वाञ्चकमाया महती महीतले जलधिमेखले निखिले ।
नष्टधियां मत्स्यानां जालाली धीवरैर्विहिता ॥१॥

सर्वस्वमेव परमं प्राणा येषां कृते प्रयत्नोऽयम् ।
वैद्या वेद्याः सततं येषां हस्ते स्थितास्तेऽपि ॥२॥

एते हि देहदाहाद् विरहा इव दुःसहा भिषजः ।
ग्रीष्मदिवसा इवोग्रा बहुतृष्णः शोषयन्त्य् एव ॥३॥

विविधौषधपरिवतैर्योगैः जिज्ञासया स्वविद्यायाः ।
हत्वा नृणां सहस्रं पश्चाद्वैद्यो भवेत्सिद्धः ॥४॥

विन्यस्य राशिचक्रं ग्रहचिन्तां नाटयर्मुखविकारैः ।
अनुवदति चिरार्गणको यत् किंचित् प्राश्निकेनोक्तम् ॥५॥

गणयति गगने गणकः चन्द्रेण समागमं विशाखायाः ।
विविधभुजंगक्रीडासक्तां गृहिणीं न जानाति ॥६॥

प्रथमं स्ववित्तमखिलं कनकार्थी भस्मसात् कृत्वा ।
पश्चात् सधनान्रसिकान् विनाशयत्य् एष वर्णिकानिपुनः ॥७॥

शतवेधी सिद्धो मे सहस्रवेधी रसोऽपि निर्यातः ।
इति वदति धातुवादी नग्नो मलिनः कृशो रूक्षः ॥८॥

ताम्रघटोपमशीर्षो धूर्तो हि रसायनी जराजीर्णः ।
केशोत्पादनकथया खल्वाटानेव मुष्णाति ॥९॥

प्रह्लादनशुचितारकशम्बररमणीजने ऽपि बद्धाशः ।
बिल्वादिभिरतिकामी हुत्वा धूमान्धतामेति ॥१०॥

खेचर्यः सुखसाध्या यत्नाद्यदि लभ्यते नभःकुसुमम् ।
उक्ताः प्रयोगविद्भिः मशकास्थिषु सिद्धयो बहुधा ॥११॥

कृष्णाश्वशकृद्वृत्या पश्यति गगने सुरेन्द्रभवनानि ।
मण्डूकवसालिप्तो भवति पुमार्वल्लभोऽप्सरसाम् ॥१२॥

इत्य् उक्त्वा पुनराशां दिशि दिशि विलसन्ति धूर्तसंघाताः ।
यैर्विविधसिद्धिलुब्धाः क्षैप्ताः शतशो नराः श्वभ्रे ॥१३॥

वश्याकर्षणयोगी पथि पथि रक्षां ददाति नारीणाम् ।
रतिकामतन्त्रमूलं मूलं मन्त्रं न जानाति ॥१४॥

बहवो रथ्यागुरवो लघुदीक्षाः स्वल्पयोगमुत्पाद्य ।
व्याधा इव वर्धन्ते मुग्धानां द्रविणदारहराः ॥१५॥

हस्तस्था धनरेखा विपुलतरास्या पतिश् च चलचित्तः ।
मृद्नाति कुलवधूनाम् इत्य् उक्त्वा कमलकोमलं पाणिम् ॥१६॥

बद्धेऽङ्गुष्ठे सलिले पश्यति विविधं जनभ्रमं कन्या ।
न प्राप्यते च चोरो मोहोऽसाव् इन्द्रजालस्य ॥१७॥

खादति पिबति च धूर्तः प्रलापकारी नृणां तलाघातैः ।
चेटावेशं कृत्वा निर्मन्त्रक्षुद्रधूपेन ॥१८॥

कक्षपुटे नागार्जुनलिखिता युक्तिर् विधीयतां धूपे ।
यो हर्तुं मोहादिति धूर्तोऽग्नौ क्षिपति परवित्तम् ॥१९॥

यक्षीपुत्राश् चोरा विज्ञेयाः कूटधूपकर्तारः ।
येषां प्रत्यक्षफलं दारिर्द्यं राजभङ्गश् च ॥२०॥

बहुतरधनेन वणिजा पुत्री सा पुत्रवर्गृहीतैव ।
मदधीनेति कथाभिः कन्यार्थं भुज्यते धूर्तः ॥२१॥

चिन्त्यः स्वेङितवादी मर्मज्ञो हृदयचौर एवासौ ।
तिष्ठति परप्रयुक्तो मिथ्याबधिरोऽथवा मूकः ॥२२॥

भस्मस्मेरा वेश्या वृद्धाः श्रमणाः सदैवता गणिकाः ।
एताः कुलनारीणां चरन्ति धनशीलहारिण्यः ॥२३॥

विधवा तरुणी सधना वाञ्चति दिव्यं भवद्विधं रमणम् ।
धूर्तो जडमित्य् उक्त्वा सर्वस्वं तस्य भक्षयति ॥२४॥

प्रत्यहवेतनयुक्ताः कर्मसु ये कार्य्शिल्पिनो धूर्ताः ।
विलसन्तिकर्मविघ्नैः विज्ञेयाः कालचौरास्ते ॥२५॥

अक्षव्याजैर्विविधैः गणनहस्तादिलाघवैर् निपुणाः ।
धूर्ताश् चरन्ति गूढं प्रसिद्धकितवा विदेशेषु ॥२६॥

भोजनमात्रोत्पत्तिः बहुव्ययो द्यूतमद्यवेश्याभिः ।
विज्ञेयो गृहचौरो बन्धुजनो वेश्मदासो वा ॥२७॥

कृतकं शास्त्रमसत्यं साक्षार्दृष्टश् च केन परलोकः ।
इति वदति यः स शङ्क्यो निरङ्कुशो मत्तमातङ्गः ॥२८॥

बहुलाभलुब्धमनसां हरन्ति ये दुःसहेन लाभेन ।
ऋणधनमधिकविदग्धा विज्ञेया लाभचोरास्ते ॥२९॥

अधिकरणाम्बुधिमध्ये ज्वलन्ति वडवाग्नयः सततभक्षाः ।
जनधनघनमनसो ये भट्टाख्या न्यायचोरास्ते ॥३०॥

विभवाम्भोरुहमधुपा दुःसहविपदनिलवेगविमुखा ये ।
सुहृदस्ते सुखचौराः चरन्ति लक्ष्मीलताहूताः ॥३१॥

यद्यत् किंचिरपूर्वं परिचरितं कल्पनादसंबद्धम् ।
वर्णयति हर्षकारी बहुवचनः कर्णचौरोऽसौ ॥३२॥

दोषेषु गुणस्तुतिभिः श्रद्धामुत्पाद्य चतुरवचना ये ।
कुर्वन्त्यभिनवसृष्टिं स्थितिचौरास्ते निराचाराः ॥३३॥

आत्मगुणख्यातिपराः परगुणमाच्छाद्य विपुलयत्नेन ।
प्रभवन्ति परमधूर्ता गुणचौरास्ते विमूढहृदयेषु ॥३४॥

वल्लभतामुपयाताः परवाल्लभ्यं विचित्रपैशुन्यैः ।
ये नाशयन्ति धूर्ता मात्सर्यार्वृत्तिचौरास्ते ॥३५॥

शमदमभक्तिविहीनस् तीव्रव्रतदुर्ग्रहग्रस्तः ।
अभिभवति प्रतिपत्त्या साधुजनं कीर्तिचौरोऽसौ ॥३६॥

देशान्तरसंभविभिः भोगवरैर्वर्णनारम्यैः ।
येऽपि नयन्ति विदेशं पशुसदृशार्देशचौरास्ते ॥३७॥

नानाहासविकारैः बहुवैदग्ध्यैः सनमवैचिर्त्यः ।
रमयति दिवसमशेषं प्रकृतिव्यापारचौरोऽ सौ ॥३८॥

भक्षैतनिजबहुविभवाः परविभवक्षपणदीक्षैताः पश्चात् ।
अनिशं वेश्यावेशस्तुतिमुखरमुखा विटाश् चिन्त्याः ॥३९॥

अतिशुचितया न वित्तं गृह्णाति करोति चाग्र्यमधिकारम् ।
यो नियमसलिलमत्स्यः परिहार्यो निःस्पृहनियोगी ॥४०॥

रथ्यावणिजः पापाः स्वयमेत्य गृहेषु यत्प्रयच्छन्ति ।
तत्स्वकरार्पितमखिलं भवति परं काचशकलमपि ॥४१॥

छन्दानुवर्तिनो ये श्वभ्रापातेऽपि साधुवादपराः ।
सर्वस्वहारिणस्ते मधुरा विषव्द्विशन्त्यन्तः ॥४२॥

तव नरपतिः प्रसादी गुणगणनपरः परं विजने ।
उक्त्वेति राजदासैः सेवकलोकः सदा मुषितः ॥४३॥

स्वप्ने मयाब्जहस्ताऌदृष्टा श्रीस्त्वद्गृहं प्रविष्टा सा ।
मासोपविष्टतुष्टा देवी श्रीः सादरा प्राह ॥४४॥

मद्भक्तस्ते दास्यति सर्वं तत्त्वं मया लब्धः ।
इत्युक्त्वा सरलाणां विलसन्ति गृहे गृहे धूर्ताः ॥४५॥

पुरविप्लवनगरोदययज्ञविवाहोत्सवादिजनसंघे ।
प्रविशन्ति बन्धुवेषाः परेऽपि सर्वापहाराय ॥४६॥

परिजनपानावसरे पिबति न मद्यं निशासु जागर्ति ।
ध्यानपरः सेवार्थी किमपि च कर्तुं कृतोद्योगः ॥४७॥

न ददाति प्रतिवचनं ददाति वा गद्गदाक्षरैर्विषमम् ।
नष्टमुखः सोच्छ्वासः प्रवेपते तत्क्षणं चोरः ॥४८॥

यश्चाधिकपरिशुद्धिं प्रार्थयते रटति यश्च साटोपह् ।
घोरापह्नवकारी शङ्कायतनं स पापः स्यात् ॥४९॥

प्रत्यक्षेऽपि परोक्षे कृतमकृतं कथितमप्यनुक्तं च ।
यः कुरुते निर्विकृतिः स परं पुंसां भयस्थानम् ॥५०॥

कृतकृतकमुग्धभावः षण्ढ इव स्त्रीस्वभावसंलापः ।
विचरति यः स्त्रीमध्ये स कामदेवो गृहे धूर्तः ॥५१॥

सततमधोमुखदृष्टिः कोषगृहे मूषकश्चिन्त्यः ।
विलिखन्कोषनियुक्तः कोषगृहे मूषकश्चिन्त्यः ॥५२॥

तिष्ठति यः सकलदिनं गृहदासः प्रीतवेश्मभवनेषु ।
गृहदीर्घकथाः कथयन्स चरः सर्वात्मना त्याज्यः ॥५३॥

निन्द्ये बहुदण्डार्हे कर्मणि यः सर्वथा प्रतारयति ।
आजीवभीतिभोज्यस्तेन निबद्धः स्थिरो राशिह् ॥५४॥

दृष्ट्वा गुह्यमशेषं तस्य रहस्यं च लीलया लब्ध्वा ।
धूर्तेन मुग्ध्लोकस्तेन शिलापट्टके लिखितः ॥५५॥

राजविरुद्धं द्रव्यं रूपं वा कूटलेख्यमन्यद्वा ।
निःक्षिप्य यात्यलक्ष्यं धूर्तो धनिनां विनाशाय ॥५६॥

क्षुद्रः क्षीनोऽपि गृहे लब्धास्वादः कृतो धनैर्येन ।
शस्त्रविषपाशहस्तः स पाशहस्तो धृतस्तेन ॥५७॥

लज्जाधनः कुलीनः संभावितशुद्धशीलमर्यादह् ।
नारीक्रियते धूर्तैः प्रायेण सगर्भनारीभिः ॥५८॥

दृष्टाभिरदृष्टाभिः क्रूराभिः कृतकवचनमुद्राभिः ।
धूर्तो मुष्णाति वधूं मुग्धां विप्रोषिते पत्यौ ॥५९॥

सजनेऽपि साधुवेषा विधृताभरणाश्च हेलया धूर्ताः ।
धीरा हरन्ति सकलं दृष्टे हासोऽन्यथाऌलाभः ॥६०॥

देशे कृत्वा स्फीते कुम्भधनो डम्बरैर्गृहं पूर्णम् ।
निःक्षेपलक्षहारी वर्षेण पलायते धूर्तः ॥६१॥

शुचितरकनकविभूषणतनुवस्त्राः संभ्रमेण पूज्यन्ते ।
रिपुभग्नराजपुत्रव्याजेन गृहे गृहे धूर्ताः ॥६२॥

आदाय देववृषभं पुण्यं छागं धूर्तविक्रीतं ।
मुग्धस्य दुःखपाकः समर्घलाभोदितो हर्षः ॥६३॥

साधिक्षेपत्यागो महतां संपत्सु यः कृतासूयः ।
तस्मै भयेन वित्तं रिक्तो ऽपि ददाति यत्नेन ॥६४॥

निःसारभूर्जसारैः कृत्वा युक्तं महासार्थम् ।
धूर्तो दिशि दिशि विंचरन्धनिकसहस्राणि मुष्णाति ॥६५॥

धूर्तो वसन्विदेशेषूद्दिश्य सुरापगागयायात्राम् ।
मृतबन्धूनामार्थे द्रविणं गृह्णाति मुग्धेभ्यः ॥६६॥

मुष्णाति सार्थरमणी शाटीमादाय निद्रया मुग्धान् ।
धूर्तेन कूटरूपं दत्त्वा निशि वञ्च्यते सापि ॥६७॥

बधिरं वाऌमूकं वाऌवणिजं निःक्षिप्य भाण्डशालायाम् ।
धूर्तो नयति त्वरया बहुमूल्यं वर्णकद्रव्यम् ॥६८॥

किंचित्परिचयमात्रैः किंचिद्धार्ष्ट्यैः सकल्पनैः किंचित् ।
किंचिद्विवादकलहैः सर्वज्ञो वञ्चकश् चरति ॥६९॥

मिथ्याडम्बरधनिकः पुस्तकविद्वान्कथाज्ञानी ।
वर्णनशूरश्चपलः चतुर्मुखो जृम्भते धूर्तः ॥७०॥

सर्वावयवविधूननकृतसंकेतान् विसृज्य गेहेषु ।
भोक्तुं व्रजति दिगन्तान्स्वेच्छाचारी महाधूर्तः ॥७१॥

शतवार्षिकमामलकं भुक्त्वा श्रीपर्वतादहं प्राप्तः ।
धूर्तो वदति गुरूणां पुरतः शकुनं स्मरामीति ॥७२॥

एता लेशेन मया कथिता मायाश्चतुःषष्टिः ।
को वेद वञ्चकानां मायानां शतसहस्राणि ॥७३॥

इति महाकविश्रीक्षेमेन्द्रविरचिते कलाविलासे नानाधूर्तवर्णनं नाम नवमः सर्गः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP