दैवज्ञ वल्लभा - रोगशुभ

दैवज्ञ वल्लभा म्हणजे ज्योतिषशास्त्रासंबंधी वराहमिहीराने लिहीलेला एक अत्यंत उपयुक्त ग्रंथ.


लग्नस्थितो वाऽष्टमसंस्थितो वा पापग्रहो यस्य तु जन्मराशिम्।
निरीक्षते तस्य गदार्दितस्य निःसंशयं मृत्युमुदाहरन्ति ॥१॥

पृष्ठोदये विलग्ने क्रूराः केन्द्रेऽष्टगः शशी यस्य।
रोगार्तस्य विनाशो दृष्टे वा बलयुतैः पापैः ॥२॥

शशिनं शशिपुत्रं वा पश्यति पापो विलग्नगेहस्थम्।
आदेष्टव्यः प्रष्टुः कष्टो व्याधिर्न संदेहः ॥३॥

सौम्यग्रहा यदि सुतस्मरमृत्युसंस्थाः पापा भवन्ति च शुभग्रहदृश्यमानाः।
आयत्रिषड्दशमगश्च निशाकरः स्यात् तस्माच्छुभाश्च यदि वा शुभमाहुरस्य ॥४॥

पापेक्षितः पापयुतः शुभानां दृग्योगहीनो नवमः शनिश्चेत्।
तदा रुजार्तः परदेशगः स्यात् षष्ठाष्टमे मृत्युकरस्त्ववश्यम् ॥५॥

उपचयगृहगे चन्द्रे शुभेषु केन्द्रत्रिकोणनिधनेषु।
शुभदृष्टे वा लग्ने रोगी देशान्तरे नीरुक् ॥६॥

लग्नगतः परिपूर्णो रजनिजानिर्विलोकितो गुरुणा।
केन्द्रे वा गुरुभृगुजौ रोगार्तस्तत्र नीरोगः ॥७॥

प्रश्नश्चेत्स्थिरलग्ने तदा न मरणं न रोगशान्तिर्वा।
चरलग्ने विपरीतं द्विदेहलग्ने तु पूर्वमिव ॥८॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP