TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसविद्या - भाग ५

रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद.


भाग ५
श्रीभैरवः ।

लोहोत्पत्तिः

कान्तायस्तीक्ष्णमुण्डाख्यलोहोत्पत्तिर् अथोच्यते ।
देवासुरसमूहेन मथ्यमाने महोदधौ ॥१॥

समुत्पन्नं पुरा तस्मिन्नमृतं देवजीवनम् ।
पीयमानात्सुरैस्तस्मान्निपेतुः क्षुद्रबिन्दवः ॥२॥

ज्ञात्वा तान् भूगतान् यन्ता गोपयामास धूर्जटिः ।
लोहपाषाणरूपेण कृत्वा तान्वसुधातले ॥३॥

पापरोगाभिभूता ये मानवा न भजन्त्वमून् ।
इत्येवं शिवगुप्ता ये सुधाया बिन्दवः पुरा ॥४॥

तेषां मया समासेन कथ्यते साधनं स्फुटम् ।
कुष्ठादिरोगनाशार्थं यथाबुद्ध्यनुसारतः ॥५॥

iron > subtypes

कान्तायस्तीक्ष्णमुण्डाख्यं लोहमेवमपि त्रिधा ।
रसायनेभ्यः सर्वेभ्यो विद्याच्छतगुणाधिकम् ॥६॥

कान्तलोह > स्य्नोन्य्म्स्

अयस्कान्तं कान्तलोहं कान्तं स्यात् कृष्णलोहकम् ।
कान्तायसं महालोहं काललोहं च सप्तधा ॥७॥

अशुद्धकान्तलोहसेवनजा दोषाः

हृत्पीडां वह्निदौर्बल्यं महारोगान्मृतिं तथा ।
करोति सेवनाल्लोहम् अशोधितम् अमारितम् ॥८॥

कान्तग्रहणविधिः

तस्मात्कान्तस्य संशुद्धिर् मारणं च विधीयते ।
मदोन्मत्तगजः सूतः कान्तमङ्कुशमुच्यते ॥९॥

क्षेत्रं ज्ञात्वा गृहीतव्यं तत्प्रयत्नेन भूयसा ।
मारुतातपनिक्षिप्तं वर्जयेत्सुरसुन्दरि ॥१०॥

भूमिस्थितं च यत्कान्तं छागरक्तेन भावयेत् ।
छागरक्तप्रलिप्तेन चर्मणा तत्प्रवेष्टयेत् ॥११॥

छागचर्म परीवेष्ट्य विन्यसेत्पूर्ववत्क्षितौ ।
उद्धृतं सप्तभिर्मासैस्तोयकुम्भे विनिक्षिपेत् ॥१२॥

रक्तपुष्पैः सदा पूज्यं रक्तगन्धानुलेपनैः ।
पूरितं मद्यमांसैश्च योज्यं रसरसायने ॥१३॥

संस्कृतं छागरक्तेन भ्रामकं चुम्बकं भवेत् ।
अनेन क्रमयोगेन द्रावकं भवति प्रिये ॥१४॥

कान्तलोहं विना सूतो देहे न क्रामति क्वचित् ।
न कान्तेन विना सूतः कान्तः सूतविवर्जितः ॥१५॥

कान्तसूतसमायुक्तः प्रयोगो देहधारकः ।
पुरा प्रोक्तं मया सर्वं कान्तसत्वं यथाविधि ॥१६॥

अधुना सम्प्रवक्ष्यामि कान्तसंस्कारतद्गुणान् ।

कान्तलोह > शोधन > नैसर्गिक

शशरक्तेन संलिप्तं कान्तपत्रं सुधामितम् ॥१७॥

त्रिवारं चाग्निना देवि दोषं नैसर्गिकं त्यजेत् ।

कान्तलोह > शोधन > अद्रि

त्रिफलाष्टगुणे तोये त्रिफला षोडशं पलम् ॥१८॥

तत्क्वाथपादशेषं च कान्तस्य पलपञ्चकम् ।
कृत्वा पत्राणि तप्तानि सप्तवारं निषेचयेत् ॥१९॥

एव प्रलीयते दोषो गिरिजो लोहसंभवः ।
कान्तलोहमयं चूर्णं गोमूत्रेऽष्टगुणे पचेत् ॥२०॥

धान्याम्लैः क्षालितं भूयः शोषितं शुद्धिमाप्नुयात् ।
रत्नमाला हंसपादी गोजिह्वा त्रिफलामृता ॥२१॥

गोपाली तुम्बुरुर्दन्ती गोमूत्रे पेषयेदिमाः ।
तत्कल्के कान्तपत्रं तु तप्तं तप्तं द्विसप्तधा ॥२२॥

सेचयेत्कान्तलोहं तु सर्वदोषनिवृत्तये ।

कान्तसिद्धिक्रमः

क्रमः कान्तस्य सिद्ध्यर्थं कर्तव्यो मन्त्रपूर्वकम् ॥२३॥

उद्भवोद्भवशब्दः स्याच्चतुर्थ्यन्तो ऽमृतात्परम् ।
स्वाहान्तः प्रणवश्चादौ मन्त्रोऽयं मर्दने स्थितः ॥२४॥

रक्षायै लोहरसयोरयमेवैकमुद्भवम् ।
विना स्वाहेति तस्यान्ते फडन्तं योजयेत्प्रिये ॥२५॥

प्रणवोर्ध्वं नमश्चण्डं वज्रपाषाण इत्यपि ।
ततः परं महावज्रसेनाधिपतये नमः ॥२६॥

द्विरुक्तसरुशब्दः स्यान् महाविद्याबलाय च ।
ततस्त्वाहेति मन्त्रोऽयं बलिकर्मणि पूजितः ॥२७॥

अनेनैव बलिं कृत्वा यथोक्तामाचरेत्क्रियाम् ।

लोहभस्मविधिः (१)

स्तन्येन हिङ्गुलस्याथ पेषयेत्पलपञ्चकम् ॥२८॥

तेनैव पत्रं कान्तस्य लिम्पेत्पञ्चपलोन्मितम् ।
रुद्ध्वा गजपुटे पाच्यं कषायैस्त्रैफलैः पुनः ॥२९॥

जम्बीरैर् आरनलैर्वा विंशत्यंशेन हिङ्गुलम् ।
पिष्ट्वालिप्य पुटे रुद्ध्वा तल्लोहे पाचयेत्पुनः ॥३०॥

रुद्धं पुटेत्पचेद्रात्रौ प्रातर् द्रावैश्च भावयेत् ।
एवमष्टदिनं कुर्यात्त्रिविधं म्रियते ह्ययः ॥३१॥

लोहभस्मविधिः (२)

चिञ्चापत्रनिभं कुर्यात्कान्तं तीक्ष्णं च मुण्डकम् ।
मृत्पात्रस्थं क्षिपेद् घर्मे दन्तीद्रावैः प्रपूरयेत् ॥३२॥

पत्रं पुनः पुनस्तावद्यावत्तरति तत्स्वयम् ।
म्रियते तीव्रघर्मेण तच्चूर्णीकृत्य योजयेत् ॥३३॥

लोहभस्मविधिः (३)

कान्तायस्तीक्ष्णमुण्डानां चूर्णं मत्स्याक्षिजैर्द्रवैः ।
आतपे त्रिदिनं भाव्यं त्रिदिनं चित्रकद्रवैः ॥३४॥

त्र्यहं त्रिकण्टकरसैः सहदेवीद्रवैर् दिनम् ।
गोमूत्रैस्त्रिफलाक्वाथैर्भावयेच्च त्र्यहं त्र्यहम् ॥३५॥

उक्तद्रावैस्ततो मर्द्यं क्रमाद्देयं पुटं पुटम् ।
रुद्ध्वा गजपुटैरेवं मृतं योगेषु योजयेत् ॥३६॥

लोहभस्मविधिः (४)

स्थाल्यां वा लोहपात्रे वा लोहदर्व्या विचालयन् ।
पाचयेत्त्रिफलाक्वाथैर् दिनं लोहचूर्णकम् ॥३७॥

तत्पिण्डं त्रिफलातोयैः पिष्ट्वा रुद्ध्वा पुटे पचेत् ।
षोडशाङ्गुलगर्तान्तर् निर्वाते ऽहर्निशं पचेत् ॥३८॥

एवं त्रिधा प्रकर्तव्यं स्थालीपाकं पुटान्तकम् ।
भृङ्गार्द्रकं तालमूलं हस्तिकर्ण्याश्च मूलकम् ॥३९॥

शतावरीविदार्योश्च मूलं तत्त्रिफलाम्भसि ।
संपेष्य पूर्ववत्स्थाल्यां पाच्यं पेष्यं त्रिधा पुटैः ॥४०॥

पाच्यं ततः पुनर्नव्याः क्वाथैश्च दशमूलतः ।
बृहत्याश्च कषायेण बीजपूरस्य च द्रवैः ॥४१॥

ब्रह्मबीजरसैः शिग्रुक्वाथैर् गोपयसापि च ।
प्रत्येकं संप्रपेष्यादौ पूर्वगर्ते पुटे पचेत् ॥४२॥

भावयेत्तद्द्रवेणैव पुटान्ते याममात्रकम् ।
प्रत्येकमेवं संपेष्य पुटयेद् भावयेत्क्रमात् ॥४३॥

म्रियते नात्र सन्देहः कान्तं तीक्ष्णं च मुण्डकम् ।

लोहभस्मविधिः (५)

शुद्धसूतं द्विधा गन्धं खल्वे कृत्वा तु कज्जलीम् ॥४४॥

द्वयोः समं कान्तचूर्णं मर्दयेत्कन्यकाद्रवैः ।
यामद्वयात्समुद्धृत्य तद्गोलं ताम्रपात्रके ॥४५॥

आच्छाद्यैरण्डपत्रैश्च यामार्धे ऽत्युष्णतां गतम् ।
धान्यराशौ न्यसेत्पश्चात्त्रिदिनान्ते समुद्धरेत् ॥४६॥

संपेष्य गालयेद्वस्त्रे सत्यं वारितरं भवेत् ।
कान्तं तीक्ष्णं च मुण्डं च निरुत्थं जायते मृतम् ॥४७॥

स्वर्णादीन्मारयेदेवं चूर्णीकुर्याच्च लोहवत् ।
सिद्धयोगम् अथाख्यातं सिद्धानां संमुखागतम् ॥४८॥

अनुभूतं मया देवि सर्वरोगापहारकम् ।
नायः पचेत्पञ्चपलप्रमाणाद् अधो न चोर्ध्वं त्रिदशप्रमाणात् ॥४९॥

लोहभस्मविधिः (६)

अर्जुनस्य त्वचः पेष्याः काञ्जिकेनातिलोलिताः ।
तन्मध्ये कान्तचूर्णं च कांस्यपात्रे विनिक्षिपेत् ॥५०॥

दिनैकं धारयेद्घर्मे द्रवैः पूर्यं पुनः पुनः ।
अर्जुनैः सारनालैर्वा त्रिविधं मारयेदयः ॥५१॥

द्रवैः कुक्कुटपत्रोत्थैः कान्तचूर्णं विमर्दयेत् ।
दिनं च ह्यातपे तीव्रे द्रवैर्मर्द्यं त्रिकण्टजैः ॥५२॥

वन्ध्याभृङ्गपुनर्नव्याः सगोमूत्रैर् दिनं पुनः ।
गोमूत्रैस् त्रिफला क्वाथ्या तत्कषायेण भावयेत् ॥५३॥

त्रिसप्ताहं प्रयत्नेन दिनैकं मर्दयेत्ततः ।
रुद्ध्वा गजपुटे पच्याद्दिनं क्वाथेन मर्दयेत् ॥५४॥

दिवा मर्द्यं पुटेद् रात्रावेकविंशद्दिनावधि ।
एकविंशत्पुटैरेवं म्रियते त्रिविधं ह्ययः ॥५५॥

लोहभस्मविधिः (८)

माक्षिकं च शिला ह्यम्लैर्हरिद्रा मरिचाङ्घ्रि च ।
पिष्ट्वा लेप्यं कान्तपत्रं तप्तं तप्तं निषेचयेत् ॥५६॥

सप्तधा त्रैफले क्वाथे जलेन क्षालयेत्पुनः ।
कुट्टयेल्लोहदण्डेन पेषयेत्त्रैफले जले ॥५७॥

षोडशांशेन लोहस्य दातव्यं माक्षिकं शिला ।
अम्लेन मर्दितं रुद्ध्वा गजाख्यैकपुटे पचेत् ॥५८॥

निरुत्थं जायते भस्म कान्तं तीक्ष्णं च मुण्डकम् ।

लोहभस्मविधिः (९)

तिन्दूफलस्य मज्जायां खड्गं लिप्त्वातपे खरे ॥५९॥

धारयेत्कांस्यपात्रान्तर्दिनैकेन स्फुटत्यलम् ।
लेपं पुनः पुनः कुर्याद्दिनान्ते तं प्रपेषयेत् ॥६०॥

त्रिफलाक्वाथसंयुक्तं दिनैकेन मृतो भवेत् ।
तोयाष्टभागशेषेण त्रिफला पलपञ्चकम् ॥६१॥

घृतं क्वाथस्य तुल्यं स्याद्घृततुल्यं मृतायसम् ।
पाचयेत्ताम्रपात्रे तु लोहदर्व्या विचालयन् ॥६२॥

मृद्वग्निना पचेद्यावत्तावज्जीर्यति तद्द्रवम् ।
लोहतुल्या सिता योज्या सुपक्वामवतारयेत् ॥६३॥

योगवाहम् इदं ख्यातं मृतलोहं महामृतम् ।
इत्थं कान्तस्य तीक्ष्णस्य मुण्डस्यापि ह्ययं विधिः ॥६४॥

घृततुल्यं मृतं लोहं लोहपात्रगतं पचेत् ।
जीर्णे घृते समादाय सर्वयोगेषु योजयेत् ॥६५॥

ओं ओं अमृतेन्द्र भक्षयामि नमः ।
पात्रे यस्मिन्प्रविशति जले तैलबिन्दुर्न सर्पेत् हिङ्गुर्गन्धं विसृजति निजां तिक्ततां निम्बकल्कः ।
पाके दुग्धं भवति शिखराकारता नैव भूमौ कान्तं लोहं तदिदमुदितं लक्षणोक्तं न चान्यत् ॥६६॥

लोहपाकस्वरूपम्

लोहपाकस्त्रिधा प्रोक्तो मृदुमध्यखरात्मकः ।
पङ्कोत्करसमः पूर्वः पिण्डपाकस्तु मध्यमः ॥६७॥

तृतीयः खरपाकः स्याद् वालुकासदृशः प्रिये ।

निरुत्थभस्मपरीक्षा

पाकं वर्णं तथा गन्धं ज्ञात्वा लोहस्य वह्नितः ॥६८॥

उत्तार्याथ ततः शुद्धं लोहपात्रान्तरे न्यसेत् ।
लोहमातङ्गपञ्चास्या गन्धमाक्षीकहिङ्गुलाः ॥६९॥

लोह > छेच्किन्ग् थे वारितर स्तते

सर्वमेतन्मृतं लोहं ध्मातव्यं मित्रपञ्चकैः ।
यद्येवं स्यान्निरुत्थानं सेव्यं वारितरं हितम् ॥७०॥

मध्वाज्येन समायुक्तं लोहं तारेण संयुतम् ।
अन्धमूषागतं ध्मातं गृह्णीयात् स्वाङ्गशीतलम् ॥७१॥

लोहमध्यगतं तारं पूर्वमानं भवेद्यदि ।
तदा लोहं निरुत्थं स्यादन्यथा साधयेत्पुनः ॥७२॥

गन्धकं चोत्थितं लोहं तुल्यं खल्वे विमर्दयेत् ।
दिनैकं कन्यकाद्रावै रुद्ध्वा गजपुटे पचेत् ॥७३॥

इत्येवं सर्वलोहानां कर्तव्येत्थं निरुत्थितिः ।

कान्तादिभस्मगुणाः

कान्तसिन्दूरमायुष्यमारोग्यं बलवीर्यदम् ॥७४॥

देहदार्ढ्यकरं श्रेष्ठं कुर्यादिन्द्रियपाटवम् ।
त्रिदोषशमनं राजयक्ष्मरोगविनाशनम् ॥७५॥

ज्वरासृक्पित्तपाण्ड्वादीन् हन्याद् अष्टमहागदान् ।
यद्यद्रोगहरैर् योगैस् तत्तद्रोगहरं भवेत् ॥७६॥

तीक्ष्णलोह > स्य्नोन्य्म्स्

तीक्ष्णं शस्त्रायसं शस्त्रं पिण्डं पिण्डायसं शठम् ।
आयसं निशितं तीव्रं लोहखड्गं च मुण्डजम् ॥७७॥

अयश्चित्रायसं प्रोक्तं चीनजं च त्रिपञ्चधा ।

मुण्डलोह > स्य्नोन्य्म्स्

मुण्डं मुण्डायसं लोहं कृष्णलौहं शिलोद्भवम् ॥७८॥

तीक्ष्ण-, मुण्डलोह > मारण

कान्तलोहप्रकारेण मारणं तीक्ष्णमुण्डयोः ।

तीक्ष्णलोह > मेदिच्. प्रोपेर्तिएस्

तीक्ष्णलोहं कषायाम्लं तिक्तकं कटुकं लघु ॥७९॥

शीतलं लेखनं रूक्षं कफपित्तास्रपाण्डुजित् ।
प्रमेहसर्वशूलघ्नं तीक्ष्णं मुण्डाधिकं गुणैः ॥८०॥

मुण्ड > मेदिच्. प्रोपेर्तिएस्

चक्षुष्यं मुण्डलोहं तु कषायं स्वादु तिक्तकम् ।
लेखनं वातहृच्छीतं कृमिपित्तकफप्रणुत् ॥८१॥

श्वयथूदरशूलार्शःकुष्ठपाण्डुप्रमेहजित् ॥८२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:48:49.5930000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

social wealth

  • सामाजिक भांडवल 
  • समाज धन 
  • सामाजिक धन 
  • (in social accounting) 
More meanings
RANDOM WORD

Did you know?

What is the Hindu Caste System?
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site