TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अर्थशास्त्रम् अध्याय १३ - भाग ३

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


भाग ३
३.०१
श्रेणी.मुख्यम् आप्तं निष्पातयेत् ॥

३.०२
स परम् आश्र्त्य पक्ष.अपदेशेन स्व.विषयात् साचिव्य.कर.सहाय.उपादानं कुर्वीत ॥

३.०३
कृत.अपसर्प.उपचयो वा परम् अनुमान्य स्वामिनो दूष्य.ग्रामं वीत.हस्त्य्.अश्वं दूष्य.अमात्यं दण्डम् आक्रन्दं वा हत्वा परस्य प्रेषयेत् ॥

३.०४
जन.पद.एक.देशं श्रेणीम् अटवीं वा सहाय.उपादान.अर्थं संश्रयेत ॥

३.०५
विश्वासम् उपगतः स्वामिनः प्रेषयेत् ॥

३.०६
ततः स्वामी हस्ति.बन्धनम् अटवी.घातं वा_अपदिश्य गूढम् एव प्रहरेत् ॥

३.०७
एतेन_अमात्य.अटविका व्याख्याताः ॥

३.०८
शत्रुणा मैत्रीं कृत्वा_अमात्यान् अवक्षिपेत् ॥

३.०९
ते तत्.शत्रोः प्रेषयेयुः "भर्तारं नः प्रसादय" इति ॥

३.१०
स यं दूतं प्रेषयेत्, तम् उपालभेत "भर्ता ते माम् अमात्यैर् भेदयति, न च पुनर् इह_आगन्तव्यम्" इति ॥

३.११
अथ_एकम् अमात्यं निष्पातयेत् ॥

३.१२
स परम् आश्रित्य योग.अपसर्प.अपरक्त.दूष्यान् अशक्तिमतः स्तेन_आटविकान् उभय.उपघातकान् वा परस्य_उपहरेत् ॥

३.१३
आप्त.भाव.उपगतः प्रवीर.पुरुष.उपघातम् अस्य_उपहरेद् अन्त.पालम् आटविकं दण्ड.चारिणं वा "दृढम् असौ च_असौ च ते शत्रुणा संधत्ते" इति ॥

३.१४
अथ पश्चाद् अभित्यक्त.शासनैर् एनान् घातयेत् ॥

३.१५
दण्ड.बल.व्यवहारेण वा शत्रुम् उद्योज्य घातयेत् ॥

३.१६
कृत्य.पक्ष.उपग्रहेण वा परस्य.अमित्रं राजानम् आत्मन्य् अपकारयित्वा_अभियुञ्जीत ॥

३.१७
ततः परस्य प्रेषयेत् "असौ ते वैरी मम_अपकरोति, तम् एहि सम्भूय हनिष्यावः, भूमौ हिरण्ये वा ते परिग्रहः" इति ॥

३.१८
प्रतिपन्नम् अभिसत्कृत्य_आगतम् अवस्कन्देन प्रकाशयुद्धेन वा शत्रुणा घातयेत् ॥

३.१९
अभिविश्वासन.अर्थं भूमि.दान.पुत्र.अभिषेक.रक्षा.अपदेशेन वा ग्राहयेत् ॥

३.२०
अविषह्यम् उपांशु.दण्डेन वा घातयेत् ॥

३.२१
स चेद् दण्डं दद्यान् न स्वयम् आगच्छेत् तम् अस्य वैरिणा घातयेत् ॥

३.२२
दण्डेन वा प्रयातुम् इच्छेन् न विजिगीषुणा तथा_अप्य् एनम् उभयतः.सम्पीडनेन घातयेत् ॥

३.२३
अविश्वस्तो वा प्रत्येकशो यातुम् इच्छेद् राज्य.एक.देशं वा यातव्यस्य_आदातु.कामः, तथा_अप्य् एनं वैरिणा सर्व.संदोहेन वा घातयेत् ॥

३.२४
वैरिणा वा सक्तस्य दण्ड.उपनयेन मूलम् अन्यतो हारयेत् ॥

३.२५
शत्रु.भूम्या वा मित्रं पणेत, मित्र.भूम्या वा शत्रुम् ॥

३.२६
ततः शत्रु.भूमि.लिप्सायां मित्रेण_आत्मन्य् अपकारयित्वा_अभियुञ्जीत - इति समानाः पूर्वेण सर्व एव योगाः ॥

३.२७
शत्रुं वा मित्र.भूमि.लिप्सायां प्रतिपन्नं दण्डेन_अनुगृह्णीयात् ॥

३.२८
ततो मित्र.गतम् अतिसंदध्यात् ॥

३.२९
कृत.प्रतिविधानो वा व्यसनम् आत्मनो दर्शयित्वा मित्रेण_अमित्रम् उत्साहयित्वा_आत्मानम् अभियोजयेत् ॥

३.३०
ततः सम्पीडनेन घातयेत्, जीव.ग्राहेण वा राज्य.विनिमयं कारयेत् ॥

३.३१
मित्रेण_आश्रितश् चेत्_शत्रुर् अग्राह्ये स्थातुम् इच्छेत् सामन्त.आदिभिर् मूलम् अस्य हारयेत् ॥

३.३२
दण्डेन वा त्रातुम् इछेत् तम् अस्य घातयेत् ॥

३.३३
तौ चेन् न भिद्येयातां प्रकाशम् एव_अन्योन्य.भूम्या पणेत ॥

३.३४
ततः परस्परं मित्र.व्यञ्जना वा उभय.वेतना वा दूतान् प्रेषयेयुः "अयं ते राजा भूमिं लिप्सते शत्रु.संहितः" इति ॥

३.३५
तयोर् अन्यतरो जात.आशङ्क.आरोषः, पूर्ववच् चेष्तेत ॥

३.३६
दुर्ग.राष्ट्र.दण्ड.मुख्यान् वा कृत्य.पक्ष.हेतुभिर् अभिविख्याप्य प्रव्राजयेत् ॥

३.३७
ते युद्ध.अवस्कन्द.अवरोध.व्यसनेषु शत्रुम् अतिसंदध्युः ॥

३.३८
भेदं वा_अस्य स्व.वर्गेभ्यः कुर्युः ॥

३.३९
अभित्यक्त.शासनैः प्रतिसमानयेयुः ॥

३.४०
लुब्धक.व्यञ्जना वा मांस.विक्रयेण द्वाह्स्था दौवारिक.अपाश्रयाश् चोर.अभ्यागमं परस्य द्विस् त्रिर् इति निवेद्य लब्ध.प्रत्यया भर्तुर् अनीकं द्विधा निवेश्य ग्राम.वधे_अवस्कन्दे च द्विषतो ब्रूयुः "आसन्नश् चोर.गणः, महांश् च_आक्रन्दः, प्रभूतं सैन्यम् आगच्छतु" इति ॥

३.४१
तद् अर्पयित्वा ग्राम.घात.दण्डस्य सैन्यम् इतरद् आदाय रात्रौ दुर्ग.द्वारेषु ब्रूयुः "हतश् चोर.गणः, सिद्ध.यात्रम् इदं सैन्यम् आगतम्, द्वारम् अपाव्रियताम्" इति ॥

३.४२
पूर्व.प्रणिहिता वा द्वाराणि दद्युः ॥

३.४३
तैः सह प्रहरेयुः ॥

३.४४
कारु.शिल्पि.पाषण्ड.कुशीलव.वैदेहक.व्यञ्जनान् आयुधीयान् व्वा पर.दुर्गे प्रणिदध्यात् ॥

३.४५
तेषां गृह.पतिक.व्यञ्जनाः काष्ठ.तृण.धान्य.पण्य.शकटैः प्रहरण.आवरणान्य् अभिहरेयुः, देव.ध्वज.प्रतिमाभिर् वा ॥

३.४६
ततस् तद्.व्यञ्जनाः प्रमत्त.वधम् अवस्कन्द.प्रतिग्रहम् अभिप्रहरणं पृष्ठतः शङ्ख.दुन्दुभि.शब्देन वा "प्रविष्टम्" इत्य् आवेदयेयुः ॥

३.४७
प्राकार.द्वार.अट्टालक.दानम् अनीक.भेदं घातं वा कुर्युः ॥

३.४८
सार्थ.गण.वासिभिर् आतिवाहिकैः कन्या.वाहिकैर् अश्व.पण्य.व्यवहारिभिर् उपकरण.हारकैर् धान्य.क्रेतृ.विक्रेतृभिर् वा प्रव्रजित.लिङ्गिभिर् दूतैश् च दणड्.अतिनयनम्, संधि.कर्म.विश्वासन.अर्थम् ॥

३.४९
इति राज.अपसर्पाः ॥

३.५०
एत एव_अटवीनाम् अपसर्पाः कण्टक.शोधन.उक्ताश् च ॥

३.५१
व्रजम् अटव्य्.आसन्नम् अपसर्पाः सार्थं वा चोरैर् घातयेयुः ॥

३.५२
कृत.संकेतम् अन्न.पानं च_अत्र मदन.रस.विद्धं वा कृत्वा_अपगच्छेयुः ॥

३.५३
गो.पालक.वैदेहकाश् च ततश् चोरान् गृहीत.लोप्त्र.भारान् मदन.रस.विकार.काले_अवस्कन्दयेयुः ॥

३.५४
संकर्षण.दैवतीयो वा मुण्ड.जटिल.व्यञ्जनः प्रहवण.कर्मणा मदन.रस.योगेन_अतिसंदध्यात् ॥

३.५५
अथ_अवस्कन्दं दद्यात् ॥

३.५६
शौण्डिक.व्यञ्जनो वा दैवत.प्रेत.कार्य.उत्सव.समाजेष्व् आटविकान् सुरा.विक्रय.उपायन.निमित्तं मदन.रस.योगेन_अतिसंदध्यात् ॥

३.५७
अथ_अवस्कन्दं दद्यात् ॥

३.५८
ग्राम.घात.प्रविष्टां वा विक्षिप्य बहुधा_अटवीम् ।

३.५८
घातयेद् इति चोराणाम् अपसर्पाः प्रकीर्तिताः ॥

(पर्युपासन.कर्म - अवमर्दह्)

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:27.6230000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

periodic polymer

  • आवर्ती बहुवारिक 
RANDOM WORD

Did you know?

एका क्षणासाठी निमिष ही संज्ञा कशी प्राप्त झाली?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site