TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

चतुर्थोच्छ्वासः

’देव, महीसुरोपकारायैव देवो गतवानिति निश्चित्यापि देवेन गन्तव्यं देशं निर्णेतु मशक्नुवानो मित्रगणः परस्परं वियुज्य दिक्षु देवमन्वेष्टुमगच्छत् ॥१॥

अहमपि देवस्यान्वेषणाय महीमटन्कदाचिदम्बरमध्यगतस्याम्बरमणेः किरणमसहिष्णुरेकस्य गिरितटमहीरुहस्य प्रच्छायशीतले तले क्षणमुपाविशम् ।
मम पुरोभागे दिनमध्यसंकुचितसर्वावयवां कूर्माकृतिं मानुषच्छायां निरीक्ष्योन्मुखो गगनतलान्महारयेण पतन्तं पुरुषं कञ्चिदन्तराल एव दयोपनतहृदयो ऽहमवलम्ब्य शनैरवनितले निक्षिप्य दूरापातवीतसंज्ञं तं शिशिरोपचारेण विबोध्य शोकातिरेकेणोद्गतबाष्पलोचनं तं भृगुपतनकारणमपृच्छम् ॥२॥

सो ऽपि कररुहैरश्रुकणानपनयन्नभाषत-"सौम्य, मगधाधिनाथामात्यस्य पद्मोद्भवस्यात्मसंभवो रत्नोद्भवो नामाहम् ।
वाणिज्यरूपेण कालयवनद्वीपमुपेत्य कामपि वणिक्कन्यकां परिणीय तया सह प्रत्यागच्छन्नम्बुधौ तीरस्यानतिदूर एव प्रवहणस्य भग्नतया सर्वेषु निमग्नेषु कथङ्कथमपि दैवानुकूल्येन तीरभूमिमभिगम्य निजाङ्गनावियोगदुःखार्णवे प्लवमानः कस्यापि सिद्धतापसस्यादेशादरेण षोडश हायनानि कथञ्चिन्नीत्वा दुःखस्य पारमनवेक्षमाणः गिरिपतनमकार्षम्ऽ इति ॥३॥

तस्मिन्नेवावसरे किमपि नारीकूजितमश्रावि-"नखलु समुचितमिदं यत्सिद्धादिष्टे पतिततनयमिलने विरहमसहिष्णुर्वैश्वानरं विशसिऽ इति ॥४॥

तन्निशम्य मनोविदितजनकभावं तमवादिषम्-"तात, भवते विज्ञापनीयानि बहूनि सन्ति ।
भवतु ।
पश्चादखिलमाख्यातव्यम् ।
अधुना नारीकूजितमनुपेक्षणीयं मया ।
क्षणमात्रम् भवता स्थीयताम्ऽिति ॥५॥

तदनु सो ऽहं त्वरया किञ्चिदन्तरमगमम् ।
तत्र पुरतो भयङ्करज्वालाकुलहुतभुगवगाहनसाहसिकां मुकुलिताञ्जलिपुटां वनितां काञ्चिदवलोक्य संभ्रममनलादपनीय कूजन्त्या वृद्धया सह मत्पितुरभ्यर्णमभिगमय्य स्थविरामवोचम्-"वृद्धे, भवत्यौ कुत्रत्ये ।
कान्तारे निमित्तेन केन दुरवस्थानुभूयते ।
कथ्यताम्ऽ इति ॥६॥

सा सगद्गदमवादीत्-"पुत्र, कालयवनद्वीपे कालगुप्तनाम्नो वणिजः कस्यचिदेषा सुता सुवृत्ता नाम रत्नोद्भवेन निजकान्तेनागच्छन्ती जलधौ मग्ने प्रवहणे निजधात्र्या मया सह फलकमेकमवलम्ब्य दैवयोगेन कूलमुपेतासन्नप्रसवसमया कस्याञ्चिदटव्यामात्मजमसूत ।
मम तु मन्दभाग्यतया बाले वनमातङ्गेन गृहीते मद्द्वितीया परिभ्रमन्ती "षोडशवर्षानन्तरं भर्तृपुत्रसङ्गमो भविष्यतिऽ इति सिद्धवाक्यविश्वासादेकस्मिन्पुण्याश्रमे तावन्तं समयं नीत्वा शोकमपारं सोढुमक्षमा समुज्ज्वलिते वैश्वानरे शरीरमाहुतीकर्तुमुद्युक्तासीत्ऽ इति ॥७॥

तदाकर्ण्य निजजननीं ज्ञात्वा तामहं दण्डवत्प्रणम्य तस्यै मदुदन्तमखिलमाख्याय धात्रीभाषणफुल्लवदनं विस्मयविकसिताक्षं जनकमदर्शयम् ।
पितरौ तौ साभिज्ञानमन्योन्यं ज्ञात्वा मुदितान्तरात्मानौ विनीतं मामानन्दाश्रुवर्षेणाबिषिच्य गाढमाश्लिष्य शिरस्युपाघ्राय कस्याञ्चिन्महीरुहच्छायायामुपाविशताम् ॥८॥

’कथं निवसति महीवल्लभो राजहंसःऽ इति जनकेन पृष्टो ऽहं तस्य राज्यच्युतिं त्वदीयजननं सकलकुमारावाप्तिं तव दिग्विजयारम्भो भवतः मातङ्गानुयानमस्माकं युष्मदन्वेषणकारणं सकलमभ्यधाम् ।
ततस्तौ कस्यचिदाश्रमे मुनेरस्थापयम् ।
ततो देवस्यान्वेषणपरायणो ऽहमखिलकार्यनिमित्तं वित्तं निश्चित्य भवदनुग्रहाल्लब्धस्य साधकस्य साहाय्यकरणदक्षं शिष्यगणं निष्पाद्य विन्ध्यवनमध्ये पुरातनपत्तनस्थानान्युपेत्य विविधसूचकानां महीरुहाणामधोनिक्षिप्तान् वसुपूर्णान् कलशान् सिद्धाञ्जनेन ज्ञात्वा रक्षिषु परितः स्थितेषु खननसाधनैरुत्पाट्य दीनारानसंख्यान् राशीकृत्य तत्कालागतमनतिदूरे निवेशितं वणिक्कटकं कञ्चिदभ्येत्य तत्र बलिनो बलीवर्दान् गोणींश्च क्रीत्वान्यद्रव्यमिषेण वसु तद्गोणीसञ्चितं तैरुह्यमानं शनैः कटकमनयम् ॥९॥
१०
तदधिकारिणा चन्द्रपालेन केनचिद्वणिक्पुत्रेण विरचितसौहृदो ऽहममुनैव साकमुज्जयिनीमुपाविशम् ।
यत्पितरावपि तां पुरीमभिगमय्य सकलगुणनिलयेन बन्धुपालनाम्ना चन्द्रपालजनकेन नीयमानो मालवनाथदर्शनं विधाय तदनुमत्या गूढवसतिमकरवम् ।
ततः काननभूमिषु भवन्तमन्वेष्टुमुद्युक्तं मां परममित्रं बन्धुपालो निशम्यावदत्-"सकलं धरणितलमपारमन्वेष्टुमक्षमो भवान्मनोग्लानिं विहाय तूष्णीं तिष्ठतु ।
भवन्नायकालोकनकारणं शुभशकुनं निरीक्ष्य कथयिष्यामि, इति ॥१०॥
११
तल्लपितामृताश्वासितहृदयो ऽहमनुदिनं तदुपकण्ठवर्ती कदाचिदिन्दुमुखीं नवयौवनालीढावयवां नयनचन्द्रिकां बालचन्द्रिकां नाम तरुणीरत्नं वणिङ्मन्दिरलक्ष्मीं मूर्तामिवावलोक्य तदीयलावण्यावधूतधीरभावो लतान्तबाणबाणलक्ष्यतामयासिषम् ॥११॥
१२
चकितबालकुरङ्गलोचना सापि कुसुमसायकसायकायमानेन कटाक्षवीक्षणेन मामसकृन्निरीक्ष्य मन्दमारुतान्दोलिता लतेवाकम्पत ।
मनसाभिमुखैः समाकुञ्चितै रागलज्जान्तरालवर्तिभिः साङ्गवर्तिभिरीक्षणविशेषैर्निजमनोवृत्तिमकथयत् ॥१२॥
१३
चतुरगूढचेष्टाभिरस्या मनो ऽनुरागं सम्यग्ज्ञात्वा सुखसंगमोपायमचिन्तयम् ।
अन्यदा बन्धुपालः शकुनैर्भवद्गतिं प्रैक्षिष्यमाणः पुरोपान्तविहारवनं मया सहोपेत्य कस्मिंश्चिन्महीरुहे शकुन्तवचनानि शृण्वन्नतिष्ठत् ॥१३॥
१४
अहमुत्कलिकाविनोदपरायणो वनान्तरे परिभ्रमन्सरोवरतीरे चिन्ताक्रान्तचित्तां दीनवदनां मन्मनोरथैकभूमिं बालचन्द्रिकां व्यलोकयम् ॥१४॥
१५
तस्याः ससंभ्रमप्रेमलज्जाकौतुकमनोरमं लीलाविलोकनसुखमनुभवन् सुदत्या वदनारविन्दे विषण्णभावं मदनकदनखेदानुभूतं तन्निमित्तं ज्ञास्यंल्लीलया तदुपकण्ठमुपेत्यावोचम्-"सुमुखि, तव मुखारविन्दस्य दैन्यकारणं कथयऽ इति ॥१५॥
१६
सा रहस्यसंजातविश्रम्भतया विहाय लज्जाभये शनैरभाषत-"सौम्य, मानसारो मालवाधीश्वरो वार्धक्यस्य प्रबलतया निजनन्दनं दर्पसारमुज्जयिन्यामभ्यषिञ्चत् ।
स कुमारः सप्तसागरपर्यन्तं महीमण्डलं पालयिष्यन्निजपैतृष्वस्रेया उद्दण्डकर्माणौ चण्डवर्मदारुवर्माणौ धरणीभरणे नियुज्य तपश्चरणाय राजराजगिरिमभ्यगात् ॥१६॥
१७
राज्यं सर्वमसपत्नं शासति चण्डवर्मणि दारुवर्मा मातुलाग्रजन्मनोः शासनमतिक्रम्य पारदार्यपरद्रव्यापहरणादिदुष्कर्म कुर्वाणो मन्मथसमानस्य भवतो लावण्यात्तचित्तां मामेकदा विलोक्य कन्यादूषणदोषं दूरीकृत्य बलात्कारेण रन्तुमुद्युङ्क्ते ।
तच्चिन्तया दैन्यमगच्छम्ऽ इति॥१७॥
१८
तस्या मनोगतम्, रागोद्रेकं मन्मनोरथसिद्ध्यन्तरायं च निशम्य वाष्पपूर्णलोचनां तामाश्वास्य दारुवर्मणो मरणोपायं च विचार्य बल्लभामवोचम् "तरुणि, भवदभिलाषिणं दुष्टहृदयमेनं निहन्तुं मृदुरुपायः कश्चिन् मया चिन्त्यते ।
यक्षः कश्चिदधिष्ठाय बालचन्द्रिकां निवसति ।
तदाकारसंपदाशाशृङ्खलितहृदयो यः संबन्धयोग्यः साहसिको रतिमन्दिरे तं यक्षं निर्जित्य तया एकसखीसमेतया मृगाक्ष्या संलापामृतसुखमनुभूय कुशली निर्गमिष्यति, तेन चक्रवाकसंशयाकारपयोधरा विवाहनीयेति सिद्धेनैकेनावादीति पुरजनस्य पुरतो भवदीयैः सत्यवाक्यैर्जनैरसकृत् कथनीयम् ।
तदनु दारुवर्मा वाक्यानीत्थंविधानि श्रावंश्रावं तूष्णीं यदि भिया स्थास्यति तर्हि वरम्, यदि वा दौर्जन्येन त्वया संगमङ्गीकरिष्यति, तदा स भवदीयैरित्थं वाच्यः ॥१८॥
१९
’सौम्य, दर्पसारवसुधाधिपामात्यस्य भवतो ऽस्मन्निवासे साहसकरणमनुचितम् ।
पौरजनसाक्षिकभवन्मन्दिरमानीतया अनया तोयजाक्ष्या सह क्रीडन्नायुष्मान् यदि भविष्यति तदा परिणीय तरुणीं मनोरथान् निर्विशऽ इति ।
सो ऽप्येतदङ्गीकरिष्यति ।
त्वं सखीवेषधारिणा मया सह तस्य मन्दिरं गच्छ ।
अहमेकान्तनिकेतने मुष्टिजानुपादाघातैस्तं रभसान्निहत्य पुनरपि वयस्यामिषेण भवतीमनुनिःशङ्कं निर्गमिष्यामि ।
तदेनमुपायमङ्गीकृत्य विगतसाध्वसलज्जा भवज्जनकजननीसहोदराणां पुरत आवयोः प्रेमातिशयमाख्याय सर्वथास्मत्परिणयकरणे ताननुनयेः ।
ते ऽपि वंशसंपल्लावण्याढ्याय यूने मह्यं त्वां दास्यन्त्येव ।
दारुवर्मणो मारणोपायं तेभ्यः कथयित्वा तेषामुत्तरमाख्येयं मह्यम्ऽ इति ॥१९॥
२०
सापि किञ्चिदुत्फुल्लसरसिजानना मामब्रवीत्-"सुभग, क्रूरकर्माणं दारुवर्माणं भवानेव हन्तुमर्हति ।
तस्मिन् हते सर्वथा युष्मन्मनोरथः फलिष्यति ।
एवं क्रियताम् ।
भवदुक्तं सर्वमहमपि तथा करिष्येऽ इति मामसकृद्विवृत्तवदना विलोकयन्ती मन्दं मन्दमगारमगात् ।
अहमपि बन्धुपालमुपेत्य शकुनज्ञात्तस्मात् त्रिंशद्दिवसानन्तरमेव भवत्सङ्गः संभविष्यति इत्यशृणवम् ।
तदनु मदनुगम्यमानो बन्धुपालो निजावासं प्रविश्य मामपि निलयाय विससर्ज ॥२०॥
२१
मन्मायोपायवागुरापाशलग्नेन दारुवर्मणा रतिमन्दिरे रन्तुं समाहूता बालचन्द्रिका तं गमिष्यन्तीदूतिकां मन्निकटमभिप्रेषितवती ।
अहमपि मणिनूपुरमेखलाकङ्कणकटकतटङ्कहारक्षौमकज्जलं वनितायोग्यं मण्डनजातं निपुणतया तत्तत्स्थानेषु निक्षिप्य सम्यगङ्गीकृतमनोज्ञवेशो वल्लभया तया सह तदागारद्वारोपान्तमगच्छम् ॥२१॥
२२
द्वाःस्थकथितास्मदागमनेन सादरं विहिताभ्युद्गतिना तेन द्वारोपान्तनिवारिताशेषपरिवारेण मदन्विता बालचन्द्रिका सङ्केतागारमनीयत ।
नगरव्याकुलां यक्षकथां परीक्षमाणो नागरिकजनो ऽपि कुतूहलेन दारुवर्मणः प्रतीहारभूमिमगमत् ॥२२॥
२३
विवेकशून्यमतिरसौ रागातिरेकेण रत्नखचितहेमपर्यङ्के हंसतूलगर्भशयनमानीय तरुणीं, तस्यै मह्यं तमिस्रासम्यगनवलोकितपुंभावाय मनोरमस्त्रीवेशाय च चामीकरमणिमण्डनानि सूक्ष्माणि चित्रवस्त्राणि कस्तूरिकामिलितं हरिचन्दनं कर्पूरसहितं ताम्बूलं सुरभीणि कुसुमानीत्यादिवस्तुजातं समर्प्य मुहूर्तद्वयमात्रं हासवचनैः संलपन्नतिष्ठत् ॥२३॥
२४
ततो रागान्धतया सुमुखीकुचग्रहणे मतिं व्यधत्त ।
रोषारुणितो ऽहमेनं पर्यङ्कतलान्निःशङ्को निपात्य मुष्टिजानुपादघातैः प्राहरम् ।
नियुद्धरभसविकलालङ्कारं पूर्ववन्मेलयित्वा भयकम्पितां नताङ्गीमुपलालयन्मन्दिराङ्गणमुपेतः साध्वसकम्पित इवोच्चैरकूजमहम्-"हा, बालचन्द्रिकाधिष्ठितेन घोराकारेण यक्षेण दारुवर्मा निहन्यते ।
सहसा समागच्छत ।
पश्यतेमम् इति ॥२४॥
२५
तदाकर्ण्य मिलिता जना समुद्यद्वाष्पा हाहानिदानेन दिशो बधिरयन्तः बालचन्द्रिकामधिष्ठितं यक्षं बलवन्तं शृण्वन्नपि दारुवर्मा मदान्धस्तामेवायाचत ।
तदसौ स्वकीयेन कर्मणा निहतः ।
"किं तस्य विलापेनऽ इति मिथो लपन्तः प्राविशन् ।
कोलाहले तस्मिंश्चललोचनया सह नैपुण्येन सहसा निर्गतो निजानुवासमगाम् ॥२५॥
२६
ततो गतेषु कतिपयदिनेषु पौरजनसमक्षं सिद्धादेशप्रकारेण विवाह्य तामिन्दुमुखीं पूर्वसंकल्पितान् सुरतविशेषान् यथेष्टमन्वभूवम् ।
बन्धुपालशकुननिर्दिष्टे दिवसे ऽस्मिन्निर्गत्य पुराद्बहिर्वर्तमानो नेत्रोत्सवकारि भवदवलोकनसुखमनुभवामि इति ॥२६॥
२७
एवं मित्रवृत्तान्तं निशम्याम्लानमानसो राजवाहनः स्वस्य च सोमदत्तस्य च वृत्तान्तमस्मै निवेद्य सोमदत्तं "महाकालेश्वराराधनानन्तरं भवद्वल्लभां सपरिवारां निजकटकं प्रापय्यागच्छऽ इति नियुज्य पुष्पोद्भवेन सेव्यमानो भूस्वर्गायमानमवन्तिकापुरं विवेश ।
तत्र "अयं मम स्वामिकुमारःऽ इति बन्धुपालादये बन्धुजनाय कथयित्वा तेन राजवाहनाय बहुविधां सपर्यां कारयन् सकलकलाकुशलो महीसुरवर इति पुरि प्रकटयन् पुष्पोद्भवो ऽमुष्यराज्ञो मज्जनभोजनादिकमनुदिनं स्वमन्दिरे कारयामास ॥२७॥

इति श्रीदण्डिनः कृतौ दशकुमारचरिते पुष्पोद्भवचरितं नाम चतुर्थ उच्छ्वासः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:15.3170000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

action play

  • अभिनय पाठ 
RANDOM WORD

Did you know?

वास्तुशास्त्र पाहणे कितपत विश्वासार्ह आहे? त्याचे परिणाम जाणवतात काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.