TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

तृतीयः अध्यायः - प्रथमम् आह्निकम्

शब्द, अनुमान, प्रत्यक्ष, आणि उपमान रूप हे न्यायसूत्राचे प्रसिद्ध चार भाग आहेत.


प्रथमम् आह्निकम्
(इन्द्रियव्यतिरिक्तात्मपरीक्षाप्रकरणं(१-३)

१.१ - दर्शनस्पर्शनाभ्याम् एकार्थग्रहणात्
(पूर्वपक्ष-सूत्र)

१.२ - न, विषयव्यवस्थानात्
(पूर्वपक्ष-सूत्र)

१.३ - तद्व्यवस्थानात् एव आत्मसद्भावात् अप्रतिषेधः
(सिद्धान्त-सूत्र) (शरीरव्यतिरिक्तात्मपरीक्षाप्रकरणम्]

१.४ - शरीरदाहे पातकाभावात्
(सिद्धान्त-सूत्र)

१.५ - तदभावः सात्मकप्रदाहे अपि, तन्नित्यत्वात्
(पूर्वपक्ष-सूत्र)

१.६ - न, कार्याश्रयकर्तृवधात्
(सिद्धान्त-सूत्र)
(प्रासङ्गिकं चक्षुरद्वैतपरीक्षाप्रकरणम्(७-१४)

१.७ - सव्यदृष्टस्य इतरेण प्रत्यभिज्ञानात्
(सिद्धान्त-सूत्र)

१.८ - न एकस्मिन् नासास्थिव्यवहिते द्वित्वाभिमानात्
(पूर्वपक्ष-सूत्र)

१.९ - एकविनाशे द्वितीयाविनाशात् न एकत्वम्
(सिद्धान्त-सूत्र)

१.१० - अवयवनाशे अपि अवयव्युपलब्धेः अहेतुः
(पूर्वपक्ष-सूत्र)

१.११ - दृष्टान्तविरोधात् अप्रतिषेधः
(सिद्धान्त-सूत्र)

१.१२ - इन्द्रियान्तरविकारात्
(सिद्धान्त-सूत्र)

१.१३ - न, स्मृतेः स्मर्त्तव्यविषयत्वात्
(पूर्वपक्ष-सूत्र)

१.१४ - तदात्मगुणसद्भावात् अप्रतिषेधः
(सिद्धान्त-सूत्र)
(आत्ममनोभेदपरीक्षाप्रकरणम्(१५-१७)

१.१५ - न, आत्मप्रतिपत्तिहेतूनां मनसि सम्भवात्
(पूर्वपक्ष-सूत्र)

१.१६ - ज्ञातुः ज्ञानसाधनोपपत्तेः संज्ञाभेदमात्रम्
(सिद्धान्त-सूत्र)

१.१७ - नियमः च निरनुमानः
(सिद्धान्त-सूत्र)
(आत्मनित्यत्वपरीक्षाप्रकरणम्(१८-२६)

१.१८ - पूर्वाभ्यस्तस्मृत्यनुबन्धात् जातस्य हर्षभयशोकसम्प्रतिपत्तेः
(सिद्धान्त-सूत्र)

१.१९ - पद्मादिषु प्रबोधसम्मीलनविकारवत् तद्विकारः
(पूर्वपक्ष-सूत्र)

१.२० - न, उष्णशीतवर्षाकालनिमित्तत्वात् पञ्चात्मकविकाराणाम्
(सिद्धान्त-सूत्र)

१.२१ - प्रेत्याहाराभ्यासकृतात् स्तन्याभिलाषात्
(सिद्धान्त-सूत्र)

१.२२ - अयसः अयस्कान्ताभिगमनवत् तदुपसर्पणम्
(पूर्वपक्ष-सूत्र)

१.२३ - न, अन्यत्र प्रवृत्त्यभावात्
(सिद्धान्त-सूत्र)

१.२४ - वीतरागजन्मादर्शनात्
(सिद्धान्त-सूत्र)

१.२५ - सगुणद्रव्योत्पत्तिवत् तदुत्पत्तिः
(पूर्वपक्ष-सूत्र)

१.२६ - न, सङ्कल्पनिमित्तत्वात् रागादीनाम्
(सिद्धान्त-सूत्र)
(शरीरपरीक्षाप्रकरणम्(२७-३१)

१.२७ - पार्थिवं गुणान्तरोपलब्धेः
(सिद्धान्त-सूत्र)

१.२८ - पार्थिवाप्यतैजसं तद्गुणोपलब्धेः
(सिद्धान्त-सूत्र)

१.२९ - निःश्वासोच्छ्वासोपलब्धेः चातुर्भौन्तिकम्
(पूर्वपक्ष-सूत्र)

१.३० - गन्धक्लेदपाकव्यूहावकाशदानेभ्यः पाञ्चभौतिकम्
(पूर्वपक्ष-सूत्र)

१.३१ - श्रुतिप्रामाण्यात् च
(सिद्धान्त-सूत्र)
(इन्द्रियपरीक्षाप्रकरणम्(३२-५१)

१.३२ - कृष्णसारे सति उपलम्भात् व्यतिरिच्य च उपलम्भात् संशयः
(सिद्धान्त-सूत्र)

१.३३ - महदणुग्रहणात्
(साङ्ख्यमतखण्डनम्)

१.३४ - रश्म्यर्थसन्निकर्षविशेषात् तद्ग्रहणम्
(सिद्धान्त-सूत्र)

१.३५ - तदनुपलब्धेः अहेतुः
(सिद्धान्त-सूत्र)

१.३६ - न अनुमीयमानस्य प्रत्यक्षतः अनुपलब्धिः अभावहेतुः
(सिद्धान्त-सूत्र)

१.३७ - द्रव्यगुणधर्मभेदात् च उपलब्धिनियमः
(सिद्धान्त-सूत्र)

१.३८ - अनेकद्रव्यसमवायात् रूपविशेषात् च रूपोपलब्धिः
(सिद्धान्त-सूत्र)

१.३९ - कर्मकारितः च इन्द्रियाणां व्यूहः पुरुषार्थतन्त्रः
(सिद्धान्त-सूत्र)

१.४० - मध्यन्दिनोल्काप्रकाशानुपलब्धिवत् तदनुपलब्धिः
(सिद्धान्त-सूत्र)

१.४१ - न, रात्रौ अपि अनुपलब्धेः
(सिद्धान्त-सूत्र)

१.४२ - बाह्यप्रकाशानुग्रहात् विषयोपलब्धेः अनभिव्यक्तितः अनुपलब्धिः
(सिद्धान्त-सूत्र)

१.४३ - अभिव्यक्तौ च अभिभवात्
(सिद्धान्त-सूत्र)

१.४४ - नक्तञ्चरनयनरश्मिदर्शनात् च
(सिद्धान्त-सूत्र)

१.४५ - अप्राप्यग्रहणं काचाभ्रपटलस्फटिकान्तरितोपलब्धेः
(पूर्वपक्ष-सूत्र)

१.४६ - कुड्यान्तरितानुपलब्धेः अप्रतिषेधः
(सिद्धान्त-सूत्र)

१.४७ - अप्रतीघातात् सन्निकर्षोपपत्तिः
(सिद्धान्त-सूत्र)

१.४८ - आदित्यरश्मेः स्फटिकान्तरिते अपि दाह्ये अविघातात्
(सिद्धान्त-सूत्र)

१.४९ - न इतरेतरधर्मप्रसङ्गात्
(पूर्वपक्ष-सूत्र)

१.५० - आदर्शोदकयोः प्रसादस्वाभाव्यात् रूपोपलब्धिः
(सिद्धान्त-सूत्र)

१.५१ - दृष्टानुमितानां हि नियोगप्रतिषेधानुपपत्तिः
(सिद्धान्त-सूत्र)

(इन्द्रियनानात्वपरीक्षाप्रकरणम्(५२-६२)

१.५२ - स्थानान्यत्वे नानात्वात् अवयविनानास्थानत्वात् च संशयः

(सिद्धान्त-सूत्र)

१.५३ - त्वक् अव्यतिरेकात्
(पूर्वपक्ष-सूत्र)

१.५४ - न युगपत् अर्थानुपलब्धेः
(सिद्धान्त-सूत्र)

१.५५ - विप्रतिषेधात् च न त्वक् एका
(सिद्धान्त-सूत्र)

१.५६ - इन्द्रियार्थपञ्चत्वात्
(सिद्धान्त-सूत्र)

१.५७ - न, तदर्थबहुत्वात्
(पूर्वपक्ष-सूत्र)

१.५८ - गन्धत्वाद्यव्यतिरेकात् गन्धादीनामप्रतिषेधः
(सिद्धान्त-सूत्र)

१.५९ - विषयत्वाव्यतिरेकात् एकत्वम्
(सिद्धान्त-सूत्र)

१.६० - न, बुद्धिलक्षणाधिष्ठान-गत्याकृति-जातिपञ्चत्वेभ्यः
(सिद्धान्त-सूत्र)

१.६१ - भूतगुणविशेषोपलब्धेः तादात्म्यम्
(सिद्धान्त-सूत्र)
(अर्थपरीक्षाप्रकरणम्(६२-७४)

१.६२ - गन्ध-रस-रूप-स्पर्श-शब्दानां स्पर्शपर्यन्ताः पृथिव्याः
(सिद्धान्त-सूत्र)

१.६३ - अप्-तेजो-वायूनां पूर्वं पूर्वम् अपोह्य आकाशस्य उत्तरः
(पूर्वपक्ष-सूत्र)

१.६४ - न, सर्वगुणानुपलब्धेः
(सिद्धान्त-सूत्र)

१.६५ - एकैकश्येन उत्तरगुणासद्भावात् उत्तरोत्तराणां तदनुपलब्धिः
(पूर्वपक्ष-सूत्र)

१.६६ - विष्टं हि अपरं परेण
(पूर्वपक्ष-सूत्र)

१.६७ - न, पार्थिवाप्ययोः प्रत्यक्षत्वात्
(सिद्धान्त-सूत्र)

१.६८ - पूर्वपूर्वगुणोत्कर्षात् तत्तत् प्रधानम्
(सिद्धान्त-सूत्र)

१.६९ - तद्ध्यवस्थानं तु भूयस्त्वात्
(सिद्धान्त-सूत्र)

१.७० - सगुणानाम् इन्द्रियभावात्
(सिद्धान्त-सूत्र)

१.७१ - तेन एव तस्य अग्रहणात् च
(सिद्धान्त-सूत्र)

१.७२ - न, शब्दगुणोपलब्धेः
(पूर्वपक्ष-सूत्र)

१.७३ - तदुपलब्धिः इतरेतरद्रव्यगुणवैधर्म्यात्
(सिद्धान्त-सूत्र)
इति न्यायसूत्रे तृतीयाध्यायस्य प्रथमम् आह्निकम्

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:33.0470000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

उघडा उघडा दार, नाकाला लागली धार

  • एक मनुष्य आपल्या बायकोशी भांडून रानात निघून गेला. तेथे त्यास रात्र झाल्यावर कोठे जावे याची पंचायईत पडली. अखेरीस तो एका झाडावर जाऊन बसला. थोड्या वेळाने तेथे काही चोर येऊन त्यांनी आणलेली लूट त्याच झाडाखाली बसून वाटून घेऊ लागले. तेव्हा वरील मनुष्य घाबरून गेला व त्याची तपकिरीची डबी खाली पडली. तेव्हा चोरांस वर कोणीतरी भूत आहे असा संशय येऊन ते घाबरून आपले सर्व द्रव्य टाकून तसेच पळून गेले. मग त्या मनुष्याने ते सर्व द्रव्य बांधून घेऊन डोक्यावर गाठोडे घेतले व घरी आला व बायकोस म्हणालाः उघडा उघडा दार, डोक्याला झाला भार. ही गोष्ट शेजारणीने ऐकून आपल्या नवर्‍यासहि तसेच बाहेर घालवून दिले. तो त्या ठराविक झाडावर बसला व चोर खाली आल्यावर त्याने आपल्या तपकिरीची डबी मुद्दाम खाली टाकली. तेव्हा त्या चोरांस ती गोष्ट पुनः घडल्यामुळे संशय आला व त्यांनी वर चढून पाहिले तेव्हा तो सापडला. मग त्याचे नाक कापून त्यांनी त्याला हाकून दिले. तेव्हा द्रव्य मिळावयाच्या ऐवजी नाकास धार लागून तो घरी आला व बायकोस हाक मारू म्हणू लागला की, उघड उघड दार, नाकास लागली धार! याप्रमाणें भलत्याच गोष्टीत दुसर्‍याचे अनुकरण केले असतां लाभ व्हावयाच्या ऐवजी नुकसान होते. तु०- आति पवित्रता० पहा. 
RANDOM WORD

Did you know?

अंत्येष्टी म्हणजे काय ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site