अधिकार काण्ड: - सर्ग ७

`भट्टिकाव्यं' हे संस्कृत भाषेतील एक उत्कृष्ट काव्य आहे.


१-१ ततः कर्ता वनाऽऽकम्पं ववौ वर्षा-प्रभञ्जनः,
१-२ नभः पूरयितारश् च समुन्नेमुः पयो-धराः.
२-१ तर्पणं प्रजनिष्णूनां षस्यानाम-मलं पयः
२-२ रोचिष्णवः स-विस्फूर्जा मुमुचुर् भिन्न-वद् घनाः
३-१ निराकरिष्णवो भानुं दिवं वर्तिष्णवो ऽभितः
३-२ अलंकरिष्णवो भान्तस् तडित्वन्तश् चरिष्णवः
४-१ तान् विलोक्या ऽसहिष्णुः सन् विललान्पोन्मदिष्णु-वत्
४-२ वसन् माल्यवति ग्लास्नू रामो जिष्णुर-धृष्णु-वत्
५-१ "भ्रमी कदम्ब-संभिन्नः पवनः शमिनामपि
५-२ क्लमि-त्वं कुरुतेऽत्यर्थं मेघ-शीकर-शीतलः.
६-१ संज्वारिणेव मनसा ध्वान्तमायासिना मया
६-२ द्रोहि खद्योत-संपर्कि नयनाऽमोषि दुःसहम्.
७-१ कुर्वन्ति परिसारिण्यो विद्युतः परिदेविनम्
७-२ अभ्याघातिभिरामिश्राश् चातकैः परिराटिभिः.
८-१ संसर्गी परिदाहीव शीतो ऽप्याभाति शीकरः,
८-२ सोढुमाक्रीडिनो ऽशक्याः शिखिनः परिवादिनः.
९-१ एता देवानुरोधिन्यो द्वेषिण्य इव रागिणम्
९-२ पीडयन्ति जनं धाराः पतन्त्यो ऽनपकारिणम्.
१०-१ कूर्याद् योगिनमप्येष स्फूर्जा-वान् परिमोहिनम्
१०-२ त्यागिनं सुख-दुःखस्य परिक्षेप्यम्भसामृतुः.
११-१ विकत्थी याचते प्रत्तम-विश्रम्भी मुहुर् जलम्
११-२ पर्जन्यं चातकः पक्षी निकृन्तन्निव मानसम्.
१२-१ प्रलापिनो भविष्यन्ति कदा न्वेते ऽपलाषिणः."
१२-२ प्रमाथिनो वियुक्तानां हिंसकाः पाप-दर्दुराः.
१३-१ निन्दको रजनिंमन्यं दिवसं क्लेशको निशाम्
१३-२ प्रावृष्यनैषीत् काकुत्स्थः कथंचित् परिदेवकः
१४-१ अथोपशरदे ऽपश्यत् क्रौञ्चानां चेष्टनैः कुलैः
१४-२ उत्कण्ठा-वर्धनैः शुभ्रं रवणैरम्बरं ततम्.
१५-१ विलोक्य द्योतनं चन्द्रं लक्ष्मणं शोचनो ऽवदत्
१५-२ "पश्य दन्द्रमणान् हंसानरविन्दसमुत्सुकान्.
१६-१ कपिश् चङ्क्रमणो ऽद्यापि ना ऽसौ भवति गर्धनः,
१६-२ कुर्वन्ति कोपनं तारा मण्डना गगनस्य माम्.
१७-१ ना ऽवैत्याप्यायितारं किं कमलानि रविं कपिः
१७-२ दीपितारं दिनाऽऽरम्भे निरस्त-ध्वान्त-संचयम्.
१८-१ अतीते वर्षुके काले, प्रमत्तः स्थायुको गृहे
१८-२ गामुको ध्रुवमध्वानं सुग्रीवो वालिना गतम्.
१९-१ जल्पाकीभिः सहा ऽऽसीनः स्त्रीभिः प्रजविना त्वया
१९-२ गत्वा लक्ष्मण ! वक्तव्यो जयिना निष्ठुरं वचः
२०-१ शैले विश्रयिणं क्षिप्रमनादरिणमभ्यमी
२०-२ न्यायं परिभवी ब्रूहि पापम-व्यथिनं कपिम्.
२१-१ स्पृहयालुं कपिं स्त्रीभ्यो निद्रालुम-दयालु-वत्
२१-२ श्रद्धालुं भ्रामरं धारुं सद्रुमद्रौ वद द्रुतम्."
२२-१ सृमरो भङ्गुर-प्रज्ञो गृहीत्वा भासुरं धनुः
२२-२ विदुरो जित्वरः प्राप लक्ष्मणो गत्वरान् कपीन्.
२३-१ तं जागरूकः कार्येषु दन्दशूक-रिपुं कपिः
२३-२ अ-कम्प्रं मारुतिर् दीप्रं नम्रः प्रावेशयद् गुहाम्
२४-१ कम्राभिरावृतः स्त्रीभिराशंसुः क्षेममात्मनः
२४-२ इच्छुः प्रसादं प्रणयन् सुग्रीवः प्रावदन् नृपम्.
२५-१ "अहं स्वप्नक् प्रसादेन तव वन्दारुभिः सह
२५-२ अ-भीरुरवसं स्त्रीभिर् भासुराभिरीहेश्वरः.
२६-१ विद्यन्-नाशं रवेर् भासं विभ्राजं शश-लाञ्छनम्
२६-२ राम-प्रत्तेषु भोगेषु नाहमज्ञासिषं रतः
२७-१ एष शोक-च्छिदो वीरान् प्रभो ! सम्प्रति वानरान्
२७-२ धरा-शैल-समुद्राणामन्त-गान् प्रहिणोम्यहम्.
अथ निरधिकारकृत्

२८-१ राघवस्य ततः कार्यं कारुर् वानर-पुङ्गवः
२८-२ सर्व-वानर-सेनानामाश्वागमनमादिशत्.
२९-१ "वयमद्यैव गच्छामो रामं द्रष्टुं त्वराऽन्विताः
२९-२ कारका मित्र-कार्याणि सीता-लाभाय", सो ऽब्रवीत्."
३०-१ ततः कपीनां संघाता हर्षाद् राघव-भूतये
३०-२ पूरयन्तः समाजग्मुर् भय-दाया दिशो दश.
३१-१ सुग्रीवाऽन्तिकमासेदुः सादयिष्याम इत्यरिम्
३१-२ करिष्यन्त इवाऽकस्माद् भुवनं निर्-दशाननम्.
३२-१ कर्ता ऽस्मि कार्यमायातैरेभिरित्यवगम्य सः
३२-२ काकुत्स्थ-पादप-च्छायां सीत-स्पर्शामुपागमत्.
३३-१ कार्यं सार-निभं दृष्ट्वा वानराणां समागमम्
३३-२ अवैन् नाशं दशाऽऽस्यस्य निर्वृत्तमिव राघवः.
३४-१ ततः कपि-समाहारमेऽकनिश्चायमागतम्
३४-२ उपाध्यायऽिवाऽऽयामं सुग्रीवोऽध्यापिपद् दिशाम्
३५-१ स-जलाऽम्भो-द-संरावं हनु-मन्तं सहाऽङ्गदम्
३५-२ जाम्बवं नील-सहितं चारु-सन्द्रावमब्रवीत्
३६-१ "यात यूयं यम-श्रायं दिशं नायेन दिक्षणाम्
३६-२ विक्षावस् तोय-विश्रावं तर्जयन्तो महोदधेः
३७-१ उन्नायानधिगच्छन्तः प्रद्रावैर् वसुधा-भृताम्
३७-२ वनाऽभिलावान् कुर्वन्तः स्वेच्छया चारु-विक्रमाः
३८-१ सदोद्गार-सुगन्धीनां फलानामलमाशिताः
३८-२ उत्कारेषु च धान्यानामनभीष्ट-परिग्रहाः
३९-१ संस्तावमिव शृण्वन्तश् छन्दोगानां महाध्वरे
३९-२ शिञ्जितं मधु-लेहानां पुष्प-प्रस्तार-शायिनाम्
४०-१ आलोचयन्तो विस्तारमम्भसां दक्षिणोदधेः
४०-२ स्वादयन्तः फल-रसं मुष्टि-संग्राह-पीडितम्.
४१-१ न्याय्यं यद् यत्र, तत् कार्यं पर्यायेणा ऽविरोधिभिः,
४१-२ निशोपशायः कर्तव्यः फलोच्चायश् च संहतैः
४२-१ सीता रक्षो-निकायेषु स्तोक-कायैश् छलेन च
४२-२ मृग्या शत्रु-निकायानां व्यावहासीमनाश्रितैः
४३-१ सांराविणं न कर्तव्यं, यावन् नाऽऽयाति दर्शनम्,
४३-२ संदृष्टायां तु वैदेह्यां निग्राहो वोऽर्थवानरेः.
४४-१ प्रग्राहैरिव पात्राणामन्वेष्या मैथिली कृतैः
४४-२ ज्ञातव्या चेङ्गितैर् ध्यायन्ती राघवाऽऽगमम्.
४५-१ वेदि-वत् स-परिग्राहा यज्ञयैः संस्कृता द्विजैः
४५-२ दृश्या मास-तमागह्नः प्राग-निन्दित-वेश-भृत्
४६-१ नीवार-फल-मूलाऽशानृषीनप्यतिशेरते
४६-२ यस्य गुणा निरुद्द्रावास् तां द्रुतं यात, पश्यत.
४७-१ उच्छ्राय-वान् घनाऽऽरावो वानरं जलदाऽरवम्
४७-२ दूराऽऽप्लावं हनू-मन्तं रामः प्रोचे गजाऽऽप्लवः
४८-१ "अवग्राहे यथा वृष्टिं प्रार्थयन्ते कृषीवलाः,
४८-२ प्रर्थयध्वं तथा सीतां, यात सुग्रीव-शासनम्
४९-१ वणिक् प्रग्राह-वान् यद्वत् काले चरति सिद्धये,
४९-२ देशाऽपेक्षास् तथा यूयं याता ऽऽदायाऽङ्गुलीयकम्."
५०-१ अभिज्ञानं गृहीत्वा ते समुत्पेतुर् नभस्-तलम्
५०-२ वाजिनः स्यन्दने भानोर् विमुक्त-प्रग्रहा इव.
५१-१ उदक् शतवलिं कोट्या, सुषेणं पक्षिमां तथा
५१-२ दिशं प्रास्थापयद् राजा वानराणां कृत-त्वरः
५२-१ प्राचीं तावद्भिर-व्यग्रः कपिभिर् विनतो ययौ
५२-२ अ-प्रग्राहैरिवाऽऽदित्यो वाजिभिर्-दूर-पातिभिः.
५३-१ ययुर् विन्ध्यं शरन्-मेघैः प्रावारैः प्रवरैरिव
५३-२ प्रच्छन्नं मारुति-प्रष्ठाः सीतां द्रष्टुं प्लवङ्गमाः
५४-१ परिभावं मृगेन्द्राणां कुर्वन्तो नग-मूर्धसु
५४-२ विन्ध्ये तिग्मांशु-मार्गस्य चेरुः परिभवोपमे.
५५-१ भ्रेमुः शिलोच्चयांस् तुङ्गानुत्तेरुरतरान् नदान्
५५-२ आशंसवो लवं शत्रोः सीतायाश् च विनिश्चयम्
५६-१ आदरेण गमं चक्रुर् विषमेस्वप्य-सङ्घसाः
५६-२ व्याप्नुवन्तो दिशो ऽन्यादान् कुर्वन्तः स-व्यधान् हरीन्.
५७-१ संचेरुः स-हसाः केचिद,-स्वनाः केचिदाटिषुः
५७-२ संयाम-वन्तो यति-वन्, निगदानपरे ऽमुचन्.
५८-१ अथ क्लमाद-निःक्वाणा नराः क्षीण-पणा इव
५८-२ अ-मदाः सेदुरेकस्मिन् नितम्बे निखिला गिरेः.
५९-१ ततः स-संमदास् तत्र निरैक्षन्त पतत्रिणः
५९-२ गुहा-द्वारेण निर्यातः समजेन पशूनिव.
६०-१ वीनामुपसरं दृष्ट्वा ते ऽन्योन्यापहवा गुहाम्
६०-२ प्राविशन्नाहव-प्रज्ञा आहावमुपलिप्सवः.
६१-१ कुर्वन्तो हवमाप्तानां पिपासा-वध-काङ्क्षिणः
६१-२ द्वारं तमो-घन-प्रख्यं गुहायाः प्राविशन् द्रुतम्.
६२-१ तस्मिन्नन्तर्घणे ऽपश्यन् प्रघाणे सौध-सद्मनः.
६२-२ लौहोद्घन-घन-स्कन्धा ललिताऽपघनां स्त्रियम्
६३-१ सा स्तम्बघ्न-पद-न्यासान् विघनेन्दु-सम-द्युतिः
६३-२ परिघोरु-भुजानाह हसन्ती स्वागतं कपीन्.
६४-१ पिप्राया ऽद्रि-गुहोपघ्नानुद्घान् संघसमागतान्
६४-२ फलैर् नाना-रसैश् चित्रैः स्वादु-शीतैश्-च वारिभिः
६५-१ निघाऽनिघ-तरु-च्छन्ने तस्मिंस् ते लब्ध्रिमैः फलैः
६५-२ तृप्तास् तां भ्राजथु-मतीं पप्रच्छुः-"कस्य पूरियम्."
६६-१ "रक्ष्णं करोषि कस्मात् त्वं, यत्नेना ऽऽख्यायतां शुभे !
६६-२ स्वप्ने निधि-वदाभाति तव संदर्शनं हि नः.
६७-१ ततो जलधि-गम्भीरान् वानरान् प्रत्यवाच सा
६७-२ "इयं दानव-राजस्य पूः सृष्टिर् विश्वकर्मणः
६८-१ जिहतश् च स्थितिं भिन्दन् दानवोऽसौ जल-द्विषा,
६८-२ दुहिता मेरुसावर्णेरहं नाम्ना स्वयं-प्रभा.
६९-१ जूतिमिच्छथ चेत् तूर्णं, कीर्तिं वा पातुमात्मनः
६९-२ करोमि वा बहिर्-यूतीन्, पिधध्वं पाणिभिर्दृशः"
७०-१ प्रज्या-यती निरुद्धाऽक्षान् विद्येवाऽनुष्ठित-क्रियान्
७०-२ निरचिक्रमदिच्छा-तो वानरांश् चङ्क्रमा-वतः.
७१-१ निष्क्रम्य शिक्षया तस्यास् त्रपा-वन्तो रसा-तलात्
७१-२ ज्ञात्वा मासुमतिक्रान्तं व्यथामवललम्बिरे.
७२-१ चिन्ता-वन्तः कथां चक्रुरुपधा-भेद-भीरवः
७२-२ "अ-कृत्वा नृ-पतेः कार्यं पूजां लप्स्यामहे कथम्.
७३-१ प्रायोपासनया शान्तिं मन्वानो वालि-संभवः
७३-२ युक्त्वा योगं स्थितः शैले विवृण्वंश्चित्त-वेदनाम्
७४-१ प्रस्कन्दिकामिव प्राप्तो ध्यात्वा ब्रूते स्म जाम्बवान्
७४-२ "धिक् शालभञ्जिका-प्रख्यान् विशयान् कल्पना-रुचीन्,
७५-१ यां कारिं राज-पुत्रो, ऽयमनुतिष्ठति, तां क्रियाम्
७५-२ अहमप्यनुतिष्ठामि" सो ऽप्युक्त्वैवमुपाविशत्.
७६-१ उवाच मारुतिर् वृद्धे संन्यासिन्यत्र वानरात्
७६-२ "अहं पर्यायसंप्राप्तां कुर्वे प्रायोपवेशिकाम्
७७-१ अ-भावे भवतां यो ऽस्मिन् जीवेत्, तस्याऽस्त्व-जीवनिः,"
७७-२ इत्युक्त्वा सर्व एवा ऽस्थुर् बद्ध्वा योगाऽऽसनानि ते.
७८-१ अ-क्लेश्यमसिना ऽग्न्यन्तं कबन्ध-वधमभ्यधुः,
७८-२ धिङ् नः प्रपतनं घोरं क्लेदाऽन्तत्वम-नाथ-वत्.
७९-१ ततो मन्द-गतः पक्षी तेषां प्रायोपवेशनम्
७९-२ अशनीयमिवाशंसुर् महानायाद-शोभनः
८०-१ देह-व्रश्चन-तुण्डाऽग्रं तं विलोक्या ऽशुभाऽऽकरम्
८०-२ पाप-गोचरमात्मानमशोचन् वानरा मुहुः
८१-१ "जटायुः पुण्य-कृत् पक्षी दण्डकारण्य-सञ्चरः
८१-२ कृत्वा राघव-कार्यं यः स्वराऽऽरूढो ऽग्नि-संस्कृतः
८२-१ नरकस्या ऽवतारो ऽयं प्रत्यक्षो ऽस्माकमागतः,
८२-२ अ-चेष्टा यदिहा ऽन्यायादनेना ऽत्स्यामहे वयं
८३-१ हृदयोदङ्क-संस्थानं कृतान्ताऽऽनाय-सन्निभम्
८३-२ शरीराऽऽखन-तुण्डाऽग्रं प्राप्या-ऽमुं शर्म दुर्लभम्.
८४-१ ईषदाढ्यङ्करो ऽप्येष न परत्रा ऽशुभ-क्रिया,
८४-२ अस्मानत्तुमितो ऽभ्येति परिग्लानो बुभुक्षया."
८५-१ संप्राप्य वानरान् पक्षी जगाद मधुरं वचः
८५-२ "के यूयं दुरुपस्थाने मनसा ऽप्यद्रि-मूर्धनि.
अथ प्रकीर्णकाः

८६-१ आत्मनः परिदेवध्वे कुर्वन्तो राम-संकथाम्,
८६-२ समानोदर्यमस्माकं जटायुं च स्थुथा ऽऽदरात्.
८७-१ शङ्का-धवित्र-वचनं प्रत्यूचुर् वानराः खगम्
८७-२ "वयं शत्रु-लवित्रेषोर् दूता रामस्य भू-पतेः.
८८-१ केना ऽपि दौष्कुलेयेन कुल्यां माहाकुलीं प्रियाम्
८८-२ हृतां माहाकुलीनस्य तस्य लिप्सामहे वयम्.
८९-१ त्रिंशत्तममहर् यातं मत्वा प्रत्यागमाऽवधिम्
८९-२ अ-कृताऽर्था विशीदन्तः पर-लोकमुपास्महे.
९०-१ म्रियामहे, न गच्छामः कौशल्यायनि-वल्लभाम्
९०-२ उपलम्भ्याम-पश्यन्तः कौमारीं पततां वर !"
९१-१ जगाद वानरान् पक्षी-"नाध्यगीढ्वं ध्रुवं स्मृतिम्
९१-२ यूयं संकुटियुं यस्मात् काले ऽस्मिन्नध्यवस्यथ.
९२-१ नाऽयमुद्विजितुं कालः स्वामि-कार्याद् भवादृशाम्
९२-२ हृत-भार्ये च्युते राज्याद् रामो पर्युत्सुके भृशम्.
९३-१ यत्नं प्रोर्णवितुं तूर्णं दिशं कुरुत दक्षिणाम्,
९३-२ प्रोर्णुवित्रीं दिवस् तत्र पुरीं द्रक्ष्यथ काञ्चनीम्.
९४-१ लङ्कां नाम्ना गिरेर् मूर्ध्नि राक्षसेन्द्रेण पालिताम्
९४-२ निर्जित्य शक्रमानीता ददृशुर् यां सुर-स्त्रियः
९५-१ बभूव या ऽधिशैलेन्द्रं मृदित्वेवेन्द्र-गोचरम्
९५-२ कुषित्वा जगतां सारं सैका शङ्के कृता भुवि.
९६-१ अ-मृडित्वा सहस्राऽक्षं क्लिशित्वा कौशलैर् निजैः
९६-२ उदित्वा ऽलं चिरं यत्नात् सैका धात्रा विनिर्मिता.
९७-१ मुषित्वा धन-दं पापो यां गृहीत्वा ऽऽवसद् द्विषन्,
९७-२ तां रुदित्वेव शक्रेण यात लङ्कामुपेक्षिताम्.
९८-१ विदित्वा शक्तिमात्मीयां रावणं विजिघृक्षवः
९८-२ उक्तं पिपृच्छिषूणां वो मा स्म भूत सुषुप्सवः.
९९-१ ना ऽविविदिषुम्भ्येति सम्पद् रुरुदिषुं नरम्,
९९-२ किं मुमुषिषु-वद् यात द्विषो ना ऽपचिकीर्षया.
१००-१ बुभुत्सवो द्रुतं सीतां भुत्सीध्वं, प्रब्रवीमि वः,
१००-२ मा च भुद्ध्वं मृषोक्तं नः, कृषीढ्वं स्वामिने हितं
१०१-१ समगध्वं पुरः शत्रोर्, मोदयध्वं रघूत्तमम्,
१०१-२ नोपायध्वं भयं, सीतां नोपायंस्त दशाननः.
१०२-१ ततः प्रास्थिषता ऽद्रीन्द्रं महेन्द्रं वानरा द्रुतम्
१०२-२ सर्वे किलकिलायन्तो, धैर्यं चाऽऽधिषता ऽधिकम्.
१०३-१ निकुञ्जे तस्य वर्तित्वा रम्ये प्रक्ष्वेदिताः परम्
१०३-२ मणि-रत्नाऽधिशयितं प्रत्युदैक्षन्त तोय-धिम्
१०४-१ अ-मर्षितमिव घ्नन्तं तटाऽद्रीन् मलिलोर्मिभिः
१०४-२ श्रिया समग्रं द्युतितं मदेनेव प्रलोठितम्
१०५-१ पूतं शीतैर् नभस्वद्भिर् ग्रन्थित्वेव स्थितं रुचः
१०५-२ गुम्फित्वेव निरस्यन्तं तरङ्गान् सर्वतो मुहुः
१०६-१ वञ्चित्वा ऽप्यम्बरं दूरं स्वस्मिंस् तिष्ठन्तमात्मनि
१०६-२ तृषित्वेवा ऽनिशं स्वादु पिबन्तं सरितां पयः
१०७-१ द्युतित्वा शशिना नक्तं रश्मिभिः परिवर्धितम्
१०७-२ मेरोर् जेतुमिवा ऽऽभोगमुच्चैर् दिद्योतिषुं मुहुः.
१०८-१ विलोक्य सलिलोच्चयानधि-समुद्रमभ्रंलिहान् भ्रमन्-मकर भीषणं समधिगम्य चा ऽधः पयः
१०८-२ गमाऽऽगम-सहं द्रुतं कपि-वृषाः परिप्रैषयन् गजेन्द्र-गुरु-विक्रमं तरु-मृगोत्तमं मारुतिम्.

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP