संस्कृत सूची|संस्कृत साहित्य|वेदः|ऋग्वेदः|मण्डल ५| सूक्तं ४५ मण्डल ५ सूक्तं १ सूक्तं २ सूक्तं ३ सूक्तं ४ सूक्तं ५ सूक्तं ६ सूक्तं ७ सूक्तं ८ सूक्तं ९ सूक्तं १० सूक्तं ११ सूक्तं १२ सूक्तं १३ सूक्तं १४ सूक्तं १५ सूक्तं १६ सूक्तं १७ सूक्तं १८ सूक्तं १९ सूक्तं २० सूक्तं २१ सूक्तं २२ सूक्तं २३ सूक्तं २४ सूक्तं २५ सूक्तं २६ सूक्तं २७ सूक्तं २८ सूक्तं २९ सूक्तं ३० सूक्तं ३१ सूक्तं ३२ सूक्तं ३३ सूक्तं ३४ सूक्तं ३५ सूक्तं ३६ सूक्तं ३७ सूक्तं ३८ सूक्तं ३९ सूक्तं ४० सूक्तं ४१ सूक्तं ४२ सूक्तं ४३ सूक्तं ४४ सूक्तं ४५ सूक्तं ४६ सूक्तं ४७ सूक्तं ४८ सूक्तं ४९ सूक्तं ५० सूक्तं ५१ सूक्तं ५२ सूक्तं ५३ सूक्तं ५४ सूक्तं ५५ सूक्तं ५६ सूक्तं ५७ सूक्तं ५८ सूक्तं ५९ सूक्तं ६० सूक्तं ६१ सूक्तं ६२ सूक्तं ६३ सूक्तं ६४ सूक्तं ६५ सूक्तं ६६ सूक्तं ६७ सूक्तं ६८ सूक्तं ६९ सूक्तं ७० सूक्तं ७१ सूक्तं ७२ सूक्तं ७३ सूक्तं ७४ सूक्तं ७५ सूक्तं ७६ सूक्तं ७७ सूक्तं ७८ सूक्तं ७९ सूक्तं ८० सूक्तं ८१ सूक्तं ८२ सूक्तं ८३ सूक्तं ८४ सूक्तं ८५ सूक्तं ८६ सूक्तं ८७ मण्डल ५ - सूक्तं ४५ ऋग्वेद फार प्राचीन वेद आहे. यात १० मंडल आणि १०५५२ मंत्र आहेत. ऋग्वेद म्हणजे ऋषींनी देवतांची केलेली प्रार्थना आणि स्तुति. Tags : rigvedavedऋग्वेदवेदसंस्कृत सूक्तं ४५ Translation - भाषांतर विदा दिवो विष्यन्नद्रिमुक्थैरायत्या उषसो अर्चिनो गुः ।अपावृत व्रजिनीरुत्स्वर्गाद्वि दुरो मानुषीर्देव आवः ॥१॥वि सूर्यो अमतिं न श्रियं सादोर्वाद्गवां माता जानती गात् ।धन्वर्णसो नद्यः खादोअर्णा स्थूणेव सुमिता दृंहत द्यौः ॥२॥अस्मा उक्थाय पर्वतस्य गर्भो महीनां जनुषे पूर्व्याय ।वि पर्वतो जिहीत साधत द्यौराविवासन्तो दसयन्त भूम ॥३॥सूक्तेभिर्वो वचोभिर्देवजुष्टैरिन्द्रा न्वग्नी अवसे हुवध्यै ।उक्थेभिर्हि ष्मा कवयः सुयज्ञा आविवासन्तो मरुतो यजन्ति ॥४॥एतो न्वद्य सुध्यो भवाम प्र दुच्छुना मिनवामा वरीयः ।आरे द्वेषांसि सनुतर्दधामायाम प्राञ्चो यजमानमच्छ ॥५॥एता धियं कृणवामा सखायोऽप या माताँ ऋणुत व्रजं गोः ।यया मनुर्विशिशिप्रं जिगाय यया वणिग्वङ्कुरापा पुरीषम् ॥६॥अनूनोदत्र हस्तयतो अद्रिरार्चन्येन दश मासो नवग्वाः ।ऋतं यती सरमा गा अविन्दद्विश्वानि सत्याङ्गिराश्चकार ॥७॥विश्वे अस्या व्युषि माहिनायाः सं यद्गोभिरङ्गिरसो नवन्त ।उत्स आसां परमे सधस्थ ऋतस्य पथा सरमा विदद्गाः ॥८॥आ सूर्यो यातु सप्ताश्वः क्षेत्रं यदस्योर्विया दीर्घयाथे ।रघुः श्येनः पतयदन्धो अच्छा युवा कविर्दीदयद्गोषु गच्छन् ॥९॥आ सूर्यो अरुहच्छुक्रमर्णोऽयुक्त यद्धरितो वीतपृष्ठाः ।उद्ना न नावमनयन्त धीरा आशृण्वतीरापो अर्वागतिष्ठन् ॥१०॥धियं वो अप्सु दधिषे स्वर्षां ययातरन्दश मासो नवग्वाः ।अया धिया स्याम देवगोपा अया धिया तुतुर्यामात्यंहः ॥११॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP