लघुसिद्धान्तकौमुदी - भाग ६

‘लघुसिद्धान्तकौमुदी’ पाणिनीय संस्कृत व्याकरणाची एक (अष्टाध्यायी) परम्परागत प्रवेशिका आहे.
A Complete introduction to Panini Sutras for the use of beginners.


अथ नामधातवः

सुप आत्मनः क्यच्॥ लसक_७२३ = पा_३,१.८॥
इषिकर्मण एषितुः संबन्धिनः सुबन्तादिच्छायामर्थे क्यच् प्रत्ययो वा स्यात्॥

सुपो धातुप्रातिपदिकयोः॥ लसक_७२४ = पा_२,४.७१॥
एतयोरवयवस्य सुपो लुक्॥

क्यचि च॥ लसक_७२५ = पा_७,४.३३॥
अवर्णस्य ईः। आत्मनः पुत्रमिच्छति पुत्रीयति॥

नः क्ये॥ लसक_७२६ = पा_१,४.१५॥
क्यचि क्यङि च नान्तमेव पदं नान्यत्। नलोपः। राजीयति। नान्तमेवेति किम्? वाच्यति। हलि च। गीर्यति। पूर्यति। धातोरित्येव। नेह - दिवमिच्छति दिव्यति॥

क्यस्य विभाषा॥ लसक_७२७ = पा_६,४.५०॥
हलः परयोः क्यच्क्यङारेलोपो वार्धधातुके। आदेः परस्य। अतो लोपः। तस्य स्थानिवत्त्वाल्लघूपधगुणो न। समिधिता, समिध्यिता॥

काम्यच्च॥ लसक_७२८ = पा_३,१.९॥
उक्तविषये काम्यच् स्यात्। पुत्रमात्मन इच्छति पुत्रकाम्यति। पुत्रकाम्यिता॥

उपमानादाचारे॥ लसक_७२९ = पा_३,१.१०॥
उपमानात्कर्मणः सुबन्तादाचारेर्ऽथे क्यच्। पुत्रमिवाचरति पुत्रीयति छात्रम्। विष्णूयति द्विजम्॥ (सर्वप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः)। अतो गुणे। कृष्ण इवाचरति कृष्णति। स्व इवाचरति स्वति। सस्वौ॥

अनुनासिकस्य क्विझलोः क्ङिति॥ लसक_७३० = पा_६,४.१५॥
अनुनासिकान्तस्योपधाया दीर्घः स्यात्क्वौ झलादौ च क्ङिति। इदमिवाचरति इदामति। राजेव राजानति। पन्था इव पथीनति॥

कष्टाय क्रमणे॥ लसक_७३१ = पा_२,१.१४॥
चतुर्थ्यन्तात् कष्टशब्दादुत्साहेर्ऽथे क्यङ् स्यात्। कष्टाय क्रमते कष्टायते। पापं कर्तुमुत्सहत इत्यर्थः॥

शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे॥ लसक_७३२ = पा_३,१.१७॥
एभ्यः कर्मभ्यः करोत्यर्थे क्यङ् स्यात्। शब्दं करोति शब्दायते॥ (ग.सू) तत्करोति तदाचष्टे॑ इति णिच्॥ (ग.सू) प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च। प्रातिपदिकाद्धात्वर्थे णिच् स्यात्, इष्ठे यथा प्रातिपदिकस्य पुंवद्भाव-रभाव-टिलोप- विन्मतुब्लोप-यणादिलोप-प्रस्थस्फाद्यादेश-भसंज्ञास्तद्वण्णावपि स्युः। इत्यल्लोपः। घटं करोत्याचष्टे वा घटयति॥

इति नामधातवः
*
अथ कण्ड्वादयः॥

कण्ड्वादिभ्यो यक्॥ लसक_७३३ = पा_३,१.२७॥
एभ्यो धातुभ्यो नित्यं यक् स्यात्स्वार्थे। कण्डूञ् गात्रविघर्षणे॥ १॥ कण्डूयति। कण्डूयत इत्यादि॥

इति कण्ड्वादयः॥

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP