TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

कल्पस्थान - अध्याय १

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


अध्याय १
वमने मदनं श्रेष्ठं त्रिवृन्-मूलं विरेचने ।
नित्यम् अन्यस्य तु व्याधि-विशेषेण विशिष्ट-ता ॥१॥

फलानि नाति-पाण्डूनि न चाति-हरितान्य् अपि ।
आदायाह्नि प्रशतर्क्षे मध्ये ग्रीष्म-वसन्तयोः ॥२॥

फलानि तानि पाण्डूनि न चाति-हरितानि च न चाति-हरितान्य् अथ प्रमृज्य कुश-मुत्तोल्यां क्षिप्त्वा बद्ध्वा प्रलेपयेत् ।
गो-मयेनानु मुत्तोलीं धान्य-मध्ये निधापयेत् ॥३॥

प्रमृज्य कुश-पूतोल्यां गो-मयेनानु पूतोलीं मृदु-भूतानि मध्व्-इष्ट-गन्धानि कुश-वेष्टनात् ।
निष्कृष्टानि गते ऽष्टाहे शोषयेत् तान्य् अथातपे ॥४॥

मृदु-भूतानि मद्येष्ट- निष्कृष्टानि गताष्टाहे निष्कृष्य निर्गते ऽष्टाहे निष्कृष्य विगते ऽष्टाहे तेषां ततः सु-शुष्काणाम् उद्धृत्य फल-पिप्पलीः ।
दधि-मध्व्-आज्य-पललैर् मृदित्वा शोषयेत् पुनः ॥५॥

दधि-मध्व्-आम्बु-पललैर् ततः सु-गुप्तं संस्थाप्य कार्य-काले प्रयोजयेत् ।
अथादाय ततो मात्रां जर्जरी-कृत्य वासयेत् ॥६॥

शर्वरीं मधुयष्ट्या वा कोविदारस्य वा जले ।
कर्बुदारस्य बिम्ब्या वा नीपस्य विदुलस्य वा ॥७॥

जीमूतकस्य बिम्ब्या वा शणपुष्प्याः सदापुष्प्याः प्रत्यक्पुष्प्य्-उदके ऽथ-वा ।
ततः पिबेत् कषायं तं प्रातर् मृदित-गालितम् ॥८॥

प्रत्यक्पुष्पोदके ऽथ-वा प्रत्यक्पुष्पोदकेन वा सूत्रोदितेन विधिना साधु तेन तथा वमेत् ।
श्लेष्म-ज्वर-प्रतिश्याय-गुल्मान्तर्-विद्रधीषु च ॥९॥

साधु तेन यथा वमेत् साधु तेन ततो वमेत् प्रच्छर्दयेद् विशेषेण यावत् पित्तस्य दर्शनम् ।
फल-पिप्पली-चूर्णं वा क्वाथेन स्वेन भावितम् ॥१०॥

त्रि-भाग-त्रि-फला-चूर्णं कोविदारादि-वारिणा ।
पिबेज् ज्वरा-रुचि-ष्ठेव-ग्रन्थ्य्-अपच्य्-अर्बुदोदरी ॥११॥

पिबेज् ज्वर-गर-ष्ठीव- पिबेज् ज्वर-गर-ष्ठेव- पिबेज् ज्वर-गर-स्वेद- पिबेज् ज्वरा-रुचि-ष्ठीव- पिबेज् ज्वरा-रुचिष्व् एवं ग्रन्थ्य्-अपच्य्-अर्बुदोदरी पित्ते कफ-स्थान-गते जीमूतादि-जलेन तत् ।
हृद्-दाहे ऽधो-ऽस्र-पित्ते च क्षीरं तत्-पिप्पली-शृतम् ॥१२॥

क्षैरेयीं वा कफ-च्छर्दि-प्रसेक-तमकेषु तु ।
दध्य्-उत्तरं वा दधि वा तच्-छृत-क्षीर-संभवम् ॥१३॥

प्रसेक-तमकेषु च फलादि-क्वाथ-कल्काभ्यां सिद्धं तत्-सिद्ध-दुग्ध-जम् ।
सर्पिः कफाभिभूते ऽग्नौ शुष्यद्-देहे च वामनम् ॥१४॥

शुष्क-देहे च वामनम् शुष्यद्-देहे तु वामनम् स्व-रसं फल-मज्ज्ञो वा भल्लातक-विधि-शृतम् ।
आ-दर्वी-लेपनात् सिद्धं लीढ्वा प्रच्छर्दयेत् सुखम् ॥१५॥

तं लेहं भक्ष्य-भोज्येषु तत्-कषायांश् च योजयेत् ।
वत्सकादि-प्रतीवापः कषायः फल-मज्ज-जः ॥१६॥

निम्बार्कान्य-तर-क्वाथ-समायुक्तो नियच्छति ।
बद्ध-मूलान् अपि व्याधीन् सर्वान् संतर्पणोद्भवान् ॥१७॥

श्लेष्म-संतर्पणोद्भवान् राठ-पुष्प-फल-श्लक्ष्ण-चूर्णैर् माल्यं सु-रूक्षितम् ।
वमेन् मण्ड-रसादीनां तृप्तो जिघ्रन् सुखं सुखी ॥१८॥

१.१चूर्णैर् माल्यं विरूक्षितम् १.१चूर्णैर् माल्यं सु-रूषितम् १.१चूर्णैर् मालां सु-रूषिताम् वमेन् नरो रसादीनां एवम् एव फला-भावे कल्प्यं पुष्पं शलाटु वा ।
जीमूताद्याश् च फल-वज् जीमूतं तु विशेषतः ॥१९॥

एवम् एव फला-लाभे प्रयोक्तव्यं ज्वर-श्वास-कास-हिध्मादि-रोगिणाम् ।
पयः पुष्पे ऽस्य निर्वृत्ते फले पेया पयस्-कृता ॥२०॥

रोमशे क्षीर-संतानं दध्य्-उत्तरम् अ-रोमशे ।
शृते पयसि दध्य्-अम्लं जातं हरित-पाण्डुके ॥२१॥

जाते हरित-पाण्डुके जाते हरित-पाण्डुरे जातं हरित-पाण्डुरे आसुत्य वारुणी-मण्डं पिबेन् मृदित-गालितम् ।
कफाद् अ-रोचके कासे पाण्डु-त्वे राज-यक्ष्मणि ॥२२॥

इयं च कल्पना कार्या तुम्बी-कोशातकीष्व् अपि ।
पर्यागतानां शुष्काणां फलानां वेणि-जन्मनाम् ॥२३॥

फलानां वेणु-जन्मनाम् फलानां चोणि-जन्मनाम् चूर्णस्य पयसा शुक्तिं वात-पित्तार्दितः पिबेत् ।
द्वे वा त्रीण्य् अपि वापोथ्य क्वाथे तिक्तोत्तमस्य वा ॥२४॥

द्वे वा त्रीण्य् अथ-वापोथ्य आरग्वधादि-नवकाद् आसुत्यान्य-तमस्य वा ।
विमृद्य पूतं तं क्वाथं पित्त-श्लेष्म-ज्वरी पिबेत् ॥२५॥

विमृज्य पूतं तं क्वाथं जीमूत-कल्कं चूर्णं वा पिबेच् छीतेन वारिणा ।
ज्वरे पैत्ते कवोष्णेन कफ-वातात् कफाद् अपि ॥२६॥

जीमूत-चूर्णं कल्कं वा कास-श्वास-विष-च्छर्दि-ज्वरार्ते कफ-कर्शिते ।
इक्ष्वाकुर् वमने शस्तः प्रताम्यति च मानवे ॥२७॥

ज्वरार्ते कफ-कर्षिते इक्ष्वाकुर् वमने श्रेष्ठः फल-पुष्प-विहीनस्य प्रवालैस् तस्य साधितम् ।
पित्त-श्लेष्म-ज्वरे क्षीरं पित्तोद्रिक्ते प्रयोजयेत् ॥२८॥

प्रवालैस् तेन साधितम् पित्तोद्रेके प्रयोजयेत् हृत-मध्ये फले जीर्णे स्थितं क्षीरं यदा दधि ।
स्यात् तदा कफ-जे कासे श्वासे वम्यं च पाययेत् ॥२९॥

हृत-मध्ये फले पक्वे श्वासे वम्यां च पाययेत् मस्तुना वा फलान् मध्यं पाण्डु-कुष्ठ-विषार्दितः ।
तेन तक्रं विपक्वं वा पिबेत् स-मधु-सैन्धवम् ॥३०॥

पाण्दुः कुष्ठी विषार्दितः भावयित्वाज-दुग्धेन बीजं तेनैव वा पिबेत् ।
विष-गुल्मोदर-ग्रन्थि-गण्डेषु श्लीपदेषु च ॥३१॥

सक्तुभिर् वा पिबेन् मन्थं तुम्बी-स्व-रस-भावितैः ।
कफोद्भवे ज्वरे कासे गल-रोगेष्व् अ-रोचके ॥३२॥

गुल्मे ज्वरे प्रसक्ते च कल्कं मांस-रसैः पिबेत् ।
नरः साधु वमत्य् एवं न च दौर्बल्यम् अश्नुते ॥३३॥

गुल्मे ज्वरे प्रसेके च तुम्ब्याः फल-रसैः शुष्कैः स-पुष्पैर् अवचूर्णितम् ।
छर्दयेन् माल्यम् आघ्राय गन्ध-संपत्-सुखोचितः ॥३४॥

तुम्ब्याः फल-रसैः शुष्कं गन्धं सम्यक् सुखोचितः गन्ध-संपत्-सुखोचितम् गन्धं सम्यक् सुखोचितम् कास-गुल्मोदर-गरे वाते श्लेष्माशय-स्थिते ।
कफे च कण्ठ-वक्त्र-स्थे कफ-संचय-जेषु च ॥३५॥

कफ-संचय-जेषु तु धामार्गवो गदेष्व् इष्टः स्थिरेषु च महत्सु च ।
जीवकर्षभकौ वीरा कपिकच्छूः शतावरी ॥३६॥

काकोली श्रावणी मेदा महामेदा मधूलिका ।
तद्-रजोभिः पृथग् लेहा धामार्गव-रजो-ऽन्विताः ॥३७॥

कासे हृदय-दाहे च शस्ता मधु-सिता-द्रुताः ।
ते सुखाम्भो-ऽनु-पानाः स्युः पित्तोष्म-सहिते कफे ॥३८॥

शस्ता मधु-सिता-युताः शस्ता मधु-सितान्विताः धान्य-तुम्बुरु-यूषेण कल्कस् तस्य विषापहः ।
बिम्ब्याः पुनर्नवाया वा कासमर्दस्य वा रसे ॥३९॥

बिम्ब्याः पुनर्नवायाश् च एकं धामार्गवं द्वे वा मानसे मृदितं पिबेत् ।
तच्-छृत-क्षीर-जं सर्पिः साधितं वा फलादिभिः ॥४०॥

क्ष्वेडो ऽति-कटु-तीक्ष्णोष्णः प्रगाढेषु प्रशस्यते ।
कुष्ठ-पाण्ड्व्-आमय-प्लीह-शोफ-गुल्म-गरादिषु ॥४१॥

प्रगाढेषु च शस्यते पृथक् फलादि-षट्कस्य क्वाथे मांसम् अनूप-जम् ।
कोशातक्या समं सिद्धं तद्-रसं लवणं पिबेत् ॥४२॥

कोशातक्याः समं सिद्धं फलादि-पिप्पली-तुल्यं सिद्धं क्ष्वेड-रसे ऽथ-वा ।
क्ष्वेड-क्वाथं पिबेत् सिद्धं मिश्रम् इक्षु-रसेन वा ॥४३॥

सिद्धं क्ष्वेड-रसेन वा क्ष्वेड-क्वाथे पिबेत् सिद्धं कौटजं सु-कुमारेषु पित्त-रक्त-कफोदये ।
ज्वरे विसर्पे हृद्-रोगे खुडे कुष्ठे च पूजितम् ॥४४॥

कुटजं सु-कुमारेषु सर्षपाणां मधूकानां तोयेन लवणस्य वा ।
पाययेत् कौटजं बीजं युक्तं कृशरयाथ-वा ॥४५॥

सप्ताहं वार्क-दुग्धाक्तं तच्-चूर्णं पाययेत् पृथक् ।
फल-जीमूतकेक्ष्वाकु-जीवन्ती-जीवकोदकैः ॥४६॥

सप्ताहं चार्क-दुघाक्तं वमनौषध-मुख्यानाम् इति कल्प-दिग् ईरिता ।
बीजेनानेन मति-मान् अन्यान्य् अपि च कल्पयेत् ॥४७॥

विधिनानेन मति-मान् अन्यान् अपि च कल्पयेत् अन्यान् अपि च योजयेत्

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:49:09.4800000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

joint reproduction rate

  • संयुक्त प्रजनन प्रमाण 
RANDOM WORD

Did you know?

केस काढण्यासंबंधी विशेष माहिती द्यावी.
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site