TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसविद्या - भाग ७

रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद.


भाग ७
श्रीभैरवः ।

रीतिः क्षुद्रसुवर्णं सितकनकं पिङ्गलं च पित्तलकम् ।
लोहितकमारकूटं पिङ्गललोहं च पीतकं नवधा ॥१॥

ब्रस्स् > सुब्त्य्पेस्

रीतिका काकतुण्डीति द्विविधं पित्तलं भवेत् ।

ब्रस्स् > परीक्षा

संतप्ता काञ्जिके क्षिप्ता ताम्राभा रीतिका मता ॥२॥

एवं या जायते कृष्णा काकतुण्डीति सा मता ।

ब्रस्स् > परीक्षा > गोओद् ॠउअलित्य्

गुर्वी मृद्वी च पीताकपोताभा साराङ्गी ताडनक्षमा ॥३॥

सुस्निग्धा मसृणाङ्गी च रीतिरेतादृशी शुभा ।
शुद्धा स्निग्धा मृदुः शीता सुरङ्गा सूत्रपत्त्रिणी ॥४॥

हेमोपमा शुभाश्वत्था जात्या रीतिः प्रकीर्तिता ।

ब्रस्स् > परीक्षा > बद् ॠउअलित्य्

पाण्डुः पीता खरा रूक्षा बर्बरा घट्टनाक्षमा ॥५॥

पूतिगन्धा तथा लघ्वी रीतिर्नेष्टा रसादिषु ।

रीतिगुणाः

रीतिस्तिक्तरसा रूक्षा जन्तुघ्नी सास्रपित्तनुत् ॥६॥

कृष्णा कुष्ठहरा योगादुष्णवीर्या च शीतला ।

राजरीति > प्रोपेर्तिएस्

काकतुण्डी कृतस्नेहा राजरीतिगुणानुगा ॥७॥

राजरीतिस्तु निर्दिष्टा रीतिकासदृशी गुणैः ।

ब्रस्स् > मेदिच्. प्रोपेर्तिएस्

रीतिकायुगलं रूक्षं सतिक्तं लवणं सरम् ॥८॥

शोभनं पाण्डुवातघ्नं बलवीर्यायुर्वर्धनम् ।
रीतिका कटुतिक्तोष्णा प्लीहानाहनिबर्हणी ॥९॥

रूक्षा कफास्रपित्तं च हन्यात्स्वादु प्रयोजिता ।

राजरीति > स्य्नोन्य्म्स्

राजरीतिः काकतुण्डी राजपुत्री महेश्वरी ॥१०॥

ब्राह्मणी ब्रह्मरीतिश्च कपिला पिङ्गलापि च ।

कांस्य

कांस्यं सौराष्ट्रिकं घोषं कंसीयं वह्निलोहकम् ॥११॥

दीप्तलोहं घोषयुष्यं दीप्तकं च नवाह्वयम् ।

ब्रोन्शे > प्रोदुच्तिओन्

अष्टभागेन ताम्रेण द्विभागकुटिलेन च ॥१२॥

विद्रुतेन भवेत्कांस्यं तत्सौराष्ट्रभवं शुभम् ।

ब्रोन्शे > परीक्षा > गोओद् ॠउअलित्य्

तीक्ष्णशब्दं मृदु स्निग्धम् ईषच्छ्यामलशुभ्रकम् ॥१३॥

निर्मलं दाहरक्तं च षोढा कांस्यं प्रशस्यते ।
श्वेतदीप्तं मृदुज्योति शब्दाढ्यं स्निग्धनिर्मलम् ॥१४॥

घनाग्निसहसूत्राङ्गं कांस्यमुत्तममीरितम् ।

ब्रोन्शे > परीक्षा > बद् ॠउअलित्य्

तत्पीतं दहने ताम्रं घनं रूक्षं घनासहम् ॥१५॥

मन्दनादं गतज्योति सप्तधा कांस्यम् उत्सृजेत् ।

ब्रोन्शे > मेदिच्. प्रोपेर्तिएस्

घृतमेकं विना चान्यत्सर्वं कांस्यगतं नृणाम् ॥१६॥

भुक्तमारोग्यसुखदं हितं सात्म्यकरं तथा ।
कांस्यं तु लघुतिक्तोष्णं लेखनं दृक्प्रसादनम् ॥१७॥

कृमिकोष्ठहरं वातपित्तघ्नं भोजने हितम् ।

वर्तलोह

वर्तलोहं वर्ततीक्ष्णं वर्तकं लोहसंकरः ॥१८॥

नीलिका नीललोहं च लोहकं वट्टलोहकम् ।
कांस्यार्करीतिलोहाहिजातं तद्वर्तलोहकम् ॥१९॥

तदेव पञ्चलोहाख्यं लोहविद्भिरुदाहृतम् ।
तद्भाण्डसाधितं सर्वमन्यव्यञ्जनपूर्वकम् ॥२०॥

अम्लेन वर्जितं चातिदीपनं पाचनं शुभम् ।

वर्तलोहशुद्धिमारणम्

द्रुतमश्वजले क्षिप्तं वर्तलोहं विशुध्यति ॥२१॥

म्रियते गन्धतालाभ्यां पुटितं वर्तलोहकम् ।
तेषु तेषु विभागेषु योजनीयं यथाविधि ॥२२॥

वर्तलोहं कटूष्णं च तिक्तं च शिशिरं तथा ।
कफजित्पित्तशमनं मधुरं दाहमेहनुत् ॥२३॥

रूक्षं रुच्यं कृमिघ्नं च नेत्र्यं मलविशोधनम् ।

पित्तलादीनां शोधनभस्मविधिः

त्रिक्षारं पञ्चलवणं सप्तधाम्लेन भावयेत् ॥२४॥

कांस्यारघोषपत्राणि तेन कल्केन लेपयेत् ।
रुद्ध्वा पुटेद्गजपुटे शुद्धिमायाति नान्यथा ॥२५॥

ताम्रवन्मारणं तेषां कृत्वा सर्वत्र योजयेत् ।
मृतानि लोहान्यमृतीभवन्ति निघ्नन्ति युक्तानि महामयांश्च ।
अभ्यासयोगाद्दृढदेहसिद्धिं कुर्वन्ति रुग्जन्मजराविनाशम् ॥२६॥

नागेन स्वर्णं रजतं च ताप्यैः गन्धेन ताम्रं शिलया च नागम् ।
तालेन वङ्गं त्रिविधं तु लोहं नारीपयो घ्नन्ति च हिङ्गुलेन ॥२७॥

तथाभ्रसत्वं बलिनोपलोहं वज्रेण सूतं विनिहन्ति सद्यः ॥२८॥

अभ्रकसत्त्व

वज्राभ्रकस्य सत्सत्वं वक्ष्यामि शृणु भैरवि ।
चतुर्धाभ्रकसत्वं स्यात्कठिनं मृदुलं द्रुतिः ॥२९॥

बीजं च गुणवज्ज्ञेयं तत्क्रमाद् उत्तरोत्तरम् ।

सत्त्वपातनायाभ्रकसिद्धिः

धान्याभ्रकं रविक्षीरे घर्मे स्थाप्यं दिनावधि ॥३०॥

तच्छ्लक्ष्णं पेषयेत्पट्टे शरावे तं निरोधयेत् ।
सम्यक् पचेद्गजपुटे रविक्षीरे पचेत्पुनः ॥३१॥

मर्दनं पुटपाकं च कुर्यादेवं तु सप्तधा ।
तथा जम्बीरनीरे च निचुलस्य रसे तथा ॥३२॥

एतत् सिद्धघनं श्रेष्ठं निश्चन्द्रं सत्त्वपातने ।
घनमारकसारैर् वा व्यस्तैर् वाथ समस्तकैः ॥३३॥

पिष्ट्वा धान्याभ्रकं श्लक्ष्णं रुद्ध्वा गजपुटे पचेत् ।
लाक्षागुग्गुलुदग्धोर्णासर्जसर्जरसं पटु ॥३४॥

शशास्थि क्षुद्रमत्स्याश्च हरिद्रा मित्रपञ्चकम् ।
पञ्चमाहिषकं चापि भल्लातं च समं समम् ॥३५॥

सर्वतुल्यं सिद्धघनं निश्चन्द्रं पेषयेद्दिनम् ।
तत्सर्वं तेन वटकाः कार्यास्ते कर्षमात्रकाः ॥३६॥

कोष्ठीयन्त्रे धमेद्गाढमङ्गारैः खदिरोद्भवैः ।
त्रियामधमनाद् एव सत्त्वं पतति निर्मलम् ॥३७॥

कठिनं सूक्ष्मरवकं काचटङ्कणवर्जितम् ।
त्रिवारमेवं कुर्वीत तत्किट्टैः सत्त्वपातने ॥३८॥

अभ्रकमृदुसत्त्व (१)

पुनरन्यं प्रवक्ष्यामि मृदुसत्त्वं सुरेश्वरि ।
गुग्गुलुं टङ्कणं गुञ्जां सर्जसर्जरसं गुडम् ॥३९॥

क्षुद्रमीनं यवक्षारं काचपिण्याकसूरणम् ।
भूलता त्रिफला वह्निः क्षीरकन्दं पुनर्नवम् ॥४०॥

धुत्तूरं लाङ्गली पारा बला गन्धकसेवकम् ।
गोक्षीरं पञ्चलवणं सर्वं च द्विगुणं मधु ॥४१॥

षड्बिन्दु क्षुद्रशंबूकमस्थीनि शशकस्य च ।
पारावतमलं त्र्यूषमिन्द्रगोपं सशिग्रुकम् ॥४२॥

गोधूमसर्षपं ताप्यं छागक्षीरेण मर्दयेत् ।
एवं व्यस्तं समस्तं वा याममात्रेण मर्दितम् ॥४३॥

अस्य पिण्डस्य भागैकं द्विभागं सिद्धम् अभ्रकम् ।
पञ्चमाहिषभागैकं सर्वमेकत्र लोडयेत् ॥४४॥

कर्षाभा वटिकाः कार्याः किंचिच्छायाविशोषिताः ।
खदिराङ्गारसंतप्ते कोष्ठीयन्त्रे क्षिपेत्क्षिपेत् ॥४५॥

घुटीपञ्चकपञ्चैव वङ्कनाले धमेद्दृढम् ।
मृदुसत्त्वं भवेच्छुभ्रं रुग्जरामृत्युनाशनम् ॥४६॥

त्रिवारमेवं कुर्वीत तत्किट्टं सत्त्वपातनम् ।
अनेन क्रमयोगेन कान्तसस्यकमाक्षिकम् ॥४७॥

कठिनोपरसाश्चान्यैः शुद्धा भूनागमृत्तिका ।
मुञ्चन्ति द्रुतिसङ्घातं गृह्णन्तीमं पृथक्पृथक् ॥४८॥

अभ्रकमृदुसत्त्व (२)

अभ्रसत्वं समादाय समांशं काचटङ्कणम् ।
दत्त्वा दत्त्वा त्रिवारं तद्वज्रमूषागतं धमेत् ॥४९॥

अम्लवर्गं स्नुहीपत्रं बिम्बीबीजं सवल्कलम् ।
कल्कयेत्तत्र संतप्तं सप्तवारं निषेचयेत् ॥५०॥

मृदु शुभ्रं भवेत् तस्य रुग्जरामृत्युनाशनम् ।

अभ्रकमृदुसत्त्वम् (३)

सिद्धाभ्रं दशभागं स्याच्छुद्धभागं त्रिभागकम् ॥५१॥

टङ्कणं माक्षिकं सूतं भागैकं च सुशोधितम् ।
ऊर्णासर्जयवक्षारं भागं भागं विमिश्रयेत् ॥५२॥

मर्द्यं मूत्राम्लवर्गाभ्यां यथा प्रोक्तं दिनावधि ।
अजापञ्चाङ्गसंयुक्तं पूर्ववत् सत्त्वपातनम् ॥५३॥

कृत्वादाय मृतं साक्षान्निर्मलं मृदु जायते ।

अभ्रकबीजपाक

बीजपाकं प्रवक्ष्यामि घनस्यैतत्परं हितम् ॥५४॥

सिद्धाभ्रकं शतपलं स्वर्णरूप्यार्ककान्तकम् ।
रसत्रिगन्धमाक्षीकं विमलाभूलताद्रिजम् ॥५५॥

नीलाञ्जनं च कङ्कुष्ठं कासीसं दरदं तथा ।
प्रत्येकं दशनिष्कं स्यात्ततो गैरिकटङ्कणम् ॥५६॥

इन्द्रगोपं गुडं गुञ्जा मधु सर्पिश्च गुग्गुलुः ।
सर्जक्षारो यवक्षारो मत्कुणा नवपञ्चकम् ॥५७॥

क्षुद्रमीनशशास्थीनि माहिषं शृङ्गमालकम् ।
पृथक्पृथक्पञ्चमूलं पञ्चमाहिषं मर्दयेत् ॥५८॥

तेषां च वटिका कार्या किंचिच्छायाविशोषिता ।
पूर्ववत् पातयेत् सत्त्वं रुग्जरादैन्यमृत्युहृत् ॥५९॥

बीजसत्वमिदं श्रेष्ठं वैद्ये वादे रसायने ।

अभ्रकसत्त्वनिर्मलीकरण

निर्मलीकरणं वक्ष्ये घनसत्वस्य पार्वति ॥६०॥

तत्सत्वं कणशः कृत्वा मित्रपञ्चकसंयुतम् ।
मूषायां तद्विनिक्षिप्य काचं तदधरोत्तरम् ॥६१॥

रुद्ध्वा हठाग्नौ धमयेत्खदिराङ्गारयोगतः ।
एवं क्रमेण धमयेत्सप्तधा निर्मलं भवेत् ॥६२॥

ससत्वं निर्मलीभूतं लोहखल्वे विचूर्णयेत् ।
मर्दयेत् त्रिफलाक्वाथैर् यामं घर्मे विशोषयेत् ॥६३॥

पाकं पुटं च विधिवत्कुर्यादेवं पुनः पुनः ।
चत्वारिंशत्पुटं कुर्यादेवं मार्कवजैर्द्रवैः ॥६४॥

पृथक्पञ्चामृतैः पञ्चपुटं चेक्षुरसैस् त्रिधा ।
उदयादित्यसङ्काशं घनसत्वं सुसिद्धिदम् ॥६५॥

अभ्रकसत्त्वसिन्दूरविधि (१)

चूर्णीकुर्याल्लोहखल्वे निर्मलीकृतमभ्रकम् ।
निष्काणां शतकं तस्मिन् निष्कैकं गन्धकं क्षिपेत् ॥६६॥

पेषयेद्दिनमेकं तु कुमारीरसयोगतः ।
यामं तत्तापयेद् घर्मे ततो गजपुटे पचेत् ॥६७॥

एवं शतपुटं कुर्याद्गन्धं दद्यात्पुनः पुनः ।
सिन्दूरपाटलच्छायम् अभ्रसत्वं भवेच्छिवे ॥६८॥

अभ्रकसत्त्वसिन्दूरविधि (२)

घनसत्वं सुविमलं लोहखल्वे विचूर्णयेत् ।
शतनिष्कं ततस्तस्मिन् निष्कार्धं माक्षिकं क्षिपेत् ॥६९॥

अर्कक्षीरैर्दिनं मर्द्य रुद्ध्वा गजपुटे पचेत् ।
एवं शतपुटं कुर्यान्माक्षीकं च पुटे पुटे ॥७०॥

एतत्स्यात् सत्त्वसिन्दूरं रुग्जरामृत्युनाशनम् ।

अभ्रकसत्त्वसिन्दूरविधि (३)

तत्सत्वं रवकान्हित्वा लोहखल्वे सुबुद्धिमान् ॥७१॥

मर्दयेल्लोहदण्डेन वराक्वाथसमन्वितम् ।
याममात्रं खरे घर्मे स्थापयेल्लोहपात्रगम् ॥७२॥

स्थालीपाकं खरं कृत्वा रात्रौ गजपुटे पचेत् ।
एवं सप्तपुटं कुर्यान्मार्कवस्वरसैस्तथा ॥७३॥

कुमारीस्वरसैस्तद्वच्चित्रमूलरसैस्तथा ।
नीलीपत्ररसैस्तद्वत्पुनर्नवरसैस्तथा ॥७४॥

मेघनादद्रवैः सप्त क्वाथैर्वटजटोद्भवैः ।
एवं सुसूक्ष्मचूर्णं तु शतांशं गन्धकं क्षिपेत् ॥७५॥

मर्दयेदारनालेन घर्मे स्थाल्यां पुटे पचेत् ।
एवं दशदिनं कुर्यात् पुनस्ताप्यं शतांशतः ॥७६॥

क्षिप्त्वारनालैः संमर्द्य घर्मे स्थाल्यां पुटे पचेत् ।
एवं दशदिनं कुर्यात्पुनः पञ्चामृतैः पचेत् ॥७७॥

पञ्चपञ्चेक्षुजरसैः पञ्चधा पुटमाचरेत् ।
सिन्दूराभेऽभ्रभसिते निक्षिपेच्छुद्धहिङ्गुलम् ॥७८॥

विंशत्यंशं घनस्याथ स्तन्यैः संमर्द्य संपुटे ।
रुद्ध्वाथ भूधरे यन्त्रे क्षिप्त्वा लघुपुटं विधेत् ॥७९॥

एवं विंशत्पुटं कुर्याद् दत्त्वा दत्त्वाथ हिङ्गुलम् ।
अनेन क्रमयोगेन सत्वं सिन्दूरसन्निभम् ॥८०॥

अयं सामान्यसंस्कारो विशेषस्तु निगद्यते ।
यद्यद्रोगहरैर् द्रव्यैस् तत्तद्रोगहरं भवेत् ॥८१॥

अभ्रकसत्त्वसिन्दूरविधि (४)

घनसत्वं सुविमलं लोहखल्वे विचूर्णयेत् ।
मुण्डीपत्ररसैर् मर्द्यं दिनं गजपुटे पचेत् ॥८२॥

एवं दशपुटं कार्यं निर्गुण्डीस्वरसैस्तथा ।
तथा वटजटाक्वाथैः पेटारीमूलजै रसैः ॥८३॥

ककुभस्य रसैस्तद्वज्जम्बूत्वक्स्वरसैस्तथा ।
एवं षष्टिपुटं कार्यं ततस्तस्मिन्विनिक्षिपेत् ॥८४॥

विंशत्यंशेन दरदं स्तन्यैः संमर्दयेद् दिनम् ।
ततस्तत्सम्पुटे रुद्ध्वा भूधरे तु पुटं लघु ॥८५॥

एवं विंशतिधा कुर्यात्सिन्दूराभं भवेद्ध्रुवम् ।

स्थालीपाक

स्थालीपाकस्त्रिधा प्रोक्तो मृदुर् मध्यः खरात्मकः ॥८६॥

पङ्कोत्करसमः पूर्वः पिण्डपाकस्तु मध्यमः ।
तृतीयः खरपाकः स्याद् वालुकासदृशः प्रिये ॥८७॥

स्थालीपाको रसे युक्तः संयुक्तो दरदेन वा ।
मृदुमध्यमपाकाभ्यां कर्तव्यो भूधरे ततः ॥८८॥

क्षिप्त्वा लघुपुटे देयं रसहिङ्गुलवर्जितः ।
खरपाकः प्रकर्तव्यो विधिर्गजपुटे पचेत् ॥८९॥

लोहभस्मनाममृतीकरणविधिः

सर्वेषां मारितानां च लोहानामभ्रकस्य च ।
वक्ष्यामि परमं गुह्यममृतीकरणं शृणु ॥९०॥

त्रिफलोत्थकषायस्य भागानादाय षोडश ।
गोघृतस्य पलान्यष्टौ मृताभ्रकपलान्दश ॥९१॥

एकीकृत्वा लोहपात्रे पाचयेन्मृदुवह्निना ।
द्रवे जीर्णे समादाय सर्वयोगेषु योजयेत् ॥९२॥

अनुपानं विना ह्यभ्रं जरामृत्युरुजापहम् ।
योजयेदनुपानैर्वा तत्तद्रोगहरं भवेत् ॥९३॥

कठिनस्याभ्रसत्वस्य सिन्दूरं पलितं वलिम् ।
इन्द्रियाणां पटुत्वं च पत्राभ्रकगुणा अपि ॥९४॥

मृदुसत्वस्य सिन्दूरं सर्वामयनिबर्हणम् ।
वलीपलितदारिद्र्यमृत्युघ्नं सुरसायनम् ॥९५॥

त्रिदोषशमनं सौम्यं दीपनं पाचनं शुभम् ।
निहन्ति ज्वरजालं च ग्रहणीमतिसारकम् ॥९६॥

अश्मरीं मूत्रकृच्छ्रं च क्षयं पाण्डुहलीमकम् ।
दुर्नाममेहकुष्ठानि वातजान् पित्तजानपि ॥९७॥

कफजान्दुस्तरान्रोगान् विद्रध्यादिव्रणानपि ।
नानाविधानि शूलानि पुंस्त्रीवन्ध्यत्वभञ्जनम् ॥९८॥

यद्यद्रोगहरैर् योगैस् तत्तद्रोगनिबर्हणम् ।
पारदे ये गुणाः सन्ति बीजसत्वेऽपि ते गुणाः ॥९९॥

मण्डूर, शुद्धि

अक्षाङ्गारैर्धमेत् किट्टं लोहजं तद्गवां जलैः ।
सेचयेदक्षपात्रान्तः षड्वारं च पुनः पुनः ॥१००॥

मण्डूरोऽयं समाख्यातः शुद्धं श्लक्ष्णं नियोजयेत् ।
गोमूत्रे त्रिफला क्वाथ्या तत्क्वाथे सेचयेच्छनैः ॥१०१॥

मण्डूरभस्म

लोहकिट्टं सुतप्तं च यावच्छीर्यति तत्स्वयम् ।
तच्छीर्णं ग्राहयेत्पेष्यं मण्डूरं यं प्रयोजयेत् ॥१०२॥

ये गुणा मारिते मुण्डे ते गुणा मुण्डकिट्टके ।
तस्मात्सर्वत्र मण्डूरं रोगशान्त्यै प्रयोजयेत् ॥१०३॥

किट्टाद्दशगुणं मुण्डं मुण्डात्तीक्ष्णं शतोन्मितम् ।
तीक्ष्णाल्लक्षगुणं कान्तं भक्षणात् कुरुते गुणम् ॥१०४॥

मण्डूरं पाण्डुशोषार्शोग्रहणीकामलापहम् ।
सर्वशूलप्रमेहघ्नं दीपनं परमं हितम् ॥१०५॥

शीतं तिक्तं कषायाम्लं हृद्रोगप्लीहनाशनम् ।

रसादिमारणायद्रव्यमानम्

रसेन्द्रं शोधयेद्देवि पलानां द्विसहस्रकम् ॥१०६॥

सहस्रं वा शतं वापि पञ्चाशद्वा तदर्धकम् ।
न कुर्याद्रसकर्माणि हीनं वै पञ्चविंशतेः ॥१०७॥

लोहस्य पचनं त्रिंशत्पलादूर्ध्वं न कारयेत् ।
अर्वाक् पञ्चपलाद्देवि घनसत्वं तथा पचेत् ॥१०८॥

स्वर्णं पञ्चपलाद् ऊर्ध्वं पलादर्वाङ्न शोधयेत् ।
तथा रूप्यं च ताम्रं च शोधयेन्मारयेत् प्रिये ॥१०९॥

लोहवद्घनसत्वं च घनपत्रं तथैव च ।
हीनं पञ्चपलादूर्ध्वं न कुर्यात्पलविंशतेः ॥११०॥

द्रावणं शोधनं देवि मारणं नागवङ्गयोः ।
वज्रं निष्कादधश्चोर्ध्वं न कुर्याच्छोधनं मृतिम् ॥१११॥

पद्मरागादिरत्नानि तथा कुर्यात्सुरेश्वरि ॥११२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:48:49.9870000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

डचमळणें

  • v i  To shake and flop about-a liquid in a vessel. 
  • अ.क्रि. वर उसळणें ; हिसळणें ; उचकळणें ; हलण्यानें बाहेर येणें . --- उक्रि . हलविणें ; हिसकळणें ; खबळणें ; बाहेर सांडणें ( हलवून --- भांडयांतील पाणी ] [ डचमळ ] 
RANDOM WORD

Did you know?

आषाढी एकादशीला "देवशयनी एकादशी" का म्हणतात?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.