प्रकीर्ण-काण्डः - सर्ग ४

`भट्टिकाव्यं' हे संस्कृत भाषेतील एक उत्कृष्ट काव्य आहे.


१-१ निवृत्ते भरते धी-मानत्रे रामस् तपो-वनम्
१-२ प्रपेदे, पूजितस् तस्मिन् दण्डकारण्यमीयिवान्.
२-१ अटाट्यमानो ऽरण्यानीं स-सीतः सह-लक्ष्मणः
२-२ बलाद् बुभुक्षुणोत्क्षिप्य जह्रे भीमेन रक्षसा.
३-१ अवाक्-शिरसमुत्-पादं कृतान्तेना ऽपि दुर्-दमम्
३-२ भङ्क्त्वा भुजौ विराधाऽऽख्यं तं तौ भुवि निचख्नतुः.
४-१ आंहिषातां रघु-व्याघ्रौ शरभङ्गाऽऽश्रमं ततः
४-२ अध्यासितं श्रिया ब्राह्म्या शरण्यं शरणैषिणाम्.
५-१ पुरो रामस्य जुहवाञ्चकार ज्वलने वपुः
५-२ शरभङ्गः प्रदिश्याऽऽरात् सुतीक्ष्ण-मुनिः-केतनम्
६-१ "यूयं समैष्यथेत्यस्मि न्नासिष्महि वयं वने,
६-२ दृष्टाः स्थ, स्वस्ति वो, यामः स्व-पुण्य-विजितां गतिम्"
७-१ तस्मिन् कृशानु-साद्-भूते सुतीक्ष्ण-मुनि-सन्निधौ
७-२ उवास पर्ण-शालायां भ्रमन्ननिशमाऽऽश्रमान्,
८-१ वनेषु वासतेयेषु निवसन् पर्ण-संस्तरः
८-२ शय्योत्थायं मृगान् विध्यन्नातिथेयो विचक्रमे
९-१ ऋग्-यजुषमधीयानान् सामान्यांश्च समर्चयन्
९-२ बुभुजे देव-सात्-कृत्वा शूल्यमुख्यं च हेम-वान्.
१०-१ वसानस् तन्त्रक-निभे सर्वाङ्गीणे तरु-त्वचौ
१०-२ काण्डीरः खाड्गकः शार्ङ्गी रक्षन् विप्रांस्तनुत्र-वान्
११-१ हित्वाऽऽशितङ्गवीनानि फलैर् येष्वाशितम्भवम्,
११-२ तेष्वसौ दन्दशूकाऽरिर् वनेश्वानभ्र निर्-भयः.
१२-१ व्रातीन-व्याल-दीप्राऽस्त्रः सुत्वनः परिपूजयन्
१२-२ पर्षद्वलान् महा-ब्रह्मैराट नैकटिकाऽऽश्रमान्.
१३-१ परेद्यव्यद्य पूर्वेद्युरन्येद्युश् चाऽपि चिन्तयन्
१३-२ वृद्धि-क्षयौ मुनीन्द्राणां प्रियं-भावुक-तामगात्.
१४-१ आ-तिष्ठद्-गु जपन् सन्ध्या प्रक्रान्तामायतीगवम्
१४-२ प्रातस्तरां पतत्रिभ्यः प्रबुद्धः प्रणमन् रविम्.
१५-१ ददृशे पर्ण-शालायां राक्षस्या ऽभीकया ऽथ सः,
१५-२ भार्योढं तमवज्ञाय तस्थे सौमित्रयेऽसकौ.
१६-१ दधाना वलि-भं मध्यं कर्ण-जाह-विलोचना
१६-२ वाक-त्वचेनाऽति-सर्वेण चन्द्र-लेखेव पक्षतौ
१७-१ सु-पाद् द्वि-रद्-नासोरूर् मृदु-पाणि-तलाऽङ्गुलिः
१७-२ प्रथिमानं दधानेन जघनेन घनेन सा
१८-१ उन्-नसं दधती वक्त्रं शुद्ध-दल्-लोल-कुण्डलम्
१८-२ कुर्वाणा पश्यतः शंयून् स्रग्विणी सु-हसाऽऽनना
१९-१ प्राप्य चञ्चूर्यमाणा पतीयन्ती रघूत्तमम्
१९-२ अनुका प्रार्थयाञ्चक्रे प्रिया-कर्तुं प्रियं-वदा.
२०-१ "सौमित्रे ! मामुपायंस्थाः कम्रामिच्छुर् वशं-वदाम्
२०-२ त्वद्-भोगीनां सह-चरीम-शङ्कः पुरुषाऽऽयुषम्."
२१-१ तामुवाच स-"गौष्ठीने वने स्त्री-पुंस-भीषणे
२१-२ अ-सूर्यं-पश्य-रूपा त्वं किम-भीरुररार्यसे.
२२-१ मानुषानभिलष्यन्ती रोचिष्णुर् दिव्य-धर्मिणी
२२-२ त्वमप्सरायमाणेह स्व-तन्त्रा कथमञ्चसि.
२३-१ उग्रं-पश्याऽऽकुलो ऽरण्ये शालीन-त्व-विवर्जिता
२३-२ कामुक-प्रार्थना-पट्वी पतिवत्नी कथं न वा.
२४-१ राघवं पर्ण-शालायामिच्छा ऽनुरहसं पतिम्,
२४-२ यः स्वामी मम कान्ता-वानौपकर्णिक-लोचनः
२५-१ वपुश् चान्दनिकं यस्य, कार्णवेष्टकिकं मुखम्,
२५-२ संग्रामे सर्व-कर्मीणौ पाणी यस्यौपजानुकौ.
२६-१ बद्धो दुर्-बल-रक्षाऽर्थमसिर् येनोपनीविकः,
२६-२ यश् चापमाश्मन-प्रख्यं सेषुं धत्तेऽन्य-दुर्-वहम्.
२७-१ जेता यज्ञ-द्रुहां संख्ये धर्म-सन्तान-सूर् वने
२७-२ प्राप्य दार-गवानां यः मुनीनाम-भयं सदा"
२८-१ ततो वावृत्यमाना ऽसौ राम-शालां न्यविक्षत,
२८-२ "मामुपायंस्त रामे"ति वदन्ती साऽऽदरं वचः
२९-१ "अ-स्त्रीको ऽसावहं स्त्री-मान्, स पुष्यति-तरां तव
२९-२ पतिर्"इत्यब्रवीद् रामस्"तमेव व्रज, मा मुचः."
३०-१ लक्ष्मणं ऽसा वृषस्यन्ती महोक्षं गौरिवा ऽगमत्
३०-२ मन्मथाऽऽयुध-सम्पात-व्यथ्यमान-मतिः पुनः.
३१-१ तस्याः सासद्यमानाया लोलूया-वान् रघूत्तमः
३१-२ असिं कौक्षेयमुद्यम्य चकाराऽप-नसं मुखम्.
३२-१ "अहं शूर्प-णखा नाम्ना नूनं ना ऽज्ञायिषि त्वया,
३२-२ दण्डो ऽयं क्षेत्रियो येन मय्यपाती"ति सा ऽब्रवीत्.
३३-१ पर्यशाप्सीद् दिवि-ष्ठा ऽसौ संदर्श्य भय-दं वपुः
३३-२ अपिस्फवच् च बन्धूनां निनङ्क्षुर् विक्रमं मुहुः
३४-१ खर-दूषणयोर् भ्रात्रोः पर्यदेविष्ट सा पुरः,
३४-२ विजिग्राहयिषू रामं दण्डकारण्य-वासिनोः
३५-१ "कृते सौभागिनेयस्य भरतस्य विवासितौ
३५-२ पित्रा दौर्भागिनेयौ यौ, पश्यतं चेष्टितं तयोः.
३६-१ मम रावण-नाथाया भगिन्या युवयोः पुनः
३६-२ अयं तापसकाद् ध्वंसः, क्षमध्वं, यदि वः क्षमम्.
३७-१ अ-संस्कृत्रिम-संव्यानावनुप्त्रिम-फलाशिनौ
३७-२ अ-भृत्रिम-परीवारौ पर्यभूतां तथापि माम्."
३८-१ "श्वःश्रेयसमवाप्तासि" भ्रातृभ्यां प्रत्यभाणि सा
३८-२ प्राणिवस् तव मानाऽर्थं, व्रजाऽऽश्वसिहि, मा रुदः.
३९-१ जक्षिमो ऽनपराधेऽपि नरान् नक्तं-दिवं वयम्,
३९-२ कुतस्-त्यं भीरु ! यत् तेभ्यो द्रुह्यद्भ्यो ऽपि क्षमामहे."
४०-१ तौ चतुर्दश-साहस्रबलौ निर्ययतुस् ततः
४०-२ पारश्वधिक-धानुष्क-शाक्तिक-प्रासिकाऽन्वितौ.
४१-१ अथ सम्पततो भीमान् विशिखै राम-लक्ष्मणौ
४१-२ बहु-मूर्ध्नो द्वि-मूर्धांश्च त्रि-मूर्धाश् चा ऽहतां मृधे.
४२-१ तैर् वृक्ण-रुग्ण-सम्भुग्न-क्षुण्ण-भिन्न-विपन्न-कैः.
४२-२ निमग्नोद्विग्न-संह्रीणैः पप्रे दीनैश् च मेदिनी.
४३-१ के-चिद् वेपथुमासेदुरन्ये दवथुमुत्तमम्,
४३-२ स-रक्तं वमथुं केचिद्, भ्राजथुं न च के-चन.
४४-१ मृगयुमिव मृगो ऽथ दक्षिणेर्मा, दिशमिव दाह-वतीं मरावुदन्यन्,
४४-२ रघु-तनयमुपाययौ त्रि-मूर्धो, विशभृदिवोग्र-मुखं पतत्रि-राजम्,
४५-१ शित-विशिख-निकृत्तकृत्स्न-वक्त्रः क्षिति-भृदिव क्षिति-कम्प-कीर्ण-शृङ्गः
४५-२ भयमुपनिदधे स राक्षसानाम् अ-खिल-कुल-क्षय-पूर्व-लिङ्ग-तुल्यः.

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP