TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|
भल्लटशतकम्

भल्लटशतकम्

भल्लटशतकम्‍ हे काव्य संस्कृत कवी भल्लट याने लिहीले.


भल्लटशतकम्
तां भवानीं भवानीत- क्लेशनाशविशारदां
शारदां शारदाम्भोद- सितसिंहासनां नमः ॥१॥

युष्माकं अम्बरमणेः प्रथमे मयूखास् ते मङ्गलं विदधतूदयरागभाजः
कुर्वन्ति ये दिवसजन्ममहोत्सवेषु सिन्दूरपाटलमुखीरिव दिक्पुरन्ध्रीः ॥२॥

बद्धा यदर्पणरसेण विमर्दपूर्वं अर्थान्कथं झटिति तान्प्रकृतान्न दद्युः
चौरा इवातिमृदवो महतां कवीनां अर्थान्तराण्यपि हठाद्वितरन्ति शब्दाः ॥३॥

काचो मणिर्मणिः काचो येषां तेऽन्ये हि देहिनः
सन्ति ते सुधियो येषां काचः काचो मणिर्मणिः ॥४॥

नन्वाश्रयस्थितिरियं तव कालकूट केनोत्तरोत्तरविशिष्टपदोपदिष्टा
प्रागर्णवस्य हृदये वृषलक्ष्मणोऽथ कण्ठेऽधुना वससि वाचि पुनः खलानां ॥५॥

द्रविणं आपदि भूषणं उत्सवे शरणं आत्मभये निशि दीपकः
बहुविधाभ्युपकारभरक्षमो भवति कोऽपि भवानिव सन्मणिः ॥६॥

श्रीर्विशृङ्खलखलाभिसारिका वर्त्मभिर्घनतमोमलीमसैः
शब्दमात्रं अपि सोढुं अक्षमा भूषणस्य गुणिनः समुत्थितं ॥७॥

माने नेच्छति वारयत्युपशमे क्ष्मां आलिखन्त्यां ह्रियां स्वातन्त्र्ये परिवृत्य तिष्ठति करौ व्याधूय धैर्यं गते
तृष्णे त्वां अनुबध्नता फलं इयत्प्राप्तं जनेनामुना यः स्पृष्टो न पदा स एव चरणौ स्प्रष्टुं न संमन्यते ॥८॥

पततु वारिणि यातु दिगन्तरं विशतु वह्निं अथ व्रजतु क्षितिं
रविरसावियतास्य गुणेषु का सकललोकचमत्कृतिषु क्षतिः ॥९॥

सद्वृत्तयः सदसदर्थविवेकिनो ये ते पश्य कीदृशं अमुं समुदाहरन्ति
चौरासतीप्रभृतयो ब्रुवते यदस्य तद्गृह्यते यदि कृतं तदहस्करेण ॥१०॥

पातः पूष्णो भवति महते नोपतापाय यस्माथ् काले प्राप्ते क इह न ययुर्यान्ति यास्यन्ति वास्तम्*
एतावत्तु व्यथयतितरां लोकबाह्यैस्तमोभिस् तस्मिन्नेव प्रकृतिमहति व्य्ॐनि लब्धोऽवकाशः ॥११॥

पङ्क्तौ विशन्तु गणिताः प्रतिल्ॐअवृत्त्या पूर्वे भवेयुरियताप्यथवा त्रपेरन्
सन्तोऽप्यसन्त इव चेत्प्रतिभान्ति भानोर् भासावृते नभसि शीतमयूखमुख्याः ॥१२॥

गते तस्मिन्भनौ त्रिभुवनसमुन्मेषविरह- व्यथां चन्द्रो नेष्यत्यनुचितं अतो नास्त्यसदृशं
इदं चेतस्तापं जनयतितरां अत्र यदमी प्रदीपाः संजातास्तिमिरहतिबद्धोधुरशिखाः ॥१३॥

सूर्यादन्यत्र यच्चन्द्रे ऽप्यर्थासंस्पर्शि तत्कृतं
खद्योत इति कीतस्य नाम तुष्टेन केन चिथ् ॥१४॥

कीटमणे दिनं अधुना- तरणिकरान्तरितचारुसितकिरणं
घनसन्तमसमलीमस- दशदिशि निशि यद्विराजसि तदन्यथ् ॥१५॥

सत्त्वान्तःस्फुरिताय वा कृतगुणाध्यारोपतुच्छाय वा तस्मै कातरमोहनाय महसो लेशाय मा स्वस्ति भूथ्
यच्छायाच्छुरणारुणेन खचता खद्योतना खद्योतनाम्ना९मुना कीटेनाहितया हि जङ्गममणिभ्रान्त्या विडम्ब्यामहे ॥१६॥

दन्तान्तकुन्तमुखसन्ततपातघात- सन्ताडितोन्नतगिरिर्गज एव वेत्ति
पञ्चास्यपाणिपविपञ्जरपातपीडां न क्रोष्टुकः श्वशिशुहुङ्कृतिनष्टचेष्टः ॥१७॥

अत्युन्नति-व्यसनिनः शिरसोऽधुनै९ष स्वस्यै७व चातक-शिशुः प्रणयं विधत्तां
अस्यै७तदिच्छति यदि प्रततासु दिक्षु ताः स्वच्छ-शीत-मधुराः क्व नु नाम ना८पः ॥१८॥

सोऽपूर्वः रसना-विपर्यय-विधिस्तत्कर्णयोश्चापलं दृष्टिः सा मद-विस्मृत-स्व-पर-दिक्किं भूयसो९क्तेन वा
इत्थं निश्चितवानसि भ्रमर हे यद्वारणोऽद्या७प्यसा* अन्तः-शून्य-करो निषेयत इति भ्रातः क एष ग्रहः ॥१९॥

तद्वैदग्ध्यं समुचित-पयस्-तोय-तत्त्वं विवेक्तुं संलापास्ते स च मृदु-पद-न्यास-हृद्यो विलासः
आस्तां तावद्बक यदि तथा वेत्थि किं चिच्छ्लथा१ंसस् तूष्णीं एवा८सितुं अपि सखे त्वं कथं मे न हंसः ॥२०॥

पथि निपतितां शून्ये दृष्ट्वा निरावरणानां नवदधिघटीं गर्वोन्नद्धः समुद्धुरकन्धरः*
निजसमुचितास्तास्ताश्चेष्टा विकारशताकुलो यदि न कुरुते काकः काणः कदा नु करिष्यति ॥२१॥

नृत्यन्तः शिखिनो मनोहरं अमी श्राव्यं पठन्तः शुका वीक्ष्यन्ते न त एव खल्विह रुषा वार्यन्त एवाथवा
पान्थस्त्रीगृहं इष्टलाभकथनाल्लब्धान्वयेनामुना सम्प्रत्येतदनर्गलं बलिभुजा मायाविना भुज्यते ॥२२॥

करभ रसभात्क्रोष्टुं वाञ्च्छस्यहो श्रवणज्वरः शरणं अथवानृज्वी दीर्घा तवैव शिरोधरा
पृथुगलविलावृत्तिश्रान्तोच्चरिष्यति वाक्चिरा दियति, समये को जानीते भविष्यति कस्य किं ॥२३॥

अन्तश्छिद्राणि भूयांसि कण्टका बहवो बहिः
कथं कमलनालस्य मा भूवन्भङ्गुरा गुणाः ॥२४॥

किं दीर्घदीर्घेषु गुणेषु पद्म सितेष्ववच्छादनकारणं ते
अस्त्येव तान्पश्यति चेदनार्या त्रस्तेव लक्ष्मीर्न पदं विधत्ते ॥२५॥

न पङ्कादुद्भूतिर्न जलसहवासव्यसनिता वपुर्दिग्धं कान्त्या स्थलनलिनरत्नद्युतिमुषा
व्यधास्यद्दुर्वेधा हृदयलघिमानं यदि न ते त्वं एवैको लक्ष्म्याः परमं अभविष्यः पदं इह ॥२६॥

उच्चैरुच्चरतु चिरं चिरी वर्त्मनि तरुं समारुह्य
दिग्व्यापिनि शब्दगुणे शङ्खः सम्भावनाभूमिः ॥२७॥

शङ्खोऽस्थिशेषः स्फुटितो मृतो वा प्रोच्छ्वास्यतेऽन्यश्वसितेन सत्यं
किं तूच्चरत्येव हि सोऽस्य शब्दः श्राव्यो न यो यो न सदर्थशंसी ॥२८॥

यथापल्लवपुष्पास्ते यथापुष्पफलर्द्धयः
यथाफलर्द्धिस्वारोहा हा मातः क्वागमन्द्रुमाः ॥२९॥

साध्वेव तविधावस्य वेधा क्लिष्टो न यद्वृथा
स्वरूपाननुरूपेण चन्दनस्य फलेन किं ॥३०॥

ग्रथितः एष मिथः कृतशृङ्खलैर्विषधरैरधिरुह्य महाजडः ।
मलयजः सुमनोभिरनाश्रितो यदत एव फलेन वियुज्यते ॥३१॥

चन्दने विषधरान्सहामहे वस्तु सुन्दरं अगुप्तिमत्कृतः
रक्षितुं वद किं आत्मगौरवं सञ्चिताः खदिर कण्टकास्त्वया ॥३२॥

यत्किञ्चनानुचितं अप्युचितानुवृत्ति किं चन्दनस्य न कृतं कुसुमं फलं वा
लज्जामहे वयं उपक्रम एव यान्तस् तस्यान्तिकं परिगृहीतबृहत्कुठाराः ॥३३॥

लब्धं चिरादमृतवत्किं अमृत्यवे स्याद् दीर्घं रसायनवदायुरपि प्रदद्याथ्
एतत्फलं यदयं अध्वगशापदग्धः स्तब्धः खलः फलति वर्षशतेन तालः ॥३४॥

छिन्नस्तृप्तसुहृत्स चन्दनतरुर्यूयं पलाय्यागता भोगाभ्याससुखासिकाः प्रतिदिनं ता विस्मृतास्तत्र वः
दंष्ट्राकोटिविषोल्कया प्रतिकृतं तस्य प्रहर्तुर्न चेथ् किं तेनैव सह स्वयं न लवशो याताः स्थ भो भोगिनः ॥३५॥

संतोषः किं अशक्तता किं अथवा तस्मिन्नसम्भावना लोभो वायं उतानवस्थितिरियं प्रद्वेष एवाथवा
आस्तां खल्वनुरूपया सफलया पुष्पश्रिया दुर्विधे सम्बन्धोऽननुरूपयापि न कृतः किं चन्दनस्य त्वया ॥३६॥

किं जातोऽसि चतुष्पथे घनतरछायोऽसि किं छायया संयुक्तफलितोऽसि किं फलभरैः पूर्णोऽसि किं सन्नतः
हे सद्वृक्ष सहस्व सम्प्रति सखे शाखाशिखाकर्षण- क्षोभामोटनभञ्जनानि जनतः स्वरैरेव दुश्चेष्टितैः ॥३७॥

सन्मूलः प्रथितोन्नतिर्घनलसच्छायः स्थितः सत्पथे सेव्यः सद्भिरितीदं आकलयता तालोऽध्वगेनाश्रितः
पुंसः शक्तिरियत्यसौ तु फलेदद्याथवा श्वोऽथवा काले क्वाप्यथवा कदाचिदथवा न त्वेव वेधाः प्रभुः ॥३८॥

त्वन्मूले पुरुषायुषं गतं इदं देहेन संशुष्यता क्षोदीयंसं अपि क्षणं परं अतह्शक्तिः कुतः प्राणितुं
तत्स्वस्त्यस्तु विवृद्द्धिं एहि महतीं अद्यापि का नस्त्वरा कल्याणिन्! फलितासि तालविटपिन्! पुत्रेषु पौत्रेषु वा ॥३९॥

पश्यामः किं अयं प्रपत्स्यत इति स्वल्पाभ्रसिद्धक्रियैर् दर्पाद्दूरं उपेक्षितेन बलवत्कर्मेरितैर्मन्त्रिभिः
लब्धात्मप्रसरेण रक्षितुं अथाशक्येन मुक्त्वाशानिं स्फीतस्तादृगहो घनेन रिपुणा दग्धो गिरिग्रामकः ॥४०॥

साधूत्पातघनौग साधु सुधिया ध्येयं धरायां इदं कोऽन्यः कर्तुं अलं तवैव घटते कर्मेदृशं दुष्करं
सर्वस्यौपयिकानि यानि कतिचित्क्शेत्राणि तत्राशनिः सर्वानौपायिकेषु दग्धसिकतारण्येष्वपां वृष्टयः ॥४१॥

लब्धायां तृषि ग्ॐऋगस्य विहगस्यान्यसय्वा कस्य चिद् वृष्ट्या स्याद्भवदीययो९पकृतिरित्यास्तां दवीयस्यदः
अस्यात्यन्तं अभाजनस्य जलदारण्योषरस्यापि किं जाता पश्य पुनः पुनरेव परुषा सैवास्य दग्धा छविः ॥४२॥

संत्यज्य पानाचमनोचितानि तोयान्तराण्यस्य सिसेविषोस्त्वां
निर्जैन, जिह्रेषि जलैर्जनस्य जघन्यकार्यौपयिकैः पयोधे ॥४३॥

आस्त्रीशिशु प्रथित एष पिपासितेभ्यः संरक्ष्यतेऽम्बुधिरपेयतयैव दूराथ्
दंष्ट्राकरालमकरालिकरालिताभिः किं भाययत्यपरं ऊर्मिपरम्पराभिः ॥४४॥

स्वमाहात्म्यश्लाघागुरुगहनगर्जाभिरभितः क्रुशित्वा क्लिश्नासि श्रुतिकुहरं अब्धे किं इति नः
इहैकश्चूडालो ह्यजनि कलशाद्यस्य सकलैः पिपासोरम्भोभिश्चुलुकं अपि नो भर्तुं अशकः ॥४५॥

सर्वासां त्रिजगत्यपां इयं असावाधारता तावकी प्रोल्लासोऽयं अथाम्बुधेऽम्बुनिलये सेयं महासत्त्वता
सेवित्वा बहुभङ्गभीषणतनुं त्वां एव वेलाचल- ग्रावस्रोतसि पानतापकलहो यत्क्वापि निर्वाप्यते ॥४६॥

नोद्वेगं यदि यासि यद्यवहितः कर्णं ददासि क्षणं त्वां पृच्छामि यदम्बुधे किं अपि तन्निश्चित्य देह्युत्तरं
नैराश्यातिशयातिमात्रनिभृतैर्निःश्वस्य यद्दृश्यसे तृष्यद्भिः पथिकैः कियत्तदधिकं स्यादौर्वदाहादतः ॥४७॥

भिद्यतेऽनुप्रविश्यान्तर् यो यथारुच्युपाधिना
विशुद्धिः कीदृशी तस्य जडस्य स्फटिकाश्मनः ॥४८॥

चिन्तामणे भुवि न केन चिदीश्वरेण मूर्ध्ना धृतोऽहं इति मा स्म सखे विषीदः
नास्त्येव हि त्वदधिरोपणपुण्यबीज- सौभाग्ययोग्यं इह कस्य चिदुत्तमाङ्गं ॥४९॥

संवित्तिरस्त्यथ गुणाः प्रतिभान्ति लोके तद्धि प्रशस्तं इह कस्य किं उच्यतां वा
नन्वेवं एव सुमणे लुट यावदायुस् त्वं मे जगत्प्रसहनेऽत्र कथाशरीरं ॥५०॥

चिन्तामणेस्तृणमणेश्च कृतं विधात्रा केनोभयोरपि मणित्वं अदः समानं
नैकोऽर्थितानि ददन्नर्थिजनाय खिन्नो गृह्णञ्जरत्तृणलवं तु न लज्जतेऽन्यः ॥५१॥

दूरे कस्य चिदेष कोऽप्यकृतधीर्नैवास्य वेत्त्यन्तरं मानी कोऽपि न याचते मृगयते कोऽप्यल्पं अल्पाशयः
इत्थं प्रार्थितदानदुर्व्यसनिनो नौदार्यरेखोज्ज्वला जातानैपुणदुस्तरेषु निकषस्थानेषु चिन्तामणेः ॥५२॥

परार्थे यः पीडां अनुभवति भङ्गेऽपि मधुरो यदीयः सर्वेषां इह खलु विकारोऽप्यभिमतः
न सम्प्राप्तो वृद्धिं स यदि भृशं अक्षेत्रपतितः किं इक्षोर्दोषोऽयं न पुनरगुणाया मरुभुवः ॥५३॥

आम्राः किं फलभारनम्रशिरसो रम्या किं ऊष्मच्छिदः सच्छायाः कदलीद्रुमाः सुरभयः किं पुष्पिताश्चम्पकाः
एतास्ता निरवग्रहोग्रकरभोल्लीढार्धरूढाः पुनः शम्यो भ्राम्यसि मूढ निर्मरुति किं मिथ्यैव मर्तुं मरौ ॥५४॥

आजन्मनः कुशलं अण्वपि रे कुजन्मन् पांसो त्वया यदि कृतं वद तत्त्वं एव
उत्थापितोऽस्यनलसारथिना यदर्थं दुष्टेन तत्कुरु कलङ्कय विश्वं एतथ् ॥५५॥

निस्साराः सुतरां लघुप्रकृतयो योग्या न कार्ये क्व चिछ् छुष्यन्तोऽद्य जरत्तृणाद्यवयवाः प्राप्ताः स्वतन्त्रेण ये
अन्तःसार[अराङ्मुखेन धिगहो ते मारुतेनामुना पश्यात्यन्तचलेन सद्म महतां आकाशं आरोपिता ॥५६॥

ये जात्या लघवः सदैव गणनां याता न ये कुत्र चिथ् पद्भ्यां एव विमर्दिताः प्रतिदिनं भूमौ निलीनाश्चिरं
उत्क्षिप्ताश्चपलाशयेन मरुता पश्यान्तरिक्षेऽधुना तुङ्गानां उपरिस्थितिं क्षितिभृत्तां कुर्वन्त्यमी पांसवः ॥५७॥

रे दन्दशूक यदयोग्यं अपीश्वरस्त्वां वात्सल्यतौ नयति नूपुरधाम सत्यं
आवर्जितालिकुलझंकृतिर्मूर्च्छितानि किं शिञ्जितानि भवतः क्षयं एव कर्तुं ॥५८॥

मौलौ सन्मणयो गृहं गिरिगुहा त्यागित्वं आत्मत्वचो निर्यत्नोपनतश्चैव वृत्तिरनिलैरेकत्र चर्येदृशी
अन्यत्रानृजु वर्त्म वाग्द्विरसना दृष्टौ विषं दृश्यते या धिक्तां अनु दीपको ज्वलति भो भोगिन्सखे किं न्विदं ॥५९॥

कल्लोलवेल्लितदृषत्परुषप्रहारै रत्नान्यमूनि मकरालय मावमंस्थाः
किं कौस्तुभेन विहितो भवतो न नाम याच्ञाप्रसारितकरः पुरुषोत्तमोऽपि ॥६०॥

भूयांस्यस्य मुखानि नाम विदितैवास्ते महाप्राणता कद्रवाः सत्प्रसवोऽयं अत्र कुपिते चिन्त्यं यथेदं जगथ्
त्रैलोक्याद्भुतं ईदृशं तु चरितं शेषस्य येनापि सा प्रोन्मृज्येव निवर्तिता विषधरज्ञातेयदुर्वृत्तिता ॥६१॥

वर्षे समस्त एकैकः श्लाघ्यः कोऽप्येष वासरः
जनैर्महत्तया नीतो यो न पूर्वैर्न चापरः ॥६२॥

आबद्धकृत्रिमसटाजटिलांसभित्तिर् आरोपितो मृगपतेः पदवीं यदि श्वा
मत्तेभकुम्भतटपाटनलम्पटस्य नादं करिष्यति कथं हरिणाधिपस्य ॥६३॥

किं इदं उचितं शुद्धेः श्लिष्टं स्वपक्षसमुन्नतेः फलपरिणतेर्युक्तं प्राप्तं गुणप्रणयस्य वा
क्षणं उपगतः कर्णोपान्तं परस्य पुरः स्थितान् विशिख निपतन्क्रूरं दूरान्नृशंस निहंसि यथ् ॥६४॥

अमी ये दृश्यन्ते ननु सुभगरूपाः सफलता भवत्येषां यस्य क्षणं उपगतानां विषयतां
निरालोके लोके कथं इदं अहो चक्षुरधुना समं जातं सर्वैर्न समं अथवान्यैरवयवैः ॥६५॥

आहूतेषु विहङ्गमेषु मशको नायान्पुरो वार्यते मधेवारिधि वा वसंस्तृणमणिर्धत्ते मणीनां रुचं
खद्योतोऽपि न कम्पते प्रचलितुं मध्येऽपि तेजस्विनां धिक्सामान्यं अचेतनं प्रभुं इवानामृष्टतत्त्वान्तरं ॥६६॥

हेमकार सुधिये नमोऽस्तु ते दुस्तरेषु बहुशः परीक्षितुं
काञ्चनाभरणं अश्मना समं यत्त्वयैवं अधिरोप्यते तुलां ॥६७॥

वृत्त एव स घटोऽन्धकूप यस् त्वत्प्रसादं अपि नेतुं अक्षमह्
मुद्रितं त्वधमचेष्टितं त्वया तन्मुखाम्बुकणिकाः प्रतीच्छता ॥६८॥

तृणमणेर्मनुजस्य च तत्त्वतः किं उभयोर्विपुलाशयतोच्यते
तनुतृणाग्रलवावयवैर्ययोर् अवसिते ग्रहणप्रतिपादने ॥६९॥

शतपदी सति पादशते क्षमा यदि न गोष्पदं अप्यतिवर्तितुं
किं इयता द्विपदस्य हनुमतो जलनिधिक्रमणे विवदामहे ॥७०॥

न गुरुवंशपरिग्रहशौण्डता न च महागुणसंग्रहणादरः
फलविधानकथापि न मार्गणे किं इह लुब्धकबालगृहेऽधुना ॥७१॥

तनुतृणाग्रधृतेन हृतश्चिरं क इव तेन न मौक्तिकशङ्कया
स जलबिन्दुरहो विपरीतदृङ् जगदिदं वयं अत्र सचेतनाः ॥७२॥

बुध्यामहे न बहुधापि विकल्पयन्तः कैर्नामभिर्व्यपदिशेम महामतींस्तान्\तेस्तिम्{\चित्Sउभाषितावली ९८२}*
येषां अशेषभुवनाभरणस्य हेम्नस् तत्त्वं विवेक्तुं उपलाः परमं प्रमाणं ॥७३॥

संरक्षितुं कृषिं अकारि कृषीवलेन पश्यात्मनः प्रतिकृतिस्तृणपूरुषोऽयं
स्तब्धस्य निष्क्रियतयास्तभियोऽस्य नूनं अश्नन्ति ग्ॐऋगगणाः पुर एव सस्यं ॥७४॥

कस्यानिमेषनयने विदिते दिवौको- लोकादृते जगति ते अपि वै गृहीत्वा
पिण्डप्रसारितमुखेन तिमे किं एतद् दृष्टं न बालिश विशद्बडिशं त्वयान्तः ॥७५॥

पुंस्त्वादपि प्रविचलेद्यदि यद्यधोऽपि यायाद्यदि प्रणयने न महानपि स्याथ्
अभ्युद्धरेत्तदपि विश्वं इतीदृशीयं केनापि दिक्प्रकटिता पुरुषोत्तमेन ॥७६॥

स्वाल्पाशयः स्वकुलशिल्पविकल्पं एव यः कल्पयन्स्खलति काचवणिक्पिशाचः
ग्रस्तः स कौस्तुभमणीन्द्रसपत्नरत्न- निर्यत्नगुम्फनकवैकटिकेर्ष्ययान्तः ॥७७॥

तत्प्रत्यर्थितया वृतो न तु कृतः सम्यक्स्वतन्त्रो भयाथ् स्वस्थस्तान्न निपातयेदिति यथाकामं न सम्पोषितः*
संशुष्यन्पृषदंश एष कुरुतां मूकः स्थितोऽप्यत्र किं गेहे किं बहुनाऽधुना गृहपतेश्चौर्राश्चरन्त्याखवः ॥७८॥

एवं चेत्सरसस्वभावमहिमा जाड्यं किं एतादृशं यद्येषा च निसर्गतः सरसता किं ग्रन्थिमत्तेदृशी
मूलं चेच्छुचिपङ्कजश्रुतिरियं कस्माद्गुणा यद्यमी किं छिद्राणिमृणाल भवतस्तत्त्वं न मन्यामहे ॥७९॥

ये दिग्ध्वेव कृता विषेण कुसृतिर्येषां कियद्भण्यते लोकं हन्तुं अनागसं द्विरसना रन्ध्रेषु ये जाग्रति
व्यालास्तेऽपि दधत्यमी सदसतोर्मूढा मणीन्मूर्धभिर् नौचित्याद्गुणशलिनां क्व चिदपि भ्रंशोऽस्त्यलं चिन्तया ॥८०॥

अहो स्त्रीणां क्रौर्यं हतरजनि धिक्त्वां अतिशठे वृथाप्रक्रान्तेयं तिमिरकबरीविश्लथधृतिः
अवक्तव्ये पाते जननयननाथस्य शशिनः कृतं स्नेहस्यान्तोचितं उदधिमुख्यैर्ननु जडैः ॥८१॥

अहो गेहेनर्दी दिवसविजिगीषाज्वररुजा प्रदीपोऽयं स्थाने ग्लपयति मृषामूनवयवान्
उदात्तस्वच्छन्दाक्रमणहृतविश्वस्य तमसः परिस्पन्दं द्रष्टुं मुखं अपि च किं सोढं अमुना ॥८२॥

नामाप्यन्यतरोर्निमीलितं अभूत्तत्तावदुन्मीलितं प्रस्थाने स्खलतः स्ववर्त्मनि विधेरप्युद्गृहीतः करः
लोकश्चायं अनिष्टदर्शनकृताद्दृग्वैशसान्मोचितो युक्तं काष्ठिक लूनवान्यदसि तां आम्रालिं आकालिकीं ॥८३॥

वाताहारतया जगद्विषधरैराश्वास्य निःशेषितं ते ग्रस्ताः पुनरभ्रतोयकणिकातीव्रव्रतैर्बर्हिभिः
तेऽपि क्रूरचमूरुचर्मवसनैर्नीताः क्षयं लुब्धकैर् दम्भस्य स्फुरितं विदन्नपि जनो जाल्मो गुणनीहते ॥८४॥

ऊढा येन महाधुरः सुविषमे मार्गे सदैकाकिना सोढो येन कदा चिदेव न निजे गोष्ठेऽन्यशौण्डध्वनिः
आसीद्यस्तु गवां गणस्य तिलकस्तस्यैव सम्प्रत्यहो धिक्कष्टं धवलस्य जातजरसो गोः पण्यं उद्घोष्यते ॥८५॥

अस्थानोद्योगदुःखं जहिहि न हि नभः पङ्गुसंचारयोग्यं स्वायासायैव साधो तव शलभ जवाभ्यासदुर्वासनेयं
ते देवस्याप्यचिन्त्याश्चटुलितभुवनाभोगहेलावहेला- मूलोत्खातानुमार्गागतगिरिगुरवस्तार्क्ष्यपक्षाग्रवाताः ॥८६॥

चन्द्रेणैव तरङ्गभङ्गिमुखरं संवर्ध्यमानाम्भसो दद्युर्जीवितं एव किं गिरिसरित्स्रोतांसि यद्यम्बुधेः
तेष्वेव प्रतिसंविधानविकलं पश्यत्सु साक्षिष्विव द्राग्दर्पोद्धुरं आगतेष्वपि न स क्षीयेत यद्यन्यथा ॥८७॥

किलैकचुलुकेन यो मुनिरपारं अब्धिं पपौ सहस्रं अपि घस्मरोऽविकृतं एष तेषां पिबेथ्
न सम्भवति किं त्विदं बत विकासिधाम्ना विना सदप्यसदिव स्थितं स्फुरितं अन्त ओजस्विनां ॥८८॥

ग्रावाणोऽत्र विभूषणं त्रिजगतो मर्यादया स्थीयते नन्वत्रैव विधुः स्थितो हि विबुधाः सम्भूय पूर्णाशिषः
शेते चोद्गतनाभिपद्मविलसद्ब्रह्मेह देवः स्वयं दैवादेति जडः स्वकुक्षिभ्र्तये सोऽप्यम्बुधिर्निम्नतां ॥८९॥

अनीर्ष्या श्रोतारो मम वचसि चेद्वच्मि तदहं स्वपक्षाद्भेतव्यं न तु बहु विपक्षात्प्रभवतः
तमस्याक्रान्ताशे कियदपि हि तेजोऽवयविनः स्वशक्त्या भान्त्येते दिवसकृति सत्येव न पुनः ॥९०॥

एतत्तस्य मुखात्कियत्कमलिनीपत्रे कणं वारिणो यन्मुक्तामणिरित्यमंस्त स जडः शृण्वन्यदस्मादपि
अङ्गुल्यग्रलघुक्रियाप्रविलयिन्यादीयमाने शनैः कुत्रोड्डीयगतो ममेत्यनुदिनं निद्राति नान्तःशुचा ॥९१॥

आस्तेऽत्रैव सरस्यहो बत कियान्संतोषपक्षग्रहो हंसस्यास्य मनाङ्न धावति मनः श्रीधाम्नि पद्मे क्व चिथ्
सुप्तोऽद्यापि न बुध्यते तदितरांस्तावत्प्रतीक्षामहे वेलां इत्युदरंप्रिया मधुलिहः सोढुं क्षणं न क्षमाः ॥९२॥

भेकेन क्वणता सरोषपरुषं यत्कृष्णसर्पानने दातुं गण्डचपेतं उज्झितभिया हस्तः समुल्लासितः
यच्चाध्ॐउखं अक्षिणी पिदधता नागेन तत्र स्थितं तत्सर्वं विषमन्त्रिणो भगवतः कस्यापि लीलायितं ॥९३॥

मृत्योरास्यं इवाततं धनुरिदं चाशीविषाभाः शराः शिक्षा सापि जितार्जुनप्रभ्र्तिका सर्वत्र निम्ना गतिः
अन्तः क्रौर्यं अहो शठस्य मधुरं हा हारि गेयं मुखे व्याधस्यास्य यथा भविष्यति तथा मन्ये वनं न्रिमृगं ॥९४॥

कोऽयं भ्रान्तिप्रकारस्तव पवन पदं लोकपादाहतीनां तेजस्विव्रातसेव्ये नभसि नयसि यत्पांसुपूरं प्रतिष्ठां
यस्मिन्नुत्थाप्यमाने जननयनपथोपद्रवस्तावदास्तां केनोपायेन साध्यो वपुषि कलुषतादोष एष त्वयैव ॥९५॥

एते ते विजिगीषवो नृपगृहद्वारार्पितावेक्षणाः क्षिप्यन्ते वसुयाचनाहितधियः कोपोद्धतैर्वेत्रिभिः
अर्थेभ्यो विषयोपभोगविरसैर्नाकारि यैरादरस् ते तिष्ठन्ति मनस्विनः सुरसरित्तीरे मनोहारिणि ॥९६॥

वाता वान्तु कदम्बरेणुशबला नृत्यन्तु सर्पद्विषः सोत्साहा नवतोयभारगुरवो मुञ्चन्तु नादं घनाः
मग्नां कान्तवियोगदुःखदहने मां वीक्ष्य दीनाननां विद्युत्किं स्फुरसि त्वं अप्यकरुणे स्त्रीत्वेऽपि तुल्ये सति ॥९७॥

प्राणा येन समर्पितास्तव बलाद्येनैवं उत्थापितः स्कन्धे येन चिरं धृतोऽसि विदधे यस्ते सपर्यां अपि
तस्यान्तह्स्मितमात्रकेण जनयञ्जीवापहारं क्षणाद् भ्रातः प्रत्युपकारिणां धुरि परं वेताललीलायसे ॥९८॥

रज्ज्वा दिशः प्रवितताः सलिलं विषेण खाता मही हुतभुजा ज्वलिता वनान्ताः
व्याधा पदान्यनुसरन्ति गृहीतचापाः कं देशं आश्रयतु यूथपतिर्मृगाणां ॥९९॥

अयं वारां एको निलय इति रत्नाकर इति श्रितोऽस्माभिस्तृष्णातरलितमनोभिर्जलनिधिः
क एवं जानीते निजकरपुटीकोटरगतं क्षणादेनं ताम्यत्तिमिनिकरं आपास्यति मुनिः ॥१००॥

विशालं शाल्मल्या नयनसुभगं वीक्ष्य कुसुमं शुकस्यासीद्बुद्धिः फलं अपि भवेदस्य सदृशं
चिरासीनं तस्मिंश्च फलं अपि दैवात्परिणतं विपाके तूलोऽन्तः सपदि मरुता सोऽप्यपहृतः ॥१०१॥

सर्वप्रजाहितकृते पुरुषोत्तमस्य वासे समस्तविबुधप्रथितेष्टसिद्धौ
चन्द्रांशुवृन्दविततद्युतिं अत्यमुष्मिन्- हे कालकूट तव जन्म कथं पयोधौ ॥१०२॥   

फलितघनविटपविघटित-पटुदिनकरमहसि लसतिकल्पतरौ ।
छायार्थी कः पशुरपि भवति जरद्वीरुधां प्रणयी ॥१०३॥

Translation - भाषांतर
N/A


References :

भल्लटशतकम्
Last Updated : 2016-11-11T11:55:18.5200000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

limited interest

  • पु. मर्यादित हितसंबंध 
RANDOM WORD

Did you know?

सूतक कोणाचे नसते?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site