TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

कल्पस्थान - अध्याय ३

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


अध्याय ३
वमनं मृदु-कोष्ठेन क्षुद्-वताल्प-कफेन वा ।
अति-तीक्ष्ण-हिम-स्तोकम् अ-जीर्णे दुर्-बलेन वा ॥१॥

पीतं प्रयात्य् अधस् तस्मिन्न् इष्ट-हानिर् मलोदयः ।
वामयेत् तं पुनः स्निग्धं स्मरन् पूर्वम् अतिक्रमम् ॥२॥

स्मरन् पूर्वम् अनु-क्रमम् अ-जीर्णिनः श्लेष्म-वतो व्रजत्य् ऊर्ध्वं विरेचनम् ।
अति-तीक्ष्णोष्ण-लवणम् अ-हृद्यम् अति-भूरि वा ॥३॥

तत्र पूर्वोदिता व्यापत् सिद्धिश् च न तथापि चेत् ।
आशये तिष्ठति ततस् तृतीयं नावचारयेत् ॥४॥

अन्य-त्र सात्म्याद् धृद्याद् वा भेषजान् निर्-अपायतः ।
अ-स्निग्ध-स्विन्न-देहस्य पुराणं रूक्षम् औषधम् ॥५॥

अन्य-त्र सात्म्याद् धृद्याद् च अ-स्निग्धा-स्विन्न-देहस्य दोषान् उत्क्लेश्य निर्हर्तुम् अ-शक्तं जनयेद् गदान् ।
विभ्रंशं श्वयथुं हिध्मां तमसो दर्शनं तृषम् ॥६॥

चिद्-भ्रंशं श्वयथुं हिध्मां पिण्डिकोद्वेष्टनं कण्डूम् ऊर्वोः सादं वि-वर्ण-ताम् ।
स्निग्ध-स्विन्नस्य वात्य्-अल्पं दीप्ताग्नेर् जीर्णम् औषधम् ॥७॥

स्निग्ध-स्विन्नस्य चात्य्-अल्पं शीतैर् वा स्तब्धम् आमे वा समुत्क्लेश्याहरन् मलान् ।
तान् एव जनयेद् रोगान् अ-योगः सर्व एव सः ॥८॥

शीतैर् वा स्तब्धम् आमैर् वा समुत्क्लेश्याहरेन् मलान् समुत्क्लेश्य हरेन् मलान् तं तैल-लवणाभ्यक्तं स्विन्नं प्रस्तर-संकरैः ।
निरूढः जाङ्गल-रसैर् भोजयित्वानुवासयेत् ॥९॥

स्विन्नं संस्तर-संकरैः स्विन्नं संस्तर-शङ्करैः फल-मागधिका-दारु-सिद्ध-तैलेन मात्रया ।
स्निग्धं वात-हरैः स्नेहैः पुनस् तीक्ष्णेन शोधयेत् ॥१०॥

बहु-दोषस्य रूक्षस्य मन्दाग्नेर् अल्पम् औषधम् ।
सोदावर्तस्य चोत्क्लेश्य दोषान् मार्गान् निरुध्य तैः ॥११॥

दोषान् मार्गं निरुध्य तैः भृशम् आध्मापयेन् नाभिं पृष्ठ-पार्श्व-शिरो-रुजम् ।
श्वासं विण्-मूत्र-वातानां सङ्गं कुर्याच् च दारुणम् ॥१२॥

भृशम् आध्मापयेन् नाभि- पृष्ठ-पार्श्व-शिरो-रुजम् अभ्यङ्ग-स्वेद-वर्त्य्-आदि स-निरूहानुवासनम् ।
उदावर्त-हरम् सर्वं कर्माध्मातस्य शस्यते ॥१३॥

पञ्च-मूल-यव-क्षार-वचा-भूतिक-सैन्धवैः ।
यवागूः सु-कृता शूल-विबन्धानाह-नाशनी ॥१४॥

पञ्च-कोल-यव-क्षार- पिप्पली-दाडिम-क्षार-हिङ्गु-शुण्ठ्य्-अम्ल-वेतसान् ।
स-सैन्धवान् पिबेन् मद्यैः सर्पिषोष्णोदकेन वा ॥१५॥

प्रवाहिका-परिस्राव-वेदना-परिकर्तने ।
पीतौषधस्य वेगानां निग्रहान् मारुतादयः ॥१६॥

प्रवाहिका-परिस्रावे वेदना-परिकर्तने कुपिता हृदयं गत्वा घोरं कुर्वन्ति हृद्-ग्रहम् ।
हिध्मा-पार्श्व-रुजा-कास-दैन्य-लालाक्षि-विभ्रमैः ॥१७॥

जिह्वां खादति निः-संज्ञो दन्तान् कटकटाययन् ।
न गच्छेद् विभ्रमं तत्र वामयेद् आशु तं भिषक् ॥१८॥

दन्तान् कटकटायते मधुरैः पित्त-मूर्छार्तं कटुभिः कफ-मूर्छितम् ।
पाचनीयैस् ततश् चास्य दोष-शेषं विपाचयेत् ॥१९॥

पाचनीयैस् ततश् चाशु दोष-शेषं च पाचयेत् कायाग्निं च बलं चास्य क्रमेणाभिप्रवर्धयेत् ।
पवनेनाति-वमतो हृदयं यस्य पीड्यते ॥२०॥

क्रमेणाभिप्रवर्तयेत् तस्मै स्निग्धाम्ल-लवणान् दद्यात् पित्त-कफे ऽन्य-था ।
पीतौषधस्य वेगानां निग्रहेण कफेन वा ॥२१॥

तस्मै स्निग्धाम्ल-लवणं रुद्धो ऽति वा विशुद्धस्य गृह्णात्य् अङ्गानि मारुतः ।
स्तम्भ-वेपथु-निस्तोद-सादोद्वेष्टार्ति-भेदनैः ॥२२॥

रुद्धो वाति विशुद्धस्य सादोद्वेष्टाधिभेदनैः तत्र वात-हरं सर्वं स्नेह-स्वेदादि शस्यते ।
बहु-तीक्ष्णं क्षुधार्तस्य मृदु-कोष्ठस्य भेषजम् ॥२३॥

हृत्वाशु विट्-पित्त-कफान् धातून् आस्रावयेद् द्रवान् ।
तत्राति-योगे मधुरैः शेषम् औषधम् उल्लिखेत् ॥२४॥

धातून् प्रस्रावयेद् द्रवान् योज्यो ऽति-वमने रेको विरेके वमनं मृदु ।
परिषेकावगाहाद्यैः सु-शीतैः स्तम्भयेच् च तम् ॥२५॥

योज्यो ऽति रेको वमिते अञ्जनं चन्दनोशीरम् अजासृक्-शर्करोदकम् ।
लाज-चूर्णैः पिबेन् मन्थम् अति-योग-हरं परम् ॥२६॥

अञ्जनं चन्दनोशीर- मज्जासृक्-शर्करोदकम् वमनस्याति-योगे तु शीताम्बु-परिषेचितः ।
पिबेत् फल-रसैर् मन्थं स-घृत-क्षौद्र-शर्करम् ॥२७॥

सोद्गारायां भृशं छर्द्यां मूर्वाया धान्य-मुस्तयोः ।
स-मधूकाञ्जनं चूर्णं लेहयेन् मधु-संयुतम् ॥२८॥

मूर्छायां धान्य-मुस्तयोः वमतो ऽन्तः प्रविष्टायां जिह्वायां कवड-ग्रहाः ।
स्निग्धाम्ल-लवणा हृद्या यूष-मांस-रसा हिताः ॥२९॥

स्निग्धाम्ल-लवणा हृद्याश् छाग-मांस-रसा हिताः फलान्य् अम्लानि खादेयुस् तस्य चान्ये ऽग्रतो नराः ।
निःसृतां तु तिल-द्राक्षा-कल्क-लिप्तां प्रवेशयेत् ॥३०॥

तस्य चान्ये ऽग्रतो जनाः तस्य चैवाग्रतो नराः कल्क-लिप्तां प्रयोजयेत् वाग्-ग्रहानिल-रोगेषु घृत-मांसोपसाधिताम् ।
यवागूं तनुकां दद्यात् स्नेह-स्वेदौ च काल-वित् ॥३१॥

अति-योगाच् च भैषज्यं जीवं हरति शोणितम् ।
तज् जीवादानम् इत्य् उक्तम् आदत्ते जीवितं यतः ॥३२॥

आधत्ते जीवनं नृणाम् शुने काकाय वा दद्यात् तेनान्नम् असृजा सह ।
भुक्ते ऽ-भुक्ते वदेज् जीवं पित्तं वा भेषजेरितम् ॥३३॥

भुक्ता-भुक्तं वदेज् जीवं भुक्ते तस्मिन् वदेज् जीवम् भुक्त्वा-भुक्ते वदेज् जीवं अ-भुक्ते पित्तम् आदिशेत् शुक्लं वा भावितं वस्त्रम् आवानं कोष्ण-वारिणा ।
प्रक्षालितं वि-वर्णं स्यात् पित्ते शुद्धं तु शोणिते ॥३४॥

पित्तं शुद्धं तु शोणितं तृष्णा-मूर्छा-मदार्तस्य कुर्याद् आ-मरणात् क्रियाम् ।
रक्त-पित्तातिसार-घ्नीं तस्याशु प्राण-रक्षणीम् ॥३५॥

कुर्याद् आ-मरण-क्रियाम् तस्यापि प्राण-रक्षणीम् मृग-गो-महिषाजानां सद्यस्कं जीवताम् असृक् ।
पिबेज् जीवाभिसंधानं जीवं तद् ध्य् आशु गच्छति ॥३६॥

जीवं तद् ध्य् आशु यच्छति तद् एव दर्भ-मृदितं रक्तं वस्तौ निषेचयेत् ।
श्यामा-काश्मर्य-मधुक-दूर्वोशीरैः शृतं पयः ॥३७॥

घृत-मण्डाञ्जन-युतं वस्तिं वा योजयेद् धिमम् ।
पिच्छा-वस्तिं सु-शीतं वा घृत-मण्डानुवासनम् ॥३८॥

गुदं भ्रष्टं कषायैश् च स्तम्भयित्वा प्रवेशयेत् ।
वि-संज्ञं श्रावयेत् साम-वेणु-गीतादि-निस्वनम् ॥३९॥

स्तम्भयित्वा प्रयोजयेत्

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:49:09.8070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Apprentice Clerk

  • शिक्षु लिपिकक्लार्क 
RANDOM WORD

Did you know?

हिंदू धर्मात ३३ कोटी देवता आहेत काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.