दैवज्ञ वल्लभा - प्रवासचिन्ता

दैवज्ञ वल्लभा म्हणजे ज्योतिषशास्त्रासंबंधी वराहमिहीराने लिहीलेला एक अत्यंत उपयुक्त ग्रंथ.


लग्नतः सहजपुत्रवित्तगा दूरगागमनशंसिनो ग्रहाः।
नष्टलम्भनकराः शुभग्रहाः शीघ्रमागमकरौ तु मन्त्रिणौ ॥१॥

बृहस्पतौ केंद्रगते तु कश्चन ग्रहो भवेत् षष्ठगतोऽथ सप्तमः।
भवेत्तदा प्रोषित पूरुषागमस्त्रिकोणगे चन्द्रसुते सितेऽपि वा ॥२॥

अष्टमे शशिनि पापवर्जिते कंटके सुखमुपैति चाध्वगः।
कण्टकस्थितशुभग्रहैः शुभं स्वं निवासमयेति लाभवान् ॥३॥

पृष्ठे लग्ने पापदृष्टे वधो वा बन्धो वा स्यात्सौम्यदृष्टे तु न स्यात्।
पापे षष्ठे केन्द्रगे वा तृतीये नष्टो भ्रष्टः स्थानतः प्रच्युतो वा ॥४॥

यथा तथा यदि भवतः कथंचन द्वये त्रये सुरगुरुदैत्यमंत्रिणौ।
प्रवासिनां भवति तदाऽऽगमो नृणां तुरीयगौ नियतगृहप्रवेशदौ ॥५॥

पापकैः षष्ठलाभत्रिकस्थायिभिः सौम्यकैः किंच केंद्रत्रिकोणस्थितैः।
दूरगस्यागमो निर्विशंकं स्फुटं जल्पनीयो ग्रहग्रंथविद्भिः सदा ॥६॥

अशुभर्क्षगतोऽशुभैश्चदृष्टश्चतुरस्रगृहेऽथवा त्रिकोणके।
दिवसेश्वरनंदनोऽध्वगानां नियतं शंसति बन्धनं तदानीम् ॥७॥

शुभयुक्ते स्थिरलग्ने सुस्थिरबन्धश्चरे त्वशुभयुक्ते।
क्षिप्रं भवति विमोक्षो द्वितनौ कालक्रमान्मोक्षः ॥८॥

अरिभिरवलोक्यमानास्त्रिकोणयामित्रगा पापाः।
पृष्ठोदयं विलग्नं सौम्यादृष्टं च पन्थमरणाय ॥९॥

अध्वस्थाने सौम्यैरध्वा निरुपद्रवोऽध्वनीनस्य।
भयरोगपरिक्लेशाः पापैर्लग्नस्थितैस्तस्य ॥१०॥

गृहे ग्रहो यावति लग्नतो भवेत्तदा हता द्वादश राशयः स्फुटम्।
अवेहि तावद्दिवसैर्गतागमं निवर्तनं वक्रगतग्रहेण च ॥११॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP