प्रसन्न काण्ड: - सर्ग १३

`भट्टिकाव्यं' हे संस्कृत भाषेतील एक उत्कृष्ट काव्य आहे.


१-१ ततो वि-निद्रं कृत-देवताऽर्चं दृष्ट्यैव चित्त-प्रशमं किरन्तम्
१-२ आविष्कृताऽङ्ग-प्रतिकर्म-रम्यं विभीषणं वाचमुवाच माता
२-१ "प्रबाधमानस्य जगन्ति धीमंस् ! त्वं सोदरस्याऽतिमदोद्धतस्य
२-२ आनन्दनो नाक-सदां प्रशान्तिं तूर्णं विषस्याऽमृत-वत् कुरुष्व.
३-१ कुर्यास् तथा, येन जहाति सीतां विषाद-नीहार-परीत-मूर्तिम्
३-२ स्थितां क्षितौ शान्त-शिखा-प्रतानां तारामिव त्रास-करीं जनस्य.
४-१ यावन् न संत्रासित-देव-संघः पिण्डो विषस्येव हरेण भीष्मः
४-२ संग्रस्यते ऽसौ पुरुषाऽधिपेन, द्रुतं कुलाऽऽनन्द ! यतस्व तावत्.
५-१ हता जनस्थान सदो निकायाः, कृता जितोत्खात-भट-द्रुमा पूः,
५-२ सदांसि दग्धानि, विधेयमस्मिन् यद् बन्धुना, तद् घटयस्व तस्मिन्."
६-१ चिकीर्षिते पूर्व-तरं स तस्मिन्, क्षेमं-करे ऽर्थे मुहुरीर्यमाणः
६-२ मात्रा ऽतिमात्रं शुभयैव बुद्ध्या चिरं सुधीरभ्यधिकं समाधात्.
७-१ दौवारिकाऽभ्याहत-शक्र-दूतं सोपायनोपस्थित-लोक-पालम्
७-२ साऽऽशङ्क-भीष्माऽऽप्त-विशन्-निशाटं द्वारं ययौ रावण-मन्द्रिरस्य.
८-१ दूरात् प्रतीहार-नतः स वार्तां पृच्छन्ननावेदित-संप्रविष्टः
८-२ स-गौरवं दत्त-पथो निशाटै- रैक्षिष्ट शैलाऽग्रमिवेन्द्रशत्रुम्
९-१ कृशानु-वर्ष्मण्यधिरूढमुच्चैः सिंहासने संक्षय-मेघ-भीमम्
९-२ निसर्ग-तीक्ष्णं नयन-स्फुलिङ्गं युगान्त-वह्नेरिव धूम-राशिम्
१०-१ प्रीत्या ऽपि दत्तेक्षण-सन्निपातं भयं भूजङ्गाऽधिप-वद् दधानम्
१०-२ तमः-समूहाऽऽकृतिमप्यशेषा- नूर्जा जयन्तं प्रथित-प्रकाशान्.
११-१ तं रत्न-दायं जित-मृत्यु-लोका रात्रिं-चराः कान्ति-भृतो ऽन्वसर्पन्
११-२ प्रमुक्त-मुक्ता-फलमम्बु-वाहं संजात-तृष्णा इव देव-मुख्याः.
१२-१ स किङ्करैः कल्पितमिङ्गित-ज्ञैः संबाधकं पूर्व-समागतानाम्
१२-२ सिंहासनोपाश्रित-चारु-बाहु- रध्यास्त पीठं विहित-प्रणामः.
१३-१ ततो दशाऽऽस्यः क्षुभिताऽहि-कल्पं दीप्राऽङ्गुलीयोपलमूढ-रत्नम्
१३-२ अनेक-चञ्चन्-नख-कान्ति-जिह्वं प्रसार्य पाणिं समितिं बभाषे
१४-१ "शक्तैः सुहृद्भिः परिदृष्ट-कार्यै- राम्नातिभिर् नीतिषु बुद्धि-मद्भिः
१४-२ युष्मद्-विधैः सार्धमुपाय-विद्भिः सध्यन्ति कार्याणि सु-मन्त्रितानि.
१५-१ उपेक्षिते वालि-खराऽऽदि-नाशे, दग्धे पुरे, ऽक्षे निहते स-भृत्ये,
१५-२ सैन्ये द्विषां सागरमुत्तितीर्षा- व-नन्तरं ब्रूत, यदत्र युक्तम्."
१६-१ भुजांऽस-वक्षः-स्थल-कार्मुकाऽसीन् गदाश् च शूलानि च यातुधानाः
१६-२ परामृशन्तः प्रथिताऽभिमानाः प्रोचुः प्रहस्त-प्रमुखा दशाऽऽस्यम्.
१७-१ "अ-खण्ड्य-मानं परिखण्ड्य शक्रं त्वं पण्डितं-मन्यमुदीर्ण-दण्डः
१७-२ नराऽऽभियोगं नृ-भुजां प्रधान ! मन्त्रोन्मुखः किं नयसे गुरुत्वम्.
१८-१ निर्यत्-स्फुलिङ्गाऽऽकुल-धूम-राशिं किं ब्रूहि भूमौ पिनषाम भानुम्,
१८-२ आ दन्त-निष्पीडित-पीतमिन्दुं ष्ठीवाम शुष्केक्षु-लताऽस्थि-कल्पम्.
१९-१ स-राघवैः किं बत वानरैस् तैर् यैः प्रातराशो ऽपि न कस्यचिन् नः
१९-२ स-स्थाणु-कैलास-धार ऽभिधत्स्व, किं द्यौरधो ऽस्तु, क्षितिरन्तरीक्षे.
२०-१ चापल्य-युक्तस्य हरेः कृशानुः समेधितो वालधि-भाक् त्वदीयैः
२०-२ शस्त्रेण वध्यस्य गलन्नधाक्षीद् राजन् ! प्रमादेन निजेन लङ्काम्."
२१-१ अथा ऽञ्चितोरस्कमुदीर्ण-दृष्टिः कृत्वा विवक्षा-प्रवणं शरीरम्
२१-२ विवृत्त-पाणिर् विहितोत्तराऽर्थं विभीषणो ऽभाषत यातुधानान्.
२२-१ "युद्धाय राज्णा सुभृतैर् भवद्भिः संभावनायाः सदृशं यदुक्तम्,
२२-२ तत् प्राण-पण्यैर् वचनीयमेव, प्रज्ञा तु मन्त्रे ऽधिकृता, न शौर्यम्.
२३-१ यच् चापि यत्ना-ऽऽदृत-मन्त्र-वृत्तिर् गुरु-त्वमायाति नराऽभियोगः
२३-२ वशीकृतेन्द्रस्य, कृतोत्तरो ऽस्मिन् विध्वंसिताऽशेष-पुरो हनूमान्.
२४-१ अग्निः प्रमादेन ददाह लङ्कां वध्यस्य देहे स्वयमेधितश् चेत्,
२४-२ विमृश्य तद् देव-धिया ऽभिधत्त ब्रह्माऽस्त्र-बन्धोऽपि यदि प्रमादः
२५-१ जगन्त्यमेयाऽद्भुत-भाव-भाञ्जि, जिताऽभिमानाश् च जना विचित्राः,
२५-२ कार्ये तु यत्नं कुरुत प्रकृष्टं, मा नीति-गर्भान् सु-धियो ऽवमन्ध्वम्.
२६-१ वृद्धि-क्षय-स्थान-गतामजस्रं वृत्तिं जिगीषुः प्रसमीक्षमाणः
२६-२ घटेत सन्ध्याऽऽदिषु यो गुणेषु, लक्ष्मीर् न तं मुञ्चति चञ्चला ऽपि.
२७-१ उपेक्षणीयैव परस्य वृद्धिः प्रनष्ट-नीतेरजितेन्द्रयस्य
२७-२ मदाऽऽदि-युक्तस्य विराग-हेतुः, स-मूल-घातं विनिहन्ति या ऽन्ते.
२८-१ जनाऽनुरागेण युतो ऽवसादः फलाऽनुबन्धः सुधिया ऽऽत्मनो ऽपि
२८-२ उपेक्षणीयो ऽभ्युपगम्य संधिं कामाऽऽदि-षड्-वर्ग-जिता ऽधिपेन.
२९-१ यदा विगृह्णन् न च संदधानो वृद्धिं क्षयं चा ऽनुगुणं प्रपश्येत्,
२९-२ आसीत राजा ऽवसर-प्रतीक्षस् तदा प्रयासं वितथं न कुर्यात्.
३०-१ संधौ स्थितो वा जनयेत् स्व-वृद्धिं हन्यात् परं वोपनिषत्प्रयोगैः
३०-२ आश्रावयेदस्य जनं परैर् वा विग्राह्य कुर्यादवहीन-संधिम्.
३१-१ संदर्शित-स्नेह-गुणः स्व-शत्रून् विद्वेषयन् मण्डलमस्य भिन्द्यात्
३१-२ इत्येवमादि प्रविधाय संधिर् वृद्धेर् विधेयो ऽधिगमाभ्युपायः.
३२-१ मत्वा सहिष्णूनपरोपजप्यान् स्वकानधिष्ठाय जलाऽन्त-दुर्गान्
३२-२ द्रुमाऽद्रि-दुर्लङ्घ्य-जलाप्रधृष्यान् वर्धेत राजा रिपु-विग्रहेण.
३३-१ शक्नोति यो न द्विषतो निहन्तुं, विहन्यते ना ऽप्य-बलैर् द्विषद्भिः,
३३-२ स श्वा-वराहं कलहं विदध्या- दासीत दुर्गाऽऽदि विवर्धयंश् च.
३४-१ प्रयाण-मात्रेण परे प्रसाद्ये वर्तेत यानेन कृताऽभिरक्षः,
३४-२ अ-शक्नुवन् कर्तुमरेर् विघातं स्व-कर्म-रक्षां च परं ष्रयेत.
३५-१ एकेन संधिः, कलहो ऽपरेण कार्यो ऽभितो वा प्रसमीक्ष्य वृद्धिम्,
३५-२ एवं प्रयुञ्जीत जिगीषुरेता नीतीर् विजानन्नहिताऽऽत्म-सारम्.
३६-१ त्वया तु लोके जनितो विरागः, प्रकोपितं मण्डलमिन्द्र-मुख्यम्,
३६-२ रामे तु राजन्, विपरीतमेतत् पश्यामि, तेना ऽभ्यधिकं विपक्षम्.
३७-१ एकेन वाली निहतः शरेण सुहृत्-तमस् ते, रचितश् च राजा
३७-२ यदैव सुग्रीव-कपिः परेण, तदैव कार्यं भवतो विनष्टम्.
३८-१ प्राकार-मात्राऽऽवरणः प्रभावः खराऽऽदिभिर् यो निहतैस् तवाऽभूत्,
३८-२ लङ्काप्रदाहाऽक्ष-वध-द्रु-भङ्गैः क्लाम्यत्यसावप्यधुना ऽतिमात्रम्.
३९-१ षड्वर्ग-वश्यः परिमूढ-बन्धु- रुच्छिन्न-मित्रो विगुणैरुपेतः
३९-२ मा पाद-युद्धं द्वि-रदेन कार्षीर् नम क्षितीन्द्रं प्रणतोपभोग्यम्.
४०-१ रामो ऽपि दाराऽऽहरणेन तप्तो, वयं हतैर् बन्धुभिरात्म-तुल्यैः,
४०-२ तप्तस्य तप्तेन यथा ऽऽयसो नः संधिः परेणा ऽस्तु, विमुञ्च सीताम्.
४१-१ संधुक्षितं मण्डल-चण्ड-वातै- रमर्ष-तीक्ष्णं क्षिति-पाल-तेजः
४१-२ सामाऽम्भसा शान्तिमुपैतु राजन् ! प्रसीद, जीवाम स-बन्धु-भृत्याः.
४२-१ अ-पक्व-कुम्भाविव भङ्ग-भाजौ राजन्नियातां मरणं समानौ,
४२-२ वीर्ये स्थितः किंतु कृताऽनुरागो रामो भवंश् चोत्तम-भूरि-वैरी.
४३-१ दण्डेन कोशेन च मन्यसे चेत् प्रकृष्टमात्मानमरेस् तथापि
४३-२ रिक्तस्य पूर्णेन वृथा विनाशः पूर्णस्य भङ्गे बहु हीयते तु.
४४-१ क्लिष्टाऽऽत्म-भृत्यः परिमृग्य-सम्पन् मानी यतेता ऽपि स-संशये ऽर्थे,
४४-२ संदेहमारोहति यः कृताऽर्थो, नूनं रतिं तस्य करोति न श्रीः.
४५-१ शक्यान्य-दोषाणि महा-फलानि समारभेतोपनयन् समाप्तिम्
४५-२ कर्माणि राजा विहिताऽनुरागो, विपर्यये स्याद् वितथः प्रयासः.
४६-१ जेतुं न शक्यो नृ-पतिः सु-नीतिर् दोषः क्षयाऽऽदिः कलहे ध्रुवश्, च
४६-२ फलं न किंचिन् न शुभा समाप्तिः, कृताऽनुरागं भूवि संत्यजा ऽरिम्.
४७-१ त्वन्-मित्र-नाशो, निज-मित्र-लाभः, समेत-सैन्यः स च मित्र-कृच्छ्रे
४७-२ भोग्यो वशः पश्य शरेण शत्रोः प्रसाधितो वालि-वधे न को ऽर्थः
४८-१ लोभाद् भयाद् वा ऽभिगतः कपीन्द्रो न राघवं, येन भवेद् विभेद्यः,
४८-२ स्थितः सतां वर्त्मनि लब्ध-राज्यः प्रति-प्रियं सो ऽभ्यगमच् चिकीर्षुः.
४९-१ फलाशिनो निर्झर-कुञ्ज-भाजो दिव्याऽङ्गनाऽनङ्गरसाऽनभिज्ञाः
४९-२ न्यग्-जातयो रत्न-वरैरलभ्या मुख्याः कपीनामपि नोपजप्याः.
५०-१ कृताऽभिषेको युवराज-राज्ये सुग्रीव-राजेन सुताऽविशेषम्
५०-२ तारा-विधेयेन कथं विकारं तारा-सुतो यास्यति राक्षसाऽर्थम्.
५१-१ पश्यामि रामादधिकं समं वा ना ऽन्यं, विरोधे यमुपाश्रयेम,
५१-२ दत्त्वा वरं साऽनुशयः स्वयम्भू- रिन्द्राऽऽदयः पूर्व-तरं विरुद्धाः.
५२-१ दुर्गाऽऽश्रितानां बहुना ऽपि राजन् ! कालेन पार्ष्णिग्रहणाऽऽदि-हेतुः
५२-२ दुर्गोपरोधं न च कुर्वतो ऽस्ति शत्रोश् चिरेणा ऽपि दशाऽऽस्य ! हानिः
५३-१ शस्त्रं तरूर्वी-धरमम्बु पानं वृत्तिः फलैर्, नो गज-वाजि-नार्यः
५३-२ राष्ट्रं न पश्चान्, न जनोऽभिरक्ष्यः, किं दुःस्थमाचक्ष्व भवेत् परेषाम्.
५४-१ संधानमेवा ऽस्तु परेण तस्मान्, नाऽन्यो ऽभ्युपायो ऽस्ति निरूप्यमाणः,
५४-२ नूनं वि-संधौ त्वयि सर्वमेतन् नेष्यन्ति नाशं कपयो ऽचिरेण."
५५-१ विभीषणोक्तं बहु मन्यमानः प्रोन्नम्य देहं परिणाम-नम्रम्
५५-२ स्खलद्-वलिर् वार्धक-कम्प्र-मूर्धा मातामहो रावणमित्युवाच.
५६-१ "एकः पदातिः पुरुषो धनुष्मान् यो ऽनेक-मायानि वियद्-गतानि
५६-२ रक्षः-सहस्राणि चतुर्दशा ऽऽर्दीत्, का तत्र वो मानुष-मात्र-शङ्का.
५७-१ ब्रह्मर्षिभिर् नूनमयं स-देवैः संतापितौ रात्रिचर-क्षयाय
५७-२ नराऽऽकृतिर् वानर-सैन्यशाली जगत्य-जय्यो विहितो ऽभ्युपायः.
५८-१ वज्राऽभिघातैर-विरुग्ण-मूर्तेः फेणैर् जलानामसुरस्य मूर्ध्नः
५८-२ चकार भेदं मृदुभिर् महेन्द्रो यथा, तथैतत् किमपीति बोध्यम्.
५९-१ क्व स्त्री-विषह्याः करजाः, क्व वक्षो दैत्यस्य शैलेन्द्र-शिला-विशालम्,
५९-२ संपश्यतैतद् द्युसदां सुनीतं, बिभेद तैस् तन् नर-सिंह-मूर्तिः.
६०-१ प्रमाद-वांस् त्वं क्षत-धर्म-वर्त्मा गतो मुनीनामपि शत्रु-भावम्,
६०-२ कुलस्य शान्तिं बहु मन्यसे चेत् कुरुष्व राजेन्द्र ! विभीषणोक्तम्."
६१-१ घोषेण तेन प्रतिलब्ध-संज्ञो निद्राऽऽविलाऽक्षः ष्रुत-कार्य-सारः
६१-२ स्फुरद्-घनः साऽम्बुरिवा ऽन्तरीक्षे वाक्यं ततो ऽभाषत कुम्भकर्णः
६२-१ "क्रिया-समारम्भ-गतो ऽभ्युपायो, नृ-द्रव्य-सम्पत् सह-देश-कला,
६२-२ विपत्-प्रतीकार-युता ऽर्थ-सिद्धिर् मन्त्राऽङ्गमेतानि वदन्ति पञ्च.
६३-१ न निश्चिताऽर्थं समयं च देशं क्रियाऽभ्युपायाऽऽदिषु यो ऽतियायात्,
६३-२ स प्राप्नुयान् मन्त्र-फलं न मानी काले विपन्ने क्षणदा-चरेन्द्र !
६४-१ औष्ण्यं त्यजेन् मध्य-गतो ऽपि भानुः, शैत्यं निशायामथवा हि-मांशुः
६४-२ अनर्थ-मूलं भुवनाऽवमानी मन्ये न मानं पिशिताशि-नाथ !
६५-१ तथा ऽपि वक्तुं प्रसभं यतन्ते यन् मद्-विधाः सिद्धिमभीप्सवस् त्वाम्
६५-२ विलोम-चेष्टं विहिताऽवहासाः परैर् हि तत् स्नेह-मयैस् तमोभिः
६६-१ क्रूराः क्रियाः, ग्राम्य-सुखेषु सङ्गः, पुण्यस्य यः संक्षय-हेतुरुक्तः,
६६-२ निषेवितो ऽसौ भवता ऽतिमात्रं फलत्य-वल्गु ध्रुवमेव राजन् !
६७-१ दत्तं न किं, के विषया न भुक्ताः, स्थितो ऽस्मि वा कं परिभूय नोच्चैः,
६७-२ इत्थं कृताऽर्थस्य मम ध्रुवं स्यान् मुत्युस् त्वदर्थे यदि, किं न लब्धम्.
६८-१ किं दुर्नयैस् त्वय्युदितैर् मृषाऽर्थैर् वीर्येण वक्ता ऽस्मि रणे समाधिम्."
६८-२ तस्मिन् प्रसुप्ते पुनरित्थमुक्त्वा विभीषणो ऽभाषत राक्षसेन्द्रम्.
६९-१ "निमित्त-शून्यैः स्थगिता रजोभिर् दिशो, मरुद्भिर् विकृतैर् विलोलैः
६९-२ स्वभाव-हीनैर् मृग-पक्षि-घोषैः क्रन्दन्ति भर्तारमिवा ऽभिपन्नम्
७०-१ उत्पात-जं छिद्रमसौ विवस्वान् व्यादाय वक्त्राऽऽकृति लोक-भीष्मम्
७०-२ अत्तुं जनान् धूसर-रश्मि-राशिः सिंहो यथा कीर्ण-सटो ऽभ्युदेति.
७१-१ मार्गं गतो गोत्र-गुरुर् भृगूणा- मगस्तिना ऽध्यासित-विन्ध्य-शृङ्गम्,
७१-२ संदृश्यते शक्र-पुरोहितो ऽह्नि, क्ष्मां कम्पयन्त्यो निपतन्ति चोल्काः
७२-१ मांसं हतानामिव राक्षसाना- माशंसवः क्रूर-गिरो रुवन्तः
७२-२ क्रव्याऽशिनो दीप्त-कृशानु-वक्त्रा भ्राम्यन्त्य-भीताः परितः पुरं नः
७३-१ पयो घटोध्नीरपि गा दुहन्ति मन्दं वि-वर्णं वि-रसं च गोपाः,
७३-२ हव्येषु कीटोपजनः स-केशो न दीप्यते ऽग्निः सु-समिन्धनो ऽपि.
७४-१ तस्मात् कुरु त्वं प्रतिकारमस्मिन् स्नेहान् मया रावण ! भाष्यमाणः,
७४-२ वदन्ति दुःखं ह्यनुजीवि-वृत्ते स्थिताः पदस्थं परिणाम-पथ्यम्.
७५-१ विरुग्ण-संकीर्ण-विपन्न-भिन्नैः पक्षुण्ण-संह्रीण-शिताऽस्त्र-वृक्णैः
७५-२ यावन् नराऽशैर् न रिपुः शवऽशान् संतर्पयत्यानम तावदस्मै."
७६-१ भ्रू-भङ्गमाधाय विहाय धैर्यं विभीषणं भीषण-रूक्ष-चक्षुः
७६-२ गिरं जगादोग्र-पदामुदग्रः स्वं स्फावयन् शक्र-रिपुः प्रभावम्.
७७-१ "शिला तरिष्यत्युदके न पर्णं, ध्वान्तं रवेः स्यन्त्स्यति, वह्निरिन्दोः,
७७-२ जेता परो ऽहं युधि जेष्यमाणस् तुल्यानि मन्यस्व पुलस्त्य-नप्तः !
७८-१ अ-निर्वृतं भूतिषु गूढ-वैरं सत्कार-काले ऽपि कृता ऽभ्यसूयम्
७८-२ विभिन्न-कर्माऽऽशय-वाक् कुले नो मा ज्ञाति-चेलं, भुवि कस्यचिद् भूत्
७९-१ इच्छन्त्यभीक्ष्णं क्षयमात्मनो ऽपि न ज्ञातयस् तुल्य-कुलस्य लक्ष्मीम्
७९-२ नमन्ति शत्रून्, न च बन्धु-वृद्धिं संतप्यमानैर् हृदयैः सहन्ते.
८०-१ त्वयाऽद्य लङ्काऽभिभवे ऽति-हर्षाद् दुष्टो ऽति-मात्रं विवृतो ऽन्तरात्मा,
८०-२ धिक् त्वां, मृषा ते मयि दुस्थ-बुद्धिर्" वदन्निदं तस्य ददौ स पार्ष्णिम्.
८१-१ ततः स कोपं क्षमया निग्र्ह्णन्, धैर्येण मन्युं, विनयेन गर्वम्,
८१-२ मोहं धियोत्साह-वशादशक्तिं, समं चतुर्भिः सचिवैरुदस्थात्.
८२-१ उवाच चैनं क्षणदा-चरेन्द्रं "सुखं महा-राज ! विना मया ऽऽस्स्व.
८२-२ मूर्खाऽऽतुरः पथ्य-कटूननश्नन् यत् साऽऽमयोऽऽसौ, भिषजां न दोषः
८३-१ करोति वैरं स्फुटमुच्यमानः, प्रतुष्यति श्रोत्र-सुखैर-पथ्यैः
८३-२ विवेक-शून्यः प्रभुरात्म-मानी, महाननर्थः सुहृदां बता ऽयम्.
८४-१ क्रीडन् भुजङ्गेन गृहाऽनुपातं कश्चिद् यथा जीवति संशय-स्थः,
८४-२ संसेवमानो नृ-पतिं प्र-मूढं तथैव यज् जीवति, सो ऽस्य लाभः.
८५-१ दत्तः स्व-दोषैर् भवता प्रहारः पादेन धर्म्ये पथि मे स्थितस्य,
८५-२ स चिन्तनीयः सह मन्त्रि-मुख्यैः कस्या ऽऽवयोर् लाघवमादधातु.
८६-१ इति वचनमसौ रजनि-चर-पतिं बहु-गुणमसकृत् प्रसभमभिदधत्
८६-२ निरगमद-भयः पुरुष-रिपु-पुरान् नर-पति-चरणौ नवितुमरि-नुतौ.
८७-१ अथ तमुपगतं विदित-सुचरितं पवन-सुत-गिरा गिरि-गुरु-हृदयः
८७-२ नृ-पतिरमदयन् मुदित-परिजनं स्व-पुर-पति-करैः सलिल-समुदयैः.

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP