TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अर्थशास्त्रम् अध्याय १४ - भाग २

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


भाग २
(प्रलम्भनम्, तत्र अद्भुत.उत्पादनम्)

२.०१
शिरीष.उदुम्बर.शमी.चूर्णं सर्पिषा संहृत्य_अर्ध.मासिकः क्षुद्.योगः ॥

२.०२
कशेरुक.उत्पल.कन्देक्षु.मूल.बिस.दूर्वा.क्षीर.घृत.मण्ड.सिद्धो मासिकः ॥

२.०३
माष.यव.कुलत्थ.दर्भ.मूल.चूर्णं वा क्षीर.घृताभ्याम्, वल्ली.क्षीर.घृतं वा सम.सिद्धम्, साल.पृश्नि.पर्णी.मूल.कल्कं पयसा पीत्वा, पयो वा तत्.सिद्धं मधु.घृताभ्याम् अशित्वा मासम् उपवसति ॥

२.०४
श्वेत.बस्त.मूत्रे सप्त.रात्र.उषितैः सिद्ध.अर्थकैः सिद्धं तैलं कटुक.आलाबौ मास.अर्ध.मास.स्थितं चतुष्.पद.द्वि.पदानां विरूप.करणम् ॥

२.०५
तक्र.यव.भक्षस्य सप्त.रात्राद् ऊर्ध्वं श्वेत.गर्दभस्य लेण्ड.यवैः सिद्धं गौर.सर्षप.तैलं विरूप.करणम् ॥

२.०६
एतयोर् अन्यतरस्य मूत्र.लेण्द.रस.सिद्धं सिद्ध.अर्थक.तैलम् अर्क.तूल.पतङ्ग.चूर्ण.प्रतीवापं श्वेती.करणम् ॥

२.०७
श्वेत.कुक्कुट.अजगर.लेण्ड.योगः श्वेती.करणम् ॥

२.०८
श्वेत.बस्त.मूत्रे श्वेत.सर्षपाः सप्त.रात्र.उषित.अस्तक्र(?).मर्क..क्षीर.लवणं धान्यं च पक्ष.स्थितो योगः श्वेती.करणम् ॥

२.०९
कटुक.अलाबौ वली.गते गतं.अर्ध.मास.स्थितं गौर.सर्षप.पिष्टं रोम्णां श्वेती.करणम् ॥

२.१०
अलोजुनेति यः कीटः श्वेता च गृह.गोलिका ।

२.१०
एतेन पिष्तेन_अभ्यक्ताः केशाः स्युः शङ्ख.पाण्डराः ॥

२.११
गोमयेन तिन्दुक.अरिष्ट.कल्केन वा मर्दित.अङ्गस्य भल्लातक.रस.अनुलिप्तस्य मासिकः कुष्ठ.योगः ॥

२.१२
कृष्ण.सर्प.मुखे गृह.गोलिका.मुखे वा सप्त.रात्र.उषिता गुज्जाः कुष्ठ.योगः ॥

२.१३
शुक.पित्त.अण्ड.रस.अभ्यङ्गः कुष्ठ.योगः ॥

२.१४
कुष्ठस्य.प्रियाल.कल्क.कषायः प्रतीकारः ॥

२.१५
कुक्कुट.कोश.अतकी(?).शतावरी.मूल.युक्तम् आहारयमाणो मासेन गौरो भवति ॥

२.१६
वट.कषाय.स्नातः सह.चर.कल्क.दिग्धः कृष्णो भवति ॥

२.१७
शकुन.कण्गु.तैल.युक्ता हरि.ताल.मनः.शिलाः श्यामी.करणम् ॥

२.१८
ख.द्योत.चूर्णं सर्षप.तैल.युक्तं रात्रौ ज्वलति ॥

२.१९
ख.द्योत.गण्डू.पद.चूर्णं समुद्र.जन्तूनां भृङ्ग.कपालानां खदिर.कर्णिकाराणां पुष्प.चूर्णं वा शकुन.कङ्गु.तैल.युक्तं तेजन.चूर्णम् ॥

२.२०
पारिभद्रक.त्वन्.मषी मण्डूक.वसया युक्ता गात्र.प्रज्वालनम् अग्निना ॥

२.२१
परिभद्रक.त्वक्.तिल.कल्क.प्रदिग्धं शरीरम् अग्निना ज्वलति ॥

२.२२
पीलु.त्वन्.मषीमयः पिण्डो हस्ते ज्वलति ॥

२.२३
मण्डूक.वसा.दिग्धो_अग्निना ज्वलति ॥

२.२४
तेन प्रदिग्धम् अङ्गं कुश.आम्र.फल.तैल.सिक्तं समुद्र.मण्डूकी.फेनक.सर्ज.रस.चूर्ण.युक्तं वा ज्वलति ॥

२.२५
मण्डूक.कुलीर.आदीनां वसया सम.भागं तैलं सिद्धम् अभ्यङ्गं गात्राणाम् अग्नि.प्रज्वालनम् ॥

२.२६
वेणु.मूल.शैवल.लिप्तम् अङ्गं मण्डूक.वसा.दिग्धम् अग्निना ज्वलति ॥

२.२७
पारिभद्रक.प्पतिबला.वञ्जुल.वज्र.कदली.मूल.कल्केन मण्डूक.वसा.सिद्धेन तैलेन_अभ्यक्त.पादो_अङ्गारेषु गच्छति ॥

२.२८
उप.उदका प्रतिबला वञ्जुलः पारिभद्रकः ।

२.२८
एतेषां मूल.कल्केन मण्डूक.वसया सह ॥

२.२९
साधयेत् तैलम् एतेन पादाव् अभ्यज्य निर्मलौ ।

२.२९
अङ्गार.राशौ विचरेद् यथा कुसुम.संचये ॥

२.३०
हंस.क्रौञ्च.मयूराणाम् अन्येषां वा महा.शकुनीनाम् उदक.प्लवानां पुच्छेषु बद्धा नल.दीपिका रात्राव् उल्का.दर्शनम् ॥

२.३१
वैद्युतं भस्म.अङ्गि.शमनम् ॥

२.३२
स्त्री.पुष्प.पायिता माषा व्रजकुली.मूलं मण्डूक.वसा.मिश्रं चुल्लुयां दीप्तायाम् अपाचनम् ॥

२.३३
चुल्ली.शोधनं प्रतीकारः ॥

२.३४
पीलुमयो मणिर् अग्नि.गर्भः सुवर्चला.मूल.ग्रन्थिः सूत्र.ग्रन्थिर् वा पिचु.परिवेष्टितो मुख्याद् अग्नि.धूम.उत्सर्गः ॥

२.३५
कुश.आम्र.फल.तैल.सिक्तो_अग्निर् वर्ष.प्रवातेषु ज्वलति ॥

२.३६
समुद्र.फेनकस् तैल.युक्तो_अम्भसि प्लवमानो ज्वलति ॥

२.३७
प्लवमानानाम् अस्थिषु कल्माष.वेणुना निर्मथितो_अग्निर् न_उदकेन शाम्यति, उदकेन ज्वलति ॥

२.३८
शस्त्र.हतस्य शूल.प्रोतस्य वा पुरुषस्य वाम.पार्श्व.पर्शुक.अस्थिषु कल्माष.वेणुना निर्मथितो_अग्निः स्त्रियाः पुरुषस्य वा_अस्थिषु मनुष्य.पर्शुकया निर्मथितो_अग्निर् यत्र त्रिर् अपसव्यं गच्छति न च_अत्र_अन्यो_अग्निर् ज्वलति ॥

२.३९
चुच्चुन्दरी खञ्जरीटः खार.कीटश् च पिष्यते ।

२.३९
अश्व.मूत्रेण संसृष्टा निगलानां तु भञ्जनम् ॥

२.४०
अयस्.कान्तो वा पाषाणः कुलीर.दर्दुर.खार.कीट.वसा.प्रदेहेन द्वि.गुणः ॥

२.४१
नारक.गर्भः कङ्क.भास.पार्श्व.उत्पल.उदक.पिष्टश् चतुष्.पद.द्वि.पदानां पाद.लेपः ॥

२.४२
उलूक.गृध्र.वसाभ्याम् उष्ट्र.चर्म.उपानहाव् अभ्यज्य वटपत्त्रैः प्रतिच्छाद्य पञ्चाशद्.योजनान्य् अश्रान्तो गच्छति ॥

२.४३
श्येन.कङ्क.काक.गृध्र.हंस.क्रौञ्च.वीची.रल्लानां मज्जानो रेतांसि वा योजन.शताय, सिंह.व्याघ्र.द्वीप.काक.उलूकानां मज्जानो रेतांसि वा ॥

२.४४
सार्ववर्णिकानि गर्भ.पतनान्य् उष्ट्रिकायाम् अभिषूय श्मशाने प्रेत.शिशून् वा तत्.समुत्थितं मेदो योजन.शताय ॥

२.४५
अनिष्टैर् अद्भुत.उत्पातैः परस्य_उद्वेगम् आचरेत् ।

२.४५
आराज्याय_इति निर्वादः समानः कोप उच्यते ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:27.8900000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

बाळंतीण-बाळंतीण बाईचा बळिराणा पदरांत घेणें

  • बाळंतिणीचा बळीराणा अकराव्या दिवशीं असतो तो जी बाई आपल्या पदरांत घेते तिनें व तिच्या नवर्‍यानें त्या तांदुळाचा भात खाल्ला म्हणजे त्यांना मुलगा होतो अशी समजूत आहे. ‘ बाळंतिण बाईचा बलिराणा मी आपल्या पदरांत घेतला आहे ’ -कोकि २७. 
RANDOM WORD

Did you know?

गणपतीची सोंड कोणत्या दिशेला वळली आहे, यावरून पूजाअर्चेचे कांही धर्मशास्त्र आहे काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.