लघुसिद्धान्तकौमुदी - भाग २

‘लघुसिद्धान्तकौमुदी’ पाणिनीय संस्कृत व्याकरणाची एक (अष्टाध्यायी) परम्परागत प्रवेशिका आहे.
A Complete introduction to Panini Sutras for the use of beginners.


अथाच्सन्धिः

इको यणचि॥ लसक_१५ = पा_६,१.७७॥
इकः स्थाने यण् स्यादचि संहितायां विषये। सुधी उपास्य इति स्थिते॥

तस्मिन्निति निर्दिष्टे पूर्वस्य॥ लसक_१६ = पा_१,१.६६॥
सप्तमीनिर्देशेन विधीयमानं कार्यं वर्णान्तरेणाव्यवहतिस्य पूर्वस्य बोध्यम्॥

स्थाने ऽन्तरतमः॥ लसक_१७ = पा_१,१.५०॥
प्रसङ्गे सति सदृशतम आदेशः स्यात्। सुध्य् उपास्य इति जाते॥

अनचि च॥ लसक_१८ = पा_८,४.४७॥
अचः परस्य यरो द्वे वा स्तो न त्वचि। इति धकारस्य द्वित्वेन सुध्ध्य् उपास्य इति जाते॥

झलां जश् झशि॥ लसक_१९ = पा_८,४.५३॥
स्पष्टम्। इति पूर्वधकारस्य दकारः॥

संयोगान्तस्य लोपः॥ लसक_२० = पा_८,२.२३॥
संयोगान्तं यत्पदं तदन्तस्य लोपः स्यात्॥

अलो ऽन्त्यस्य॥ लसक_२१ = पा_१,१.५२॥
षष्ठीनिर्दिष्टाऽन्त्यस्याल आदेशः स्यात्। इति यलोपे प्राप्ते - (यणः प्रतिषेधो वाच्यः)। सुद्ध्युपास्यः। मद्धरिः। धात्रशः। लाकृतिः॥

एचो ऽयवायावः॥ लसक_२२ = पा_६,१.७८॥

एचः क्रमादय् अव् आय् आव् एते स्युरचि॥

यथासंख्यमनुदेशः समानाम्॥ लसक_२३ = पा_१,३.१०॥
समसंबन्धी विधिर्यथासंख्यं स्यात्। हरये। विष्णवे। नायकः। पावकः॥

वान्तो यि प्रत्यये॥ लसक_२४ = पा_६,१.७९॥
यकारादौ प्रत्यये परे ओदौतोरव् आव् एतौ स्तः। गव्यम्। नाव्यम्। (अध्वपरमाणे चि)। गव्यूतिः॥

अदेङ् गुणः॥ लसक_२५ = पा_१,१.२॥
अत् एङ् च गुणसंज्ञः स्यात्॥

तपरस्तत्कालस्य॥ लसक_२६ = पा_१,१.७०॥
तः परो यस्मात्स च तात्परश्चोच्चार्यमाणसमकालस्यैव संज्ञा स्यात्॥

आद्गुणः॥ लसक_२७ = पा_६,१.८७॥
अवर्णादचि परे पूर्वपरयोरेको गुण आदेशः स्यात्। उपेन्द्रः। गङ्गोदकम्॥

उपदेशे ऽजनुनासिक इत्॥ लसक_२८ = पा_१,३.२॥
उपदेशे ऽनुनासिको ऽजित्संज्ञः स्यात्। प्रतिज्ञानुनासिक्याः पाणिनीयाः। लण्सूत्रस्थावर्णेन सहोच्चार्यमाणो रेफो रलयोः संज्ञा॥

उरण् रपरः॥ लसक_२९ = पा_१,१.५१॥
ऋ इति त्रिंशतः संज्ञेत्युक्तम्। तत्स्थाने यो ऽण् स रपरः सन्नेव प्रवर्तते। कृष्णर्द्धिः। तवल्कारः॥

लोपः शाकल्यस्य॥ लसक_३० = पा_८,३.१९॥
अवर्णपूर्वयोः पदान्तयोर्यवयोर्लोपो वाशि परे॥

पूर्वत्रासिद्धम्॥ लसक_३१ = पा_८,२.१॥
सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धा, त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रमसिद्धम्। हर इह, हरयिह। विष्ण इह, विष्णविह॥

वृद्धिरादैच्॥ लसक_३२ = पा_१,१.१॥
आदैच्च वृद्धिसंज्ञः स्यात्॥

वृद्धिरेचि॥ लसक_३३ = पा_६,१.८८॥
आदेचि परे वृद्धिरेकादेशः स्यात्। गुणापवादः। कृष्णैकत्वम्। गङ्गौघः। देवैश्वर्यम्। कृष्णौत्कण्ठ्यम्॥

एत्येधत्यूठ्सु॥ लसक_३४ = पा_६,१.८९॥
अवर्णादेजाद्योरेत्येधत्योरूठि च परे वृद्धिरेकादेशः स्यात्। उपैति। उपैधते। प्रष्ठौहः। एजाद्योः किम् ? उपेतः। मा भवान्प्रेदिधत्। (अक्षादूहन्यामुपिसंख्यानम्)। अक्षौहणी सेना। (प्रादूहोढोढ्येषैष्येषु)। प्रौहः। प्रौढः। प्रौढिः। प्रैषः। प्रैष्यः। (ऋते च तृतीयासमासे)। सुखेन ऋतः सुखार्तः। तृतीयेति किम् ? परमर्तः। (प्रवत्सतरकम्बलवसनार्णदशानामृणे)। प्रार्णम्, वत्सतर्राणम्, इत्यादि॥

उपसर्गाः क्रियायोगे॥ लसक_३५ = पा_१,४.५९॥
प्रादयः क्रियायोगे उपसर्गसंज्ञाः स्युः। प्र परा अप सम् अनु अव निस् निर दुस् दुर वि आङ् नि अधि अपि अति सु उत् अभि प्रति पर उपि - एते प्रादयः॥

भूवादयो धातवः॥ लसक_३६ = पा_१,३.१॥
क्रियावाचिनो भ्वादयो धातुसंज्ञाः स्युः॥

उपसर्गादृति धातौ॥ लसक_३७ = पा_६,१.९१॥
अवर्णान्तादुपसर्गाद्दकारादौ धातौ परे वृद्धिरेकादेशः स्यात्। प्रार्च्छति॥

एङि पररूपम्॥ लसक_३८ = पा_६,१.९४॥
आदुपसर्गादेङादौ धातौ पररूपमेकादेशः स्यात्। प्रेजते। उपोषति॥

अचो ऽन्त्यादि टि॥ लसक_३९ = पा_१,१.६४॥
अचां मध्ये यो ऽन्त्यः स आदिर्यस्य तट् टिसंज्ञं स्यात्। (शकन्ध्वादिषु पररूपं वाच्यम्)। तच्च टेः। शकन्धुः। कर्कन्धुः मनीषा। आकृतिगणो ऽयम्। मार्त्तण्डः॥

ओमाङोश्च॥ लसक_४० = पा_६,१.९५॥
ओमि आङि चात्परे पररूपमेकादेशः स्यात्। शिवायोंं नमः। शिव एहि॥

अन्तादिवच्च॥ लसक_४१ = पा_६,१.८५॥
यो ऽयमेकादेशः स पूर्वस्यान्तवत्परस्यादिवत्। शिवेहि॥

अकः सवर्णे दीर्घः॥ लसक_४२ = पा_६,१.१०१॥
अकः सवर्णे ऽचि परे पूर्वपरयोर्दीर्घ एकादेशः स्यात्। दैत्यारः। श्रीशिः। विष्णूदयः। होतॄकारः॥

एङः पदान्तादति॥ लसक_४३ = पा_६,१.१०९॥
पदान्तादेङोऽति परे पूर्वरूपमेकादेशः स्यात्। हरेऽव। विष्णो ऽव॥

सर्वत्र विभाषाः गोः॥ लसक_४४ = पा_६,१.१२२॥
लोके वेदे चैङन्तस्य गोरति वा प्रकृतिभावः पदान्ते। गोअग्रम्, गो ऽग्रम्। एङन्तस्य किम् ? चित्रग्वग्रम्। पदान्ते किम्? गोः॥

अनेकाल् शित्सर्वस्य॥ लसक_४५ = पा_१,१.५५॥
इति प्राप्ते॥

ङिच्च॥ लसक_४६ = पा_१,१.५३॥
ङिदनेकालप्यन्त्यस्ययैव स्यात्॥

अवङ् स्फोटायनस्य॥ लसक_४७ = पा_६,१.१३३॥
पदान्ते एङन्तस्य गोरवङ् वाचि। गवाग्रम्, गो ऽग्रम्। पदान्ते किम् ? गवि॥

इन्द्रे च॥ लसक_४८ = पा_६,१.१२४॥
गोरवङ् स्यादिन्द्रे। गवेन्द्रः॥

दूराद्धूते च॥ लसक_४९ = पा_८,२.८४॥
दूरात्सम्बोधने वाक्यस्य टेः प्लुतो वा॥

प्लुतप्रगृह्या अचि नित्यम्॥ लसक_५० = पा_६,१.१२५॥
एते ऽचि प्रकृत्या स्युः। आगच्छ कृष्ण ३ अत्र गौश्चरति॥

ईदूदेद् द्विवचनं प्रगृह्यम्॥ लसक_५१ = पा_१,१.११॥
ईदूदेदन्तं द्विवचनं प्रगृह्यं स्यात्। हरी एतौ। विष्णू इमौ। गङ्गे अमू॥

अदसो मात्॥ लसक_५२ = पा_१,१.१२॥
अस्मात्परावीदूतौ प्रगृह्यौ स्तः। अमी ईशाः। रामकृष्णावमू आसाते। मात्किम् ? अमुके ऽत्र॥

चादयो ऽसत्वे॥ लसक_५३ = पा_१,४.५७॥
अद्रव्यार्थाश्चादयो निपाताः स्युः॥

प्रादयः॥ लसक_५४ = पा_१,४.५८॥
एते ऽपि तथा॥

निपात एकाजनाङ्॥ लसक_५५ = पा_१,१.१४॥
एको ऽज् निपात आङ्वर्जः प्रगृह्यः स्यात्। इ इन्द्रः। उ उमेशः। ऽवाक्यस्मरणयोरङित्॑ आ एवं नु मन्यसे। आ एवं किल तत्। अन्यत्र ङित् ॑ आ ईषदुष्णम् ओष्णम्॥

ओत्॥ लसक_५६ = पा_१,१.१५॥
ओदन्तो निपातः प्रगृह्यः स्यात्। अहो ईशाः॥

सम्बुद्धौ शाकल्यस्येतावनार्षे॥ लसक_५७ = पा_१,१.१६॥
सम्बुद्धिनिमित्तक ओकारो वा प्रगृह्यो ऽवैदिके इतौ परे। विष्णो इति, विष्ण इति, विष्णविति॥

मय उञो वो वा॥ लसक_५८ = पा_८,३.३३॥
मयः परस्य उञो वो वाचि। किम्वुक्तम्, किमु उक्तम्॥

इको ऽसवर्णे शाकल्यस्य ह्रस्वश्च॥ लसक_५९ = पा_६,१.१२७॥
पदान्ता इको ह्रस्वा वा स्युरसवर्णे ऽचि। ह्रस्वविधिसामर्थ्यान्न स्वरसन्धिः। चक्रि अत्र, चक्रय्त्र। पदान्ता इति किम् ? गौर्यौ -.

अचो रहाभ्यां द्वे॥ लसक_६० = पा_८,४.४६॥
अचः पराभ्यां रेफहकाराभ्यां परस्य यरो द्वे वा स्तः। गौर्य्यौ। (न समासे)। वाप्यश्वः॥

ऋत्यकः॥ लसक_६१ = पा_६,१.१२८॥
ऋति परे पदान्ता अकः प्राग्वद्वा। ब्रह्म ऋषिः, ब्रह्मर्षिः। पदान्ताः किम् ? आर्छत्॥

इत्यच्सन्धिः

*
अथ हल् सन्धिः

स्तोः श्चुना श्चुः॥ लसक_६२ = पा_८,४.४०॥
सकारतवर्गयोः शकारचवर्गाभ्यां योगे शकारचवर्गौ स्तः। रामश्शेते। रामश्चिनोति। सच्चित्। शार्ङ्गिञ्जय॥

शात्॥ लसक_६३ = पा_८,४.४४॥
शात्परस्य तवर्गस्य चुत्वं न स्यात्। विश्नः। प्रश्नः॥

ष्टुना ष्टुः॥ लसक_६४ = पा_८,४.४१॥
स्तोः ष्टुना योगे ष्टुः स्यात्। रामष्षष्ठः। रामष्टीकते। पेष्टा। तट्टीका। चक्रिण्ढौकसे॥

न पदान्ताट्टोरनाम्॥ लसक_६५ = पा_८,४.४२॥
पदान्ताट्टवर्गात्परस्यानामः स्तोः ष्टुर्न स्यात्। षट् सन्तः। षट् ते। पदान्तात्किम् ? ईट्टे। टोः किम् ? सर्पिष्टमम्। (अनाम्नवतिनगरीणामिति वाच्यम्)। षण्णवतिः। षण्णगर्य्यः॥

तोः षि॥ लसक_६६ = पा_८,४.४३॥
न ष्टुत्वम्। सन्षष्ठः॥

झलां जशो ऽन्ते॥ लसक_६७ = पा_८,२.३९॥
पदान्ते झलां जशः स्युः। वागीशः॥


यरो ऽनुनासिके ऽनुनासिको वा॥ लसक_६८ = पा_८,४.४५॥
यरः पदान्तस्यानुनासिके परे ऽनुनासिको वा स्यात्। एतन्मुरारिः, एतद् मुरारिः। (प्रत्यये भाषायां नित्यम्)। तन्मात्रम्।
चिन्मयम्॥

तोर्लि॥ लसक_६९ = पा_८,४.६०॥
तवर्गस्य लकारे परे परसवर्णः। तवर्गस्य लकारे परे परसवर्णः। तल्लयः। विद्वांल्लिखति। नस्यानुनासिको लः।

उदः स्थास्तम्भोः पूर्वस्य॥ लसक_७० = पा_८,४.४१॥
उदः परयोः स्थास्तम्भोः पूर्वसवर्णः॥

तस्मादित्युत्तरस्य॥ लसक_७१ = पा_१,१.६७॥
पञ्चमीनिर्देशेन क्रियमाणं कार्यं वर्णान्तरेणाव्यवहितस्य परस्य ज्ञेयम्॥

आदेः परस्य॥ लसक_७२ = पा_१,१.५४॥
परस्य यद्विहितं तत्तस्यादेर्बोध्यम्। इति सस्य थः॥

झरो झरि सवर्णे॥ लसक_७३ = पा_८,४.६५॥
हलः परस्य झरो वा लोपः सवर्णे झरि॥

खरि च॥ लसक_७४ = पा_८,४.५५॥
खरि झलां चरः। इत्युदो दस्य तः। उत्थानम्। उत्तम्भनम्॥

झयो हो ऽन्यतरस्याम्॥ लसक_७५ = पा_८,४.६२॥
झयः परस्य हस्य वा पूर्वसवर्णः। नादस्य घोषस्य संवारस्य महाप्राणस्य तादृशो वर्गचतुर्थः। वाग्घरिः, वाघरिः॥

शश्छो ऽटि॥ लसक_७६ = पा_८,४.६३॥
झयः परस्य शस्य छो वाटि। तद् शिव इत्यत्र दस्य श्चुत्वेन जकारे कृते खरि चेति जकारस्य चकारः। तच्छिवः, तच्शिवः। (छत्वममीति वाच्यम्) तच्छ्लोकेन॥

मो ऽनुस्वारः॥ लसक_७७ = पा_८,३.२३॥
मान्तस्य पदस्यानुस्वारो हलि। हरिं वन्दे॥

नश्चापदान्तस्य झलि॥ लसक_७८ = पा_८,३.२४॥
नस्य मस्य चापदान्तस्य झल्यनुस्वारः। यशांसि। आक्रंस्यते। झलि किम् ? मन्यते॥

अनुस्वारस्य ययि परसवर्णः॥ लसक_७९ = पा_८,४.५८॥
स्पष्टम्। शान्तः॥

वा पदान्तस्य॥ लसक_८० = पा_८,४.५९॥
त्वङ्करोषि, त्वं करोषि॥

मो राजि समः क्वौ॥ लसक_८१ = पा_८,३.२५॥
क्विबन्ते राजतौ परे समो मस्य म एव स्यात्। सम्राट्॥

हे मपरे वा॥ लसक_८२ = पा_८,३.२६॥
मपरे हकारे परे मस्य मो वा। किम् ह्मलयति, किं ह्मलयति। (यवलपरे यवला वा)/ किंय्ह्यः, किं ह्यः। किंव्ह्वलयति, किं ह्वलयति। किंल् ह्लादयति, किं ह्लादयति॥

नपरे नः॥ लसक_८३ = पा_८,३.२७॥
नपरे हकारे मस्य नो वा। किन् ह्नुते, किं ह्नुते॥

आद्यन्तौ टकितौ॥ लसक_८४ = पा_१,१.४६॥
टित्कितौ यस्योक्तौ तस्य क्रमादाद्यन्तावयवौ स्तः॥

ङ्णोः कुक्टुक् शरि॥ लसक_८५ = पा_८,३.२८॥
वा स्तः। (चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम्)। प्राङ्ख् षष्ठः, प्राङ्क्षष्ठः, प्राङ् षष्ठः। सुगण्ठ् षष्ठः सुगण्ट् षष्ठः, सुगण् षष्ठः॥

डः सि धुट्॥ लसक_८६ = पा_८,३.२९॥
डात्परस्य सस्य धुड्वा। षट्त्सन्तः, षट् सन्तः॥

नस्च॥ लसक_८७ = पा_८,३.३०॥
नान्तात्परस्य सस्य धुड्वा। सन्त्सः, सन्सः॥

शि तुक्॥ लसक_८८ = पा_८,३.३१॥
पदान्तस्य नस्य शे परे तुग्वा। सञ्छम्भुः, सञ्च्छम्भुः, सञ्च्शम्भुः, सञ्शम्भुः॥

ङमो ह्रस्वादचि ङमुण् नित्यम्॥ लसक_८९ = पा_८,३.३२॥
ह्रस्वात्परे यो ङम् तदन्तं यत्पदं तस्मात्परस्याचो ङमुट्। प्रत्यङ्ङात्मा। सुगण्णीशः। सन्नच्युतः॥

समः सुटि॥ लसक_९० = पा_८,३.५॥
समो रुः सुटि॥

अत्रानुनासिकः पूर्वस्य तुवा॥ लसक_९१ = पा_८,३.२॥
अत्र रुप्रकरणे रोः पूर्वस्यानुनासिको वा॥

अनुनासिकात्परो ऽनुस्वारः॥ लसक_९२ = पा_८,३.४॥
अनुनासिकं विहाय रोः पूर्वस्मात्परो ऽनुस्वारागमः॥

खरवसानयोर्विसर्जनीयः॥ लसक_९३ = पा_८,३.१५॥
खरि अवसाने च पदान्तसाय रेफस्य विसर्गः। (संपुंकानां सो वक्तव्यः)। संस्स्कर्ता, संस्स्कर्ता॥

पुमः खय्यम्परे॥ लसक_९४ = पा_८,३.६॥
अम्परे खयि पुमो रुः। पुंस्कोकिलः, पुंस्कोकिलः॥

नश्छव्यप्रशान्॥ लसक_९५ = पा_८,३.७॥
अम्परे छवि नान्तस्य पदस्यरुः॑ न तु प्रशान्शब्दस्य॥

विसर्जनीयस्य सः॥ लसक_९६ = पा_८,३.३४॥
खरि। चक्रिंस्त्रायस्व, चक्रिंस्त्रायस्व। अप्रशान् किम् ? प्रशान्तनोति। पदस्येति किम् ? हन्ति॥

नॄन् पे॥ लसक_९७ = पा_८,३.१०॥
नॄनित्यस्य रुर्वा पे॥

कुप्वोः एक एपौ च॥ लसक_९८ = पा_८,३.३७॥
कवर्गे पवर्गे च विसर्गस्य एक एपौ स्तः, चाद्विसर्गः। नॄं पाहि, नॄंः पाहि, नॄंः पाहि। नॄन् पाहि॥

तस्य परमाम्रेडितम्॥ लसक_९९ = पा_८,१.२॥
द्विरुक्तस्य परमाम्रेडितम् स्यात्॥

कानाम्रेडिते॥ लसक_१०० = पा_८,३.१२॥
कान्नकारस्य रुः स्यादाम्रेडिते। कांस्कान्, कांस्कान्॥

छे च॥ लसक_१०१ = पा_६,१.७३॥
ह्रस्वस्य छे तुक्। शिवच्छाया॥

पदान्ताद्वा॥ लसक_१०२ = पा_६,१.७९॥
दीर्घात् पदान्तात् छे तुग्वा। लक्ष्मीच्छाया, लक्ष्मी छाया॥

इति हल्सन्धिः।


*
अथ विसर्गसन्धिः

विसर्जनीयस्य सः॥ लसक_१०३ = पा_८,३.३४॥
खरि। विष्णुस्त्राता॥

वा शरि॥ लसक_१०४ = पा_८,३.३६॥
शरि विसर्गस्य विसर्गो वा। हरिः शेते, हरिश्शेते॥

समजुषो रुः॥ लसक_१०५ = पा_८,२.६६॥
पदान्तस्य सस्य सजुषश्च रुः स्यात्॥

अतो रोरप्लुतादप्लुतादप्लुते॥ लसक_१०६ = पा_६,१.११३॥
अप्लुतादतः परस्य रोरुः स्यादप्लुते ऽति। शिवोर्ऽच्यः॥

हशि च॥ लसक_१०७ = पा_६,१.११४॥
तथा। शिवो वन्द्यः॥

भो भगो अघो अपूर्वस्य यो ऽशि॥ लसक_१०८ = पा_८,३.१७॥
एतत्पूर्वस्य रोर्यादेशो ऽशि। देवा इह, देवायिह। भोस् भगोस् अघोस् इति सान्ता निपाताः। तेषां रोर्यत्वे कृते॥

हलि सर्वेषाम्॥ लसक_१०९ = पा_८,३.२२॥
भोभगोअघोअपूर्वस्य यस्य लोपः स्याद्धलि। भो देवाः। भगो नमस्ते। अघो याहि॥

रो ऽसुपि॥ लसक_११० = पा_८,२.६९॥
अह्नो रेफादेशो न तु सुपि। अहरहः। अहर्गणः॥

रो रि॥ लसक_१११ = पा_८,३.१४॥
रेफस्य रेफे परे लोपः॥

ढ्रलोपे पूर्वस्य दीर्घो ऽणः॥ लसक_११२ = पा_६,३.१११॥
ढरेफयोर्लोपनिमित्तयोः पूर्वस्याणो दीर्घः। पुना रमते। हरी रम्यः। शम्भू राजते। अणः किम् ? तृढः। वृढः। मनस् रथ इत्यत्र रुत्वे कृते हशि चेत्युत्वे रोरीति लोपे च प्राप्ते॥

विप्रतिषेधे परं कार्यम्॥ लसक_११३ = पा_१,४.२॥
तुल्यबलविरोधे परं कार्यं स्यात्। इति लोपे प्राप्ते। पूर्वत्रासिद्धमिति रोरीत्यस्यासिद्धत्वादुत्वमेव। मनोरथः॥

एतत्तदोः सुलोपो ऽकोरनञ्समासे हलि॥ लसक_११४ = पा_६,१.१३२॥
अककारयोरेतत्तदोर्यः सुस्तस्य लोपो हलि न तु नञ्समासे। एष विष्णुः। स शम्भुः। अकोः किम् ? एषको रुद्रः। अनञ्समासे किम् ? असः शिवः। हलि किम् ? एषो ऽत्र॥

सो ऽचि लोपे चेत्पादपूरणम्॥ लसक_११५ = पा_६,१.१३४॥
स इत्यस्य सोर्लोपः स्यादचि पादश्चेल्लोपे सत्येव पूर्य्येत। सेमामविड्ढि प्रभृतिम्। सैष दाशरथी रामः॥

इति विसर्गसन्धिः॥
इति पञ्चसन्धिप्रकरणम्।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP