TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

आर्यभटीय - गोल पाद

आर्यभटीय नामक ग्रन्थाची रचना आर्यभट प्रथम (४७६-५५०) यांनी केली. आर्यभटीय, संस्कृत भाषेत काव्यरूपात रचिला गेला आहे. याची रचनापद्धति फारच वैज्ञानिक आणि भाषा संक्षिप्त आहे.
Aryabhata is the earliest Indian mathematician whom historians know by name. He lived from 476 to 550 C.E.


गोल-पाद
मेष-आदेस् कन्या-अन्तम् समम् उदच्-अपमण्डल-अर्धम् अपयातम् ।
तौल्य-आदेस् मीन-अन्तम् शेष-अर्धम् दक्षिणेन एव ॥१॥

तारा-ग्रह-इन्दु-पातास् भ्रमन्ति अजस्रम् अपमण्डले अर्कस् च ।
अर्कात् च मण्डल-अर्धे भ्रमति हि तस्मिन् क्षिति-छाया ॥२॥

अपमण्डलस्य चन्द्रस् पातात् याति उत्तरेण दक्षिण-तस् ।
कुज-गुरु-कोणास् च एवम् शीघ्र-उच्चेन अपि बुध-शुक्रौ ॥३॥

चन्द्रस् अंशैस् द्वादशभिस् अविक्षिप्तस् अर्क-अन्तर-स्थितस् दृश्यस् ।
नवभिस् भृगुस् भृगोस् तैस् द्वि-अधिकैस् द्वि-अधिकैस् यथा श्लक्ष्णास् ॥४॥

भू-ग्रह-भानाम् गोल-अर्धानि स्व-छायया वि-वर्णानि ।
अर्धानि यथा-सारम् सूर्य-अभिमुखानि दीप्यन्ते ॥५॥

वृत्त-भ-पञ्जर-मध्ये कक्ष्या-परिवेष्टितस् ख-मध्य-गतस् ।
मृद्-जल-शिखि-वायु-मयस् भू-गोलस् सर्वतस् वृत्तस् ॥६॥
यद्-वत् कदम्ब-पुष्प-ग्रन्थिस् प्रचितस् समन्ततस् कुसुमैस् ।
तद्-वत् हि सर्व-सत्त्वैस् जल-जैस् स्थल-जैस् च भू-गोलस् ॥७॥

ब्रह्म-दिवसेन भूमेस् उपरिष्टात् योजनम् भवति वृद्धिस् ।
दिन-तुल्यया एक-रात्र्या मृद्-उपचिताया भवति हानिस् ॥८॥

अनुलोम-गतिस् नौ-स्थस् पश्यति अचलम् विलोम-गम् यद्-वत् ।
अचलानि भानि तद्-वत् सम-पश्चिम-गानि लङ्कायाम् ॥९॥

उदय-अस्तमय-निमित्तम् नित्यम् प्रवहेण वायुना क्षिप्तस् ।
लङ्का-सम-पश्चिम-गस् भ-पञ्जरस् स-ग्रहस् भ्रमति ॥१०॥

मेरुस् योजन-मात्रस् प्रभा-करस् हिम-वता परिक्षिप्तस् ।
नन्दन-वनस्य मध्ये रत्न-मयस् सर्व-तस् वृत्तस् ॥११॥

स्वर्-मेरू स्थल-मध्ये नरकस् बडवा-मुखम् च जल-मध्ये ।
अमर-मरास् मन्यन्ते परस्परम् अधस्-स्थितास् नियतम् ॥१२॥

उदयस् यस् लङ्कायाम् सस् अस्तमयस् सवितुर् एव सिद्ध-पुरे ।
मध्य-अह्नस् यम-कोट्याम् रोमक-विषये अर्ध-रात्रस् स्यात् ॥१३॥

स्थल-जल-मध्यात् लङ्का भू-कक्ष्यायास् भवेत् चतुर्-भागे ।
उज्जयिनी लङ्कायास् तद्-चतुर्-अंशे सम-उत्तरतस् ॥१४॥

भू-व्यास-अर्धेन ऊनम् दृश्यम् देशात् समात् भ-गोल-अर्धम् ।
अर्धम् भूमि-छन्नम् भू-व्यास-अर्ध-अधिकम् च एव ॥१५॥

देवास् पश्यन्ति भ-गोल-अर्धम् उदच्-मेरु-संस्थितास् सव्यम् ।
अर्धम् तु अपसव्य-गतम् दक्षिण-बडवा-मुखे प्रेतास् ॥१६॥

रवि-वर्ष-अर्धम् देवास् पश्यन्ति उदितम् रविम् तथा प्रेतास् ।
शशि-मास-अर्धम् पितरस् शशि-गास् कु-दिन-अर्धम् इह मनु-जास् ॥१७॥

पूर्व-अपरम् अधस्-ऊर्ध्वम् मण्डलम् अथ दक्षिण-उत्तरम् च एव ।
क्षिति-जम् सम-पार्श्व-स्थम् भानाम् यत्र उदय-अस्तमयौ ॥१७॥

पूर्व-अपर-दिश्-लग्नम् क्षिति-जात् अक्ष-अग्रयोस् च लग्नम् यत् ।
उन्मण्डलम् भवेत् तत् क्षय-वृद्धी यत्र दिवस-निशोस् ॥१॥

पूर्व-अपर-दिश्-रेखा अधस् च ऊर्ध्वा दक्षिण-उत्तर-स्था च ।
एतासाम् सम्पातस् द्रष्टा यस्मिन् भवेत् देशे ॥१९॥

ऊर्ध्वम् अधस्तात् द्रष्टुर् ज्ञेयम् दृश्-मण्डलम् ग्रह-अभिमुखम् ।
दृश्-क्षेप-मण्डलम् अपि प्राच्-लग्नम् स्यात् त्रि-राशि-ऊनम् ॥२०॥

काष्ठ-मयम् सम-वृत्तम् समन्ततस् सम-गुरुम् लघुम् गोलम् ।
पारत-तैल-जलैस् तम् भ्रमयेत् स्व-धिया च काल-समम् ॥२१॥

दृश्-गोल-अर्ध-कपाले ज्या-अर्धेन विकल्पयेत् भ-गोल-अर्धम् ।
विषुवत्-जीवा-अक्ष-भुजा तस्यास् तु अवलम्बक्स् कोटिस् ॥२२॥

इष्ट-अपक्रम-वर्गम् व्यास-अर्ध-कृतेस् विशोध्य यत् मूलम् ।
विषुवत्-उदच्-दक्षिणतस् तत् अहोरात्र-अर्ध-विष्कम्भस् ॥२३॥

इष्ट-ज्या-गुणितम् अहोरात्र-व्यास-अर्धम् एव काष्ठ-अन्त्यम् ।
स्व-अहोरात्र-अर्ध-हृतम् फलम् अजात् लङ्का-उदय-प्राच्-ज्यास् ॥२४॥

इष्ट-अपक्रम-गुणिताम् अक्ष-ज्याम् लम्बकेन हृत्वा या ।
स्व-अहोरात्रे क्षिति-जा क्षय-वृद्धि-ज्या दिन-निशोस् सा ॥२५॥

दयति हि चक्र-पादस् चर-दल-हीनेन दिवस-पादेन ।
प्रथमस् अन्त्यस् च अथ अन्यौ तद्-सहितेन क्रम-उत्क्रमशस् ॥२६॥

स्व-अहोरात्र-इष्ट-ज्या क्षिति-जात् अवलम्बक-आहताम् कृत्वा ।
विष्कम्भ-अर्ध-विभक्ते दिनस्य गत-शेष्सयोस् शङ्कुस् ॥२७॥

विषुवत्-जीवा-गुणितस् स्व-इष्टस् शङ्कुस् स्व-लम्बकेन हृतस् ।
अस्तमय-उदय-सूत्रात् दक्षिणतस् सूर्य-शङ्कु-अग्रम् ॥२८॥

परम-अपक्रम-जीवाम् इष्ट-ज्या-अर्ध-आहताम् ततस् विभजेत् ।
ज्या लम्बकेन लब्धा अर्क-अग्रा पूर्व-अपरे क्षिति-जे ॥२९॥

सा विषुवत्-ज्या-ऊना चेद् विषुवत्-उदच्-लम्बकेन सङ्गुणिता ।
विषुवत्-ज्यया विभक्ता लब्धस् पूर्व-अपरे शङ्कुस् ॥३०॥

क्षिति-जात् उन्नत-भागानाम् या ज्या सा परस् भवेत् शङ्कुस् ।
मध्यात् नत-भाग-ज्या छाया शङ्कोस् तु तस्य एव ॥३१॥

मध्य-ज्या-उदय-जीवा-संवर्गे व्यास-दल-हृते यत् स्यात् ।
तद्-मध्य-ज्या-कृत्योस् विशेष-मूलम् स्व-दृश्-क्षेपस् ॥३२॥

दृश्-दृश्-क्षेप-कृति-विशेषितस्य मूलम् स्व-दृश्-गतिस् कु-वशात् ।
क्षिति-जे स्वा दृश्-छाया भू-व्यास-अर्धम् नभस्-मध्यात् ॥३३॥

विक्षेप-गुण-अक्ष-ज्या लम्बक-भक्ता भवेत् ऋणम् उदच्-स्थे ।
उदये धनम् अस्तमये दक्षिण-गे धनम् ऋणम् चन्द्रे ॥३४॥

विक्षेप-अपक्रम-गुणम् उत्क्रमणम् विस्तर-अर्ध-कृति-भक्तम् ।
उदच्-ऋण-धनम् उदच्-अयने दक्षिण-गे धनम् ऋणम् याम्ये ॥३५॥

चन्द्रस् जलम् अर्कस् अग्निस् मृद्-भू-छाया अपि या तमस् तत् हि ।
छादयति शशी सूर्यम् शशिनम् महती च भू-छाया ॥३६॥

स्फुट-शशि-मास-अन्ते अर्कम् पात-आसन्नस् यदा प्रविशति इन्दुस् ।
भू-छायाम् पक्ष-अन्ते तदा अधिक-ऊनम् ग्रहण-मध्यम् ॥३७॥

भू-रवि-विवरम् विभजेत् भू-गुणितम् तु रवि-भू-विशेषेण ।
भू-छाया-दीर्घत्वम् लब्धम् भू-गोल-विष्कम्भात् ॥३८॥

छाया-अग्र-चन्द्र-विवरम् भू-विष्कम्भेण तत् समभ्यस्तम् ।
भू-छायया विभक्तम् विद्यात् तमसस् स्व-विष्कम्भम् ॥३९॥

तद्-शशि-सम्पर्क-अर्ध-कृतेस् शशि-विक्षेप-वर्गितम् शोध्यम् ।
स्थिति-अर्धम् अस्य मूलम् ज्ञेयम् चन्द्र-अर्क-दिन-भोगात् ॥४०॥

चन्द्र-व्यास-अर्ध-ऊनस्य वर्गितम् यत् तमस्-मय-अर्धस्य ।
विक्षेप-कृति-विहीनम् तस्मात् मूलम् विमर्द-अर्धम् ॥४१॥

तमसस् विष्कम्भ-अर्धम् शशि-विष्कम्भ-अर्ध-वर्जितम् पोह्य ।
विक्षेपात् यत् शेषम् न गृह्यते तत् शशाङ्कस्य ॥४२॥

विक्षेप-वर्ग-सहितात् स्थिति-मध्यात् इष्ट-वर्जितात् मूलम् ।
सम्पर्क-अर्धात् शोध्यम् शेषस् तात्कालिकस् ग्रासस् ॥४३॥

मध्य-अह्न-उत्क्रम-गुणितस् अक्षस् दक्षिणतस् अर्ध-विस्तर-हृतस् दिक् ।
स्थिति-अर्धात् च अर्क-इन्द्वोस् त्रि-राशि-सहित-अयनात् स्पर्शे ॥४४॥

प्रग्रहण-अन्ते धूम्रस् खण्ड-ग्रहणे शशी भवति कृष्णस् ।
सर्व-ग्रासे कपिलस् स-कृष्ण-ताम्रस् तमस्-मध्ये ॥४५॥

सूर्य-इन्दु-परिधि-योगे अर्क-अष्टम-भागस् भवति अनादेश्यस् ।
भानोस् भास्वर-भावात् सु-अच्छ-तनुत्वात् च शशि-परिधेस् ॥४६॥

क्षिति-रवि-योगात् दिन-कृत् रवि-इन्दु-योगात् प्रसाधयेत् च इन्दुम् ।
शशि-तारा-ग्रह-योगात् तथा एव तारा-ग्रहास् सर्वे ॥४७॥

सत्-असत्-ज्ञान-समुद्रात् समुद्धृतम् ब्रह्मणस् प्रसादेन ।
सत्-ज्ञान-उत्तम-रत्नम् मया निमग्नम् स्व-मति-नावा ॥४८॥

आर्यभटीयम् नाम्ना पूर्वम् स्वायम्भुअवम् सदा नित्यम् ।
सु-कृत-आयुषोस् प्रणाशम् कुरुते प्रतिकञ्चुकम् यस् अस्य ॥४९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:31.9200000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

MANTHARĀ I(मन्थरा)

  • A maid of Kaikeyī the wife of Daśaratha. This hunchbacked woman was born of the species of a Gandharvī named Dundubhī. [Śloka 10, Chapter 276, Vana Parva]. When everything was made ready to crown Śrī Rāma as the heir-apparent of Ayodhyā, it was Mantharā who persuaded Kaikeyī to go to Daśaratha and ask him to send Śrī Rāma to the forests. Had not the cruel tongue of Mantharā played like that, the history of the solar dynasty itself would have been different. (See under Kaikeyī). 
RANDOM WORD

Did you know?

गणेश गीतेचा मराठी अनुवाद कुठे आणि कसा मिळेल या बद्दल सांगावे
Category : Puranic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.