TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसविद्या - भाग १

रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद.


भाग १
उपरसशोधनमारणविधिः

श्रीभैरवी ।
देवदेव चिदानन्द सच्चिदानन्ददायक ।
त्वयैव प्रतिबुद्धास्मि पूर्वं रसविधानकम् ॥१॥

इदानीं त्वत्प्रसादेन श्रोतुमिच्छाम्यहं प्रभो ।
गन्धाद्युपरसानां च लोहानां हेमपूर्विणाम् ॥२॥

पद्मरागादिरत्नानां लक्षणं जातिमाह्वयम् ।
संस्कारं च गुणान्ब्रूहि यथा जानाम्यहं प्रभो ॥३॥

उपरसाः

श्रीभैरवः ।
गन्धतालशिलाताप्यघनहिङ्गुलगैरिकाः ।
चपलाश्मजभूनागहरिद्राश्माग्निजारकाः ॥४॥

खर्परीतुत्थकङ्कुष्ठगिरिसिन्दूरटङ्कणाः ।
कम्पिल्लविषकासीसगौरीपाषाणभूखगाः ॥५॥

पोद्दारशृङ्गी सिन्दूरस्तुवरिश्च रसाञ्जनम् ।
नीलाञ्जनं च सौवीरं स्रोतोञ्जनम् अफेनकम् ॥६॥

पुष्पाञ्जनं शङ्खशुक्तिशम्बूकाश्च वराटकाः ।
साबुणी च नवक्षारचीनक्षाराखुमारकाः ॥७॥

सर्जगुग्गुलुलाक्षाश्च क्षाराश्च लवणानि च ।
गोरोचनोऽम्लवेतश्च काचच्छगणवालुकाः ॥८॥

एते उपरसाः ख्याता रसराजस्य कर्मणि ।

द्वादश लोहाः

स्वर्णरूप्यार्ककान्ताभ्रसत्त्वं तीक्ष्णं च मुण्डकम् ॥९॥

भुजङ्गं त्रपुसं चैव रीतिः कांस्यं च वर्तकम् ।
द्वादशैतानि लोहानि मण्डूरो लोहकिट्टकम् ॥१०॥

नवरत्नानि

माणिक्यमुक्ताफलविद्रुमाणि तार्क्ष्यं च पुष्यं भिदुरं च नीलम् ।
गोमेधकं चाथ विडूरकं च क्रमेण रत्नानि नवग्रहाणाम् ॥११॥

नव उपरत्नानि

सूर्यकान्तश् चन्द्रकान्तस् तारकान्तस्तु कान्तकः ।
वैक्रान्तश्च नृपावर्तः सस्यको विमला तथा ॥१२॥

पेरोजश्च नवैतानि ह्युपरत्नानि निर्दिशेत् ।

गन्धकः > गन्धकशुद्धिः॑ प्रथमः प्रकारः

उत्पत्तिलक्षणं जातिं गन्धकं शोधयेदतः ॥१३॥

साज्यं भाण्डे पयः क्षिप्त्वा मुखं वस्त्रेण बन्धयेत् ।
तत्पृष्ठे चूर्णितं गन्धं क्षिप्त्वा श्रावेण रोधयेत् ॥१४॥

भाण्डं निक्षिप्य भूम्यन्तरूर्ध्वं देयं पुटं लघु ।
ततः क्षीरे द्रुतं गन्धं शुद्धं योगेषु योजयेत् ॥१५॥

द्वितीयः प्रकारः

कङ्गुणीसर्षपैरण्डतैलं वाथ कुसुम्भजम् ।
मेषीक्षीरं घृतं वाथ गोक्षीरं चारनालकम् ॥१६॥

एतेष्वेकं तु भाण्डान्तः किंचिदूनं प्रपूरयेत् ।
रुद्ध्वा वस्त्रेण तद्वक्त्रं गन्धचूर्णं तत उपरि ॥१७॥

लोहपात्रेण रुद्ध्वाथ पृष्ठे स्थाप्य च खर्परम् ।
साग्निम् उत्पलकैः पूर्णमेव द्राव्य समुद्धरेत् ॥१८॥

तद्धुत्तूरद्रवैः पिष्ट्वा शुष्कं द्राव्यं च पूर्ववत् ।
पुनरेवं प्रकर्तव्यं सुशुद्धो गन्धको भवेत् ॥१९॥

तृतीयः प्रकारः

यामैकं गन्धकं मर्द्यं बृहत्या चाजगन्धया ।
भृङ्गीधुत्तूरयोर्वाथ तिलपर्ण्याश्च तद्द्रवैः ॥२०॥

तमादाय घृतैस्तुल्यैर् लोहपात्रे क्षणं पचेत् ।
बद्ध्वाग्निना द्रुतं तं वै ह्यजाक्षीरे विनिक्षिपेत् ॥२१॥

इत्येवं सप्तधा कुर्याच्छुद्धिमायाति गन्धकः ।

चतुर्थः प्रकारः

करञ्जैरण्डतैलं च छागीदुग्धं च भाण्डके ॥२२॥

क्षिप्त्वा तस्य मुखं बद्ध्वा स्वच्छवस्त्रेण बुद्धिमान् ।
गन्धकं धूर्तजैर् द्रावैर्दिनं भाव्यं विशोषयेत् ॥२३॥

तच्चूर्णं पूर्वभाण्डस्य वस्त्रोपरि निधापयेत् ।
आच्छाद्य श्रावकेनैव पृष्ठे देयं पुटं लघु ॥२४॥

द्रुतं गन्धं समादाय भाव्यं धुत्तूरजैर्द्रवैः ।
तद्वद्द्राव्यं पुनर्भाव्यं द्रावयेच्च पुनस्ततः ॥२५॥

आदाय मत्स्यपित्तेन सप्तधा भाव्यमातपे ।
ततः कोशातकीबीजचूर्णेन सह पेषयेत् ॥२६॥

भावयेद्भृङ्गजैर्द्रावैः सप्ताहमातपे खरे ।
तोयेन क्षालितं शोष्यं ततो मृद्वग्निना क्षणम् ॥२७॥

घृताक्ते लोहपात्रे तु द्रावितं ढालयेत्ततः ।
भृङ्गराजद्रवान्तस्थः सम्यक् शुद्धः स जायते ॥२८॥

पञ्चमः प्रकारः

गन्धकं याममात्रं वा मद्यब्राह्म्यजगन्धयोः ।
भृङ्गधुत्तूरयोर्वापि तिलपर्णीरसेन वा ॥२९॥

तदादाय घृतोपेतं लोहपात्रे क्षणं पचेत् ।
लघ्वग्निना द्रुतं तच्च मेषीक्षीरे विनिक्षिपेत् ॥३०॥

एवं कृतं सप्तवारं शुद्धं भवति गन्धकम् ।

गन्धकतैलम्॑ प्रथमः प्रकारः

देवदाल्यम्लपर्णी वा नारङ्गं वाथ दाडिमम् ॥३१॥

मातुलुङ्गं यथालाभं द्रवमेकस्य चाहरेत् ।
गन्धकस्य तु पादांशं टङ्कणं द्रवसंयुतम् ॥३२॥

आतपे त्रिदिनं शुष्कं द्रवं देयं पुनः पुनः ।
धुत्तूरतुलसीकृष्णलशुनं देवदालिका ॥३३॥

शिग्रुमूलं काकमाची कर्पूरं शंखिनीद्वयम् ।
कृष्णागरु च कस्तूरी वन्ध्या कर्कोटकी समम् ॥३४॥

मातुलुङ्गरसैः पिष्ट्वा क्षिपेदेरण्डतैलके ।
अनेन लोहपात्रस्थं भावयेत्पूर्वगन्धकम् ॥३५॥

त्रिवारं क्षौद्रतुल्यं तज्जायते गन्धवर्जितम् ।
इदं गन्धकतैलं स्यात्सर्वयोगेषु योजयेत् ॥३६॥

द्वितीयः प्रकारः

अथवार्कस्नुहीक्षीरैर्वस्त्रं लेप्यं तु सप्तधा ।
गन्धकं नवनीतेन पिष्ट्वा वस्त्रं लिपेत्तु ताम् ॥३७॥

तद्वर्तिं ज्वलितां दंशे धृतां कुर्यादधोमुखीम् ।
तैलं पतेदधो भाण्डे ग्राह्यं योगेषु योजयेत् ॥३८॥

गन्धकसत्त्वपातनम्॑ प्रथमः प्रकारः

गन्धकस्तु कुबेराक्षीतैलेन चिरमर्दितः ।
दृढं प्रकटमूषायां ध्मातः सत्त्वं विमुञ्चति ॥३९॥

द्वितीयः प्रकारः

यद्वा भाण्डोदरे क्षिप्त्वा गन्धकं पूर्वशोधितम् ।
पिधाय ताम्रपात्रेण तस्मिञ्शीतोदकं क्षिपेत् ॥४०॥

मन्दं प्रज्वाल्य तदधो वह्निमुष्णं जलं हरेत् ।
एवं पुनः पुनः शीतजलमूर्ध्वं विनिक्षिपेत् ॥४१॥

गन्धकस्याग्नितः सत्त्वं स्वर्णाभं सर्वकार्यकृत् ।
न चास्य सत्त्वम् आदद्यात् सत्त्वरूपो हि गन्धकः ॥४२॥

इति गन्धकतत्त्वज्ञाः केचिदन्ये प्रचक्षते ।

गन्धकद्रुतिः

यद्वा संचूर्णितं गन्धं कटुतैलसमन्वितम् ॥४३॥

वस्त्रे निक्षिप्य तद्वस्त्रं कारयेद्वर्तिकां दृढाम् ।
ततः सूत्रेण संवेष्ट्य गोघृतेन परिप्लुताम् ॥४४॥

संदंशेनोद्धृतं कृत्वा वर्तिं चाधः प्रदीपयेत् ।
पक्वाम्रफलसम्भूतरसवर्णा भवेद्द्रुतिः ॥४५॥

गन्धकस्य गुणाः

गन्धकः कटुकः पाके वीर्योष्णो विमलः सरः ।
विसर्पकुष्ठकण्डूतिक्रिमिगुल्मक्षयापहः ॥४६॥

अक्षिरोगप्रशमनो वृष्यो विषगदार्तिजित् ।
सर्वसिद्धिप्रदो बल्यस्त्रिदोषघ्नो रसायनः ॥४७॥

हरितालम्

हरितालं च गोदन्ती तालकं नटमण्डनम् ।
गिरिजाललितं पीतम् अतिगन्धं बिडालकम् ॥४८॥

हरितालभेदाः

हरितालं द्विधा प्रोक्तं पत्राख्यं पिण्डसंज्ञकम् ।

पत्त्रतालक > फ्य्स्. प्रोपेर्तिएस्

स्वर्णवर्णं गुरु स्निग्धं तनुपत्त्रं च भासुरम् ॥४९॥

तत्पत्त्रतालकं प्रोक्तं बहुपत्रं रसायनम् ।

पिण्डतालक > फ्य्स्. प्रोपेर्तिएस्

निष्पत्रं पिण्डसदृशं स्वल्पसत्त्वं तथा गुरु ॥५०॥

स्त्रीपुष्पहरणं तत्तु गुणाल्पं पिण्डतालकम् ।

अशुद्धहरितालसेवने दोषाः

वातश्लेष्मप्रमेहादिकरम् आयुर्निबर्हणम् ॥५१॥

तापस्फोटाङ्गसंकोचं हरितालमशोधितम् ।

हरितालशुद्धिः॑ प्रथमः प्रकारः

तालकं कणशः कृत्वा दशांशेन तु टङ्कणम् ॥५२॥

जम्बीरोत्थद्रवैः क्षाल्यं काञ्जिकैः क्षालयेत्पुनः ।
वस्त्रे चतुर्गुणे बद्ध्वा डोलायन्त्रे दिनं पचेत् ॥५३॥

सचूर्णेनारनालेन दिनं कूष्माण्डजै रसैः ।
स्वेद्यं वा शाल्मलीतोयैस्तालकं शुद्धिमाप्नुयात् ॥५४॥

द्वितीयः प्रकारः

मधुतुल्ये घनीभूते कषाये ब्रह्ममूलजे ।
त्रिवारं तालकं भाव्यं पिष्ट्वा मूत्रेऽथ माहिषे ॥५५॥

उत्पलैर्दशभिर्देयं पुटं कुर्यात्पुनः पुनः ।
एवं द्वादशधा पाच्यं शुद्धं योगेषु योजयेत् ॥५६॥

तृतीयः प्रकारः

तालकं पोट्टलं बद्ध्वा सचूर्णे काञ्जिके पचेत् ।
दोलायन्त्रेण यामैकं ततः कूष्माण्डजे रसे ॥५७॥

तिलतैले पचेद्यामं यामं च त्रिफलाजले ।
एवं यन्त्रे चतुर्यामं पाच्यं शुध्यति तालकम् ॥५८॥

तालकसत्त्वपातनम्॑ प्रथमः प्रकारः

लाक्षा राजी तिलाः शिग्रु टङ्कणं लवणं गुडम् ।
तालकार्घ्येण संमर्द्य छिद्रमूषां निरोधयेत् ॥५९॥

पुटेत्पातालयन्त्रेण सत्त्वं पतति निश्चयम् ।

द्वितीयः प्रकारः

तालकं मर्दयेद्दुग्धैः सर्पाक्ष्या वा कषायकैः ॥६०॥

पूर्ववज्जनयेत्सत्त्वं छिद्रमूषानिरोधितम् ।

तृतीयः प्रकारः

लाक्षा राजी गुडं शिग्रु टङ्कणं लवणं तिलाः ॥६१॥

एभिस्तुल्यं सत्त्वतालं मर्दयेद् रविदुग्धकैः ।
दिनं वा वज्रिणीदुग्धैः कूश्माण्डस्य द्रवैश्च वा ॥६२॥

तेन कल्केन लिप्त्वान्तश्छिद्रमूषां निरोधयेत् ।
पुटाद्वा धमनात् सत्त्वं ग्राह्यं पातालयन्त्रके ॥६३॥

चतुर्थः प्रकारः

तालकादष्टमांशेन देयं सूतं च टङ्कणम् ।
कूश्माण्डस्य रसैः स्नुह्याः क्षीरैर् मर्द्याद्दिनत्रयम् ॥६४॥

तद्गोलं छिद्रमूषायां ग्राह्यं सत्त्वं च पूर्ववत् ।

पञ्चमः प्रकारः

भागाः षोडश तालस्य विषपारदटङ्कणाः ॥६५॥

श्वेताभ्रवङ्गयोश्चूर्णं प्रतिभागं विमिश्रयेत् ।
समं स्नुह्यर्कपयसा मर्दयेद्दिवसद्वयम् ॥६६॥

तद्गोलं काचकुप्यन्तः क्षिप्त्वा तां काचकूपिकाम् ।
सर्वतोऽङ्गुलमानेन लिम्पेद्वस्त्रे मृदा दृढम् ॥६७॥

शुष्कां तां वालुकायन्त्रे शनैर्मन्दाग्निना पचेत् ।
शुष्के द्रवे निरुध्याथ सम्यङ्मृल्लवणैर्मुखम् ॥६८॥

चण्डाग्निना पचेद्यावत्तावद्द्वादशयामकम् ।
स्वाङ्गशीतं समुद्धृत्य भित्त्वा कूपीं समाहरेत् ॥६९॥

ऊर्ध्वलग्नं तालसत्त्वं स्फटिकोपलसन्निभम् ।

षष्ठः प्रकारः

भावितं स्नुक्पयः सिक्तं स्नुहीद्रावैर्द्विसप्तधा ॥७०॥

तिलसर्षपशिग्रूणि लवणं मित्रपञ्चकम् ।
एभिस्तुल्यं शुद्धतालं दिनमेकं विमर्दयेत् ॥७१॥

भूधरे छिद्रमूषान्तर्ध्मातं सत्त्वं विमुञ्चति ।

तालकस्य गुणाः

तालकं शोधितं श्रेष्ठं कुष्ठमृत्युजरापहम् ॥७२॥

सौभाग्यसौगन्ध्यकरं परमायुर्विवर्धनम् ।

मनःशिला

मनःशिला स्यात्कुनटी नागास्या रक्तगन्धकः ॥७३॥

नेपालिका नागजिह्वा कल्याणी सप्तनामका ।

मनःशिलाभेदाः

मनःशिला त्रिधा प्रोक्ता श्यामाङ्गी कणवीरका ॥७४॥

खण्डाख्या चैव तद्रूपं विविच्य परिकल्प्यते ।
श्यामा रक्ता खराङ्गा च भाराढ्या श्यामिका मता ॥७५॥

तेजस्विनी च निर्भारा ताम्राभा कणवीरका ।
चूर्णीभूतातिरक्ताङ्गी सभारा खण्डपूर्विका ॥७६॥

उत्तरोक्ता गुणैः श्रेष्ठा भूरिसत्त्वा प्रकीर्तिता ।

अशुद्धमनःशिलासेवायां दोषाः

अश्मरीं मूत्रकृच्छ्रं च मन्दाग्निं मलबद्धताम् ॥७७॥

करोति कुष्ठं तापं च शुद्धिहीना मनःशिला ।

मनःशिलाशुद्धिः

अजामूत्रैस्त्र्यहं पच्याद्दोलायन्त्रे मनःशिलाम् ॥७८॥

सप्तधा दध्यजापित्तैर्घर्मे ताप्यं विशुद्धये ।
जीवन्तीभृङ्गराड्रक्तागस्त्यद्रावैर्मनःशिलाम् ॥७९॥

दोलायन्त्रे पचेद्यामं यामं छागोत्थमूत्रकैः ।
क्षालयेदारनालेन सर्वयोगेषु योजयेत् ॥८०॥

अगस्त्यस्य रसे भाव्या सप्ताहाच्छोधिता शिला ।

मनःशिलासत्त्वपातनम्॑ प्रथमः प्रकारः

तालवच्च शिलासत्त्वं पातनं शोधनं तथा ॥८१॥

गोमांसैर् मातुलुङ्गाम्लैर् दिनं भाव्या मनःशिला ।
तां रक्तपीतपुष्पाणां रसैः पीतैश्च भावयेत् ॥८२॥

दिनान्ते मर्दयेद्यामं मित्रपञ्चकसंयुतम् ।
गुलिकां काचकूप्यन्तः क्षिप्त्वा तां काचकूपिकाम् ॥८३॥

सर्वतोऽङ्गुलमानेन लिम्पेद्वस्त्रमृदा दृढम् ।
शुष्कां तां वालुकायन्त्रे शनैर्मन्दाग्निना पचेत् ॥८४॥

शुष्के द्रवे निरुध्याथ सम्यङ्मृल्लवणैर्मुखम् ।
चण्डाग्निना पचेद्यावत्तावद्द्वादशयामकम् ॥८५॥

स्वाङ्गशीतं समुद्धृत्य भित्त्वा कूपीं समाहरेत् ।
ऊर्ध्वलग्नं शिलासत्त्वं बालार्कसदृशोपमम् ॥८६॥

द्वितीयः प्रकारः

अगस्त्यशिग्रुजैस्तोयैस् त्र्यहं भाव्या मनःशिला ।
तालकौषधयोगेन सत्त्वं हेमनिभं भवेत् ॥८७॥

मनःशिलाया गुणाः

मनःशिला कटूष्णा च सतिक्ता कफवातजित् ।
कण्डूतिक्षयकासघ्नी विषभूताग्निमान्द्यहृत् ॥८८॥

माक्षिकम्

माक्षिकं मधुधातु स्यान्माक्षीकं हेममाक्षिकम् ।
ताप्यं च तापिजं तार्क्ष्यं तापीदेशसमुद्भवम् ॥८९॥

माक्षिकभेदाः

माक्षीकं द्विविधं हेममाक्षिकं तारमाक्षिकम् ।
तत्राद्यं माक्षिकं कान्यकुब्जोत्थं स्वर्णसन्निभम् ॥९०॥

तपतीतीरसम्भूतं पञ्चवर्णं सुवर्णवत् ।
पाषाणबहलः प्रोक्तस्ताप्याख्योऽसौ गुणात्मकः ॥९१॥

सुवर्णाकारभेदाच्च प्रत्येकं तत्पुनस्त्रिधा ।
कादम्बं कारवेल्लाख्यं तण्डुलीयकसंज्ञकम् ॥९२॥

अशुद्धमाक्षिकसेवने दोषाः

प्राणविष्टम्भदौर्बल्यवह्निसादाक्षिरोगकृत् ।
माक्षिकं मारयत्येव शुद्धिहीनं सुरार्चिते ॥९३॥

माक्षिकशुद्धिः॑ प्रथमः प्रकारः

माक्षिकं नरमूत्रेण क्वाथैः कौलुत्थकोद्भवैः ।
वेतसेनाम्लवर्गेण टङ्कणेन कटुत्रिकैः ॥९४॥

डोलायन्त्रे दिनं पाच्यं सूरणस्यैव मध्यगम् ।
दिनं रम्भाद्रवैः पच्यादुद्धृतं पेषयेद् घृतैः ॥९५॥

एरण्डतैलसंयुक्तैः पुटे पच्यन्विशोधयेत् ।

द्वितीयः प्रकारः

माक्षिकस्य त्रयो भागा भागैकं टङ्कणस्य च ॥९६॥

मातुलुङ्गद्रवैर्वाथ जम्बीरोत्थद्रवैः पचेत् ।
लोहपात्रे पचेत्तावद्यावत्पात्रं सुलोहितम् ॥९७॥

ताम्रवर्णमयो वापि तावच्छुध्यति माक्षिकम् ।

तृतीयः प्रकारः

अगस्तिपुष्पनिर्यासैः शिग्रुमूलं निघर्षयेत् ॥९८॥

द्रवैः पाषाणभेद्याश्च पेष्यम् एभिश्च माक्षिकम् ।
तद्वटीं चाथ मूषायां दशभिरुत्पलैः पुटेत् ॥९९॥

पुनः पुनश्च पिष्ट्वाथ पुटैः षड्भिर्विशुध्यति ।

चतुर्थः प्रकारः

क्षौद्रक्षीरारनालाश्च अष्टभागाः पृथक् पृथक् ॥१००॥

गव्यं तक्रं चतुर्भागं भागः कौलुत्थजो रसः ।
सर्वं सम्पूरयेद् भाण्डे भागैकं माक्षिकं पचेत् ॥१०१॥

डोलायन्त्रेण मृद्वग्नौ याममात्रं पुनः पचेत् ।
उद्धृत्य मातुलुङ्गाम्लैः पिष्ट्वा दशभिरुत्पलैः ॥१०२॥

पुटे पुनः पुनः कुर्यादेवं द्वादशवासरम् ।
शुद्धं भवति माक्षीकं सर्वयोगेषु योजयेत् ॥१०३॥

पञ्चमः प्रकारः

माक्षिकं कणशः कृत्वा जालिनीमेघनादयोः ।
पिण्डे निक्षिप्य विपचेद्दोलायन्त्रे कुलुत्थजे ॥१०४॥

क्वाथे तच्छुद्धतां याति प्रशस्तं लोहमारणे ।

षष्ठः प्रकारः

तैले तक्रे गवां मूत्रे कौलुत्थे वाम्लकाञ्जिके ॥१०५॥

माक्षिकं शोधयेत्प्राज्ञो गिरिदोषनिवृत्तये ।

सप्तमः प्रकारः

कुलुत्थकोद्रवक्वाथनरमूत्राम्लवेतसैः ॥१०६॥

टङ्कणेनाम्लवर्गेण कटुकत्रितयेन वा ।
डोलायन्त्रे दिनं पाच्यं सूरणकन्दमध्यगम् ॥१०७॥

दिनं रम्भाद्रवैः पाच्यं ध्मातमुद्धृत्य पेषितम् ।
एरण्डतैलसर्पिर्भ्यां पुटैः शुध्यति माक्षिकम् ॥१०८॥

अष्टमः प्रकारः

सुवर्णवर्णविमलं ताप्यं वा कणशः कृतम् ।
पुनर्नवायाः कल्कस्थं कौलुत्थे स्वेदयेद्रसे ॥१०९॥

सैन्धवैर् बीजपूराक्तैर्युक्तं वा पोट्टलीकृतम् ।
डोलायन्त्रे दिनं स्वेद्यं शुद्धिमायाति निश्चितम् ॥११०॥

माक्षिकसत्त्वपातनविधिः॑ प्रथमः प्रकारः

गोदुग्धैश्च स्नुहीक्षीरैर् भाव्यमेरण्डतैलकैः ।
माक्षिकं दिनमेकं तु मर्दितं वटकीकृतम् ॥१११॥

अभ्रवद्धमने सत्वं सस्यकस्याप्ययं विधिः ।

द्वितीयः प्रकारः

दोलायन्त्रे सारनाले माक्षिकं स्वेदयेद्दिनम् ॥११२॥

चूर्णितं मधुसर्पिर्भ्यां लोहपात्रे पचेद्दिनम् ।
आदाय भावयेद् घर्मे वज्रीक्षीरैर्दिनावधि ॥११३॥

गृहधूमैर् घृतैः क्षौद्रैः संयुक्तैर् मर्दयेद्दिनम् ।
अन्धमूषागतं ध्मातं सत्त्वं गुञ्जानिभं भवेत् ॥११४॥

तृतीयः प्रकारः

कदलीकन्दतोयेन माक्षिकं शतधातपे ।
भावितं पाचयेद्यामं साज्यैर्वातारितैलकैः ॥११५॥

पूर्ववद्धमनात् सत्त्वम् इन्द्रगोपसमं भवेत् ।

चतुर्थः प्रकारः

स्नुह्यर्कपयसा स्तन्यैर् माक्षिकं मर्दयेद्दिनम् ॥११६॥

कङ्कुष्ठं टङ्कणं चैव प्रतिपादांशमिश्रितम् ।
मूकमूषागतं ध्मातं सत्वं मणिनिभं भवेत् ॥११७॥

पञ्चमः प्रकारः

कदलीकन्दतुलसीजम्बीराणां द्रवैः क्रमात् ।
भावयेन्माक्षिकं श्लक्ष्णं प्रतिद्रावेण सप्तधा ॥११८॥

रुद्ध्वा ध्माते पतेत् सत्त्वं शुकतुण्डनिभं शुभम् ।

षष्ठः प्रकारः

मूत्रवर्गाम्लवर्गाभ्यां द्विसप्ताहं विभावयेत् ॥११९॥

माक्षीकं तीव्रघर्मेण दिनमम्लैश्च मर्दयेत् ।
मित्रपञ्चकसंयुक्तं वटीकृत्य धमेद् दृढम् ॥१२०॥

व्योमवद्वङ्कनालेन सत्त्वं शुल्बनिभं भवेत् ।

सप्तमः प्रकारः

स्नुहीक्षीरैर् गवां क्षीरैर् भाव्यम् एरण्डतैलकैः ॥१२१॥

माक्षिकं पञ्चमित्राक्तं सप्ताहान्ते वटीकृतम् ।
पूर्ववद्विधमेत्तेन सत्त्वं लाक्षानिभं भवेत् ॥१२२॥

अष्टमः प्रकारः

स्तन्यैः कङ्कुष्ठकैश्चैव कदलीतोयसंयुतैः ।
मित्रपञ्चकसंयुक्तैर्माक्षिकं दिनसप्तकम् ॥१२३॥

भावितं मर्दयेद्यामं दिनं वातारितैलकैः ।
मृद्वग्निना पचेत्तावद्यावद्द्रवति गोलकम् ॥१२४॥

सत्त्वं किंशुकपुष्पाभं व्योमवद्धमनाद्भवेत् ।
विमलानां च सर्वेषां सस्यकस्याप्ययं विधिः ॥१२५॥

नवमः प्रकारः

संचूर्ण्य माक्षिकं शुद्धं मर्द्यमम्लेन केनचित् ।
क्षालयेदारनालेन ह्यधःस्थं स्वर्णचूर्णवत् ॥१२६॥

जारयेत्तत्समाहृत्य धमेत् सत्त्वं विमुञ्चति ।
योजयेद्वापने चेदं बीजानां यत्र यत्र वै ॥१२७॥

दशमः प्रकारः

कदलीपत्रजैर्नीरैर्माक्षिकं भावयेद्द्रुतम् ।
गन्धर्वतैलमध्वाज्यैः पक्वमेकदिनं ततः ॥१२८॥

तत्ताप्यं वज्रमूषायां पक्वायां निक्षिपेत्ततः ।
लोहसंधानकरणं तत्समं तत्र निक्षिपेत् ॥१२९॥

दृढं प्रमूकमूषायां कोष्ठिकायां निवेशयेत् ।
अङ्गारैः खदिरोद्भूतैर् धमेद्भस्त्राद्वयेन वै ॥१३०॥

वङ्कनालयुजा सत्त्वं ताप्यस्य पतति ध्रुवम् ।

एकादशः प्रकारः

माणिवन्ध्यं वैष्णवं च गृह्णीयात्समभागतः ॥१३१॥

फलपूररसैः पिष्ट्वा सम्पुटे सुदृढं क्षिपेत् ।
सम्यग्लिप्त्वा वनोद्भूतैश्छाणकैः पुटयेत्ततः ॥१३२॥

कुकुप्तोत्थं तदाकृष्यं स्वांगशीतं प्रमर्दयेत् ।
फलपूररसैः पक्वैर्मर्दयित्वाथ पूर्ववत् ॥१३३॥

पुटनं छगणेनैव तावत्कुर्याद्विचक्षणः ।
यावत्तत्पुटितं कल्कं फलपूराम्लमर्दितम् ॥१३४॥

शाणोत्तेजितनिस्त्रिंशलिप्तं तत्ताम्रताम् इयात् ।
इत्थं शुद्धं च गरुडं टङ्कणं नीरजं रसम् ॥१३५॥

घृतेन मधुना युक्तं सगुडं गुञ्जया समम् ।
प्राग्वन्मूषागतं कृत्वा धमेत्तत् खदिराग्निना ॥१३६॥

मृदुसत्त्वं नागसमम् इन्द्रगोपकसन्निभम् ।
पतत्येव न संदेहः सर्वज्ञवचनं तथा ॥१३७॥

शुक्लदीप्तिरशब्दश्च यदा वैश्वानरो भवेत् ।
तदा तु सत्त्वं पतितं जानीयान्नान्यथा क्वचित् ॥१३८॥

माक्षिकस्य गुणाः

कषायतिक्तमधुरं कटुकं माक्षिकद्वयम् ।
उष्णं रसायनं कुष्ठशोषहिध्मावमिप्रणुत् ॥१३९॥

माक्षीकधातुः सकलामयघ्नः प्राणो रसेन्द्रस्य परं हि वृष्यः ।
दुर्मेललोहद्वयमेलकश्च गुणोत्तरः पूर्वरसायनाग्र्यः ॥१४०॥

अभ्रकम्

उत्पत्त्यादि घनस्यादौ कथितं तद्रसायने ।
अधुना सम्प्रवक्ष्यामि तत्क्रियास् तद्गुणानपि ॥१४१॥

अभ्रकभस्मविधिः॑ प्रथमः प्रकारः

धान्याभ्रकं मेघनादद्रवैः संमर्दयेद् दिनम् ।
शतांशं टङ्कणं दत्त्वा ततो गजपुटे पचेत् ॥१४२॥

मुस्तासूरणवर्षाभूरसैर् व्यस्तैः पुटं त्रिधा ।
कासमर्दरसैः पञ्च वरागोमूत्रकैरपि ॥१४३॥

न्यग्रोधस्य जटाक्वाथैर् मर्द्यं दशपुटं पुनः ।
षट् च जम्बीरनीरेण गोक्षीरेण पुटत्रयम् ॥१४४॥

पेषणं घर्मपाकं च स्थालीपाकं पुटं क्रमात् ।
कुर्याच्चत्वारि कर्माणि टङ्कणं च पुटे पुटे ॥१४५॥

निश्चन्द्रं जायते ह्यभ्रं सर्वयोगेषु योजयेत् ।
अयं सामान्यसंस्कारो विशेषस्तु निगद्यते ॥१४६॥

भस्मीकरणे विशिष्टसंस्कारः

निश्चन्द्रकं मृतव्योम सामान्यसंस्कृतम् ।
तत्तद्रोगहरद्रव्यक्वाथैः पिष्ट्वा पुटे पचेत् ॥१४७॥

यन्त्रैस्त्रिः सप्तधा कुर्यात्तत्तद्रोगहरं भवेत् ।
अयं विशेषसंस्कारस्तत्तद्रोगहरो भवेत् ॥१४८॥

पूर्वाह्ने पेषणं कार्यं मध्याह्ने घर्मपाचनम् ।
सायाह्ने स्थालिकापाकं कुर्याद् रात्रौ पुटं क्रमात् ॥१४९॥

संस्कारः पञ्चधा प्रोक्तो घनस्य परमेश्वरि ।
धान्याभ्रकरणं सत्त्वपातनं निर्मलक्रिया ॥१५०॥

सुमृतीकरणं चैव त्वमृतीकरणं तथा ।
मारणे घनसत्त्वस्य घनपत्रस्य मारणे ॥१५१॥

क्रमाच्छ्रेष्ठतमौ प्रोक्तौ शस्तौ दरदटङ्कणौ ।

द्वितीयः प्रकारः

मुस्ताक्वाथेन धान्याभ्रं पञ्चविंशत्पुटे पचेत् ॥१५२॥

गोमूत्रैश्च तथा क्वाथैस्त्रिफलायाः सुरेश्वरि ।
कासमर्दद्रवैरेकं गोक्षीरेण पुटं त्रिधा ॥१५३॥

निश्चन्द्रं जायते ह्यभ्रं सर्वयोगेषु योजयेत् ।
विशेषसंस्कारयुतं तत्तद्रोगहरं भवेत् ॥१५४॥

तृतीयः प्रकारः

धान्याभ्रकस्य भागैकं भागौ द्वौ टङ्कणस्य च ।
पिष्ट्वा तदन्धमूषायां रुद्ध्वा तीव्राग्निना धमेत् ॥१५५॥

स्वभावशीतलं चूर्णं सर्वयोगेषु योजयेत् ।
विशेषसंस्कारयुतं तत्तद्रोगहरं भवेत् ॥१५६॥

चतुर्थः प्रकारः

धान्याभ्रं मर्दयेदम्लैर्घर्मे संस्थापयेत्ततः ।
पुटं कुर्यात्ततोऽम्लेन सेचनं मर्दनं पुनः ॥१५७॥

विंशद्वारं ततो दुग्धे पुटनिस्तब्धम् अभ्रकम् ।
क्षिपेत्तं मर्दयेद्दुग्धैर् दुग्धे क्षिप्त्वातपे न्यसेत् ॥१५८॥

पुटं त्रिः सप्तवाराणि कुर्यादेवं पुनः पुनः ।
तण्डुलं वज्रवल्ली च तालमूली पुनर्नवा ॥१५९॥

शार्ङ्गेरी मरिचं चैव बला च पयसा सह ।
पूर्वाभ्रं पेषयेदेतैः प्रत्येकैश्च त्र्यहं त्र्यहम् ॥१६०॥

क्षिप्त्वातपे पुटे पच्यात्प्रत्येकेन पुनः पुनः ।
एवं निश्चन्द्रकं व्योम कज्जलाभं मृतं भवेत् ॥१६१॥

पञ्चमः प्रकारः

धान्याभ्रकस्य शुष्कस्य दशांशं मरिचं क्षिपेत् ।
पेषयेदम्लवर्गेण अम्लैर्भाव्यं दिनत्रयम् ॥१६२॥

तच्छुष्कं सम्पुटे धाम्यं खदिराङ्गारकैर्दृढम् ।
ऊर्ध्वपात्रे निवार्याथ सिञ्चेदम्लेन केन तम् ॥१६३॥

धान्यं तत्रैव षड्वारमम्लैः सिञ्च्यात्पुनः पुनः ।
अगस्त्यशिग्रुवर्षाभूमूलपत्रभवै रसैः ॥१६४॥

पिष्ट्वाभ्रं सेचयेत्तेन षड्धा धाम्यं च सेचयेत् ।
सितामध्वाज्यगोक्षीरैस् तद्धौतं पेष्यमभ्रकम् ॥१६५॥

रुद्ध्वा षड्भिः पुटैः पाच्यं पिष्ट्वा चैव पुनः पुनः ।
मत्स्याक्ष्याश्चैकवीराया द्रवैः पिष्ट्वा त्रिधा पचेत् ॥१६६॥

एवं गजपुटैः पाच्यं निश्चन्द्रमयते ऽभ्रकम् ।
पत्त्राभ्रकस्य सिन्दूरं सर्वयोगेषु योजयेत् ॥१६७॥

षष्ठः प्रकारः

धान्याभ्रं मर्दयेद्यामं मत्स्याक्षीस्वरसैस्ततः ।
पचेद्गजपुटैरेवं सप्तधा तुलसीरसैः ॥१६८॥

कोकिलाक्षरसैः सप्त कुमारीस्वरसैस्तथा ।
श्वेतदूर्वारसैस्तद्वद्व्याघ्रीकन्दरसैस्तथा ॥१६९॥

पुनर्नवारसैः सप्त तद्वत् पञ्चामृतैस् ततः ।
निश्चन्द्रं जायते ह्यभ्रं सर्वयोगेषु योजयेत् ॥१७०॥

सप्तमः प्रकारः

धान्याभ्रं टङ्कणं तुल्यं गोमूत्रैस्तुलसीद्रवैः ।
वाकुच्या सूरणैर्नाल्या दिनं पिष्ट्वा पुटे पचेत् ॥१७१॥

द्रवैः पुनः पुनः पिष्ट्वा दिनान्तेषु पुटे पचेत् ॥१७२॥

रुद्ध्वा रुद्ध्वा पुटैस्त्वेवं निश्चन्द्रं चाभ्रकं भवेत् ।

अष्टमः प्रकारः

पिष्ट्वा साम्लारनालेन पेटालीमूलजत्वचम् ॥१७३॥

तद्द्रवैर्मर्दयेदभ्रं दिनं गजपुटे पचेत् ।
एवं सप्तपुटं कार्यं दध्ना च पुटसप्तकम् ॥१७४॥

यवचिञ्चाद्रवैस्तद्वन्निश्चन्द्रं जायतेऽभ्रकम् ।

नवमः प्रकारः

धान्याभ्रकं रविक्षीरै रविमूलद्रवैश्च वा ॥१७५॥

मर्द्यं मर्द्यं पुटे पच्यात्सप्तधा म्रियते ध्रुवम् ।

दशमः प्रकारः

धान्याभ्रकं तुषाम्लान्तरातपे स्थापयेद्दिनम् ॥१७६॥

यामं मर्द्यं तु तद्गोलं रुद्ध्वा गजपुटे पचेत् ।
एवं कार्पासतोयान्तः स्थाप्यं पाच्यं पुटे पचेत् ॥१७७॥

एवं गोक्षीरमध्यस्थं स्थाप्यं पेष्यं पुटे पचेत् ।
पश्चादम्लैश्च गोक्षीरैः कार्पासैश्च पुनः पुनः ॥१७८॥

घर्मपाकं मर्दनं च स्थालीपाकं पुटं क्रमात् ।
एकविंशत्पुटे प्राप्ते निश्चन्द्रं जायतेऽभ्रकम् ॥१७९॥

सर्वेषां घातिताभ्राणाम् अमृतीकरणे विधिः ।

अभ्रकस्य गुणाः

अभ्रकं गगनं भृङ्गं बहुपुत्रम् उमाभवम् ॥१८०॥

पत्राभ्रकस्य सिन्दूरममृतं परमं हितम् ।
त्रिदोषघ्नं बलकरं वृष्यमारोग्यदं शुचि ॥१८१॥

सर्वरोगहरं सौम्यं विषघ्नं च रसायनम् ।

चिन्नबर् > स्य्नोन्य्म्स्

हिङ्गुलो दरदं चूर्णपारदश्च रसोद्भवः ॥१८२॥

रसगर्भः सुरङ्गश्च लोहघ्नः सिद्धिपारदः ।

चिन्नबर् > सुब्त्य्पेस्

हिङ्गुलस्त्रिविधो ज्ञेयश्चर्मारः शुकतुण्डकः ॥१८३॥

हंसपादश्च तत्राद्यं तारकर्मणि योजयेत् ।
अधमं तं विजानीयाच्छुकतुण्डं च मध्यमम् ॥१८४॥

हेमतारक्रियामार्गे योजयेत्परमेश्वरि ।
हंसपादो महाश्रेष्ठः सर्वकर्मकरो हि सः ॥१८५॥

तस्य सत्त्वं सूत एव दरदस्य त्रिभेदतः ।

शुकतुण्ड > फ्य्स्. प्रोपेर्तिएस्

हेमकिट्टस्य सदृशस्तद्रूपस् तीक्ष्णमारकः ॥१८६॥

चर्मारस्तीक्ष्णरूपः स्यात्सुप्रीतः शुकतुण्डकः ।

हंसपाद > प्रोपेर्तिएस्

जपाकुसुमसङ्काशो हंसपादो महोत्तमः ॥१८७॥

रसायने सर्वसूतहरणे सर्वरञ्जने ।
लोहानां मारणे श्रेष्ठो वर्णोत्कर्षणकर्मणि ॥१८८॥

रसकस्य तथा रागबन्धे धौरेयकः स्मृतः ।
मलदोषादिकं नास्ति सर्वकार्येषु पूज्यते ॥१८९॥

हिङ्गुलशुद्धिः

मेषीक्षीरेण दरदमम्लवर्गैश्च भावितम् ।
सप्तवारं प्रयत्नेन शुद्धिमायाति निश्चितम् ॥१९०॥

हिङ्गुलसत्त्वपातनम्

दरदं पातनायन्त्रे पातितं च जलाशये ।
सत्त्वं सूतकसङ्काशं विमुञ्चति न संशयः ॥१९१॥

हिङ्गुलस्य गुणाः

ये गुणाः पारदे प्रोक्तास्ते गुणाः सन्ति हिङ्गुले ।
नवज्वरहरः प्रोक्तः सम्पातज्वरनाशनः ॥१९२॥

गैरिकम्

गैरिकं गिरिधातुः स्याद्रक्तधातुर्गवेधुकम् ।

गैरिक > सुब्त्य्पेस्

गैरिकं द्विविधं प्रोक्तं तत्राद्यं स्वर्णगैरिकम् ॥१९३॥

पाषाणगैरिकं चान्यत्पूर्वं श्रेष्ठतमं गुणैः ।

गैरिकस्य गुणाः

शोणितं मसृणं स्निग्धं स्वादु वृष्यं हिमं लघु ॥१९४॥

चक्षुष्यं रक्तपित्तघ्नं विषहिध्मावमिप्रणुत् ।
तापज्वरहरं श्रेष्ठं हेमघ्नं रक्तगैरिकम् ॥१९५॥

पाषाणगैरिक > फ्य्स्. प्रोपेर्तिएस्

पाषाणगैरिकं प्रोक्तं कठिनं ताम्रवर्णकम् ।

चपलः

देहवेधी लोहवेधी चपला रसबन्धिनी ॥१९६॥

चपला बहुभेदा च सर्वलोहस्वरूपतः ।
हेमस्तारो रविमयः सीसात्मा वङ्गरूपधृक् ॥१९७॥

तीक्ष्णरूपः कांस्यरूपो रक्तो विषमयस्तथा ।

चपलस्वरूपम्

सत्त्वलोहस्वरूपास्ते विषो हरितलोहभाक् ॥१९८॥

विषाख्यं चपलं प्राप्य निर्जीवे तस्य दापयेत् ।
पुटेनारण्यजैश् छाणैः सधूमं सर्वथा त्यजेत् ॥१९९॥

नश्येत तस्य धूमं वै स्पर्शनं दूरतस्त्यजेत् ।
अशनात्तस्य संस्पर्शान्म्रियते सद्य एव हि ॥२००॥

धूमावलोकनाच्छीर्षपीडा संजायते ज्वरः ।
एवं दत्तपुटे शान्ते गृह्णीयाच्चपलं ततः ॥२०१॥

चपलस्य गुणाः

तस्य संस्पर्शमात्रेण हीरको म्रियते क्षणात् ।
सर्वेषां चपलानां वै स्वभावः समुदाहृतः ॥२०२॥

वङ्गस्तम्भे नागराजे क्रमे वातीव शस्यते ।
सर्वलोहानि कुर्वन्ति सुवर्णं तारमेव च ॥२०३॥

युक्त्याथ शोधितः सूते विना बीजं च वा तथा ।
शतं वापि सहस्रं वा लक्षं कोटिं च वेधयेत् ॥२०४॥

वज्रेण रसराजेन बीजेन च समाश्रिता ।
धूमतो वेधयेल्लोहान् रसजीर्णः स्वयं गलेत् ॥२०५॥

निष्पत्य तेन देहस्य चपलेन महात्मना ।

शिलाजतु

अश्मजं गिरिजं शैलमश्मलाक्षा शिलाजतु ॥२०६॥

शिलाजतु > सुब्त्य्पेस्

शिलाधातुर्द्विधा प्रोक्तो गोमूत्राद्यो रसायनम् ।
कर्पूरपूर्वकश्चान्यस्तत्राद्यो द्विविधः स्मृतः ॥२०७॥

ससत्त्वश्चैव निःसत्त्वस्तयोः पूर्वो गुणाधिकः ।
ग्रीष्मे तीव्रार्कतप्तेभ्यः पादेभ्यो हिमभूभृतः ॥२०८॥

स्वर्णरूप्याकगर्भेभ्यः शिलाधातुर् विनिःसरेत् ।

शिलाजतोर्गुणाः

स्वर्णगर्भगिरेर् जातं जपापुष्पनिभं गुरु ॥२०९॥

ससत्त्वं स्वादु परमं परमं तद्रसायनम् ।
रूप्यगर्भगिरेर्जातं मधुरं पाण्डुरं गुरु ॥२१०॥

शिलाजं पाण्डुरोगघ्नं विशेषात्पित्तरोगजित् ।
ताम्रगर्भगिरेर्जातं नीलवर्णं घनं गुरु ॥२११॥

शिलाजं कफवातघ्नं तीक्ष्णोष्णं दीपनं परम् ।
वह्नौ क्षिप्तं भवेद्यत्तल्लिङ्गाकारं ह्यधूमकम् ॥२१२॥

सलिलेऽप्यवलीनं च तत्सिद्धं हि शिलाजतु ।
गोमूत्रगन्धि कृष्णं गुग्गुलुकाभं सशर्करं मृत्स्नम् ।
स्निग्धमनम्लकषायं मृदु गुरु च शिलाजतु श्रेष्ठम् ॥२१३॥

सर्वं च तिक्तकटुकं स्वादु नात्युष्णशीतलम् ॥२१४॥

वृष्यं त्रिदोषजिद्भेदि चक्षुष्यं च रसायनम् ।
क्षयशोफोदरार्शोघ्नं मेहमूत्रग्रहापहम् ॥२१५॥

नूनं सज्वरपाण्डुशोफशमनं मेहाग्निमान्द्यापहं मेदश्छेदकरं च यक्ष्मशमनं मूलामयोन्मूलनम् ।
प्लीहविनाशनं जठरहृच्छूलघ्नम् आमापहं सर्वत्वग्गदनाशनं किमपरं देहे च लोहे हितम् ॥२१६॥

रसोपरससूतेन्द्ररत्नलोहेषु ये गुणाः ।
वसन्ति ते शिलाधातौ जरामृत्युजिगीषया ॥२१७॥

भूनागः

भूनागः क्षितिनागश्च भूलता रक्तजन्तुकः ।
क्षितिजः क्षितिजन्तुश्च विषघ्नो रक्ततुण्डकः ॥२१८॥

यासां छेदे न रक्तं प्रभवति सततं प्रायशो रक्तभूमौ ।
संग्राह्या भूलतास्ता विषहरधनदं पातयेत्तासु सत्त्वम् ।
तद्युक्त्या पारदेन्द्रश्चरति यदि समं सारणायन्त्रयोगैः ।
बद्धोऽयं कोटिवेधी समरविरजते योजयेद्भास्करे वा ॥२१९॥

भूनागसत्त्वस्य गुणाः

सत्त्वं भूनागजं क्ष्वेलयक्षराक्षसमृत्युजित् ।
सर्ववश्यकरं सर्वरोगघ्नं च रसायनम् ॥२२०॥

रसेन्द्रे जारणाकर्मजारितं कोटिवेधकृत् ।
सुवर्णादीनि लोहानि रक्तानि ग्रसति क्षणात् ॥२२१॥

भूनागसत्त्वपातनम्॑ प्रथमः प्रकारः

रक्तभूजातभूनागमृत्तिकां क्षालयेज्जलैः ।
यावत् सत्त्वावशेषं स्याद् धौतसत्त्वं तदेव हि ॥२२२॥

मित्रपञ्चकयुक्तं तन्मूषायां धमयेद् दृढम् ।
निर्भिद्य मूषां तत्सत्त्वं गृहीत्वा किट्टकं पुनः ॥२२३॥

एवं त्रिवारं धमनात्सत्त्वशेषं समाहरेत् ।

द्वितीयः प्रकारः

भूनागमृत्तिकां भाण्डे भूनागैः सह निक्षिपेत् ॥२२४॥

षण्मासान्तं समान्तं वा जलैः सिञ्चेन्मुहुर्मुहुः ।
अस्य सत्त्वं विधानेन गृह्णीयाद् अभ्रसत्त्ववत् ॥२२५॥

तृतीयः प्रकारः

रक्तभूमिजभूनागान् पञ्जरस्थेन बर्हिणा ।
भक्षयेत्तु शरत्काले नित्यं तन्मलमाहरेत् ॥२२६॥

लाक्षासर्जरसः सर्जी गुग्गुलुर्मित्रपञ्चकम् ।
ऊर्णा क्षाराश्च पटवो नीलसर्पेन्द्रगोपकौ ॥२२७॥

मत्स्यश्च नीलसरटः कूर्मपृष्ठं शशास्थि च ।
माक्षीकं शिखिशंखतुत्थं च सर्वांशं बर्हिणो मलम् ॥२२८॥

सर्वं निक्षिप्य मूषायां धमेत् तीव्राग्निना दृढम् ।
निर्भिद्य मूषां तत्सत्त्वं गृहीत्वा किट्टकं पुनः ॥२२९॥

एवं त्रिवारधमनात् सत्त्वशेषं समाहरेत् ।

हरिद्राश्मा

हरिद्राश्मा निशाग्रावः पीताङ्गः पीतकर्षणः ॥२३०॥

तत्सत्त्वकं सितं स्वर्णं श्रेष्ठं रसरसायने ।

अग्निजारः

अग्निजारोऽग्निनिर्यासोऽप्यग्निगर्भो ऽग्निजः स्मृतः ॥२३१॥

वडबाग्निमलो ज्ञेयो जरायुश्चार्णवोद्भवः ।
अग्निज्वालोऽग्निजारश्च प्रोक्तः सिन्धुप्लवो दश ॥२३२॥

सामुद्रस्याग्निनक्रस्य जरायुर्बहिरुज्झितः ।
संशुष्को भानुतापेन सोऽग्निजार इति स्मृतः ॥२३३॥

जाराभं दहति स्पर्शात्पिच्छिलं सागरोत्प्लवम् ।
जरायुस्तच्चतुर्वर्णं श्रेष्ठं तेषु सलोहितम् ॥२३४॥

अग्निजारस्य गुणाः

स्यादग्निजारः कटुकोष्णवीर्यः तुन्दामयघ्नः कफवातहारी ।
पित्तप्रदः शोणितसन्निपातशूलादिवातामयनाशकश्च ॥२३५॥

अग्निजारस् त्रिदोषघ्नो धनुर्वातादिवातनुत् ।
मर्दनो रसवीर्यस्य दीपनो जारणस्तथा ॥२३६॥

खर्परी (रसकम्)

खर्परी रसकं तुत्थखर्पर्यमृतसम्भवा ।
रसको द्विविधः प्रोक्तो दर्दुरः कारवेल्लकः ॥२३७॥

सदंशो दर्दुरः प्रोक्तो निर्दंशः कारवेल्लकः ।
सत्त्वपाते शुभः पूर्वो द्वितीयश्चौषधादिषु ॥२३८॥

घनसत्त्वनिभं बाह्ये शुभं हारिद्रवत्ततः ।
अच्छं खर्परवत् तुत्थम् उत्तमं सतोदरम् ॥२३९॥

खर्पर्या गुणाः

रसकः सर्वदोषघ्नः कफपित्तविनाशनः ।
चक्षूरोगक्षयघ्नश्च लोहपारदरञ्जनः ॥२४०॥

नागार्जुनेन निर्दिष्टौ रसस्य रसकावुभौ ।
श्रेष्ठौ सिद्धरसौ ख्यातौ देहलोहकरौ परौ ॥२४१॥

रसश्च रसकश् चोभौ येनाग्निसहनौ कृतौ ।
देहलोहमयीं सिद्धिं दास्यतस्तु न संशयः ॥२४२॥

खर्परीसत्त्वपातनम्

जयन्तीत्रिफलाचूर्णं हरिद्रागुडटङ्कणम् ।
पादांशं रसकस्येदं पिष्ट्वा मूषाः प्रलेपयेत् ॥२४३॥

नलिकासम्पुटं बद्ध्वा शोषयेद् आतपे खरे ।
ग्राह्यं पातालयन्त्रेण सत्त्वं ध्माते पुटेऽथ वा ॥२४४॥

खर्परीशुद्धिः

रजस्वलारजोमूत्रै रसकं भावयेद्दिनम् ।
तैरेव दिनमेकं तु मर्दयेच्छुद्धिमाप्नुयात् ॥२४५॥

मयूरतुत्थम्

मयूरतुत्थं तुत्थं च नीलाश्मा ताम्रभस्म च ।
मयूरग्रीवकं क्ष्वेडनाशनं सस्यकं प्रिये ॥२४६॥

मयूरग्रीवसङ्काशं घृष्टे गोक्षीरसन्निभम् ।
अप्सु च प्लवते क्षिप्तमेतन्मायूरतुत्थकम् ॥२४७॥

अथवा शुकपिच्छाभमन्तः काञ्चनबिन्दुभिः ।
अङ्कितं घर्षयेत्तुत्थम् आयसे चाम्लसंयुते ॥२४८॥

भवेद् अयस्ताम्रनिभम् एतन्मायूरतुत्थकम् ।

मयूरतुत्थशुद्धिः

विष्ठया मर्दयेत्तुत्थं मार्जारककपोतयोः ॥२४९॥

दशांशं टङ्कणं दत्त्वा पाच्यं मृदुपुटे ततः ।
पुटं दध्ना पुटं क्षौद्रैर्देयं तुत्थविशुद्धये ॥२५०॥

मयूरतुत्थसत्त्वपातनम्

तुत्थं च टङ्कणं चैव तुल्यं श्लक्ष्णं विमर्दयेत् ।
मूषायां तं विनिक्षिप्य रुद्ध्वा तीव्राग्निना धमेत् ॥२५१॥

इन्द्रगोपनिभं सत्त्वं पतत्येव न संशयः ।

मयूरतुत्थस्य गुणाः

तुत्थं कटुकषायोष्णं श्वित्रनेत्रामयापहम् ॥२५२॥

विषदोषेषु सर्वेषु प्रशस्तं कान्तिकारकम् ।

कङ्कुष्ठ > स्य्नोन्य्म्स्

कङ्कुष्ठं काककुष्ठं च रेचकं रागदायकम् ॥२५३॥

कङ्कुष्ठ > सुब्त्य्पेस्

कंकुष्ठं च द्विधा प्रोक्तं हेमतारात्मकं तथा ।

कङ्कुष्ठ > मेदिच्. प्रोपेर्तिएस्

व्रणजन्तुज्वरघ्नं च शूलोदावर्तगुल्महृत् ॥२५४॥

गिरिसिन्दूरम्

महागिरिषु चाल्लोव पाषाणान्तस्थितो रसः ।
शुष्कः शोणः स निर्दिष्टो गिरिसिन्दूरसंज्ञया ॥२५५॥

त्रिदोषशमनं भेदि रसबन्धनकारकम् ।
देहलोहकरं नेत्र्यं गिरिसिन्दूरमीरितम् ॥२५६॥

टङ्कणम्

टङ्कणं टङ्कणक्षारो रसक्षारो रसाधिकः ।
लोहद्रावी रसघ्नश्च सुभगो रङ्गदश्च सः ॥२५७॥

मालतीतीरसम्भूतः क्षारश्रेष्ठो नवाह्वयः ।
अश्मरीमतिसारं च निहन्यात्स्थावरं विषम् ॥२५८॥

रससिद्धिकरः प्रोक्तो नागार्जुनपुरःसरैः ।

कम्पिल्लकः

इष्टचूर्णस्य सङ्काशश्चन्द्रिकाढ्योऽतिरेकः ॥२५९॥

सौराष्ट्रदेशखनिजः स हि कम्पिल्लको मतः ।
पित्तव्रणाध्मानविबन्धनघ्नः श्लेष्मोदरार्तिक्रिमिगुल्महारी ।
मूलामशूलज्वरशोफहारी कंपिल्लको रिच्य मलापहारी ॥२६०॥

वत्सनाभिः

उत्पत्यादि विषस्यादौ कथितं हि रसायनम् ॥२६१॥

अमृतं स्याद्वत्सनाभो विषम् उग्रं महौषधम् ।
गरलं मरणं नागः स्तोककं प्राणहारकम् ॥२६२॥

सर्वकुष्ठहरं प्रोक्तं सर्वव्याधिविनाशनम् ।
सन्निपातादिरोगाणां विनिवृत्तिकरं प्रिये ॥२६३॥

कासीस > स्य्नोन्य्म्स्

कासीसं धातुकासीसं केसरं हंसलोमशम् ।
शोधनं पांशुकासीसं शुभ्रं सत्त्वाह्वयं मतम् ॥२६४॥

कासीस > सुब्त्य्पेस्

कासीसं त्रिविधं शुभ्रं कृष्णं पीतमिति स्मृतम् ।
कासीसं पुष्पकासीसं हीरकासीसमित्यथ ॥२६५॥

पीतं कृष्णं सितं रक्तं चतुर्धेति परे जगुः ।

कासीस > मेदिच्. प्रोपेर्तिएस्

कासीसमुष्णं सक्षारकषायाम्लं सतिक्तकम् ॥२६६॥

वातश्लेष्मप्रशमनं चक्षुष्यं रञ्जकं परम् ।
मूत्रकृच्छ्राश्मरीकुष्ठकण्डूव्रणविषापहम् ॥२६७॥

गौरीपाषाणकः

गौरीपाषाणकः पीतो व्यक्तदेहश्च चूर्णकः ।
रसबन्धकरः स्निग्धो दोषघ्नो रसवीर्यकृत् ॥२६८॥

तुवरी फटकी च

भूमिस्तुवरिका फुल्लतुवरी रञ्जिका क्षितिः ।
चित्रभूश् चीनकारश्च मञ्जिष्ठारागदायिनी ॥२६९॥

खगस्तु फटकी दुग्धपाषाणो नेत्ररोगहा ।
कर्पूराख्यशिलाधातुर् मञ्जिष्ठारागरञ्जकः ॥२७०॥

पोदारशृङ्गी

सदलं पीतवर्णं च भवेद्गुर्जरमण्डले ।
अर्जुनस्य गिरेः पार्श्वे जातं पोदारशृङ्गिकम् ॥२७१॥

सीससत्त्वं मरुच्छ्लेष्मशमनं पुङ्गदापहम् ।
रसबन्धनम् उत्कृष्टं केशरञ्जनमुत्तमम् ॥२७२॥

सिन्दूर > स्य्नोन्य्म्स्

सिन्दूरनागगर्भे सैमन्तिकवीरपांसु नागभवम् ।
रक्तं च नागरेणुः गणपतिभूषा सुरङ्ग इत्याख्या ॥२७३॥

सौभाग्यं चैव शृङ्गारं मङ्गल्यम् अरुणं रजः ।

सिन्दूर > मेदिच्. प्रोपेर्तिएस्

सिन्दूरं कटुकं तिक्तमुष्णं व्रणविरोपणम् ॥२७४॥

किलासविषकण्डूतिविसर्पशमनं परम् ।
हिङ्गुले ये गुणाः सन्ति ते गुणास्तिमुरौ प्रिये ॥२७५॥

रसाञ्जनम्

रसाञ्जनं रसोद्भूतं रसगर्भं रसाग्रजम् ।
रीत्यां तु धाम्यमानायां तत्किट्टं तु रसाञ्जनम् ॥२७६॥

तदभावे तु कर्तव्यं दार्वीक्वाथसमुद्भवम् ।
कृतकं बालभैषज्यं दार्वीक्वाथोद्भवं तथा ॥२७७॥

दार्वीक्वाथभवं कण्ठविकासि क्षिप्तम् अक्ष्णि यत् ।
तद् रसाञ्जनमुद्दिष्टं कषायं कटु तिक्तकम् ॥२७८॥

किंचिद् उष्णं कफहरं छेदनं लेखनं लघु ।
रक्तपित्तप्रशमनं नेत्ररोगविनाशनम् ॥२७९॥

रसाञ्जनं तार्क्ष्यशैलं ज्ञेयं वर्यञ्जनं तथा ।
रसनाभं चाग्निसारं द्वादशाह्वयकीर्तितम् ॥२८०॥

नीलाञ्जनम्

नीलं नीलाञ्जनं चैव चक्षुष्यं वारिसम्भवम् ।
कपोतकं च कापोतं सम्प्रोक्तं शक्रभूमिजम् ॥२८१॥

शीतं नीलाञ्जनं प्रोक्तं कटुतिक्तकषायकम् ।
चक्षुष्यं कफवातघ्नं विषघ्नं च रसायनम् ॥२८२॥

सौवीराञ्जनम्

सौवीरमञ्जनं स्निग्धमवघृष्टं शिलातले ।
अञ्जनाभं शिलारूपमेतच्छ्रेष्ठम् अकृत्रिमम् ॥२८३॥

सौवीरमञ्जनं चैव रक्तपित्तहरं हितम् ।
विषहिध्माक्षिरोगघ्नं व्रणशोधनरोपणम् ॥२८४॥

स्रोतोञ्जन > स्य्नोन्य्म्स्

स्रोतोद्भवं स्रोतनदीभवं च स्रोतोञ्जनं वारिभवं तथान्यम् ।
सौवीरसारं च कपोतसारं वल्मीकशीर्षं मुनिसंमिताह्वम् ॥२८५॥

वल्मीकशिखराकारं भङ्गे नीलोत्पलद्युतिः ।
घर्षणे गैरिकच्छायं स्रोतोञ्जनमिदं भवेत् ॥२८६॥

स्रोतोञ्जन > मेदिच्. प्रोपेर्तिएस्

स्रोतोऽञ्जनं शीतकटुकषायं क्रिमिनाशनम् ।
रसायनं रसे योज्यं स्तन्यवृद्धिकरं परम् ॥२८७॥

स्रोतोऽञ्जनं हिमं स्निग्धं तृष्णाहृत्स्वादु लेखनम् ।
नेत्र्यं हिध्मावमिच्छर्दिकफपित्तास्रकोपनुत् ॥२८८॥

अहिफेनम्

श्रान्तस्य मथनाक्षोभाद् वासुकेर् वदनोत्थिताः ।
द्वीपान्तरे पतन्ति स्म सविषाः स्वेदबिन्दवः ॥२८९॥

यत्र यत्र पतन्ति स्म प्ररूढा गुल्मरूपतः ।
तेषु जातं तु निर्यासमफेनं ब्रुवते जनाः ॥२९०॥

चतुर्विधमफेनं स्याज्जारणं मारणं तथा ।
धारणं सारणं चैव क्रमाद्वक्ष्यामि लक्षणम् ॥२९१॥

श्वेतं तु जारणं प्रोक्तं कृष्णवर्णं तु मारणम् ।
धारणं पीतवर्णं च कर्बुरं सारणं तथा ॥२९२॥

जारणं जरयेदन्नं मारणं मृत्युदायकम् ।
धारणं च वयःस्तम्भं सारणं मलसारकम् ॥२९३॥

अफेनं सन्निपातघ्नं वृष्यं बल्यं च मोहदम् ।
ग्रहणीमतिसारं च नाशयेत्षण्डतामपि ॥२९४॥

पुष्पाञ्जन > स्य्नोन्य्म्स्

पुष्पाञ्जनं पुष्पकेतुः कौस्तुभः कुसुमाञ्जनम् ।
रीतिकं रीतिकुसुमं रीतिपुष्पं च पुष्पकम् ॥२९५॥

पुष्पाञ्जन > मेदिच्. प्रोपेर्तिएस्

पुष्पाञ्जनं हितं प्रोक्तं पित्तहिक्काप्रदाहनुत् ।
नाशयेद् विषकासार्तिसर्वनेत्रामयापहम् ॥२९६॥

शङ्ख

शङ्खोऽर्णवभवः कम्बुर् जलजः पावनध्वनिः ।
कुटिलोऽन्तर्महानादः श्वेतपीतः सुनादकः ॥२९७॥

सस्वनो दीर्घनादश्च बहुनादो हरप्रियः ।
क्षुल्लकः क्षुद्रशङ्खः स्याच्छंबूको नखशङ्खकः ॥२९८॥

शङ्खः कटुरसः शीतः पुष्टिवीर्यबलप्रदः ।
गुल्मशूलकफश्वासनाशनो विषदोषहा ॥२९९॥

क्षुल्लकः कटुकः स्निग्धः शूलहारी च दीपनः ।
शुक्तिर् मुक्ताप्रसूश्चैव महाशुक्तिश्च शुक्तिका ॥३००॥

मुक्तास्फोटस्तौतिकस्तु मौक्तिकप्रसवा च सा ।
ज्ञेया मौक्तिकसूश्चैव मुक्तामाता तथा स्मृता ॥३०१॥

मुक्ताशुक्तिः कटुः स्निग्धा श्वासहृद्रोगहारिणी ।
शूलप्रशमनी रुच्या मधुरा दीपनी परा ॥३०२॥

जलशुक्तिः क्षुद्रशुक्तिः क्रिमिसुस्फुटिका च सा ।
जलशुक्तिः कटुः स्निग्धा दीपनी गुल्मशूलनुत् ॥३०३॥

तथा विषहरा रुच्या पाचनी बलदायिनी ।

कपर्द

कपर्दको वराटश्च कपर्दश्च वराटिका ॥३०४॥

चराचरश्चरो वर्यो बालक्रीडनकश्च स ।
पीताभा ग्रन्थिला पृष्ठे दीर्घवृत्ता वराटिका ॥३०५॥

रसवैद्यैर्विनिर्दिष्टा सा चराचरसंज्ञका ।
सार्धनिष्कभरा श्रेष्ठा निष्कभारा च मध्यमा ॥३०६॥

पादोननिष्कभारा च कनिष्ठा परिकीर्तिता ।
परिणामादिशूलघ्नी ग्रहणीक्षयनाशनी ॥३०७॥

कटूष्णा दीपनी वृष्या नेत्र्या वातकफापहा ।
रसेन्द्रजारणे प्रोक्ता बिडद्रव्येषु शस्यते ॥३०८॥

तदन्ये पुंवराटाः स्युर् गुरवः श्लेष्मपित्तलाः ।
कपर्दः कटुतिक्तोष्णः कर्णशूलव्रणापहः ॥३०९॥

गुल्मशूलामयघ्नश्च नेत्रदोषनिकृन्तनः ।

साबुणि

सर्वक्षारो बहुक्षारः समूहक्षारसाबुणिः ॥३१०॥

स्तोमक्षारो महाक्षारो मलारिः क्षारमेलकः ।
सर्वक्षारम् अतिक्षारं चक्षुष्यं बस्तिशोधनम् ॥३११॥

उदावर्तक्रिमिघ्नं च बिडवद्वस्त्रशोधनम् ।

नवसार

करीरपीलुकाष्ठेषु पच्यमानेष्टकोद्भवः ॥३१२॥

क्षारोऽसौ नवसारः स्याच्चूलिकालवणाभिधः ।
रसेन्द्रजारणं लोहद्रावणं जठराग्निकृत् ॥३१३॥

गुल्मप्लीहास्यशोषघ्नं भुक्तमांसादिजारणम् ।

सौराष्ट्री

गोपित्तेन शतं वारान्सौराष्ट्रीं भावयेत्ततः ॥३१४॥

धमित्वा पातयेत्सत्वं क्रामणं चातिगुह्यकम् ।

आखुपाषाण

मूषकस्याभिधा पूर्वं पाषाणस्याभिधा ततः ॥३१५॥

आखुपाषाणनामायं लोहसङ्करकारकः ।
आखुग्रावा सरो रूक्षो वमिशीतज्वरापहः ॥३१६॥

तारकर्मणि संपूज्यो मेदोदुर्मांसकृन्तनः ।

सर्जरस

रालः सर्जरसश्चैव यक्षधूपो ऽग्निवल्लभः ॥३१७॥

देवेष्टः शालनिर्यासः सुरभिर् धूपवल्लभः ।
रालस्तु पञ्चधा प्रोक्तो रक्तः पीतः सितोऽसितः ॥३१८॥

नानावर्णश्च विज्ञेयः कृष्णस्तेषु गुणोत्तरः ।
रालस्तु शिशिरः स्निग्धः कषायस्तिक्तको रसे ॥३१९॥

वातपित्तहरः स्फोटकण्डूतिव्रणनाशनः ।

गुग्गुलु

दानवेन्द्रविजितान्पुरा सुरान् भ्रष्टकान्तिधृतिधैर्यतेजसः ।
वीक्ष्य विष्णुरमृतं किलासृजत् गुग्गुलुं बलवपुर्जयप्रदम् ॥३२०॥

मरुभूमिषु जायन्ते प्रायशः पुरपादपाः ॥३२१॥

भानोर् मयूखैः संतप्ता ग्रीष्मे मुञ्चन्ति गुग्गुलुम् ।
गुग्गुलुः पञ्चधा प्रोक्तो महिषाक्षश्च नीलकः ॥३२२॥

पद्मस्तु कुमुदश्चैव सुवर्णः पञ्चमः प्रिये ।
महिषाक्षश्च नीलश्च दन्तिनां गुणदायकौ ॥३२३॥

वाजिनां कुमुदः पद्मो नराणां स्वर्णवर्णकः ।
एरण्डबीजतैले वा तिलतैलेऽथवा घृते ॥३२४॥

पञ्चतिक्तशृतैः क्वाथैः शुद्धिं कुर्यात्सुगुग्गुलुम् ।
दोलायन्त्रे पचेत्तावद्यावन्निर्मलता भवेत् ॥३२५॥

एवं विशुद्धं संग्राह्यं तत्तद्योगेषु योजयेत् ।
पिटकागण्डमालाद्या नश्यन्ति च मरुद्गदाः ॥३२६॥

यवक्षार

यवक्षारोऽमृतः पाक्यो यवजो यवशूकजः ।
यवशूको यवाह्वश्च यवपाक्यो यवारुजः ॥३२७॥

यवक्षारः कटूष्णश्च कफवातोदरार्तिनुत् ।
आमशूलाश्मरीकृच्छ्रविषदोषहरः परः ॥३२८॥

सर्जक्षार

सद्यःक्षारः सर्जिकश्च क्षारः सज्जी सुवर्जिकः ।
सर्जीकः कटुरूक्षश्च तीक्ष्णो वातकफार्तिनुत् ॥३२९॥

गुल्मानाहवमिघ्नश्च मेहजाठररोगहृत् ।

लवणक्षार

लोणारं लवणोत्थं लवणासुरं च लवणमेदश्च ॥३३०॥

जतुजं लवणक्षारं लवणं च क्षारलवणं च ।
लोणकक्षारम् अत्युष्णं तीक्ष्णं पित्तप्रवृद्धिदम् ॥३३१॥

क्षारं लवणम् ईषच्च वातगुल्मादिशूलनुत् ।

वज्रकक्षार

वज्रकं वज्रकक्षारं क्षारश्रेष्ठं विदारकम् ॥३३२॥

सारं चन्दनसारं च धूमोत्थं धूमजं गजाः ।
वज्रकक्षारम् अत्युष्णं तीक्ष्णं क्षारं च रोधनम् ॥३३३॥

गुल्मोदरार्तिविष्टम्भशूलप्रशमनं परम् ।

सामुद्रलवण

सामुद्रकं तु सामुद्रं सामुद्रलवणं शिवम् ॥३३४॥

सेअ सल्त् > मेदिच्. प्रोपेर्तिएस्

सामुद्रं लघु हृद्यं च वारितासृजपित्तलम् ।
विदाहि कफवातघ्नं दीपनं रुचिकृत् प्रियम् ॥३३५॥

सैन्धव

सैन्धवं स्याच्छीतशिवं नादेयं सिन्धुजं शिवम् ।
शुद्धं शिवात्मकं पथ्यं माणिमन्थं नवाभिधम् ॥३३६॥

सैन्धवं लवणं वृष्यं चक्षुष्यं दीपनं रुचि ।
पूतं नस्यात्त्रिदोषघ्नं व्रणदोषविबन्धजित् ॥३३७॥

सैन्धवं द्विविधं ज्ञेयं सितं रक्तमिति क्रमात् ।
रसवीर्यविपाकेषु गुणाढ्यं पूतनं सितम् ॥३३८॥

काचलवण

नीलकाचोद्भवं काचतिलकं चैव काचसम्भवम् ।
काकसौवर्चलं काचलवणं पाक्यजं स्मृतम् ॥३३९॥

काचोत्थं हृद्यगन्धं च तत्काललवणं तथा ।
कुरुविन्दं काचमलं कतिमं च चतुर्दश ॥३४०॥

काचाख्यं लवणं रुच्यमीषत्क्षारं सपित्तलम् ।
दाहदं कफवातघ्नं दीपनं गुल्मशूलहृत् ॥३४१॥

बिडलवण

बिडं च बिडकं खण्डं कृतक्षारं च आसुरम् ।
सुपाक्यं लवणं खण्डं धूर्तं कृत्रिमकं दश ॥३४२॥

बिडम् उष्णं सलवणं दीपनं वातनाशनम् ।
रुच्यं चाजीर्णशूलघ्नं गुल्ममेहविनाशनम् ॥३४३॥

सौवर्चल

सौवर्चलं च रुचकं तिलकं हृद्यगन्धकम् ।
अक्षं च कृष्णलवणं रुच्यं कोद्रविकं तथा ॥३४४॥

सौवर्चल > मेदिच्. प्रोपेर्तिएस्

सौवर्चलं लघु क्षारं कटूष्णं गुल्मशूलनुत् ।
ऊर्ध्ववातामशूलार्तिविबन्धारोचकं जयेत् ॥३४५॥

अम्लवेतस

अम्लोऽम्लवेतसो वेधी रसाम्लो वीतवेतसः ।
वेतसारश् चाम्लसारः शरवेधी च वेधकः ॥३४६॥

नीलश्च भेदनो भेदी राजाम्लश्चाम्लभेदनः ।
अम्लाङ्कुशो रक्तसारः फलाम्लश्चाम्लनायकः ॥३४७॥

सहस्रवेधी वीराम्लो गुल्मकेतुर् धराक्षिधा ।
शङ्खमांसादिद्रावी स्यद् द्विधा चैवाम्लवेतसः ॥३४८॥

अम्लवेतसमत्यम्लं कषायोष्णामवातजित् ।
कफार्शःसमगुल्मामम् अरोचकहरं परम् ॥३४९॥

काच

काचस् तुषारसारश्च रसखोटमलापहः ।
शृङ्गारी चाभ्रधारी च सर्वनेत्रामयापहा ॥३५०॥

छगण

पिष्टकं छगणश्छाणमुत्पलं च वनोत्पलम् ।
करिण्डोपलशाठी च वरटी छगणाभिधा ॥३५१॥

रसलोहदोषहारि ख्यातं तद्भस्म दुरितसंहृतये ।

अङ्गार

शिखित्राः पावकोच्छिष्टा अङ्गाराः कोलिशा मताः ॥३५२॥

कोकिलाश्चेति चाङ्गारा निर्वाणाः पयसा विना ।

सिकता

सिकता प्रवाहजनिता सिक्ता पानीयचूर्णका सूक्ष्मा ॥३५३॥

सा वालुका श्रमघ्नी संसेकात्सन्निपातघ्नी ।

उपरसशोधन

कासीसं भावयेद् घर्मे दिनं जम्बीरजैर्द्रवैः ॥३५४॥

शुध्यते टङ्कणं गैरी कङ्कुष्ठं च वराटिका ।
शङ्खं नीलाञ्जनं चैव पृथक् शोध्यं दिने दिने ॥३५५॥

गोदुग्धैस्त्रिफलाक्वाथैर् भृङ्गद्रावैः शिलाजतु ।
मर्दयेदायसे पात्रे दिनैकं तच्च शुध्यति ॥३५६॥

मेषीक्षीरेण दरदमम्लवर्गैश्च भावितम् ।
सप्तवारं प्रयत्नेन शुद्धिमायाति निश्चयम् ॥३५७॥

सूर्यावर्तं वज्रकन्दं कदली देवदालिका ।
शिग्रुः कोशातकी वन्ध्या काकमाची च वालुका ॥३५८॥

आसामेकरसेनैव त्रिक्षारैर् लवणैः सह ।
भावयेदम्लवर्गैश्च दिनमेकं प्रयत्नतः ॥३५९॥

सौवीरं कान्तपाषाणः शुद्धा भूनागमृत्तिका ।
सर्वे उपरसाश्चाथ पृथग्भाव्यं दिनं दिनम् ॥३६०॥

ततः पाच्यं च तद्द्रावैर्डोलायन्त्रे दिनं सुधीः ।
शुध्यन्ते नात्र सन्देहः सर्वे उपरसाः पृथक् ॥३६१॥

पुनर्नवामेघनादकपिजम्बीरतिन्दुकैः ।
अगस्तिपुष्पकुमुदयवचिञ्चाम्लवेतसैः ॥३६२॥

वनसूरणभूधात्रीमण्डूकीकरवीरकैः ।
कारवल्लीक्षीरकन्दरक्तोत्पलशमीघनैः ॥३६३॥

मेषशृङ्गीशशवसाशक्रवारुणिटङ्कणैः ।
तैलमत्स्यवसाव्योषद्रवैर् एतैः सकाञ्जिकैः ॥३६४॥

एतैः समस्तैर् व्यस्तैर्वा डोलायन्त्रे दिनत्रयम् ।
अभ्रपत्राद्युपरसान् शुद्धिहेतोः प्रपाचयेत् ॥३६५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:48:48.7000000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

बुद्धि दगडाची, कृति शूराची

  • बुद्धिहीन मनुष्यहि पराक्रमी असूं शकतो. 
RANDOM WORD

Did you know?

why treeepad veedhee ? narrate
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.