ।
त्वाम् अनुधावति तरणिस् तद् अपि गुणाकर्ष-तरलेयम् ॥३९०॥


प्रियया कुङ्कुम-पिञ्जर-पाणि-द्वय-योजनाङ्कितं वासः ।
प्रहितं मां याच्ञाञ्जलि-सहस्र-करणाय शिक्षयति ॥३९१॥


प्राचीरान्तरितेयं प्रियस्य वदनेऽधरं समर्पयति ।
प्राग्-गिरि-पिहिता रात्रिः सन्ध्या-रागं दिनस्येव ॥३९२॥


पर-पति-निर्दय-कुलटाशोषित शठ नेष्यता न कोपेन ।
दग्ध-ममतोपतप्ता रोदिमि तव तानवं वीक्ष्य ॥३९३॥


प्राङ्गण एव कदा मां श्लिष्यन्ती मन्य्-कम्पि-कुच-कलशा ।
अंस-निषण्ण-मुखी सा स्नपयति बाष्पेण मम पृष्ठम् ॥३९४॥


प्रेतैः प्रशस्त-सत्त्वा साश्रु वृकैर् वीक्षिता स्खलद्-ग्रासैः ।
चुम्बति मृतस्य वदनं भूत-मुखोल्केक्षितं बाला ॥३९५॥


पिशुनः खलु सुजनानां खलम् एव पुरो विधाय जेतव्यः ।
कृत्वा ज्वरम् आत्मीयं जिगाय बाणं रणे विष्णुः ॥३९६॥


पिब मधुप बकुल-कलिकां दूरे रसनाग्र-मात्रम् आधाय ।
अधर-विलेप-समाप्ये मधुनि मुधा वदनम् अर्पयसि ॥३९७॥


प्रायेणैव हि मलिना मलिनानाम् आश्रयत्वम् उपयान्ति ।
कालिन्दी-पुट-भेदः कालिय-पुट-भेदनं भवति ॥३९८॥


पश्य प्रिय-तनु-विघटन-भयेन शशि-मौलि-देह-संलग्ना ।
सुभगैक-दैवतम् उमा शिरसा भागीरथीं वहति ॥३९९॥


पथिक-वधू-जन-लोचन-नीर-नदी-मातृक-प्रदेशेषु ।
धन-मण्डलम् आखण्डल-धनुषा कुण्डलितम् इव विधिना ॥४००॥


प्रतिवेशि-मित्र-बन्धुषु दूरात् कृच्छ्रागतो ऽपि गेहिन्या ।
अतिकेलि-लम्पटया दिनम् एकम् अगोपि गेह-पतिः ॥४०१॥


पर-पट इव रजकीभिर् मलिनो भुक्त्वापि निर्दयं ताभिः ।
अर्थ-ग्रहणेन विना जघन्य मुक्तो ऽसि कुलटाभिः ॥४०२॥


इति विभाव्याख्या-समेता प-कार-व्रज्या ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:06.3670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

सफरचंद

  • न. एक गोड नारिंगाएवढे फळ ; सेव . 
RANDOM WORD

Did you know?

गंध का लावावे ? अधिक माहिती द्यावी.
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.