TransLiteral Foundation

रसविद्या - भाग ९

रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद.


भाग ९
श्रीभैरवी ।
कीदृशी ओषधी नाथ रसकर्मकरी शुभा ।
केन वा भस्म सूतश्च केन वा खोटबन्धनम् ॥१॥

निर्जीवत्वं गतः सूतः कथं जीवं ददाति सः ।
निर्जीवेन तु जीवत्वं कथं जीवति शङ्कर ॥२॥

एतन्मे संशयं ब्रूहि यथा जानाम्यहं शिव ।
श्रीभैरवः ।
शृणु भैरवि तत्सर्वमपूर्वं कथयामि ते ॥३॥

ब्रह्मविष्णुसुरेन्द्राद्यैर्न ज्ञातं वीरवन्दिते ।
वलीपलितरोगघ्ना मृत्युदारिद्र्यभञ्जनाः ॥४॥

रसकर्मकरा दिव्याः कुलौषध्यः सुसिद्धिदाः ।
भ्रमन्ति पशवो मूढाः कुलौषधिविवर्जिताः ॥५॥

तृणौषधिरसानां च नैव सिद्धिः प्रजायते ।
तस्मात्सर्वप्रयत्नेन ज्ञातव्या तु कुलौषधिः ॥६॥

दिव्यौषध्यश्चतुःषष्टिः कुलमध्ये व्यवस्थिताः ।
नैव जानन्ति मूढास्ताः शिवमोहेन मोहिताः ॥७॥

अदिव्यास्तु तृणौषध्यो जायन्ते गिरिगह्वरे ।
तृणौषध्या रसे सूतं नैव बन्धं कदाचन ॥८॥

अक्षयं नैव तिष्ठेत्तु कुलौषधिविवर्जितम् ।
कुलौषध्या विहीनास्तु गगनं च न हन्ति ते ॥९॥

स रसस्तु वरारोहे वह्निमध्ये न तिष्ठति ।
न खोटो न च वा भस्म नैव द्रव्यं करोति सः ॥१०॥

किंचिद्द्रव्यं प्रकुर्वन्ति धाम्यमानं न तिष्ठति ।
पत्रे पाके कषे छेदे नैव तिष्ठति काञ्चनम् ॥११॥

नैव वेधं शतादूर्ध्वं करोति स रसः प्रिये ।
यावन्न चाब्दमेकं तु विक्रीतं तत्तु काञ्चनम् ॥१२॥

धर्मार्थकाममोक्षेषु नैव दद्यात्तु तत्प्रिये ।
दिव्यौषध्या यदा देवि रसेन्द्रो मर्दितो भवेत् ॥१३॥

कालिकारहितः सूतः सदा भवति पार्वति ।
परस्य हरते कालं कालिकारहितो रसः ॥१४॥

अष्टानां चैव लोहानां मलं शमयति क्षणात् ।
महामूर्च्छागतं सूतं को वापि कथयेन्मृतम् ॥१५॥

दिव्यौषध्या रसेनैव जायते नष्टचेतनः ।
पञ्चभूतात्मकः सूतस्तिष्ठते च सदाशिवः ॥१६॥

रसौषध्यो महौषध्यः सिद्धौषध्यस्तथापराः ।
दिव्यौषध्य इति प्रोक्ता मया प्रोक्ताश्चतुर्विधाः ॥१७॥

दिव्यौषध्यो निगद्यन्ते तासु ता गुणवत्तराः ।
वृक्षवल्लीलतागुल्मतृणवन्दानिका इति ॥१८॥

रसबन्धकरौषध्यः षड्विधाः परिकीर्तिताः ।

सोमवल्ली

सोमवल्ली महागुल्मा यक्षश्रेष्ठा धनुर्लता ॥१९॥

सोमाह्वा गुल्मवल्ली च यज्ञवल्ली द्विजप्रिया ।
सोमक्षीरा च सोमा च यज्ञा दिव्यलता स्मृता ॥२०॥

सोमवल्ली कटुः शीता मधुरा पित्तदाहनुत् ।
तृष्णाविशेषशमनी पाचनी च रसायनी ॥२१॥

पञ्चाङ्गका पञ्चदशच्छदाढ्या सर्पाकृतिः शोणितपर्वदेशा ।
सा सोमवल्ली रसबन्धकर्म करोति राकादिवसोपनीता ॥२२॥

कृष्णे पक्षे प्रगलति दलं प्रत्यहं चैकमेकं शुक्ले पक्षे प्रभवति पुनर् लम्बमाना लता स्यात् ।
तस्याः कन्दः कलयतितरां पूर्णिमायां गृहीतो बद्ध्वा सूतं कनकसहितं देहलोहं विधत्ते ॥२३॥

इयं सोमलता नाम वल्ली परमदुर्लभा ।
अनया बद्धसूतेन्द्रो लक्षवेधी प्रजायते ॥२४॥

चतुर्विंशतिसोमानां लक्ष्म व्यक्तं रसायने ।

सोमवृक्ष

करोति सोमवृक्षोऽपि रसबन्धवधादिकम् ॥२५॥

पूर्णिमादिवसानीतस्तयोर्वल्ली गुणाधिका ।
प्रोक्ता महिषवल्ली च प्रतिसोमान्त्रवल्लिका ॥२६॥

अपत्त्रवल्लिका प्रोक्ता काण्डशाखा पयस्विनी ।
रसवीर्यविपाकेषु सोमवल्लीसमा स्मृता ॥२७॥

स्थलपद्मिनी

अथातः स्थलपद्मिन्या दिव्यौषध्या विधिं शृणु ।
पद्मिनीसदृशा पत्रैः पुष्पैरपि च तादृशी ॥२८॥

भङ्गे चैव स्रवेत्क्षीरं रक्तवर्णं सुशोभनम् ।
आक-रम्य वामपादेन पश्येद्गगनमण्डलम् ॥२९॥

पश्येच्च तारकायुक्तं ग्रहनक्षत्रमण्डलम् ।
लक्षयोजनतो देवि सा ज्ञेया स्थलपद्मिनी ॥३०॥

गोनसा

गोनसाकारवल्ली स्याच्चित्रमण्डलमण्डिता ।
जरारुङ्मृत्युशमनी रसबन्धवधक्षमा ॥३१॥

उच्चटा

अथोच्चटां प्रवक्ष्यामि रसबन्धकरीं प्रिये ।
एकमेव भवेन्नालं तस्या रोमप्रवेष्टनम् ॥३२॥

तस्याग्रे च भवेत्पुष्पं शुकतुण्डस्य सन्निभम् ।
तत्पत्राणि च देवेशि शुकपिच्छनिभानि च ॥३३॥

तत्कन्दं कूर्मसंस्थानं क्षीरं सिन्दूरसन्निभम् ।
जलं स्रवेन्मधूच्छिष्टे तत्समादाय पार्वति ॥३४॥

वेधयेत्सर्वलोहानि काञ्चनानि भवन्ति च ।

ईश्वरी

ईश्वरीत्युच्यते काचिदीश्वरीतुल्यरूपिणी ॥३५॥

भूरिक्षीरपरिस्रावा सबीजरसबन्धिनी ।

भूतकेशी

निम्बपत्रसदृक्पत्रा भूतकेशीति कथ्यते ॥३६॥

न वध्यते यया सूतः सूतोऽसौ हि निबन्धकः ।

कृष्णलता

भिन्नकज्जलसङ्काशा लता कृष्णलतेत्यसौ ॥३७॥

निर्बीजमपि बध्नाति रसं सर्वविषापहा ।

लशुनवल्ली

नाम्ना लशुनवल्ली च तद्दलैः सदृशच्छदा ॥३८॥

क्षरत्क्षीरा सुकन्दा च रसं बध्नाति वेगतः ।

रुदन्ती

चणपत्रोपमैः पत्रैः पुष्पैरपि च तादृशी ॥३९॥

रुदन्ती नाम विख्याता ह्यधस्ताज्जलवर्षिणी ।
रुदन्तीव जनान्दृष्ट्वा मृत्युदैन्यजराकुलान् ॥४०॥

चतुर्विधा तु सा ज्ञेया पीता रक्ता सितासिता ।
जारिताभ्रं रसं हन्याद्बध्नाति च रसायनी ॥४१॥

मुसलीकन्दवत्कन्दा तद्दलाकारवद्दला ।
सुक्षीरा रोमशा सोक्ता वाराही रसबन्धनी ॥४२॥

सप्तपत्त्री

सप्तपल्लवसम्पूर्णां सप्तपत्त्रीत्यसौ मता ।
रसायनी जराघ्नी च बध्यते पारदस्तया ॥४३॥

नागिनी

नागिनीत्युदिता वल्ली नागभोगसमाङ्गिका ।
सर्पादिकविषघ्नी च सा स्वच्छरसबन्धिनी ॥४४॥

सर्पिणी

सर्पिणी लतिका चान्या सर्पवद्वक्रयष्टिका ।
सक्षीरा स्निग्धपत्रा च बालपारदबन्धिनी ॥४५॥

छत्त्रिणी

छत्रवद्दण्डपत्रा या नातिनीचा न चोन्नता ।
सुक्षीरा छत्त्रिणी नाम रसबन्धकरी मता ॥४६॥

गोशृङ्गी

पर्वतेऽश्मसमुद्भूता गोकन्दाकृतिकन्दयुक् ।
क्षता मुञ्चति सा क्षीरं गोशृङ्गी रसबन्धिनी ॥४७॥

ज्योतिर्लता

ज्योतिर्नाम्नी त्रिधा प्रोक्ता वृक्षकन्दतृणात्मिका ।
गिरौ ज्वलति सा रात्रौ लतापारदबन्धिनी ॥४८॥

रक्तवल्ली

रक्तक्षीरदलाङ्गा या नातिविस्तरवल्लिका ।
रक्तवल्लीत्यसौ दिव्या निर्दिष्टा रसबन्धिनी ॥४९॥

पद्मवल्ली

या पद्मपत्राकृतिपत्रवल्ली सा पत्रवल्लीत्युदिता रसज्ञैः ।
सक्षीरकन्दा सलिलोद्भवा च क्षितौ न तिष्ठेद्रसबन्धनी सा ॥५०॥

काकिनी

स्थूलकण्टकवर्णाढ्या सा प्रोक्ता काकिनी लता ।
रसबन्धकरी सैषा जरामृत्युविनाशिनी ॥५१॥

चान्डाली

चाण्डालीति विनिर्दिष्टा त्रिचतुःपत्रधारिणी ।
सा च रक्ता क्षीरकन्दा तया सूतो निबध्यते ॥५२॥

प्रोक्तश् चण्डालकन्दः स्याद् एकपत्रो द्विपत्त्रकः ।
त्रिपत्त्रोऽथ चतुष्पत्त्रः पञ्चपत्त्रश्च भेदतः ॥५३॥

ताम्रवल्ली

ताम्रवर्णलतापत्रपुष्पक्षीरसमन्विता ।
सा ताम्रवल्लिका प्रोक्ता रसलोहादिसाधनी ॥५४॥

पीतवल्ली

पीतपत्रलतापुष्परसयुक्तातिदुर्लभा ।
सा पीतवल्लिकेत्युक्ता रसबन्धविधौ हिता ॥५५॥

विजया

सितक्षीराढकीपत्रछदना नातिविस्तृता ।
विख्याता विजयेत्येषा रसबन्धविधौ हिता ॥५६॥

महौषधी

त्रिकोणकन्दसंयुक्ता चित्रकच्छदनच्छदा ।
महौषधीति सा प्रोक्ता रसबन्धे परं हिता ॥५७॥

देवदाली

शिखिकण्ठाभपत्राढ्या चन्दनामोदमेदुरा ।
देवदालीत्यसौ दिव्या रसं बध्नाति सा क्षणात् ॥५८॥

नवनीतकगन्धी

नवनीतकगन्धीति तिक्ता म्रक्षणगन्धिनी ।
सक्षीरा रक्तपुष्पा च रसेन्द्रो बध्यते तया ॥५९॥

गरुडवल्ली

सक्षीरा रक्तपुष्पा च बदरीदलवद्दला ।
उक्ता गारुडवल्लीति शीघ्रं बध्नाति पारदम् ॥६०॥

तुम्बिनी

तुम्बिनीत्युदिता वल्ली तत्पत्रकुसुमान्विता ।
तिक्तरक्तपयोयुक्ता तत्फला रसबन्धिनी ॥६१॥

भूतुम्बिनी

या तुम्बिनीपत्रसमानपत्रा भूतुम्बिनी नातिविसर्पिणी सा ।
निम्बूसमानैश्च फलैरुपेता सर्वामयघ्नी रसबन्धनी च ॥६२॥

गन्धर्वा

एरण्डपत्रवत्पत्रा सक्षीरा नातिविस्तृता ।
गन्धर्वेत्युदिता सा हि तया बन्धं रसो व्रजेत् ॥६३॥

व्याघ्रपादी

व्याघ्राङ्घ्रिसमपत्रा या रक्तपुष्पा पयस्विनी ।
व्याघ्रपादीति निर्दिष्टा रसं बध्नाति निश्चितम् ॥६४॥

महौषधी

सप्तच्छदसदृक्पत्रा कृशाङ्गी नातिविस्तृता ।
महौषधीत्यसौ प्रोक्ता रसं बध्नाति हन्ति च ॥६५॥

गोमारी

गोमारीनामिका वल्ली वेणुपत्रसमच्छदा ।
तस्या मूलं समासाद्य शस्तः सूतो निबध्यते ॥६६॥

त्रिशूली

त्रिशूलाकारपत्रा या शम्याकफलवत्फला ।
त्रिशूलीति समाख्याता विख्याता रसबन्धने ॥६७॥

रुतसी

रुतसीपत्रवत्पत्रफला सा क्षीरकन्दयुक् ।
रुतसी वल्लिकेत्युक्ता गिरिजा रसबन्धनी ॥६८॥

त्रिदण्डी

सुपुष्पा तिलकोपेता रक्तत्यत्रिफलान्विता ।
रसबन्धविधौ प्रोक्ता त्रिदण्डीति कृताभिधा ॥६९॥

भृङ्गवल्ली

भृङ्गवद्वर्णपत्राढ्या क्षीरिणी पीतपुष्पिका ।
भृङ्गवल्लीति सा प्रोक्ता प्रयुक्ता रसबन्धने ॥७०॥

चमरिका

चमराकारपत्राढ्या क्षीरयुक्चन्द्रधारिणी ।
लता चमरिका नाम सा च बध्नाति पारदम् ॥७१॥

करवीरलता

हयमारसमाकारदलपुष्पवती लता ।
करवीरलतेत्युक्ता नितरां सूतबन्धिनी ॥७२॥

वज्रवल्ली

कोरण्डपत्रछदनोपमानप्रसूनपत्रा च सदुग्धकन्दा ।
सा वज्रवल्ली कटुतिक्तसारा वज्राङ्कपत्रा रसबन्धिनी च ॥७३॥

वारवल्ली

रक्तक्षीरवती बिल्वदलोपमदलान्विता ।
वारवल्लीति सा सूतबन्धनी रोगनाशिनी ॥७४॥

रोहिणी

शणपुष्पदलाकारदशपुष्पा च दुग्धयुक् ।
सा रोहिणीति निर्दिष्टा रसराजस्य बन्धनी ॥७५॥

बिल्विनी

ज्योतिष्मतीदलाकारवर्णपर्णा यशस्विनी ।
रसबन्धविधौ प्रोक्ता बिल्विनीति निगद्यते ॥७६॥

गोरोचनलता

गोरोचनप्रभायुक्तदलवल्लीसमन्विता ।
गोरोचनलता भूतमोचनी रसबन्धनी ॥७७॥

करीरी

श्रीशैलशिखरोद्भूता मार्कण्डीसदृशौषधी ।
रक्तं क्षीरं क्षता मुञ्चेत्करीरी रसबन्धिनी ॥७८॥

अक्षरा

पत्त्रसीसा पत्त्रवत्पत्रा त्रिवर्षात्फलदायिनी ।
अक्षरेति समाख्याता रसस्यातिनिबन्धिनी ॥७९॥

अपत्त्रा

सोमवल्लीव निष्पत्रा कज्जलाभरसान्विता ।
अपत्त्रासौ भवेद् विन्ध्ये नात्युच्चा रसबन्धिनी ॥८०॥

आद्ये वर्षे भवेदम्ला भवेत्तिक्ता द्वितीयके ।
तृतीयेऽब्दे च मधुरैः फलैर्युक्ता प्रजायते ॥८१॥

पित्तज्वरहरा सद्यः सुपत्रफलसंयुता ।

कुटजवल्ली

लता कुटजवल्लीति तत्फला तद्दलान्विता ॥८२॥

मधुरा रुधिरग्रन्थिः सूतराजनिबन्धिनी ।

मूलकन्दा

मूलकन्देति विख्याता मूलवत्फलपत्त्रिणी ॥८३॥

लता क्षीरान्विता सूतबन्धनं कुरुते ध्रुवम् ।

ब्राह्मणी

पारिजाताद्रिजा वल्ली शतपुष्पदलच्छदा ॥८४॥

कृष्णक्षीरफला प्रोक्ता ब्राह्मणी रसबन्धिनी ।

मुनिवल्ली

अगस्तिपत्रतत्पत्रा तद्रूपारुणपुष्पिणी ॥८५॥

घृतगन्धा रसघ्नी सा मुनिवल्लीति कथ्यते ।

निम्बका

दलैः पुष्पैः फलैर्वल्ली निंबवृक्षस्य सन्निभा ॥८६॥

तन्मूलैर्बध्यते सूतः सा प्रोक्ता निम्बका लता ।

तिलकन्दा

तिलकन्देति विख्याता मूलवत्फलपत्त्रिणी ॥८७॥

लता क्षीरवती सूतं निबध्नात्यातपे खरे ।

अतसीवल्लिका

अतस्य इव पुष्पाणि फलानि च दलानि च ॥८८॥

अतसीवल्लिका सा हि पारदस्य निबन्धिनी ।

बोधिलता

उक्ता बोधिलता बोधिपत्त्रदुग्धेन संयुता ॥८९॥

बध्नाति रसराजं सा दानवेन्द्रमिवाच्युतः ।

मद्यगन्धा

मद्यगन्धेति विख्याता निष्पत्रा फलपत्रयुक् ॥९०॥

तस्याः कन्दो रसं शीघ्रं बन्धनं नयति ध्रुवम् ।

कूर्मलता

उक्ता कूर्मलता कूर्मरूपकन्दा पयोऽन्विता ॥९१॥

मल्लिकोपमतत्पत्रप्रसवा रसबन्धिनी ।

माधवी

माधवीमूलवन्मूला नागवल्लीदलान्विता ॥९२॥

माधवीत्युदिता वल्ली तन्मूलैर्बध्यते रसः ।

विशाला

श्वेतपत्रतया वल्ली श्वेतपुष्पफला तथा ॥९३॥

विशालेति विनिर्दिष्टा सापि पारदबन्धिनी ।

महानागा

नागकुण्डलवत्कन्दा तत्फणासदृशच्छदा ॥९४॥

महानागेत्यसौ वल्ली विनिबध्नाति पारदम् ।

मण्डूकलतिका

मण्डूकाकारवत्कन्दा मण्डूकीदलवद्दला ॥९५॥

मण्डूकलतिकेत्येषा तन्मूलैर्बध्यते रसः ।

उदुम्बरलता

उदुम्बरफलाकारफलवद्दलवद्दला ॥९६॥

सोदुम्बरलतेत्युक्ता सूतराजस्य बन्धिनी ।

चित्रवल्ली

या दुग्धकन्दा वटपत्रपत्रा विचित्रपर्णोरुफला सुदीर्घा ।
सा चित्रवल्लीत्युदिता रसेन्द्रो निबध्यते तत्फलमध्यसंस्थः ॥९७॥

चतुःषष्टिरिति प्रोक्ता दिव्यौषध्यो महाबलाः ॥९८॥

आभिर्बद्धो रसो न्ःणां देहलोहार्थसाधकः ।
सोमवल्ली सोमवृक्षः स्थलपद्मिनिका ततः ॥९९॥

गोनसा कारवल्ली च उच्चटा ईश्वरी ततः ।
भूतकेशी कृष्णलता ज्ञेया लशुनवल्लरी ॥१००॥

रुदन्ती चैव वाराही सप्तपत्त्री च नागिनी ।
सर्पिणी छत्त्रिणी चैव गोशृङ्गी सर्वसिद्धिदा ॥१०१॥

ज्योतिर्नाम्नी त्रिधा रक्तवल्लरी पत्रवल्लरी ।
काकिनी चैव चाण्डाली वल्लरी ताम्रवल्लरी ॥१०२॥

पीतवल्ली च विजया विज्ञेया च महौषधी ।
ज्ञातव्या देवदाली च स्यान्नवानीतगन्धिनी ॥१०३॥

ज्ञेया गरुडवल्ली च तुम्बिनी भूमितुंबिनी ।
गन्धर्वा व्याघ्रपादी च विज्ञेया च महौषधी ॥१०४॥

गोमारी च त्रिशूली च रुतसी च त्रिदण्डिका ।
भृङ्गवल्ली चमरिका करवीरलता ततः ॥१०५॥

वज्रवल्ली वारवल्ली रोहिणी बिल्विनी तथा ।
गोरोचनलता चैव करीरी चाक्षरा तथा ॥१०६॥

अपत्त्री कुटजा वल्ली मूलकन्दा च ब्राह्मणी ।
घृतगन्धा निम्बवल्ली तिलकन्दातसी तथा ॥१०७॥

बोधिवल्ली मद्यगन्धा कूर्मवल्ली च माधवी ।
विशाला च महानागा ज्ञेया मण्डूकवल्ली ॥१०८॥

उदुम्बरलता चित्रवल्ली चैव सुरार्चिते ।
चतुःषष्टिरिति प्रोक्ता दिव्यौषध्यो महाबलाः ॥१०९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:48:51.8330000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

वसुंधरा

  • स्त्री. पृथ्वी . - ज्ञा ११ . ६१ ; १२ . १४५ . धरा धरिली फणिवरे । वरती छप्पन कोटी विस्तारे । वसुंधरा हे । - दा ४ . १० . ३ . [ सं . ] म्ह० वसुधैव कुटुंबकम । 
RANDOM WORD

Did you know?

pl. kartiksnanache ani kakadariche mahatva sangave ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.