प्रथमः अध्यायः - द्वितीयम् आह्निकम्

शब्द, अनुमान, प्रत्यक्ष, आणि उपमान रूप हे न्यायसूत्राचे प्रसिद्ध चार भाग आहेत.


(कथालक्षणप्रकरणम्]

२.१ - प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहः वादः
(वाद-लक्षणम्)

२.२ - यथोक्तोपपन्नः छलजातिनिग्रहस्थानसाधनोपालम्भः जल्पः
(जल्प-लक्षणम्)

२.३ - सः प्रतिपक्षस्थापनाहीनः वितण्डा
(वितण्डा-लक्षणम्)
(हेत्वाभासप्रकरणम्]

२.४ - सव्यभिचार-विरुद्ध-प्रकरणसम-साध्यसम-कालातीताः हेत्वाभासाः
(हेत्वाभास-उद्देश-सूत्रम्)

२.५ - अनैकान्तिकः सव्यभिचारः
(सव्यभिचार-लक्षणम्)

२.६ - सिद्धान्तम् अभ्युपेत्य तद्विरोधी विरुद्धः
(विरुद्ध-लक्षणम्)

२.७ - यस्मात् प्रकरणचिन्ता सः निर्णयार्थमपदिष्टः प्रकरणसमः
(प्रकरणसम-लक्षणम्)

२.८ - साध्याविशिष्टः साध्यत्वात् साध्यसमः
(साध्यसम-लक्षणम्)

२.९ - कालात्ययापदिष्टः कालातीतः
(कालातीत-लक्षणम्)
(छलप्रकरणम्]

२.१० - वचनविघातः अर्थविकल्पोपपत्त्या छलम्
(छल-लक्षणम्)

२.११ - तत् त्रिविधम् - वाक्छलम् सामान्यच्छलम् उपचारच्छलम् च इति
(छल-भेद-उद्देश-सूत्रम्)

२.१२ - अविशेषाभिहिते अर्थे वक्तुः अभिप्रायात् अर्थान्तरकल्पना वाक्छलम्
(वाक्छल-लक्षणम्)

२.१३ - सम्भवतः अर्थस्य अतिसामान्ययोगात् असम्भूतार्थकल्पना सामान्यच्छलम्
(सामान्यच्छल-लक्षणम्)

२.१४ - धर्मविकल्पनिर्देशे अर्थसद्भावप्रतिषेधः उपचारच्छलम्
(उपचारच्छल-लक्षणम्)

२.१५ - वाक्छलम् एव उपचारच्छलम् तत् अविशेषात्
(उपचारच्छल-पूर्वपक्ष-लक्षणम्)

२.१६ - न तत् अर्थान्तरभावात्
(उपचारच्छल-लक्षणम्)

२.१७ - अविशेषे वा किञ्चित्साधर्म्यात् एकच्छलप्रसङ्गः
(उपचारच्छल-लक्षणम्)
(लिङ्गदोषसामान्यप्रकरणम्]

२.१८ - साधर्म्यवैधर्म्याभ्याम् प्रत्यवस्थानं जातिः
(जाति-लक्षणम्)

२.१९ - विप्रतिपत्तिः अप्रतिपत्तिः च निग्रहस्थानम्
(निग्रहस्थान-लक्षणम्)

२.२० - तद्विकल्पात् जातिनिग्रहस्थानबहुत्वम्
(निग्रहस्थानबहुत्व-सूत्रम्)

इति न्यायसूत्रे प्रथमाध्यायस्य द्वितीयम् आह्निकम् समाप्तः च अयम् प्रथमः अध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP