TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

शुल्बसूत्र

शुल्बसूत्र हा भारतीय गणिताबद्दल जानकारी देणारा प्राचीनतम स्रोत आहे.
बौधायन भारताचे प्राचीन गणितज्ञ आणि शुल्ब सूत्र म्हणजेच श्रौतसूत्रचे रचनाकार होत.


शुल्बसूत्र
आपस्तम्बशुल्बसूत्रं
विहारयोगान्व्याख्यास्यामः ॥१.१॥
यावदायामं प्रमाणं ॥१.२॥
तदर्धमभ्यस्यापरस्मिंस्तृतीये षड्भागोने लक्षणं करोति ॥१.२॥
पृष्ठ्यान्तयोरन्तौ नियम्य लक्षणेन दक्षिणापायम्य निमितं करोति ॥१.२॥
एवमुत्तरतो विपर्यस्येतरतः स समाधिः ॥१.२घ॥
तन्निमित्तो निर्ह्रासो विवृद्धिर्वा ॥१.२च॥
आयामं वाभ्यस्यागन्तुचतुर्थं आयामश्चाक्ष्णया रज्जुस्तिर्यङ्भानीशेषः । व्याख्यातं विहरणं ॥१.३॥
दीर्घस्याक्ष्णयारज्जुः पार्श्वमानी तिर्यङ्मानी च यत्पृथग्भुते कुरुतस्तदुभयं करोति ॥१.४॥
ताभिर्ज्ञेयाभिरुक्तं विहरणं ॥१.४॥
चतुरश्रस्याक्ष्णयारज्जुर्द्विस्तवतीं भूमिं करोति । समस्य द्विकरणी ॥१.५॥
प्रमाणं तृतीयेन वर्धयेत्तच्चतुर्थेनात्मचतुस्त्रिंशोनेन सविशेषः ॥१.६॥
अथापरं ॥१.७॥
प्रमाणमात्रीं रज्जुं उभयतः पाशां करोति ॥१.७॥
मध्ये लक्षणं अर्धमध्यमयोश्च पृष्ठ्यायां रज्जुं आयम्य पाशयोर्लक्षणेष्विति शङ्कून्निहत्युपान्त्ययोः पाशौ प्रतिमुच्य मध्यमेन लक्षणेन दक्षिणापायम्य शङ्कुं निमित्तं करोति । मध्यमे पाशौ प्रतिमुच्य, उपर्युपरि निमित्तं मध्यमेन लक्षणेन दक्षिणमंसं आयच्छेत् । उन्मुच्य पूर्वस्मादपरस्मिन्प्रतिमुच्य मध्यमेनैव लक्षणेन दक्षिणां श्रोणिं आयच्छेत् । एवमुत्तरौ श्रोण्यंसौ ॥१.७॥


अथापरोयोगः ॥२.१॥
पृष्ठ्यान्तयोर्मध्ये च शङ्कून्निहत्यार्धेऽर्धे तद्विशेषं अभ्यस्य लक्षणं कृत्वार्धमगमयेत् । अन्त्ययोः पाशौ कृत्वा मध्यमे सविशेषं प्रतिमुच्य पूर्वस्मिन्नितरं लक्षणेन दक्षिणमङ्कं आयच्छेत् । उन्मुच्य पूर्वस्मादपरस्मिन्प्रतिमुच्य लक्षणेनैव दक्षिणां श्रोणिं आयच्छेत् । एवं उत्तरौ श्रोण्यंसौ ॥२.१॥
प्रमाणं तिर्यग्द्विकरण्यायामस्तस्याक्ष्णयारज्जुस्त्रिकरणी ॥२.२॥
तृतीयकरण्येतेन व्याख्याता । विभागस्तु नवधा ॥२.३॥
तुल्ययोश्चतुरश्रयोरुक्तः समासः । नानाप्रमाणयोश्चतुरश्रयोः समासः ॥२.४॥
ह्रसीयसः करण्या वर्षीयसो वृद्ध्रं उल्लिखेत् । वृद्ध्रस्याक्ष्णयारज्जुरुभे समस्यति । तदुक्तं ॥२.४॥
चतुरश्राच्चतुरश्रं निर्जिहीर्षन्यावन्निर्जिहीर्षेत्तस्य करण्या वर्षीयसो वृद्ध्रमुल्लिखेथ् ॥२.५॥
वृर्धस्य पार्श्वमानीं अक्ष्णयेतरत्पार्श्वं उपसंहरेथ् ॥२.५॥
सा यत्र निपतेत्तदपच्छिन्द्याथ् ॥२.५॥
छिन्नया निरस्तं ॥२.५घ॥
उपसंहृताक्षणयारज्जुः सा चतुष्करणी छिन्ना चेतरा च यत्पृथग्भूते कुरुतस्तदुभयं करोति ॥२.६॥
तिर्यङ्मानी पुरुषं शेषस्त्रीन् ॥२.६॥
तदुक्तं ॥२.६घ॥
दीर्घचतुरश्रं समचतुरश्रं चिकीर्षन्तिर्यङ्मान्यापच्छिद्य शेषं विभज्योभयत उपदध्याथ् ॥२.७॥
खण्डं आगन्तुना संपुरयेथ् ॥२.७॥
तस्य निर्हार उक्तः ॥२.७॥


समचतुरश्रं दीर्घचतुरश्रं चुकीर्षना यावच्चिकीर्षेत्तावतीं पार्श्वमानीं कृत्वा यदधिकं स्याद्यथायोगं उपदध्याथ् ॥३.१॥
चतुरश्रं मण्डलं चिकीर्षन्मध्यात्कोट्यां निपातयेथ् ॥३.२॥
पार्श्वतः परिकृष्यातिशयतृतीयेन सह मण्डलं परिलिखेथ् ॥३.२॥
सा नित्या मण्डलं ॥३.२॥
यावद्धीयते तावदागन्तु ॥३.२घ॥
मण्डलं चतुरश्रं चिकीर्षन्विष्कम्भं पञ्चदश भागान्कृत्वा द्वावुद्धरेत् । त्रयोदशावशिष्यन्ते । सा नित्या चतुरश्रं ॥३.३॥
प्रमाणेन प्रमाणं विधीयते ॥३.४॥
चतुरश्रं आदेशादन्यथ् ॥३.५॥
द्वाभ्यां चत्वारि ॥३.६॥
त्रिभिर्नव ॥३.६॥
यावत्प्रमाणा रज्जुस्तावतस्तावतो वर्गान्करोति ॥३.८॥
अर्धतृतीयपुरुषा षट्सपादान् ॥३.८॥
अथात्यन्त प्रदेशः ॥३.९॥
यावता यावताधिकेन परिलिखति तत्पार्श्वयोरुपदधाति । यच्च तेन चतुरश्रं क्रियते तत्कोट्यां ॥३.९॥
अर्धप्रमाणेन पादप्रमाणं विधीयते ॥३.१०॥
अर्धस्य द्विप्रमाणायाः पादपूरणत्वाथ् ॥३.१०॥
तृतीयेन नवमी कला ॥३.१०॥


आग्न्याधेयिके विहारे गार्हपत्याहवनीययोरन्तराले विज्ञायते ॥४.१॥
अष्टासु प्रक्रमेषु ब्राह्मणोऽग्निं आदधीत । एकादशसु राजन्यः । द्वादशसु वैश्यः ॥४.१॥
चतुर्विंशत्यां अपरिमिते यावता वा चक्षुषा मन्यते तस्मान्नातिदूरं आधेय इति सर्वेषां अविशेषेण श्रूयते ॥४.२॥
दक्षिणतः पुरस्ताद्वितृतीयदेशे गार्हपत्यस्य नेदीयसि दक्षिणाग्नेर्विज्ञायते ॥४.३॥
गार्हपत्याहवनीययोरन्तरालं पञ्चधा षड्धा वा संविभज्य षष्ठं सप्तमं वा भागं आगन्तुं उपसमस्य समं त्रैधं विभज्यापरस्मिंस्तृतीये लक्षणं कृत्वा गार्हपत्याहवनीययोरन्तौ नियम्य लक्षणेन दक्षिणापायम्य निमित्तं करोति तद्दक्षिणाग्नेरायतनं । श्रुतिसामर्थ्याथ् ॥४.४॥
यजमानमात्री प्राच्यपरिमिता वा यथासन्नानि हवींषि संभवेदेवं तिरश्ची प्राञ्चौ वेद्यंसावुन्नयति । प्रतीची श्रोणी पुरस्तादंहीयसी पश्चात्प्रथीयसी मध्ये संनततरैवं इव हि योषेति दार्शिक्या वेदेर्विज्ञायते ॥४.५॥
अपरेणाहवनीयं यजमानमात्री दीर्घं चतुरश्रं विहृत्य तावतीं रज्जुं आयम्य मध्ये लक्षणं कृत्वा दक्षिणयोः श्रोण्यंसयोरन्तरा नियम्य लक्षणेन दक्षिणापायम्य निमित्तं करोति । निमित्ते रज्जुं नियम्यान्तौ समस्य । दक्षिणायाः श्रोणेर्दक्षिणं अंसं आलिखेत् । एवं उत्तरतः । तिर्यङ्मानीं द्विगुणां तथा कृत्वा पश्चात्पुरस्ताच्चोपलिखेत् । विमितायां पुरस्तात्पार्श्वमान्यावुपसंहरेत् । श्रुतिसामर्थ्याथ् ॥४.६॥


त्रिंशत्पदानि प्रक्रमा वा पश्चात्तिरश्वी भवति । षट्त्रिंशत्प्राची चतुर्विंशतिः पुरस्तात्तिरश्चीति स्ॐइक्या वेदेर्विज्ञायते ॥५.१॥
षट्त्रिंशिकायां अष्टादशोपसमस्य अपरस्मादन्ताद्द्वादशसु लक्षणं पञ्चदशसु लक्षणं पृष्ठ्यान्तयोरन्तौ नियम्य पञ्चदशकेन दक्षिणापायम्य शङ्कुं निहन्त्येवं उत्तरतःश्रोणी । विपर्यस्यांसौ पञ्चदशिकेनैवापायम्य द्वादशिके शङ्कुं निहन्ति । एवं उत्तरतस्तावंसौ ॥५.२॥
तदेकरज्ज्वा विहरणं ॥५.२॥
त्रिकचतुष्कयोः पञ्चिकाक्ष्णयारज्जुः । ताभिस्त्रिरभ्यस्ताभिरंसौ । चतुरभ्यस्ताभिःश्रोणी ॥५.३॥
द्वादशिकापञ्चिकयोस्त्रयोदशिकाक्ष्णयारज्जुः, ताभिरंसौ द्विरभ्यस्ताभिः श्रोणी ॥५.४॥
पञ्चदशिकाष्टिकयोः सप्तदशिकाक्ष्णयारज्जुः । ताभिःश्रोणी ॥५.५॥
द्वादशिकापञ्चत्रिंशिकयोः सप्तत्रिंशिकाक्ष्णयारज्जुः । ताभिरंसौ ॥५.५॥
एतावन्ति ज्ञेयानि वेदिविहरणानि भवन्ति ॥५.६॥
अष्टविंशत्योनं पदसहस्रं महावेदिः ॥५.७॥
दक्षिणस्मादंसाद्द्वादशसु दक्षिणस्यां श्रोण्यां निपातयेत् । छेदं विपर्यस्योत्तरत उपदध्यात् । सा दीर्घा चतुरश्रा । तथा युक्तां संचक्षीत ॥५.७॥
स्ॐइक्या वेदितृतीयदेशे यजेतेति सौत्रामण्या वेदेर्विज्ञायते ॥५.८॥
प्रक्रमास्य द्विकरणी प्रक्रमस्थानीया भवति त्रिकरण्या वा ॥५.८॥
अष्टिका दशिकेति तिर्यङ्मान्यौ । द्वादशिका पृष्ठया ॥५.८॥
त्रीणि चतुर्विंशानि पदशतानि सौत्रामणिकी वेदिः ॥५.९॥
द्विस्तावा वेदिर्भवतीत्यश्वमेधे विज्ञायते ॥५.१०॥


प्रक्रमस्य द्विकरणी प्रकमस्थानीया भवति ॥६.१॥
प्रक्रमो द्विपदस्त्रिपदो वा । प्रक्रमे याथाकामी शब्दार्थस्य विशयित्वाथ् ॥६.२॥
यजमानस्याध्वर्योर्वा । एष हि चेष्टानां कर्ता भवति ॥६.२॥
रथमात्री निरूढपशुबन्धस्य वेदिर्भवतीति विज्ञायते ॥६.३॥
तस्य खल्वाहू रथाक्षमात्री पश्चात्तिर्यगीषया प्राची । विपथयुगेन पुरस्ताथ् ॥६.३॥
यावता वा बाह्ये छिद्रे ॥६.३॥
तदेकरज्ज्वोक्तं । पञ्चदशिकेनैवापायम्यार्धाक्षेणार्धयुगेन श्रोण्यंसान्निर्हरेथ् ॥६.४॥
अथाप्युदाहरन्ति ॥६.५॥
अष्टाशीतिशतमीषा तिर्यगक्षश्चतुःशतं । षडशीतियुगं चास्य रथश्चारण उच्यते इति रथपरिमाणं ॥६.५॥
अरत्निभिर्वा चतुर्भिः पश्चात्षड्भिः प्राची त्रिभिः पुरस्तात् । तदेकरज्ज्वोक्तं पञ्चदशिकेनैवापायम्य द्वाभ्यां अध्यर्धेनेति श्रोण्यंसान्निर्हरेथ् ॥६.६॥
यजमानमात्री चतुःस्रक्तिर्भवतीति पैतृक्या वेदेर्विज्ञायते, तदेकरज्ज्वोक्तं पञ्चदशिकेनैवापायम्यार्धेन ततः श्रोण्यंसान्निर्हरेथ् ॥६.७॥
दशपदोत्तरा वेदिर्भवतीति सोमे विज्ञायते । तदेकरज्ज्वोक्तं पञ्चदशिकेनैवापायम्यार्धेन ततः श्रोण्यंसान्निर्हरेथ् ॥६.८॥
तां युगेन यजमानस्य वा पदैर्विमाय शम्यया परिमिमीते ॥६.९॥
पदे युगेऽरत्नावियति शम्यायां च मानार्थेषु यथाकामी शब्दार्थस्य विशयित्वाथ् ॥६.१०॥
विमितायां पुरस्तात्पार्श्वमान्या उपसंहरेत् । श्रुतिसामर्थ्याथ् ॥६.११॥


नवारत्नि तिर्यक्सप्तविंशतिरुदगायतं इति सदसो विज्ञायते ॥७.१॥
अष्ठादशेत्येकेषां ॥७.२॥
तदेकरज्ज्वोक्तं पञ्चदशिकेनैवापायम्यार्धपञ्चमैः श्रोण्यंसान्निर्हरेथ् ॥७.३॥
प्रादेशमुखाः प्रादेशान्तराला भवन्तीत्युपरवाणां विज्ञायते । अरत्निमात्रं चतुरश्रं विहृत्य स्रक्तिषु शङ्कून्निहत्यार्धप्रादेशेन तं तं परिलिखेच्छ्रुतिसामर्थ्याथ् ॥७.४॥
व्यायाममात्री भवतीति गार्हपत्यचितेर्विज्ञायते ॥७.५॥
चतुरश्रेत्येकेषाम्, परिमण्डलेत्येकेषां ॥७.६॥
करणं व्यायामस्य तृतीयायामं सप्तमव्यासं कारयेथ् ॥७.७॥
ता एकविंशतिर्भवन्ति ॥७.८॥
प्रागायामाः प्रथमे प्रस्तारेऽपरस्मिन्नुदगायामाः ॥७.९॥
मण्डलायां मृदो देहं कृत्वा मध्ये शङ्कुं निहत्यार्धव्यायामेन सह मण्डलं परिलिखेथ् ॥७.१०॥
तस्मिंश्चतुरश्रं अवदध्याद्यावत्सम्भवेत्तन्नवधा व्यवलिख्य त्रैधं एकैकं प्रधिकं विभजेथ् ॥७.१०॥
उपधाने चतुरश्रस्यावान्तरदेशान्प्रति स्रक्तीः सम्पादयेथ् ॥७.११॥
मध्यानीतरस्मिन्प्रस्तारे ॥७.११॥
व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेथ् ॥७.११॥
पिशीलमात्रा भवन्तीति धिष्ण्यानां विज्ञायते ॥७.१२॥
चतुरश्रा इत्येकेषां परिमण्डला इत्येकेषां ॥७.१३॥
मृदो देहान्कृत्वाग्नीध्रीयं नवधा व्यवलिख्य, एकस्याः स्थानेऽश्मानं उपपध्याथ् ॥७.१४॥
यथासङ्ख्यं इतरा व्यवलिख्य यथायोगं उपदध्याथ् ॥७.१५॥


भवतीव खलु वा एष योऽग्निं चिनुते इति विज्ञायते । वयसां वा एष प्रतिमया चीयत इत्याकृतिचोदनात् । प्रत्यक्षविधानाद्वा ॥८.१॥
यावदाम्नानेन वेणुना चतुरश्रे आत्मनि पुरुषानवमिमोते ॥८.२॥
पुरुषं दक्षिणे पक्षे पुरुषं पुच्छे पुरुषं उत्तरे ॥८.२॥
अरत्निना दक्षिणतो दक्षिणं पक्षं वर्धयति । एवं उत्तरत उत्तरं ॥८.२॥
प्रादेशेन वितस्त्या वा पश्चात्पुच्छं ॥८.२घ॥
एकविधः प्रथमोऽग्निर्द्विविधो द्वितीयस्त्रिविधस्तृतीयः त एवं एवोद्यन्त्यैकशतविधाथ् ॥८.३॥
तदु ह वै सप्तविधं एव चिन्वीत । सप्तविधो वाव प्राकृतोऽग्निः । तत ऊर्ध्वं एकोत्तरानिति विज्ञायते ॥८.४॥
एकविधप्रभृतीनां न पक्षपुच्छानि भवन्ति । सप्तविधवाक्यशेषत्वाच्छ्रुतिविप्रतिषेधाच्च ॥८.५॥
अष्टविधप्रभृतीनां यदन्यत्सप्तभ्यस्तत्सप्तधा विभज्य प्रतिपुरुषं आवेशयेथ् ॥८.६॥
आकृतिविकारस्याश्रुतत्वाथ् ॥८.६॥
पुरुषमात्रेण विमिमीतेऽ वेणुना विमिमीते, इति विज्ञायते ॥८.७॥
यावान्यजमान ऊर्ध्वबाहुस्तावदन्तराले वेणोश्छिद्रे करोति मध्ये तृतीयं ॥८.८॥
अपरेण यूपावटदेशं अनुपृष्ठ्यं वेणुं निधाय छिद्रेषु शङ्कून्निहत्योन्मुच्यापराभ्यां दक्षिणाप्राक्परिलिखेदान्ताथ् ॥८.९॥
उन्मुच्य पूर्वस्मादपरस्मिन्प्रतिमुच्य दक्षिणा प्रत्यक्परिलिखेदान्ताथ् ॥८.१०॥


उन्मुच्य वेणुं मध्यमे शङ्कावन्त्यं वेणोश्छिद्रं प्रतिमुच्योपर्युपरि लेखासमरं दक्षिणा वेणुं निधायान्त्ये छिद्रे शङ्कुं निहत्य तस्मिन्मध्यमं वेणोश्छिद्रं प्रतिमुच्य लेखान्तयोरितरे प्रतिष्ठाप्य छिद्रयोः शङ्कू निहन्ति ॥९.१॥
स पुरुषश्चतुरश्रः ॥९.१॥
एवं पुरदक्षिणं चतुर आत्मनि पुरुषानवमिमीते ॥९.२॥
पुरुषं दक्षिणे पक्षे । पुरुषं पुच्छे पुरुषं उत्तरे ॥९.२॥
अरत्निना दक्षिणतो दक्षिणं इत्युक्तं ॥९.२॥
पृष्ठ्यातो वा पुरुषमात्रस्याक्ष्णया वेणुं निधाय पूर्वस्मिन्नितरं । ताभ्यां दक्षिणं अंसं निर्हरेत् । विपर्यस्य श्रोणी ॥९.३॥
पूर्ववदुत्तरं अंसं ॥९.३॥
रज्ज्वा वा विमायोत्तरवेदिन्यायेन वेणुना विमिमीते ॥९.४॥
सपक्षपुच्छेषु विधाभ्यासेऽपचये च विधासप्तमकरणीं पुरुषस्थानीयां कृत्वा विहरेथ् ॥९.५॥
करणानाष्टकानां पुरुषस्य पञ्चमेन कारयेथ् ॥९.६॥
तासां एवैकतोऽध्यर्धास्तद्द्वितीयं । पुरुषस्य पञ्चमो भाग एकतः प्रादेश एकतः तत्तृतीयं ॥९.६॥
सर्वतः प्रादेशस्तच्चतुर्थं । समचतुरश्राः पञ्चदशभागीयास्तत्पञ्चमं ॥९.६॥
ऊर्व्ध्वप्रमाणमिष्टकानां जानोः जानोः पञ्चमेन कारयेथ् ॥९.७॥
अर्धेन नाकसदां पञ्चचूडानां च ॥९.७॥
यत्पच्यमानानां प्रतिह्रसीत पुरीषेण तत्सम्पूरयेदनियतपरिमाणत्वात्पुरीषस्य ॥९.८॥


उपधानेऽध्यर्धा दश पुरस्तात्प्रतीचीरात्मन्युपदधाति । दश पश्चात्प्राचीः ॥१०.१॥
पञ्चपञ्च पक्षाग्रयोः । पक्षाप्यययोश्च विशयास्तासां अर्धेष्टकामात्राणि पक्षयोर्भवन्ति ॥१०.१॥
पञ्चपञ्च पुच्छपार्श्वयोर्दक्षिणा उदीचीश्च ॥१०.१॥
पुच्छे प्रादेशं उपधाय सर्वं अग्निं पञ्चमभागीयाभिः प्रच्छादयेथ् ॥१०.२॥
पञ्चदशभागीयाभिः सङ्ख्यां पूरयेथ् ॥१०.३॥
अपरस्मिन्प्रस्तारेऽध्यर्धा दश दक्षिणत उदीचीरात्मन्युपदधाति । दशोत्तरतो दक्षिणाः ॥१०.४॥
यथा प्रथमे प्रस्तारे पक्षौ तथा पुच्छं । यथा पुच्छं तथा पक्षौ विपरीता अप्यये ॥१०.४॥
सर्वं अग्निं पञ्चमभागीयाभिः प्रच्छादयेथ् ॥१०.५॥
पञ्चदशभागीयाबिः सङ्ख्यां पूरयेथ् ॥१०.६॥
व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेथ् ॥१०.६॥
पञ्च चितयो भवन्ति । पञ्चभिः पुरीषैरभ्यूहतीति पुरीषान्ता चितिरर्थान्तरत्वात्पुरीषस्य ॥१०.७॥
जानुदघ्नीं साहस्रं चिन्वीत प्रथमं चिन्वानः ॥१०.८॥
नाभिदघ्नीं द्विषाहस्रं द्वितीयं आस्यदघ्नीं त्रिषाहस्रं तृतीयं उत्तरं उत्तरं ज्यायाम्सं ॥१०.८॥
महान्तं बृहन्तं अपरिमितं स्वर्गकामश्चिन्वीतेति विज्ञायते ॥१०.८॥
द्विषाहस्रे द्विप्रस्ताराश्चितयो भवन्ति । त्रिषाहस्र त्रिप्रस्ताराश्चतुर्थप्रभृतिष्वाहारेषु नित्यं इष्टकापरिमाणं ॥१०.९॥
विज्ञायते च ःन ज्यायांसं चित्वा कनीयांसं चिन्वीतेतिऽ ॥१०.१०॥


चतुरश्राभिरग्निं चिनुत इति विज्ञायत । समचतुरश्रा अनुपपदत्वाच्छब्दस्य ॥११.१॥
पादमात्रयो भवन्ति अरत्निमात्रयो भवन्त्यूर्वस्थिमात्रयो भवन्त्यणूकमात्रयो भवन्तीति विज्ञायते ॥११.२॥
चतुर्भागीयमणूकं । पञ्चमभागीयारत्निः । तथोर्वस्थि ॥११.३॥
पादेष्टका पादमात्री ॥११.३॥
तत्र यथाकामी शब्दार्थस्य विशयित्वाथ् ॥११.४॥
उपधानेऽष्टावष्टौ पादेष्टकाश्चतुर्भागीयानां पक्षाग्रयोर्निदध्यात् । सन्ध्योश्च तद्वदात्मानं षडङ्गुलापेताः ॥११.५॥
श्रोण्यंसेषु चाष्टौ प्राचीः प्रतीचिश्च ॥११.५॥
सन्ध्यन्तराले पञ्चभागीयाः सपादाः ॥११.६॥
पुच्छे प्रादेशमुपधाय सर्वं अग्निं चतुर्भागीयाभिः प्रच्छादयेथ् ॥११.७॥
पादेष्टकाभिः संख्यां पूरयेथ् ॥११.८॥
अपरस्मिन्प्रस्तारे पुच्छाप्यये पञ्चमभागीया विशयाः ॥११.९॥
ता आत्मनि चतुर्दशभिः पादैर्यथायोगं पर्युपदध्याथ् ॥११.९॥
सर्वं अग्निं पञ्चमभागीयाभिः प्रच्छादयेथ् ॥११.१०॥
पादेष्टकाक्षिः सङ्ख्यां पूरयेथ् ॥११.११॥
व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेथ् ॥११.११॥


एकविधप्रभृतीनां करणीनां द्वादशेन त्रयोदशेनेतीष्टकाः कारयेथ् ॥१२.१॥
पादेष्टकाश्च व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेथ् ॥१२.१॥
एकविधप्रभृतीनां प्रथमाहारेण द्वितीयेन तृतीयेनेति यो युज्येत । सर्वेषां यथा श्रुतिसङ्ख्या तथोर्ध्वप्रमाणं ॥१२.२॥
काम्या गुणविकाराः गुणशास्त्रत्वाथ् ॥१२.३॥
प्रौगचितं चिन्वीत भ्रातृव्यवानिति विज्ञायते ॥१२.४॥
यावानग्निः सारत्निप्रादेशो द्विस्तावतीं भूमिं चतुरश्रां कृत्वा पूर्वस्याः करण्या अर्धाच्छ्रोणीं प्रत्यालिखेत् । सा नित्या प्रौगं ॥१२.५॥
कराणानि चयनं इत्येकविधोक्तं ॥१२.६॥
प्रौगा इष्टकाः कारयेथ् ॥१२.६॥
उभययः प्रौगं चिन्वीत यः कामयेत प्रजातान्भ्रातृव्यान्नुदेय प्रतिजनिष्यमाणानिति विज्ञायते ॥१२.७॥
यथा विमुखे शकटे ॥१२.८॥
तावदेव तीर्घं चतुरश्रं विहृत्य पूर्वापरयोः करण्योरर्धात्तावति दक्षिणोत्तरयोर्निपातयेत् । सा नित्योभभयतः प्रौगं ॥१२.९॥
प्रौगचितोक्तीः (-क्तं) । उभयतः प्रौगा इष्टकाः कारयेथ् ॥१२.१०॥
रथचक्रचितं चिन्वीत भ्रातृव्यवानिति विज्ञायते ॥१२.११॥
यावानग्निः सारत्निप्रादेशस्तावतीं भूमिं परिमण्डलां कृत्वा तस्मिंश्चतुरश्रं अवदध्याद्यावत्सम्भवेथ् ॥१२.१२॥


तस्य करण्या द्वादशेनेष्टकाः कारयेथ् ॥१३.१॥
तासां षट्प्रधावुपधाय शेषं अष्टधा विभजेथ् ॥१३.२॥
उपधाने चतुरश्रस्यावान्तरदेशान्प्रति स्रक्तीः सम्पादयेत् । मध्यानीतरस्मिन्प्रस्तारे । व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेथ् ॥१३.३॥
द्रोणचितं चिन्वीतान्नकाम इति विज्ञायते ॥१३.४॥
द्वयानि तु खलु द्रोणानि, चतुरश्राणि परिमण्डलानि च ॥१३.५॥
तत्र यथाकामी शब्दार्थस्य विशयित्वाथ् ॥१३.६॥
चतुरश्रं वा यस्य गुणशास्त्रं ॥१३.७॥
स चतुरश्रः ॥१३.८॥
पश्चात्त्सरुर्भवत्यनुरूपत्वायेति विज्ञायते ॥१३.९॥
सर्वस्या भूमेर्दशमं त्सरुस्तस्य पुच्छेन निर्हार उक्तः ॥१३.१०॥
तस्य करण्या द्वादशेनेष्टकाः कारयेत् । अध्यर्धाः पादेष्टकाश्च ॥१३.११॥
उपधानेऽध्यर्धाः पुरस्तात्प्रतीचीरात्मन्युपदधाति । त्सर्वर्गे श्रोण्योश्च प्राचीः ॥१३.१२॥
सर्वं अग्निं चतुरश्राभिः प्रच्छादयेथ् ॥१३.१३॥
पादेष्टकाभिः सङ्ख्यां पूरयेथ् ॥१३.१४॥
अपरस्मिन्प्रस्तारेऽध्यर्धा दक्षिणत उदीचीरात्मन्युपदधात्युत्तरतश्च दक्षिणास्त्सरुपार्श्वयोर्दक्षिणा उतीचीश्च ॥१३.१५॥
सर्वमग्निं चतुरश्राभिः प्रच्छादयेथ् ॥१३.१६॥
पादेष्टकाक्षिः सङ्क्यां पूरयेथ् ॥१३.१७॥
व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेथ् ॥१३.१८॥


समूह्यं चिन्वीत पशुकाम इति विज्ञायते ॥१४.१॥
समूहन्नेवेष्टका उपदधाति ॥१४.२॥
दिक्षु चात्वाला भवन्ति । तेभ्यः पुरषिमभ्युदूहतीति विज्ञायते ॥१४.३॥
परिचाय्यं चिन्वीत ग्रामकाम इति विज्ञायते ॥१४.४॥
मध्यमां स्वयमातृण्णां प्रदक्षिणमिष्टकागणैः परिचिनोति । स परियाय्यः ॥१४.५॥
उपचाय्यं चिन्वीत ग्रामकाम इति विज्ञायते ॥१४.६॥
परिचाय्येनोक्तः ॥१४.७॥
श्मशानचितं चिन्वीत यः कामयेत्पितृलोक ऋध्नुयामिति विज्ञायते ॥१४.८॥
द्वयानि खलु श्ममशानानि चतुरश्राणि परिमण्डलानि च ॥१४.९॥
तत्र यथाकामी शब्दार्थस्य विशयित्वाथ् ॥१४.१०॥
चतुरश्रं वा । यस्य गुणशास्त्रं ॥१४.११॥
स चतुरश्रः । त्सरुवर्जं द्रोणचितोक्तः ॥१४.१२॥
छन्दश्चितं चिन्वीत पशुकाम इति विज्ञायते ॥१४.१३॥
सर्वैश्छन्दोबिश्चिनुयादित्येकं । प्राकृतैरित्यपरं ॥१४.१४॥


श्येनचितं चिन्वीत सुवर्गकाम इति विज्ञायते ॥१५.१॥
वक्रपक्षो व्यस्तपुच्छो भवति ॥१५.२॥
पश्चात्प्राङुदूहति । पुरस्तात्प्रत्यङ्ङुदूहति । एवं इव हि वयसां मध्ये पक्षनिर्णामो भवतीति विज्ञायते ॥१५.२॥
यावानग्निः सारत्निप्रादेशः सप्तविधः संपद्यते । प्रादेशं चतुर्थं आत्मनश्चतुर्भागीयाश्चाष्टौ । तासां तिस्रः शिर इतरत्पक्षयोर्विभजेथ् ॥१५.३॥
पञ्चारत्निः पुरुषः । चतुररत्निः व्यायामः । चतुर्विंशत्यङ्गुलयोऽरत्निः । तदर्धं प्रादेश इति क्ळ्प्तिः ॥१५.४॥
अर्धदशमा अरत्नयोऽङ्गुलयश्च चतुर्भागोनाः पक्षायामः ॥१५.५॥
द्विपुरुषां रज्जुं उभयतःपाशां करोति । मध्ये लक्षणं । पक्षस्यापरयोः कोट्योरन्तौ नियम्य लक्षणेन प्राचीनं आयच्छेदेवं पुरस्तात् । स निर्णामः ॥१५.६॥
एतेनोत्तरः पक्षो व्याख्यातः ॥१५.७॥
आत्मा द्विपुरुषायामोऽध्यर्धपुरुषव्यासः ॥१५.८॥
पुच्छेऽर्धपुरुषव्यासं पुरुषं प्रतीचीनं आयच्छेत् । तस्य दक्षिणतोऽन्यं उत्तरतश्च ॥१५.९॥
तावक्ष्णया व्यवलिखेत् । यथार्धपुरुषोऽप्यये स्याथ् ॥१५.९॥
शिरस्यर्धपुरुषेण चतुरश्रं कृत्वा पूर्वस्याः करण्या अर्धात्तावति दक्षिणयोर्निपातयेथ् ॥१५.१०॥


अप्ययान्प्रति श्रोण्यंसानपच्छिन्द्याथ् ॥१६.१॥
एवं इव हि श्येनः ॥१६.१॥
करणं पुरुषस्य पञ्चमायामं षष्ठव्यासं कारयेद्यथायोगनतं तत्प्रथमं ॥१६.२॥
ते द्वे प्राची संहिते । तद्द्वितीयं ॥१६.३॥
प्रथमस्य षड्भागं अष्टभागेन वर्धयेत् । यथायोगनतं तत्तृतीयं ॥१६.४॥
चतुर्भागीयाध्यर्धा । तस्याश्चतुर्भागीयामात्रं अक्ष्णया छिन्द्यात् । तच्चतुर्थं ॥१६.५॥
चतुर्बागीयार्धं पञ्चमं ॥१६.६॥
तस्याक्ष्णया भेदः षष्ठं ॥१६.७॥
पुरुषस्य पञ्चमभागं दशभागव्यासं प्रतीचीनं आयच्छेत् । तस्य दक्षिणतोऽन्यं उत्तरतश्च । तावक्ष्णया दक्षिणॉअरयोः कोट्योरालिखेत् । तत्सप्तमं ॥१६.८॥
एवमन्यत् । उत्तरं तूत्तरस्याः कोट्यालिखेत्तदष्टमं ॥१६.९॥
चतुर्भागीयाक्ष्णयोभयतो भेदो नवमं ॥१६.१०॥
उपधाने षष्टिःषष्टिः पक्षयोः प्रथमा उदीचीर्निरुपदध्याथ् ॥१६.११॥
पुच्छपार्श्वयोरष्टावष्टौ षठ्ययस्तिस्रोऽग्रे तत एकान्ततस्तिस्रः तत एका ॥१६.१२॥
पुच्छाप्यये चतुर्थ्यौ विशये । तयोस्तु पश्चात्पञ्चम्यावनीकसंहिते ॥१६.१२॥


शेषे दश चतुर्थ्यः श्रोण्यंसेषु चाष्टौ प्राचीः प्रतीचीश्च ॥१७.१॥
शेषे च षड्विंशतिरष्टौ षष्टयश्चतस्रः पञ्चम्यः ॥१७.२॥
शिरसि चतुर्थ्यौ विशये । तयोश्च पुरस्तात्प्राच्यौ ॥१७.३॥
एष द्विशतः प्रस्तारः ॥१७.४॥
अपरस्मिन्प्रस्तारे पञ्चपञ्च निर्णामयोर्द्वितीयाः । अप्यययोश्च तृतीया आत्मानं अष्टभागावेताः ॥१७.५॥
शेषे पञ्चचत्वारिंशत्प्रथमाः प्राचीः ॥१७.५॥
पुच्छपार्श्वयोः पञ्चपञ्च सप्तम्यः ॥१७.६॥
द्वितीयचतुर्थोश्चान्यतरतः प्रतिसंहितां एकैकां ॥१७.६॥
शेषे त्रयोदशाष्टम्यः ॥१७.६॥
श्रोण्यंसेषु चाष्टौ चतुर्थ्यो दक्षिणा उदीचीश्च ॥१७.७॥
शेषे च विंशतिस्त्रिंशत्षष्ठयः एकां पञ्चमीं ॥१७.७॥
शिरसि चतुर्थ्यौ तयोश्च पुरस्ताच्चतस्रो नवम्यः ॥१७.८॥
एष द्विशतप्रस्तारः ॥१७.९॥
व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेथ् ॥१७.१०॥


श्येनचितं चिन्वीत सुवर्गकाम इति विज्ञायते ॥१८.१॥
वक्रपक्षो व्यस्तपुच्छो भवति । पश्चात्प्राङुदूहति । पुरस्तात्प्रत्यङुदूहति । एवं इव हि वयसां मध्ये पक्षनिर्णामो भवतीति विज्ञायते ॥१८.२॥
पुरुषस्य षोडशभिर्विंशं शतं सारत्निप्रादेशः सप्तविधः संपद्यते । तासां चत्वारिंशदात्मनि तिस्रः शिरसि पञ्चदश पुच्छ एकत्रिंशद्दक्षिणे पक्षे तथोत्तरे ॥१८.३॥
अध्यर्धपुरुषस्तिर्यग्द्वावायामत इति दीर्घं चतुरश्रं विहृत्य श्रोण्यंसेभ्यो द्वे द्वे षोडस्यौ निरस्येत् । चत्वारिंशत्परिशिष्यन्ते । स आत्मा ॥१८.४॥
शिरस्यर्धपुरुषेण चतुरश्रं कृत्वा पूर्वस्याः करण्या अर्धात्तावति दक्षिणोत्तरयोर्निपातयेथ् ॥१८.५॥
तिस्रः परिशिष्यन्ते । तच्छिरः ॥१८.५॥
पुरुषस्तिर्यग्द्वावायामतः षोडशभागश्च दक्षिणः पक्षः । तथोत्तरः ॥१८.६॥
पक्षाग्रेपक्षाग्रे पुरुषचतुर्थेन चत्वारि चतुरश्राणि कृत्वा तान्यक्ष्णया व्यवलिख्यार्धानि निरस्येत् । एकत्रिंशत्परिशिष्यन्ते ॥१८.७॥
पक्षाग्रं उत्सृज्य मध्ये पक्षस्य प्राचीं लेखां आलिखेथ् ॥१८.८॥
पक्षाप्यये पुरुषं नियम्य लेखायां पुरुषान्ते नितोदन्तुकुर्यात् । नितोदात्प्राचीनं पुरुषान्ते नितोदं नितोदयोर्नानान्तावालिखेत् । तत्पक्षिनमनं । एतेनोत्तरः पक्षो व्याख्यातः ॥१८.८॥


द्विपुरुषं पस्चादर्धपुरुषं पुरस्ताच्चतुर्भागोनः पुरुष आयामोऽष्टादशकरण्यो पार्श्वयोस्ताः पञ्चदशपरिगृह्णन्ति । तत्पुच्छं ॥१९.१॥
षोडशीं चतुर्भिः परिगृह्णीयाथ् ॥१९.२॥
अष्टमेन त्रिभिरष्टमैश्चतुर्थेन चतुर्थसविशेषेणेति ॥१९.२॥
अर्धेष्टकां त्रिभिर्द्वाभ्यां चतुर्थाभ्यां चतुर्थसविशेषेणेति ॥१९.३॥
पादेष्टकां त्रिभिश्चतुर्थेनैकं चतुर्थसविशेषार्धाभ्यां चेति ॥१९.४॥
पक्षेष्टकां चतुर्भिर्द्वाभ्यां चतुर्थाभ्यां द्विसप्तमाभ्यां चेति ॥१९.५॥
पक्षमध्यीयां चतुर्भिर्द्वाभ्यां चतुर्थाभ्यां द्विसप्तमाभ्यां चेति ॥१९.६॥
पक्षाग्रीयां त्रिभिश्चतुर्थेनैकं चतुर्थसप्तमाभ्यां एकं चतुर्थसविशेषसप्तमाभ्यां चेति ॥१९.७॥
पक्षकरण्याःसप्तमं तिर्यङ्मानी । पुरुषचतुर्थं च पार्श्वमानी । तस्याक्ष्णया रज्ज्वा करणं प्रजृम्भयेथ् ॥१९.८॥
पक्षनमन्याः सप्तमेन फलकानि नमयेथ् ॥१९.८॥
उपधाने चतस्रः पादेष्टकाः पुरस्ताच्छिरसि । अपरेण शिरसोऽप्ययं पञ्च । पूर्वेण पक्षाप्ययावेकादश । अपरेणैकादश पूर्वेण पुच्छाप्ययं पञ्चापरेण पञ्च पञ्चदश पुच्छाग्रे ॥१९.९॥


चतस्रश्चतस्रः पक्षाग्रीयाः पक्षाग्रयोः पक्षाप्यययोश्च विशयाः ॥२०.१॥
ता आत्मनि चतसृभिश्चतसृभिः षोडशीभिर्यथायोगं पर्युपदध्याथ् ॥२०.२॥
चतस्रश्चतस्रः पक्षमध्यीयाः पक्षमध्ययोः ॥२०.३॥
पक्षेष्टकाभिः प्राचीभिः पक्षौ प्रच्छादयेथ् ॥२०.४॥
अवशिष्टं षोडशीभिः प्राच्छादयेथ् ॥२०.५॥
अन्त्या बाह्यविशेषा अन्यत्र शिरसः ॥२०.५॥
अपरस्मिन्प्रस्तारे पुरस्ताच्छिरसि द्वे षोडश्यौ बाह्यविशेषे उपदध्याथ् ॥२०.६॥
तेऽपरेण द्वे विशये अभ्यन्तरविशेषे ॥२०.६॥
द्वाभ्यां अर्धेष्टकाभ्यां यथायोगं पर्युपदध्याथ् ॥२०.७॥
बाह्यविशेषाभ्यां परिगृह्णीयाथ् ॥२०.७॥
आत्मनः करणीनां सन्धिषु षोडश्यो बाह्यविशेषा उपदध्याथ् ॥२०.८॥
चतस्रश्चतस्रोऽर्धेष्टकाः पक्षाग्रयोः ॥२०.९॥
पक्षेष्टकाभिरुदीचीभिः पक्षौ प्रच्छादयेथ् ॥२०.९॥
तिस्रस्तिस्रोऽर्धेष्टकाः पुच्छपार्श्वयोः ॥२०.१०॥
अवशिष्टं षोडशीभिः प्रच्छादयेथ् ॥२०.११॥
अन्त्या बाह्यविशेषा अन्यत्र पुच्छाथ् ॥२०.११॥
यच्चतुरश्रं त्र्यश्रं वा संपद्येतार्धेष्टकाभिः पादेष्टकाभिर्वा प्रच्छादयेथ् ॥२०.१२॥
अणूकाः पञ्चदशभागीयानां स्थाने ॥२०.१३॥
व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेथ् ॥२०.१४॥


कङ्कचिदलजचिदिति श्येनचिता व्याख्यातौ ॥२१.१॥
एवमि व हि श्येनस्य वर्षीयांसौ पक्षौ पुच्छाद्वक्रौ संनतं पुच्छं दीर्घ आत्मा मण्डलं शिरश्च । तस्माच्छ्रुतिसामर्थ्याथ् ॥२१.२॥
अशिरस्को वानाम्नानाथ् ॥२१.२॥
ज्ञायते च । कङ्कचितं शीर्षण्वन्तं चिन्वीत यः कामयेत सशीर्षोऽमुष्मिंल्लोके संभवेयं इति विद्यमाने कथं ब्रूयाथ् ॥२१.३॥
प्राकृतौ वक्रौ पक्षौ संनतं पुच्छं विकारश्रवणाथ् ॥२१.४॥    
यथाप्रकृत्यात्माविकाराथ् ॥२१.४॥
यथो एतच्छेयनचितं चिन्वीतेति । यावदाम्नानसारूप्यं तद्व्याख्यातं ॥२१.५॥
त्रिस्तावोऽग्निर्भवतीत्यश्वमेधे विज्ञायते ॥२१.६॥
तत्र सर्वाब्यासोऽविशेषाथ् ॥२१.७॥
दीर्घचतुरश्राणां समासेन पक्षपुच्छानां समास उक्तः ॥२१.८॥
एकविंशोऽग्निर्भवतीत्यश्वमेधे विज्ञायते ॥२१.९॥
तत्र पुरुषाभ्यासो नारत्निप्रादेशानां सङ्ख्यासंयोगात्सङ्ख्यासंयोगाथ् ॥२१.१०॥

Translation - भाषांतर
N/A

References :
wikibooks

शुल्बसूत्र

Last Updated : 2011-09-19T08:27:09.0900000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Did you know?

घरातील देव्हार्‍यात कोणते देव पूजावेत आणि कोणते नाही?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.