प्रसन्न काण्ड: - सर्ग ११

`भट्टिकाव्यं' हे संस्कृत भाषेतील एक उत्कृष्ट काव्य आहे.


१-१ अथ स वल्क-दुकूल-कुथाऽऽदिभिः परिगतो ज्वलदुद्धत-वालधिः
१-२ उदपतद् दिवमाकुल-लोचनैर् नृ-रिपुभिः स-भ्यैरभिवीक्षितः.
२-१ रण-पण्डितो ऽग्र्य-विबुधाऽरि-पुरे कलहं स राम-महितः कृतवान्,
२-२ ज्वलदग्नि रावण-गृहं च बलात् बलहंस्-रामम-हितः कृतवान्.
पादाऽन्त-यमकम्

३-१ निखिला ऽभवन् न स-हसा सहसा ज्वलनेन पूः प्रभवता भवता
३-२ वनिता-जनेन वियता वियता त्रि-पुराऽपदं नगमिता गमिता. पदाऽऽदि-यमकम्
४-१ सरसां स-रसां परिमुच्य तनुं पततां पततां ककुभो बहुशः
४-२ स-कलैः सकलैः परितः करुणै- रुदितै रुदितैरिव खं निचितम्.

पाद-मध्य-यमकम्

५-१ न च कांचन काञ्चन-सद्म-चितिं न कपिः शिखिना शिखिना समयौत्,
५-२ न च न द्रवता द्रवता परितो हिम-हान-कृता न कृता क्व च न. चक्रवाल-यमकम्
६-१ अवसितं हसितं प्रसितं, मुदा विलसितं ह्रसितं स्मर-भासितम्,
६-२ न स-मदाः प्रमदा हत-संमदाः, पुर-हितं विहितं न समीहितम्.
समुद्र-यमकम्

७-१ समिद्ध-शरणा दीप्ता देहे लङ्का मतेश्वरा
७-२ समिद्-ध-शरणाऽऽदीप्-ता देहेऽलं-काम-तेश्वरा
काञ्ची-यमकम्

८-१ पिशिताऽशिनामनु-दशं स्फुटतां स्फुटतां जगाम परिविह्वल-ता,
८-२ हलता जनेन बहुधा चरितं चरितं महत्त्व-रहितं महता.
९-१ न गजा नग-जा दयिता दयिता, वि-गतं विगतं, ललितं ललितम्,
९-२ प्रमदा प्र-मदा ऽऽम-हता, महता- म-रणं मरणं समयात् समयात्.
१०-१ न वानरैः पराक्रान्तां महद्भिर् भीम-विक्रमैः
१०-२ न वा नरैः पराक्रान्तां ददहा नगरीं कपिः.
११-१ द्रुतं द्रुतं वह्नि-समागतं गतं महीमहीन-द्युति-रोचितं चितम्
११-२ समं समन्तादप-गोपुरं पुरं परैः परैरप्यनिराकृतं कृतम्
१२-१ नश्यन्ति ददर्श वृन्दानि कपीन्द्रः
१२-२ हारीण्या-बलानां हारीण्या-बलानाम्.
१३-१ नारीणामपनुनुदुर् न देह-खेदान् ना ऽऽरीणाऽमल-सलिला हिरण्य-वाप्यः,
१३-२ ना ऽऽरीणामनल-परीत-पत्र-पुष्पान् ना ऽरीणामभवदुपेत्य शर्म वृक्षान्.
१४-१ अथ लुलित-पतत्रि-मालं रुग्णाऽसन-बाण-केशर-तमालम्
१४-२ स वनं विविक्त-मालं सीतां द्रष्टुं जगामाऽलम्.
१५-१ घन-गिरीन्द्र-विलङ्घन-शालिना वन-गता वन-ज-द्युति-लोचना
१५-२ जन-मता ददृशे जनकाऽऽत्मजा तरु-मृगेण तरु-स्थल-शायिनी
वि-पथ-यमकम्

१६-१ कान्ता महमाना दुःखं च्युत-भूषा
१६-२ रामस्य वियुक्ता कान्ता सह-माना.
मध्या-ऽन्त-यमकम्

१७-१ मितमवददुदारं तां हनूमान् मुदा ऽरं रघु-वृषभ-सकाशं यामि देवि ! प्रकाशम्
१७-२ तव विदित-विषादो दृष्ट-कृत्स्नाऽऽमिषादः श्रियमनिशमवन्तं पर्वतं माल्यवन्तम्.
गर्भ-यमकम्

१८-१ उदपतद् वियद-प्रगमः परै रुचितमुन्नति-मत्-पृथु-सत्त्व-वत्
१८-२ रुचित-मुन् नति-मत् पृथु-सत्त्व-वत् प्रतिविधाय वणुर् भय-दं द्विषाम्.
सर्व-यमकम्

१९-१ बभौ मरुत्वान् वि-कृतः स-मुद्रो, बभौ मरुत्वान् विकृतः स-मुद्रः,
१९-२ बभौ मरुत्वान् विकृतः समुद्रो, बभौ मरुत्वान् विकृतः स मुद्रः.
महा-यमकम्

२०-१ अभियाता वरं तुङ्गं भू-भृतं रुचिरं पुरः कर्कशं प्रथितं धाम स-सत्वं पुष्करेक्षणम्.
२०-२ अभिया ऽताऽऽवरं तुङ्गं भू-भृतं रुचिरं पुरः कर्कशं प्रस्थितं धाम स-सत्वं पुष्करे क्षणम्.
आद्यन्त-यमकम्

२१-१ चित्रं चित्रमिवा ऽऽयातो विचित्रं तस्य भू-भृतम्
२१-२ हरयो वेगमासाद्य संत्रस्ता मुमुहुर् मुहुः.
आदि-दीपकम्

२२-१ गच्छन् स वारीण्यकिरत् पायोधेः, कूल-स्थितांस् तानि-तरूनधुन्वन्,
२२-२ पुष्पाऽऽस्तरांस् ते ऽङ्ग-सूखानतन्वन्, तान् किन्नरा मन्मथिनो ऽध्यतिष्ठन्.
अन्त-दीपकम्

२३-१ स गिरिं तरु-खण्ड-मण्डितं समवाप्य त्वरया लता-मृगः
२३-२ स्मित-दर्शित-कार्य-निश्चयः कपि-सैन्यैर् मुदितैरमण्डयत्.
मध्य-दीपकम्

२४-१ गरुडाऽनिल-तिग्म-रश्मयः पततां यधपि संमता जवे,
२४-२ अ-चिरेण कृताऽर्थमागतं तममन्यन्त तथाप्यतीव ते.
रूपकम्

२५-१ व्रण-कन्दर-लीन-शस्त्र-सर्पः पृथु-वक्षः-स्थल-कर्कशोरु-भित्तिः
२५-२ च्युत-शोणित-बद्ध-धातु-रागः शुशुभे वानर-भू-धरस् तदा ऽसौ. अस्यैव भेदा अपरे चत्वारः एतद् विशिष्टोपमा-युक्तं रूपकम्
२६-१ चल-पिङ्ग-केशर-हिरण्य-लताः स्थुट-नेत्र-पङ्क्ति-मणि-संहतयः
२६-२ कलधैत-सानव इवा ऽथ गिरेः कपयो बहूः पवन-जाऽऽगमने.
एतच्छेषाऽर्थाऽन्ववसितमवतंसकम्

२७-१ कपि-तोय-निधीन् प्लवङ्गमेन्दुर् मदयित्वा मधुरेण दर्शनेन
२७-२ वचनाऽमृत-दीधितीर् वितन्व- न्नकृता ऽऽनन्द-परीत-नेत्र-वारीन्.
अर्ध-रूपकम्

२८-१ परिखेदित-विन्ध्य-वीरुधः परिपीताऽमल-निर्झराऽम्भसः
२८-२ दुधुवुर् मधु-काननं ततः कपि-नागा मुदिताऽङ्गदाऽऽज्ञया.
एतदन्वर्थोपमा-युक्तं ललामकम्

२९-१ विटपि-मृग-विषाद-ध्वान्त-नुद् वानराऽर्कः प्रिय-वचनम-युखैर् बोधिताऽर्थाऽरविन्दः,
२९-२ उदय-गिरिमिवा ऽद्रिं संप्रमुच्या ऽभ्यगात् खं नृप-हृदय-गुहा-खं घ्नन् प्र-मोहाऽन्धकारम्.
इवोपमा

३०-१ रघु-तनयमगात् तपो-वन-खं विधृत-जटाऽजिन-वल्कलं हनूमान्
३०-२ परमिव पुरुषं नरेण युक्तं सम-शम-वेश-समाधिना ऽनुजेन,
यथोपमा

३१-१ कर-पुट-निहितं दधत् स रत्नं परिविरलाऽङ्गुलि निर्गताऽल्प-दीप्ति
३१-२ तनु-कपिल-घन-स्थितं यथेन्दुं नृपमनमत् परिभुग्न-जानु-मूर्धा.
सहोपमा

३२-१ रुचिरोन्नत-रत्न-गौरवः परिपूर्णा-ऽमृत-रश्मि-मण्डलः
३२-२ समदृश्यत जीविताऽऽशया सह रामेण वधू-शिरो-मणिः.
तद्धितोपमा

३३-१ अवसन्न-रुचिं वनाऽऽगतं तमनाऽऽमृष्टरजो-विधूसरम्
३३-२ समपश्यदपेत-मैथिलिं दधतं गौरव-मात्रमात्म-वत्.
लुप्तोपमा

३४-१ सामर्थ्य-संपादित-वाञ्छिताऽर्थश् चिन्ता-मणिः स्यान् न कथं हनूमान्,
३४-२ स-लक्ष्मणो भूमि-पतिस् तदानीं शाखा-मृगाऽनीक-पतिश् च मेने.
समोपमा

३५-१ "युश्मान-चेतन् क्षय-वायु-कल्पान् सीता-स्फुलिङ्गं परिगृह्य जाल्मः
३५-२ लङ्का-वनं सिंह-समो ऽधिशेते मर्तुं द्विषन्नित्यवदद्धनूमान्
अर्थाऽन्तर-न्यासः

३६-१ "अहृत धनेश्वरस्य युधि यः समेत-मायो धनं, तमहमितो विलोक्य विबुधैः कृतोत्तमाऽऽयोधनम्
३६-२ विभव-मदेन निह्नुत-ह्रिया ऽतिमात्र-संपन्नकं, व्यथयति सत्-पथादधिगता ऽथवेह संपन् न कम्.
आक्षेपः

३७-१ ऋद्धि-मान् राक्षसो मूढश्, चित्रं नाऽसौ यद्दुधतः,
३७-२ को वा हेतुरनार्याणां धर्म्ये वर्त्मनि वर्तितुम्.
आक्षेप एव

३८-१ तस्या ऽधिवासे तनुरुत्सुका ऽसौ दृष्टा मया राम-पतिः प्र-मन्युः,
३८-२ कार्यस्य सारो ऽयमुदीरितो वः, प्रोक्तेन शेषेण किमुद्धतेन.
व्यतिरेकः

३९-१ समतां शशि-लेखयोपयाया- दवदाता प्र-तनुः क्षयेण सीता,
३९-२ यदि नाम कलङ्क इन्दु-लेखा- मतिवृत्तो लघयेन् न चा ऽपि भावी.
विभावना

४०-१ अ-परीक्षित-कारिणा गृहीतां त्वमनासेवित-वृद्ध-पण्डितेन
४०-२ अ-विरोधित-निष्ठुरेण साध्वीं दयितां त्रातुमलं घटस्व राजन् !"
समासोक्तिः

४१-१ स च विह्वल-सत्त्व-संकुलः परिशुष्यन्नभवन् महा-ह्रदः
४१-२ परितः परिताप-मूर्च्छितः, पतितं चा ऽम्बु निरभ्रमीप्सितम्.
अतिशयोक्तिः

४२-१ अथ लक्ष्मण-तुल्य-रूप-वेशं गमनाऽऽदेश-विनिर्गताऽग्र-हस्तम्
४२-२ कपयो ऽनुययुः समेत्य रामं नत-सुग्रीव-गृहीत-साऽऽदराज्ञम्.
यथा-संख्यम्

४३-१ कपि-पृष्ठ-गतौ ततो नरेन्द्रौ।
कपयश् च ज्वलिताऽग्नि-पिङ्गलाऽक्षाः
४३-२ मुमुचुः, प्रययुर्, द्रुतं समीयुर्, वसुधां, व्योम, महीधरं महेन्द्रम्
उत्प्रेक्षा

४४-१ स्थितमिव परिरक्षितुं समन्ता- दुदधि-जलौघ-परिप्लवाद् धरित्रीम्
४४-२ गगन-तल-वसुन्ध्राऽन्तराले जल-निधिवेग-सहं प्रसार्य देहम्
वार्ता

४५-१ विष-धर-निलये निविष्ट-मूलं शिखर-शतैः परिमृष्ट-देव-लोकम्
४५-२ घन-विपुल-नितम्ब-पूरिताशं फल-कुसुमाऽऽचित-वृक्ष-रम्य-कुञ्जम्
प्रेयः

४६-१ मधु-कर-विरुतैः प्रियाध्वनीनां सरसि-रुहैर् दयिताऽऽस्य-हास्य-लक्ष्म्याः
४६-२ स्फुटमनुहरमाणमादधानं पुरुष-पतेः सहसा परंप्रमोदम्
रसवत्

४७-१ ग्रह-मणि-रसनं दिवो नितम्बं विपुलमनुत्तम-लब्ध-कान्ति-योगम्
४७-२ च्युत-घन-वसनं मनोऽभिरामं शिखर-करैर् मदनादिव स्पृशन्तम्
ऊर्जस्वी-

४८-१ प्रचपलम-गुरुं भराऽसहिष्णुं जनमसमानमनूर्जितं विवर्ज्य
४८-२ कृत-वसतिमिवाऽर्णवोपकण्ठे स्थिरम-तुलोन्नतिमूढ-तुङ्ग-मेघम्.
पर्यायोक्तिः

४९-१ स्फठिक-मणि-गृहैः स-रत्न-दीपैः प्रतरुण-किन्नर-गीत-निस्वनैश् च
४९-२ अमर-पुर-मतिं सुराऽङ्गनानां दधतम-दुःखमनल्प-कल्प-वृक्षम्.
समाहितम्

५०-१ अथ ददृशुरुदीर्ण-धूम-धूम्रां दिशमुदधि-व्यवधिं समेत-सीताम्
५०-२ सह-रघुतनयाः प्लवङ्ग-सेनाः पवन-सुताऽङ्गुलि-दर्शितामुदक्षाः.
उदारम्

५१-१ जल-निधिमगमन् महेन्द्र-कुञ्जात् प्रचय-तिरोहित-तिग्म-रश्मि-भासः
५१-२ सलिल-समुदयैर् महा-तरङ्गैर् भुवन-भर-क्षममप्य-भिन्न-वेलम्
उदारमेव

५२-१ पृथु-गुरु-मणि-शुक्ति-गर्भ-भासा ग्लपित-रसा-तल-संभृताऽन्धकारम्
५२-२ उपहत-रवि-रश्मि-वृत्तिमुच्चैः प्रलघु-परिप्लवमान-वज्र-जालैः
उदारमेव

५३-१ समुपचित-जलं विवर्धमानै- र-मल-सरित्-सलिलैर् विभावरीषु
५३-२ स्फुटमवगमयन्तमूढ-वारीन् शश-धर-रत्न-मयान् महेन्द्र-सानून्
श्लिष्टम्

५४-१ भुवन-भर-सहान-लङ्घ्य-धाम्नः पुरु-रुचि-रत्न-भृतो गुरूरु-देहान्
५४-२ श्रम-विधुर-विलीन-कूर्म-नक्रान् दधतमुदूढ-भुवो गिरीनहींश् च
श्लिष्टमेव

५५-१ प्रददृशुरुरु-मुक्त-शीकरौघान् विमल-मणि-द्युति-संभृतेन्द्र-चापान्
५५-२ जल-मुच इव धीर-मन्द्र-घोषान् क्षिति-परिताप-हृतो महा-तरङ्गान्
हेतु-श्लिष्टम्

५६-१ विद्रुम-मणि-कृत-भूषा मुक्ता-फल-निकर-रञ्जिताऽऽत्मानः
५६-२ बभुरुदक-नाग-भग्ना वेला-तट-शिखरिणो यत्र,
अपह्नुतिः

५७-१ भृत-निखिल-रसा-तलः स-रत्नः शिखरि-समोर्मि-तिरोहिताऽन्तरीक्षः
५७-२ कुत इह परमाऽर्थतो जलौघो जल-निधिमीयुरतः समेत्य मायाम्
विशेषोक्तिः

५८-१ शशि-रहितमपि प्रभूत-कान्तिं विबुध-हृत-श्रियमप्य-नष्ट-शोभम्
५८-२ मथितमपि सुरैर् दिवं जलौघैः समभिभवन्तम-विक्षत-प्रभावम्
व्याज-स्तुतिः

५९-१ क्षिति-कुल-गिरि-शेष-दिग्-गजेन्द्रान् सलिल-गतामिव नावमुद्वहन्तम्
५९-२ धृत-विधुर-धरं महा-वराहं गिरि-गुरु-पोत्रमपीहितैर् जयन्तम्
उपमा-रूपकम्

६०-१ गिरि-परिगत-चञ्चलाऽऽपगाऽन्तं जल-निवहं दधतं मनोऽभिरामम्
६०-२ गलितमिव भुवो विलोक्य रामं धरणि-धर-स्तन-शुक्ल-चीन-पट्टम्.
तुल्ययोगिता

६१-१ अ-परिमित-महाऽद्भुतैर् विचित्रश् च्युत-मलिनः शुचिभिर् महान-लङ्घ्यैः
६१-२ तरु-मृग-पति-लक्ष्मण-क्षितीन्द्रैः समधिगतो जलधिः परं बभासे.
निदर्शनम्

६२-१ न भवति महिमा विना विपत्ते- रवगमयन्निव पश्यतः पयोधिः
६२-२ अ-विरतमभवत् क्षणे क्षणे ऽसौ शिखरि-पृथु-प्रथित-प्रशान्त-वीचिः.
विरोधः

६३-१ मृदुभिरपि बिभेद पुष्प-बाणैश् चलशिशिरैरपि मारुतैर् ददाह
६३-२ रघु-तनयमनर्थ-पण्डितो ऽसौ, न च मदनः क्षतमाततान्, ना ऽर्चिः
उपमेयोपमा

६४-१ अथ मृदु-मलिन-प्रभौ दिनाऽन्ते जलधि-समीप-गतावतीत-लोकौ
६४-२ अनुकृतिमितरेतरस्य मूर्त्योर् दिन-कर-राघव-नन्दनावकार्ष्टाम्.
सहोक्तिः

६५-१ अपहरदिव सर्वतो विनोदान् दयित-गतं दधदेकधा समाधिम्
६५-२ घन-रुचि ववृधे ततो ऽन्धकारं सह रघु-नन्दन-मन्मथोदयेन.
परिवृत्तिः

६६-१ अधि-जलधि तमः क्षिपन् हिमांशुः परिददृशे ऽथ दृशां कृताऽवकाशः
६६-२ विदधदिव जगत् पुनः प्रलीनम्।
भवति महान् हि पराऽर्थ एव सर्वः.
स-सन्देहः

६७-१ अशनिरयमसौ, कुतो निरभ्रे।
शित-शर-वर्षम-सत् तदप्य-शार्ङ्गम्.
६७-२ इति मदन-वशो मुहुः शशाऽङ्के रघु-तनयो, न च निश्चिकाय चन्द्रम्.
अनन्वयः

६८-१ कुमुद-वन-चयेषु कीर्ण-रश्मिः क्षत-तिमिरेशु च दिग्-वधू-मुखेषु
६८-२ वियति च विललास तद्-वदिन्दुर्, विलसति चन्द्रमसो न यद्-वदन्यः.
उत्प्रेक्षाऽऽवयवः

६९-१ शरणमिव गतं तमो निकुञ्जे विटपि-निराकृत-चन्द्र-रश्म्यरातौ
६९-२ पृथु-विषम-शिलाऽन्तराल-संस्थं स-जल-घन-द्युति भीत-वत् ससाद.
संसृष्टिः

७०-१ अथ नयन-मनो-हरो ऽभिरामः स्मर इव चित्त-भवो ऽप्य-वाम-शीलः
७०-२ रघु-सुतमनुजो जगाद वाचं स-जल-घन-स्तनयित्नु-तुल्य-घोषः
आशीः

७१-१ "पति-वध-परिलुप्त-लोल-केशीर् नयन-जलाऽपहृताऽञ्जनौष्ठ-रागाः
७१-२ कुरु रिपु-वनिता, जहीहि शोकं, क्व च शरणं जगतां भवान्, क्व मोहः
हेतुः

७२-१ अधिगत-महिमा मनुश्य-लोके वत सुतरामवसीदति प्रमादी,
७२-२ गज-पतिरुरु-शैल-शृङ्ग-वर्ष्मा गुरुरवमज्जति पङ्क-भाङ्, न दारु.
निपुणम्

७३-१ बोद्धव्यं किमिव हि, यत् त्वया न बुद्धं, किं वा ते निमिषितमप्य-बुद्धि-पूर्वम्,
७३-२ लब्धाऽऽत्मा तव सुकृतैरनिष्ट-शङ्की स्नेहौघो घटयति मां तथापि वक्तुम्."
७४-१ सौमित्रेरिति वचनं निशम्य रामो जृम्भा-वान् भुज-युगलं विभज्य निद्रान्
७४-२ अध्यष्ठाच् छिशयिषया प्रवाल-तल्पं रक्षायै प्रति-दिशमादिशन् प्लवङ्गान्.

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP