अर्थशास्त्रम् अध्याय १४ - भाग ३

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


(प्रलम्भनम्, तत्र भैषज्य.मन्त्र.योगह्)

३.०१
मार्जार.उष्ट्र.वृक.वराह.श्व.अवि.द्वागुली.नप्तृ.काक.उलूकानाम् अन्येषां वा निशा.चराणां सत्त्वानाम् एकस्य द्वयोर् बहूनां वा दक्षिणानि वामानि च_अक्षीणि गृहीत्वा द्विधा चूर्णं कारयेत् ॥

३.०२
ततो दक्षिणं वामेन वामं दक्षिणेन समभ्यज्य रात्रौ तमसि च पश्यति ॥

३.०३
एक.आम्लकं वराह.अक्षि ख.द्योतः काल.शारिवा ।

३.०३
एतेन_अभ्यक्त.नयनो रात्रौ रूपाणि पश्यति ॥

३.०४/त्रि.रात्र.उपोषितः पुष्येण शस्त्र.हतस्य शूल.प्रोतस्य वा पुंसः शिरः.कपाले मृत्तिकायां यवान् आवास्य_अविक्षीरेण सेचयेत् ॥

३.०५
ततो यव.विरूढ.मालाम् आबध्य नष्टच्.छाया.रूपश् चरति ॥

३.०६
त्रि.रत्र.उपोषितः पुष्येण श्व.मार्जार.उलूक.वागुलीनां दक्षिणानि वामानि च_अक्षीणि द्विधा चूर्णं कारयेत् ॥

३.०७
ततो यथा.स्वम् अभ्यक्त.अक्षो नष्टच्.छाया.रूपश् चरति ॥

३.०८
त्रि.रात्र.उपोषितः पुष्येण पुरुष.घातिनः काण्डकस्य शलाकाम् अञ्जनीं च कारयेत् ॥

३.०९
ततो अन्यतमेन_अक्षि.चूर्णेन_अभ्यक्त.अक्षो नष्टच्.छाया.रूपश् चरति ॥

३.१०
त्रि.रात्र.उपोषितः पुष्येण कालायसीम् अञ्जनीं शलाकां च कारयेत् ॥

३.११
ततो निशा.चराणां सत्त्वानाम् अन्यतमस्य शिरः.कपालम् अञ्जनेन पूरयित्वा मृतायाः स्त्रिया योनौ प्रवेश्य दाहयेत् ॥

३.१२
तद् अञ्जनं पुष्येण_उद्धृत्य तस्याम् अञ्जन्यां निदध्यात् ॥

३.१३
तेन_अभ्यक्त.अक्षो नष्ट.छाया.रूपश् चरति ॥

३.१४
यत्र ब्राह्मणम् आहित.अग्निं दग्धं दह्यमानं वा पश्येत् तत्र त्रि.रात्र.उपोषितः पुष्येण स्वयं.मृतस्य वाससा प्रसेवं कृत्वा चिता.भस्मना पूरयित्वा तम् आबध्य नष्टच्.छाया.रूपश् चरति ॥

३.१५
ब्राह्मणस्य प्रेत.कार्ये यो गौर् मार्यते तस्य_अस्थि.मज्ज.चूर्ण.पूर्णा_अहि.भस्त्रा पशूनाम् अन्तर्.धानम् ॥

३.१६
सर्प.दष्टस्य भस्मना पूर्णा प्रचलाक.भस्त्रा मृगाणाम् अन्तर्.धानम् ॥

३.१७
उलूक.वागुली.पुच्छ.पुरीष.जान्व्.अस्थि.चूर्ण.पूर्णा_अहि.भस्त्रा पक्षिणाम् अन्तर्.धानम् ॥

३.१८
इत्य् अष्टाव् अन्तर्.धान.योगः ॥

३.१९
"बलिं वैरोचनं वन्दे शत.मायं च शम्बरम् ।

३.१९
भण्डीर.पाकं नरकं निकुम्भं कुम्भम् एव च ॥

३.२०
देवलं नारदं वन्दे वन्दे सावर्णि.गालवम् ।

३.२०
एतेषाम् अनुयोगेन कृतं ते स्वापनं महत् ॥

३.२१
यथा स्वपन्त्य् अजगराः स्वपन्त्य् अपि चमू.खलाः ।

३.२१
तथा स्वपन्तु पुरुषा ये च ग्रामे कुतूहलाः ॥

३.२२
भण्डकानां सहस्रेण रथ.नेमि.शतेन च ।

३.२२
इमं गृहं प्रवेक्ष्यामि तूष्णीम् आसन्तु भाण्डकाः ॥

३.२३
नमस्.कृत्वा च मनवे बद्ध्वा शुनक.फेलकाः ।

३.२३
ये देवा देव.लोकेषु मानुषेषु च ब्राह्मणाः ॥

३.२४
अध्ययन.पारगाः सिद्धा ये च कौलास तापसाः ।

३.२४
एतेभ्यः सर्व.सिद्धेभ्यः कृतं ते स्वापनं महत् ॥

३.२५
अतिगच्छन्ति च मय्य् अपगच्छन्तु संहताः ॥

३.२६
अलिते, वलिते, मनवे स्वाहा ॥

३.२७
एतस्य प्रयोगः ॥

३.२८
त्रि.रात्र.उपोषितः कृष्ण.चतुर्.दश्यां पुष्य.योगिन्यां श्व.पाकी.हस्ताद् विलख.अवलेखनं क्रीणीयात् ॥

३.२९
तन्.माषैः सह कण्डोलिकायां कृत्वा_असंकीर्ण आदहने निखानयेत् ॥

३.३०
द्वितीयस्यां चतुर्दश्याम् उद्धृत्य कुमार्या पेषयित्वा गुलिकाः कारयेत् ॥

३.३१
तत एकां गुलिकाम् अभिमन्त्रयित्वा यत्र_एतन मन्त्रेण क्षिपति तत् सर्वं प्रस्वापयति ॥

३.३२
एतेन_एव कल्पेन श्वा.विधः शल्यकं त्रि.कालं त्रिश्वेतम् असंकीर्ण आदहने निखानयेत् ॥

३.३३
द्वितीयस्यां चतुर्दश्याम् उद्धृत्य_आदहन.भस्मना सह यत्र.एतेन मन्त्रेण क्षिपति तत् सर्वं प्रस्वापयति ॥

३.३४
"सुवर्ण.पुष्पीं ब्रह्माणीं ब्रह्माणं च कुश.ध्वजम् ।

३.३४
सर्वाश् च देवता वन्दे वन्दे सर्वांश् च तापसान् ॥

३.३५
वशं मे ब्राह्मणा यान्तु भूमि.पालाश् च क्षत्रियाः ।

३.३५
वशं वैश्याश् च शूद्राश् च वशतां यान्तु मे सदा ॥

३.३६
स्वाहा - अमिले किमिले वयु.चारे प्रयोगे फक्के वयुह्वे विहाले दन्त.कटके स्वाहा ॥

३.३७
सुखं स्वपन्तु शुनका ये च ग्रामे कुतूहलाः ।

३.३७
श्वा.विधः शल्यकं च_एतत् त्रि.श्वेतं ब्रह्म.निर्मितम् ॥

३.३८
प्रसुप्ताः सर्व.सिद्धा हि एतत् ते स्वापनं कृतम् ।

३.३८
यावद् ग्रामस्य सीमान्तः सूर्यस्य_उद्गमनाद् इति ॥

३.३९
स्वाहा" ॥

३.४०
एतस्य प्रयोगः ॥

३.४१
श्वा.विधः शल्यकानि त्रि.श्वेतानि, सप्त.रात्र.उपोषितः कृष्ण.चतुर्दश्यां खादिराभिः समिधामिर्(?) अग्निम् एतेन मन्त्रेण_अष्ट.शत.सम्पातं कृत्वा मधु.घृताभ्याम् अभिजुहुयात् ॥

३.४२
तत एकम् एतेन मन्त्रेण ग्राम.द्वारि गृह.द्वारि वा यत्र निखन्यते तत् सर्वं प्रस्वापयति ॥

३.४३
"बलिं वैरोचनं वन्दे शतमायं च शम्बरम् ।

३.४३
निकुम्भं नरकं कुम्भं तन्तु.कच्छं महा.असुरम् ॥

३.४४
अर्मालवं प्रमीलं च मण्ड.उलूकं घट.उबलम् ।

३.४४
कृष्ण.कंस.उपचारं च पौलोमीं च यशस्विनीम् ॥

३.४५
अभिमन्त्रयित्वा गृह्णामि सिद्ध्य्.अर्थं शव.शारिकाम् ।

३.४५
जयतु जयति च नमः शलक.भूतेभ्यः स्वाहा ॥

३.४६
सुखं स्वपन्तु शुनका ये च ग्रामे कुतूहलाः ।

३.४६
सुखं स्वपन्तु सिद्ध.अर्था यम् अर्थं मार्गयामहे ।

३.४६एग
यावद् अस्तम् अयाद् उदयो यावद् अर्थं फलं मम ॥

३.४७
इति स्वाहा ॥

३.४८
एतस्य प्रयोगः ॥

३.४९
चतुर्.भक्त.उपवासी कृष्ण.चतुर्दश्याम् असंकीर्ण आदहने बलिं कृत्वा_एतेन मन्त्रेण शव.शारिकां गृहीत्वा पौत्री.पोट्टलिकं बध्नीयात् ॥

३.५०
तन्.मध्ये श्वा.विधः शल्यकेन विद्ध्वा यत्र_एतेन मन्त्रेण निखन्यते तत् सर्वं प्रस्वापयति ॥

३.५१
"उपैमि शरणं च_अग्निं दैवतानि दिशो दश ।

३.५१
अपयान्तु च सर्वाणि वशतां यान्तु मे सदा ॥

३.५२
स्वाहा" ॥

३.५३
एतस्य प्रयोगः ॥

३.५४
त्रि.रात्र.उपोस्षितः पुष्येण शर्करा एक.विंशति.सम्पातं कृत्वा मधु.घृताभ्याम् अभिजुहुयात् ॥

३.५५
ततो गन्ध.माल्येन पूजयित्वा निखानयेत् ॥

३.५६
द्वितीयेन पुष्येण_उद्धृत्य_एकां शर्कराम् अभिमन्त्रयित्वा कपाटम् आहन्यात् ॥

३.५७
अभ्यन्तर्म् चतसृणां शर्कराणां द्वारम् अपाव्रियते ॥

३.५८
चतुर्.भक्त.उपवासी कृष्ण.चतुर्दश्यां भग्नस्य पुरुषस्य_अस्थ्ना ऋषभं कारयेत्, अभिमन्त्रयेच् च_एतेन ॥

३.५९
द्वि.गो.युक्तं गो.यानम् आहृतं भवति ॥

३.६०
ततः परम.आकाशे विरामति ॥

३.६१
रवि.सगन्धः परिघमति सर्वं पृणाति ॥

३.६२
"चण्डाली.कुम्भी.तुम्ब.कटुक.सार.ओघः सनारी.भगो_असि - स्वाहा ॥

३.६३
ताल.उद्घाटनं प्रस्वापनं च ॥

३.६४
त्रि.रात्र.उपोषितः पुष्येण शस्त्र.हतस्य शूल.प्रोतस्य वा पुंसः शिरः.कपाले मृत्तिकायां तुवरी.रावास्य_उदकेन सेचयेत् ॥(?)

३.६५
जातानां पुष्येण_एव गृहीत्वा रज्जुकां वर्तयेत् ॥

३.६६
ततः सज्यानां धनुषां यन्त्राणां च पुरस्ताच् छेदनं ज्याच्.छेदनं करोति ॥

३.६७
उदक.अहि.भस्त्राम् उच्छ्वास.मृत्तिकया स्त्रियाः पुरुषस्य वा पूरयेत्, नासिका.बन्धनं मुख.ग्रहश् च ॥

३.६८
वराह.भस्त्राम् उच्छ्वासमृत्तिकया पूरयित्वा मर्कट.स्नायुना_अवबध्नीयात्, आनाह.कारणम् ॥

३.६९
कृष्ण.चतुर्दश्यां शस्त्र.हताया गोः कपिलायाः पित्तेन राज.वृक्षमयीम् अमित्र.प्रतिमाम् अञ्ज्यात्, अन्धी.करणम् ॥

३.७०
चतुर्.भक्त.उपवासी कृष्ण.चतुर्दश्यां बलिं कृत्वा शूल.प्रोतस्य पुरुषस्य_अस्थ्ना कीलकान् कारयेत् ॥

३.७१
एतेषाम् एकः पुरीषे मूत्रे वा निखात आनाहं करोति, पदे_अस्य_आसने वा निखातः शोषेण मारयति, आपणे क्षेत्रे गृहे वा वृत्तिच्.छेदं करोति ॥

३.७२
एतेन_एव कल्पेन विद्युद्.दग्धस्य वृक्षस्य कीलका व्याख्याताः ॥

३.७३
पुनर् नवम् अवाचीनं निम्बः काम.मधुश् च यः ।

३.७३
कपि.रोम मनुष्य.अस्थि बद्ध्वा मृतक.वाससा ॥

३.७४
निखन्यते गृहे यस्य दृष्ट्वा वा यत् पदं नयेत् ।

३.७४
सपुत्र.दारः सधन.स्त्रीन् पक्षान् न_अतिवर्तते ॥

३.७५
पुनर् नवम् अवाचीनं निम्बः काम.मधुश् च यः ।

३.७५
स्वयं.गुप्ता मनुष्य.अस्थि पदे यस्य निखन्यते ॥

३.७६
द्वारे गृहस्य सेनाया ग्रामस्य नगरस्य वा ।

३.७६च्द्/सपुत्र.दारः सधन.स्त्रीन् पक्षान् न_अतिवर्तते ॥

३.७७
अज.मर्कट.रोमाणि मार्जार.नकुलस्य च ।

३.७७
ब्राह्मणानां श्व.पाकानां काक.उलूकस्य च_आहरेत् ।

३.७७
एतेन विष्ठा_अवक्षुण्णा सद्य उत्साद.कारिका ॥

३.७८
प्रेत.निर्मालिका किण्वं रोमाणि नकुलस्य च ।

३.७८
वृश्चिक.आल्य्(?).अहि.कृत्तिश् च पदे यस्य निखन्यते ।

३.७८चछ
भवत्य् अपुरुषः सद्यो यावत् तन् न_अपनीयते ॥

३.७९
त्रि.रात्र.उपोषितः पुष्येण शस्त्र.हतस्य शूल.प्रोतस्य वा पुंसः शिरः.कपाले मृत्तिकायां गुञ्जा आवास्य_उदकेन सेचयेत् ॥

३.८०
जातानाम् अमावास्यायां पौर्णमास्यां वा पुष्य.योगिन्यां गुञ्ज.वल्लीर् ग्राहयित्वा मण्डलिकानि कारयेत् ॥

३.८१
तेष्व् अन्न.पान.भाजनानि न्यस्तानि न क्षीयन्ते ॥

३.८२
रात्रि.प्रेक्षायां प्रवृत्तायां प्रदीप.अग्निषु मृत.धेनोः स्तनान् उत्कृत्य दाहयेत् ॥

३.८३
दग्धान् वृष.मूत्रेण पेषयित्वा नव.कुम्भम् अन्तर्.लेपयेत् ॥

३.८४
तं ग्रामम् अपसव्यं परिणीय यत् तत्र न्यस्तं नव.नीतम् एषां तत् सर्वम् आगच्छति ॥

३.८५
कृष्ण.चतुर्दश्यां पुष्य.योगिन्यां शुनो लग्नकस्य योनौ कालायसीं मुद्रिकां प्रेषयेत् ॥

३.८५
तां स्वयं पतितां गृह्णीयात् ॥

३.८७
तया वृक्ष.फलान्य् आकारितान्य् आगच्छन्ति ॥

३.८८
मन्त्र.भैषज्य.सम्युक्ता योगा माया.कृताश् च ये ।

३.८८
उपहन्याद् अमित्रांस् तैः स्व.जनं च_अभिपालयेत् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP