TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

आर्यभटीय - गणित पाद

आर्यभटीय नामक ग्रन्थाची रचना आर्यभट प्रथम (४७६-५५०) यांनी केली. आर्यभटीय, संस्कृत भाषेत काव्यरूपात रचिला गेला आहे. याची रचनापद्धति फारच वैज्ञानिक आणि भाषा संक्षिप्त आहे.
Aryabhata is the earliest Indian mathematician whom historians know by name. He lived from 476 to 550 C.E.


गणित-पाद
ब्रह्म-कु-शशि-बुध-भृगु-रवि-कुज-गुरु-कोण-भ-गणान् नमस्-कृत्य ।
आर्यभटस् तु इह निगदति कुसुम-पुरे अभ्यर्चितम् ज्ञानम् ॥१॥
एकम् दश च शतम् च सहस्रम् अयुत-नियुते तथा प्रयुतम् ।
कोटि-अर्बुदम् च वृन्दम् स्थानात् स्थानम् दश-गुणम् स्यात् ॥२॥
वर्गस् सम-चतुर्-अश्रस् फलम् च सदृश-द्वयस्य संवर्गस् ।
सदृश-त्रय-संवर्गस् घनस् तथा द्वादश-अश्रिस् स्यात् ॥३॥
भागम् हरेत् अवर्गान् नित्यम् द्वि-गुणेन वर्ग-मूलेन ।
वर्गात् वर्गे शुद्धे लब्धम् स्थान-अन्तरे मूलम् ॥४॥
अघनात् भजेत् द्वितीयात् त्रि-गुणेन घनस्य मूल-वर्गेण ।
वर्गस् त्रि-पूर्व-गुणितस् शोध्यस् प्रथमात् घनस् च घनात् ॥५॥
त्रि-भुजस्य फल-शरीरम् सम-दल-कोटी-भुजा-अर्ध-संवर्गस् ।
ऊर्ध्व-भुजा-तद्-संवर्ग-अर्धम् सस् घनस् षष्-अश्रिस् इति ॥६॥
सम-परिणाहस्य-अर्धम् विष्कम्भ-अर्ध-हतम् एव वृत्त-फलम् ।
तद्-निज-मूलेन हतम् घन-गोल-फलम् निरवशेषम् ॥७॥
आयाम-गुणे पार्श्वे तद्-योग-हृते स्व-पात-लेखे ।
विस्तर-योग-अर्ध-गुणे ज्ञेयम् क्षेत्र-फलम् आयामे ॥८॥
सर्वेषाम् क्षेत्राणाम् प्रसाध्य पार्श्वे फलम् तद्-अभ्यासस् ।
परिधेस् षष्-भाग-ज्या विष्कम्भ-अर्धेन सा तुल्या ॥९॥
चतुर्-अधिकम् शतम् अष्ट-गुणम् द्वाषष्टिस् तथा सहस्राणाम् ।
अयुत-द्वय-विष्कम्भस्य आसन्नस् वृत्त-परिणाहस् ॥१०॥
सम-वृत्त-परिधि-पादम् छिन्द्यात् त्रि-भुजात् चतुर्-भुजात् च एव ।
सम-चाप-ज्या-अर्धानि तु विष्कम्भ-अर्धे यथा इष्टानि ॥११॥
प्रथमात् चाप-ज्या-अर्धात् यैर् ऊनम् खण्डितम् द्वितीय-अर्धम् ।
तद्-प्रथम-ज्या-अर्ध-अंशैस् तैस् तैस् ऊनानि शेषाणि ॥१२॥
वृत्तम् भ्रमेण साध्यम् च चतुर्-भुजम् च कर्णाभ्याम् ।
साध्या जलेन सम-भूस् अधस्-ऊर्ध्वम् लम्बकेन एव ॥१३॥
शङ्कोस् प्रमाण-वर्गम् छाया-वर्गेण संयुतम् कृत्वा ।
यत् तस्य वर्ग-मूलम् विष्कम्भ-अर्धम् स्व-वृत्तस्य ॥१४॥
शङ्कु-गुणम् शङ्कु-भुजा-विवरम् शङ्कु-भुजयोर् विशेष-हृतम् ।
यत् लब्धम् सा छाया ज्ञेया शङ्कोस् स्व-मूलात् हि ॥१५॥
छाया-गुणितम् छाया-अग्र-विवरम् ऊनेन भाजितम् कोटी ।
शङ्कु-गुणा कोटी सा छाया-भक्ता भुजा भवति ॥१६॥
यस् च एव भुजा-वर्गस् कोटी-वर्गस् च कर्ण-वर्गस् सस् ।
वृत्ते शर-संवर्गस् अर्ध-ज्या-वर्गस् सस् खलु धनुषोस् ॥१७॥
ग्रास-ऊने द्वे वृत्ते ग्रास-गुणे भाजयेत् पृथक्त्वेन ।
ग्रास-ऊन-योग-लब्धौ संपात-शरौ परस्पर-तस् ॥१८॥
इष्टम् वि-एकम् दलितम् स-पूर्वम् उत्तर-गुणम् स-मुखम् मध्यम् ।
इष्ट-गुणितम् इष्ट-धनम् तु अथ वा आदि-अन्तम् पद-अर्ध-हतम् ॥१९॥
गच्छस् अष्ट-उत्तर-गुणितात् द्वि-गुण-आदि-उत्तर-विशेष-वर्ग-युतात् ।
मूलम् द्वि-गुण-आदि-ऊनम् स्व-उत्तर-भजितम् स-रूप-अर्धम् ॥२०॥
एक-उत्तर-आदि-उपचितेस् गच्च-आदि-एक-उत्तर-त्रि-संवर्गस् ।
षष्-भक्तस् सस् चिति-घनस् स-एक-पद-घनस् वि-मूलस् वा ॥२१॥
स-एक-स-गच्छ-पदानाम् क्रमात् त्रि-संवर्गितस्य षष्ठस् अंशस् ।
वर्ग-चिति-घनस् सस् भवेत् चिति-वर्गस् घन-चिति-घनस् च ॥२२॥
सम्पर्कस्य हि वर्गात् विशोधयेत् एव वर्ग-सम्पर्कम् ।
यत् तस्य भवति अर्धम् विद्यात् गुण-कार-संवर्गम् ॥२३॥
द्वि-कृति-गुणात् संवर्गात् द्वि-अन्तर-वर्गेण संयुतात् मूलम् ।
अन्तर-युक्तम् हीनम् तद्-गुण-कार-द्वयम् दलितम् ॥२४॥
मूल-फलम् स-फलम् काल-मूल-गुणम् अर्ध-मूल-कृति-युक्तम् ।
तद्-मूलम् मूल-अर्ध-ऊनम् काल-हृतम् स्व-मूल-फलम् ॥२५॥
त्रैराशिक-फल-राशिम् तम् अथ इच्छा-राशिना हतम् कृत्वा ।
लब्धम् प्रमाण-भजितम् तस्मात् इच्छा-फलम् इदम् स्यात् ॥२६॥
छेदास् परस्पर-हतास् भवन्ति गुण-कार-भाग-हाराणाम् ।
छेद-गुणम् स-छेदम् परस्परम् तत् सवर्णत्वम् ॥२७॥
गुण-कारास् भाग-हरास् भाग-हरास् ते भवन्ति गुण-कारास् ।
यस् क्षेपस् सस् अपचयस् अपचयस् क्षेपस् च विपरीते ॥२८॥
राशि-ऊनम् राशि-ऊनम् गच्छ-धनम् पिण्डितम् पृथक्त्वेन ।
वि-एकेन पदेन हृतम् सर्व-धनम् तत् भवति एवम् ॥२९॥
गुलिका-अन्तरेण विभजेत् द्वयोस् पुरुषयोस् तु रूपक-विशेषम् ।
लब्धम् गुलिका-मूल्यम् यदि अर्थ-कृतम् भवति तुल्यम् ॥३०॥
भक्ते विलोम-विवरे गति-योगेन अनुलोम-विवरे द्वौ ।
गति-अन्तरेण लब्धौ द्वि-योग-कालौ अतीत-ऐष्यौ ॥३१॥
अधिक-अग्र-भाग-हारम् छिन्द्यात् ऊन-अग्र-भाग-हारेण ।
शेष-परस्पर-भक्तम् मति-गुणम् अग्र-अन्तरे क्षिप्तम् ॥३२॥
अधस्-उपरि-गुणितम् अन्त्य-युज्-ऊन-अग्र-छेद-भाजिते शेषम् ।
अधिक-अग्र-छेद-गुणम् द्वि-छेद-अग्रम् अधिक-अग्र-युतम् ॥३३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2014-01-22T14:59:31.0830000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

कुलध्वंस

  • a  Destroying or destroyed state of a race or family. 
RANDOM WORD

Did you know?

नैमित्तिक पूजा म्हणजे काय? त्या कोणकोणत्या?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site