TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

कल्पस्थान - अध्याय ६

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


अध्याय ६
धन्वे साधारणे देशे समे सन्-मृत्तिके शुचौ ।
श्मशान-चैत्यायतन-श्वभ्र-वल्मीक-वर्जिते ॥१॥

धन्व-साधारणे देशे श्मशान-चैत्याद्यतन- मृदौ प्रदक्षिण-जले कुश-रोहिष-संस्तृते ।
अ-फाल-कृष्टे ऽन्-आक्रान्ते पादपैर् बल-वत्-तरैः ॥२॥

कुश-रोहिष-संस्कृते शस्यते भेषजं जातं युक्तं वर्ण-रसादिभिः ।
जन्त्व्-अ-जग्धं दवा-दग्धम् अ-विदग्धं च वैकृतैः ॥३॥

जन्त्व्-अ-जुष्टं दवा-दग्धम् अ-विजग्धं च वैकृतैः भूतैश् छायातपाम्ब्व्-आद्यैर् यथा-कालं च सेवितम् ।
अवगाढ-महा-मूलम् उदीचीं दिशम् आश्रितम् ॥४॥

उदीचीं दिशम् आस्थितम् महेन्द्र-राम-कृष्णानां ब्राह्मणानां गवाम् अपि ।
तपसा तेजसा वापि प्रशाम्यध्वं शिवाय वै ॥४॥
च्व् तपसां तेजसां वापि द्व् प्रशाम्यध्वं शमाय वै मन्त्रेणानेन मति-मान् सर्वम् अप्य् औषधं नयेत् ॥४॥
अथ कल्याण-चरितः श्राद्धः शुचिर् उपोषितः ।
गृह्णीयाद् औषधं सु-स्थं स्थितं काले च कल्पयेत् ॥५॥

स-क्षीरं तद् अ-संपत्ताव् अन्-अतिक्रान्त-वत्सरम् ।
ऋते गुड-घृत-क्षौद्र-धान्य-कृष्णा-विडङ्गतः ॥६॥

ऋते घृत-गुड-क्षौद्र- पयो बाष्कयणं ग्राह्यं विण्-मूत्रं तच् च नी-रुजाम् ।
वयो-बल-वतां धातु-पिच्छ-शृङ्ग-खुरादिकम् ॥७॥

विण्-मूत्रं तच् च नी-रुजि विण्-मूत्रं तच् च नी-रुजम् ६.पुच्छ-शृङ्ग-खुरादिकम् ६.पित्त-शृङ्ग-खुरादिकम् कषाय-योनयः पञ्च रसा लवण-वर्जिताः ।
रसः कल्कः शृतः शीतः फाण्टश् चेति प्रकल्पना ॥८॥

फाण्टश् चेति प्रकल्पनाः पञ्च-धैव कषायाणां पूर्वं पूर्वं बलाधिका ।
सद्यः-समुद्धृतात् क्षुण्णाद् यः स्रवेत् पट-पीडितात् ॥९॥

पञ्च चैव कषायाणां पूर्वं पूर्वं बलाधिकाः पूर्वं पूर्वं बलावहाः सद्यः-समुद्धृत-क्षुण्णाद् यः स्रवेत् पट-पीडनात् स्व-रसः स समुद्दिष्टः कल्कः पिष्टो द्रवाप्लुतः ।
चूर्णो ऽ-प्लुतः शृतः क्वाथः शीतो रात्रिं द्रवे स्थितः ॥१०॥

शीतो रात्रौ द्रवे स्थितः सद्यो-ऽभिषुत-पूतस् तु फाण्टस् तन्-मान-कल्पने ।
युञ्ज्याद् व्याध्य्-आदि-बलतस् तथा च वचनं मुनेः ॥११॥

सद्यो-ऽभिक्षुण्ण-पूतस् तु मात्राया न व्यवस्थास्ति व्याधिं कोष्ठं बलं वयः ।
आलोच्य देश-कालौ च योज्या तद्-वच् च कल्पना ॥१२॥

मात्राया नास्त्य् अवस्थानं दोषम् अग्निं बलं वयः मध्यं तु मानं निर्दिष्टं स्व-रसस्य चतुः-पलम् ।
पेष्यस्य कर्षम् आलोड्यं तद् द्रवस्य पल-त्रये ॥१३॥

मध्य-मानं विनिर्दिष्टं क्वाथं द्रव्य-पले कुर्यात् प्रस्थार्धं पाद-शेषितम् ।
शीतं पले पलैः षड्भिश् चतुर्भिस् तु ततो ऽपरम् ॥१४॥

चतुर्भिश् च ततो ऽपरम् चतुर्भिस् तु ततः परम् स्नेह-पाके त्व् अ-मानोक्तौ चतुर्-गुण-विवर्धितम् ।
कल्क-स्नेह-द्रवं योज्यम् अधीते शौनकः पुनः ॥१५॥

स्नेहे सिध्यति शुद्धाम्बु-निःक्वाथ-स्व-रसैः क्रमात् ।
कल्कस्य योजयेद् अंशं चतुर्थं षष्ठम् अष्टमम् ॥१६॥

पृथक् स्नेह-समं दद्यात् पञ्च-प्रभृति तु द्रवम् ।
नाङ्गुली-ग्राहि-ता कल्के न स्नेहे ऽग्नौ स-शब्द-ता ॥१७॥

द्रवं तु पञ्च-प्रभृति पृथक् स्नेह-समं क्षिपेत् शुष्क-द्रव्यं यदा न स्यात् तदा सद्यः-समुद्धृतम् ।
द्वि-गुणं तत् प्रयोक्तव्यं कुडवादि द्रवं तथा ॥१७.१+१॥

वर्णादि-संपच् च यदा तदैनं शीघ्रम् आहरेत् ।
घृतस्य फेनोपशमस् तैलस्य तु तद्-उद्भवः ॥१८॥

६.१८द्च् तैलस्य च तद्-उद्भवः लेहस्य तन्तु-मत्-ताप्सु मज्जनं सरणं न च ।
पाकस् तु त्रि-विधो मन्दश् चिक्कणः खर-चिक्कणः ॥१९॥

मज्जनं शरणं न च मन्दः कल्क-समे किट्टे चिक्कणो मदनोपमे ।
किञ्-चित् सीदति कृष्णे च वर्त्य-माने च पश्चिमः ॥२०॥

वर्ति-माने च पश्चिमः वर्तमाने च पश्चिमः वर्तमाने तु पश्चिमः दग्धो ऽत ऊर्ध्वं निष्कार्यः स्याद् आमस् त्व् अग्नि-साद-कृत् ।
मृदुर् नस्ये खरो ऽभ्यङ्गे पाने वस्तौ च चिक्कणः ॥२१॥

शाणं पाणि-तलं मुष्टिं कुडवं प्रस्थम् आढकम् ।
द्रोणं वहं च क्रम-शो विजानीयाच् चतुर्-गुणम् ॥२२॥

द्वि-गुणं योजयेद् आर्द्रं कुडवादि तथा द्रवम् ।
पेषणालोडने वारि स्नेह-पाके च निर्-द्रवे ॥२३॥

कल्पयेत् सदृशान् भागान् प्रमाणं यत्र नोदितम् ।
कल्की-कुर्याच् च भैषज्यम् अ-निरूपित-कल्पनम् ॥२४॥

अङ्गान्-उक्तौ तु मूलं स्याद् अ-प्रसिद्धौ तद् एव तु ।
द्वौ शाणौ वटकः कोलं बदरं द्रङ्क्षणश् च तौ ॥२५॥

अ-निर्दिष्टा-प्रसिद्धेषु मूलं ग्राह्यं त्वग्-आदिषु द्वौ शाणौ वटकः कोलो षड् वंश्यस् तु मरीचिः स्यात् षण् मरीच्यस् तु सर्षपः ।
तण्डुलः सर्षपास् त्व् अष्टौ धान्य-माषस् तु तौ यवः ॥२५.१॥
६.२५. द्व् धान्य-माषश् च तौ यवः ताव् अण्डिका चतुर्भिस् तैर् माषकः शाणकस् तथा ॥२५.१॥
६.२५.अव् तावन्तो गदिता माषाः ६.२५.अव् तैस् तुर्यैर् गुञ्जका माषस् ६.२५.ब्व् शाणो ऽयं मुनिभिः स्मृतः ६.२५.ब्व् तुर्याभिः शाणकः स्मृतः अक्षं पिचुः पाणि-तलं सुवर्णं कवड-ग्रहः ।
कर्षो बिडाल-पदकं तिन्दुकः पाणि-मानिका ॥२६॥

सुवर्णं कवड-ग्रहम् तिन्दुकं पाणि-मानिका शब्दान्य-त्वम् अ-भिन्ने ऽर्थे शुक्तिर् अष्टमिका पिचू ।
पलं प्रकुञ्चो बिल्वं च मुष्टिर् आम्रं चतुर्थिका ॥२७॥

शब्दान् एवम् अ-भिन्ने ऽर्थे शब्दा ह्य् अमी अ-भिन्ने ऽर्थे द्वे पले प्रसृतस् तौ द्वाव् अञ्जलिस् तौ तु मानिका ।
आढकं भाजनं कंसो द्रोणः कुम्भो घटो ऽर्मणम् ॥२८॥

द्वे पले प्रसृतिस् तौ द्वाव् तुला पल-शतं तानि विंशतिर् भार उच्यते ।
हिमवद्-विन्ध्य-शैलाभ्यां प्रायो व्याप्ता वसुन्धरा ॥२९॥

तुला पल-शतं तासां सौम्यं पथ्यं च तत्राद्यम् आग्नेयं वैन्ध्यम् औषधम् ॥२९॥
६.२९अव् सौम्यं तत्राद्यम् आग्नेयं ६.२९ब्व् वैन्ध्यम् औषधम् ईरितम्

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:49:10.3070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

iridocorneal

  • परितारिकापारपटल- 
RANDOM WORD

Did you know?

कुंभमेळ्याबद्दल माहिती द्या? नजिकचा कुंभमेळा कोठे आहे ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site