TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसविद्या - भाग २

रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद.


भाग २
श्रीभैरवः ।
स्वर्णादिसर्वलोहानामुत्पत्त्यादिक्रमं ब्रुवे ।

स्वर्णं सुवर्णकनकोज्ज्वलकाञ्चनानि कल्याणहाटकहिरण्यमनोहराणि ।
गाङ्गेयगैरिकमहारजताग्निवीर्यरुक्मानि हेमतपनीयकभास्वराणि ॥१॥

जाम्बूनदाष्टापदजातरूपपिञ्जानचामीकरकर्बुराणि ।
कार्तस्वरापिञ्जरवर्णभूरितेजांसि दीप्तामलदीपिपीतकानि ॥२॥

मङ्गल्यसौमेरवशातकुम्भशृङ्गारचन्द्रारजजाम्बवानि ।
आग्नेयनिष्काग्निशिखानि चेति नेत्राब्धिनिर्धारितहेमनाम ॥३॥

स्वर्णभेदाः

प्राकृतं सहजं वह्निसम्भूतं खनिसम्भवम् ॥४॥

रसेन्द्रवेधसंजातं स्वर्णं पञ्चविधं स्मृतम् ।
ब्रह्माण्डं संवृतं येन रजोगुणभुवा खलु ॥५॥

तत्प्राकृतमिति प्रोक्तं देवानामपि दुर्लभम् ।
ब्रह्मा येनावृतो जातः सुवर्णं सहजं हि तत् ॥६॥

विसृष्टमग्निना शैवं तेजः पीतं सुदुःसहम् ।
अभूत्स्वर्णं तदुद्दिष्टं सुवर्णं वह्निसंभवम् ॥७॥

एतत्स्वर्णत्रयं दिव्यं वर्णैः षोडशभिर्युतम् ।
धारणादेव तत्कुर्याच्छरीरमजरामयम् ॥८॥

गिरीणां खनिसम्भूतं तत्स्वर्णं खनिजं स्मृतम् ।
तच्चतुर्दशवर्णाढ्यं भक्षितं सर्वरोगहृत् ॥९॥

रसेन्द्रवेधसम्भूतं तद्वेधजमुदाहृतम् ।
रसायनं महाश्रेष्ठं पवित्रं वेधजं हि तत् ॥१०॥

रक्ताभं पीतवर्णं च द्विविधं काञ्चनं भवेत् ।

ग्राह्याग्राह्यस्वर्णरूप

दाहे रक्तं सितं छेदे निकषे कुङ्कुमप्रभम् ॥११॥

गुरु स्निग्धं मृदु स्वच्छं निर्दलं रक्तपीतकम् ।
हेम षोडशवर्णाढ्यं शस्यते देहलोहयोः ॥१२॥

श्वेताङ्गं कठिनं रूक्षं विवर्णं समलं दलम् ।
दाहे श्वेतासितं श्वेतं निकषे लघु च व्रजेत् ॥१३॥

न शुद्धं न मृतं स्वर्णं रोगवर्गं करोति च ।
सौख्यं वीर्यं बलं हन्ति तस्माच्छुद्धिरुदीर्यते ॥१४॥

स्वर्णशुद्धि

वल्मीकमृत्तिका धूमं गैरिकं चेष्टका पटु ।
इत्येते मृत्तिकाः पञ्च जम्बीरैर् वारनालकैः ॥१५॥

पिष्ट्वा लिम्पेत्स्वर्णपत्रं भस्मच्छन्नं तु कर्परे ।
यावद्द्रवं पुटं तावत्कुर्यात्तेन विशुध्यति ॥१६॥

मृत्तिकां मातुलुङ्गाम्लैः पञ्चवासरभाविताम् ।
सभस्मलवणं हेम शोधयेत् पुटपाकतः ॥१७॥

भावयेन्मातुलुङ्गाम्लैस्त्रिदिनं पञ्चमृत्तिकाम् ।
सैन्धवं भूमिभस्माभिः स्वर्णं शुध्यति पूर्ववत् ॥१८॥

तैले तक्रे गवां मूत्रे ह्यारनाले कुलुत्थके ।
क्रमान्निषेचयेत् तप्तं सप्तवारं द्रवैर् द्रवैः ॥१९॥

स्वर्णादिलोहपत्राणां शुद्धिरेषा प्रशस्यते ।
द्रावितौ नागवङ्गौ च तद्वत्सिञ्चेद्विशुद्धये ॥२०॥

सुवर्णं ढालयेत् पूर्वं काञ्चनारोद्भवे रसे ।
सप्तवारं ततः कर्मयोग्यं हेम भवेद् ध्रुवम् ॥२१॥

स्वर्णभस्म (१)

नागचूर्णं शिलायुक्तं वज्रीक्षीरसमन्वितम् ।
लेपनात्पुटयोगाच्च हेमपत्राणि लेपयेत् ॥२२॥

मृतं नागं स्नुहीक्षीरैर् अथवाम्लेन केनचित् ।
पिष्ट्वा लेप्यं स्वर्णपत्रं रुद्ध्वा गजपुटे पचेत् ॥२३॥

आदाय पेषयेदम्ले मृतनागं चाष्टमांशकम् ।
पचेद्गजपुटे रुद्ध्वा पूर्ववन्नागसंयुतम् ॥२४॥

एवं पुनः पुनः पाकादष्टधा म्रियते ध्रुवम् ।

स्वर्णभस्म (२)

शुद्धसूतसमं गन्धं माक्षिकं च सहाम्लकैः ॥२५॥

अष्टभिश्च पुटैर्हेम म्रियते पूर्ववत्क्रिया ।

स्वर्णभस्म (३)

शुद्धसूतसमं स्वर्णं खल्वे कुर्याच्च गोलकम् ॥२६॥

ऊर्ध्वाधो गन्धकं दत्त्वा सर्वतुल्यं निरुध्य च ।
त्रिंशद्वनोत्पलैर् दद्यात् पुटानेवं चतुर्दश ॥२७॥

निरुत्थं जायते भस्म गन्धं देयं पुनः पुनः ।

स्वर्णभस्म (४)

स्वर्णमावर्त्य तोलैकं माषैकं शुद्धनागकम् ॥२८॥

क्षिप्त्वादाय तु तच्चूर्णं तत्तुल्ये गन्धमाक्षिके ।
अम्लेन मर्दयेद्यामं रुद्ध्वा लघुपुटे पचेत् ॥२९॥

गन्धं पुनः पुनर्देयं म्रियते दशभिः पुटैः ।

रसादिभिः स्वर्णमारणम्

हेमपत्राणि कुर्वीत विलिम्पेद्रसभस्मना ॥३०॥

अम्लपिष्टेन पुटयेद्धेम निर्जीवतां व्रजेत् ।
अथवा ताप्यपुटितं स्वर्णं गच्छति भस्मताम् ॥३१॥

यद्वा मृतेन करिणा शिलायोगेन भस्मयेत् ।
अथवा मृतवज्रेण योगिन्यंशविलेपितम् ॥३२॥

भस्मतां यात्युपरसै रसैश्चैव महारसैः ।
अम्लपिष्टैर् विलिप्तं च पुटितं याति भस्मताम् ॥३३॥

स्वर्णमारण (५)

स्वर्णस्य द्विगुणं सूतं याममम्लेन मर्दयेत् ।
आरोटं माक्षिकं क्षिप्त्वा मूषायां स्वर्णतुल्यकम् ॥३४॥

तत्पृष्ठे मर्दितं हेम तत्पृष्ठे शुद्धमाक्षिकम् ।
देयं स्वर्णसमं तच्च पृष्ठे गन्धं च तत्समम् ॥३५॥

सर्वं च चूर्णितं दद्याद् रुद्ध्वा मूषां धमेद्दृढम् ।
स्वभावशीतलं ग्राह्यं भस्म तद्भागपञ्चकम् ॥३६॥

टङ्कणं श्वेतकाचं च भागैकैकं प्रपेषयेत् ।
त्रितयं मधुनाज्येन मेलकं गोलकीकृतम् ॥३७॥

धान्याभ्रस्य च भागैकमधश्चोर्ध्वं च दापयेत् ।
निरुध्य तद्धमेद्गाढं मूषायां घटिकाद्वयम् ॥३८॥

निरुत्थं जायते भस्म तत्तद्योगेषु योजयेत् ।

स्वर्णमारण (६)

हेम्नः पादं मृतं सूतं पिष्टमम्लेन केनचित् ॥३९॥

पत्रे लिप्त्वा पुटे पच्यादष्टभिर्म्रियते ध्रुवम् ।
शुद्धानां सर्वलोहानां मारणे रीतिरीदृशी ॥४०॥

स्वर्णमारण (७)

शुद्धमाक्षीकभागैकं भागं चारोटमाक्षिकम् ।
द्विभागं सूतकं क्षिप्त्वा त्रयमम्लेन मर्दयेत् ॥४१॥

भागैकं हेमपत्रं च लिप्त्वा चाम्लेन मर्दयेत् ।
तद्गोलं पातनायन्त्रे हठाद् यामत्रयं पचेत् ॥४२॥

इत्येवं म्रियते स्वर्णं निरुत्थं नात्र संशयः ।

स्वर्णमारण (८)

यवचिञ्चारजोवृक्षभल्लातैष्टङ्कणेन च ॥४३॥

लिप्त्वा स्वर्णस्य पत्राणि रुद्ध्वा गजपुटे पचेत् ।
तैर् द्रवैः पिष्ट्या म्रियते सप्तधा पुटैः ॥४४॥

पीलुकङ्कुष्ठबुक्काणसौवर्चलम् अपेषितम् ।
लिप्त्वा स्वर्णस्य पत्राणि म्रियते सप्तभिः पुटैः ॥४५॥

स्वर्णस्य गुणाः

सुवर्णं बृंहणं स्निग्धं मधुरं रसपाकयोः ।
विषदोषहरं शीतं सकषायं सतिक्तकम् ॥४६॥

हृद्यं कान्तिप्रदं बल्यं संरसनं गुरु लेखनम् ।
बुद्धिमेधास्मृतिकरं व्रणघ्नं वाग्विशुद्धिदम् ॥४७॥

क्षयोन्मादप्रशमनं चक्षुष्यं च रसायनम् ।
त्रिदोषशमनं सौम्यमायुष्यं रुचिरं शुचि ॥४८॥

प्रज्ञावीर्यस्वरकरम् ऐश्वर्यं धारणाद्भवेत् ॥४९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:48:49.0570000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

अरे

  • उद्रा . पुरुषाला हांक मारतांना - बोलावतांना सलगीनें अगर तिरस्कारानें बोललेला शब्द ; संबोधन - रे , ए वगैरे . म्ह० अरे तर कारे अहो तर काहो . कधीं आश्चर्य वाटलें असतांना अरे ! असा उद्गार निघतो . नामापुढें लावतांना अ गाळतात . जसें - रामरे ! [ सं . अरे ] 
  • ०अरे - करुं नको म्हणणें ; मना करणें ; ताकीद देणें . 
  • करणें - करुं नको म्हणणें ; मना करणें ; ताकीद देणें . 
  • ०जारे ( क्रि० बोलणें - म्हणणें - चालणें - भांडणें ). उध्दटपणा , उर्मटपणा . 
More meanings
RANDOM WORD

Did you know?

शंकराला अर्धी प्रदक्षिणा कां घालतात ?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site