TransLiteral Foundation

अर्थशास्त्रम् अध्याय ०९ - भाग ७

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


भाग ७
७.०१
काम.आदिर् उत्सेकः स्वाः प्रकृतीः कोपयति, अपनयो बाह्याः ॥

७.०२
तद् उभयम् आसुरी वृत्तिः ॥

७.०३
स्व.जन.विकारः कोपः ॥

७.०४
पर.वृद्धि.हेतुषु आपद्.अर्थो_अनर्थः संशय इति ॥

७.०५
यो_अर्थः शत्रु.वृद्धिम् अप्राप्तः करोति, प्राप्तः प्रत्यादेयः परेषां भवति, प्राप्यमाणो वा क्षय.व्यय.उदयो भवति, स भवत्य् आपद्.अर्थः ॥

७.०६
यथा सामन्तानाम् आमिष.भूतः सामन्त.व्यसनजो लाभः, शत्रु.प्रार्थितो वा स्व.भाव.अधिगम्यो लाभः, पश्चात् कोपेन पार्ष्णि.ग्राहेण वा विगृहीतः पुरस्ताल्.लाभः, मित्र.उच्छेदेन संधि.व्यतिक्रमेण वा मण्डल.विरुद्धो लाभः इत्य् आपद्.अर्थः ॥

७.०७
स्वतः परतो वा भय.उत्पत्तिर् इत्य् अनर्थः ॥

७.०८
तयोः अर्थो न वा_इति, अनर्थो न वा_इति, अर्थो_अनर्थ इति, अनर्थो_अर्थ इति संशयः ॥

७.०९
शत्रु.मित्रम् उत्साहयितुम् अर्थो न वा_इति संशयः ॥

७.१०
शत्रु.बलम् अर्थ.मानाभ्याम् आवाहयितुम् अनर्थो न वा_इति संशयः ॥

७.११
बलवत्.सामन्तां भूमिम् आदातुम् अर्थो_अनर्थ इति संशयः ॥

७.१२
जायसा सम्भूययानम् अनर्थो_अर्थ इति संशयः ॥

७.१३
तेषाम् अर्थ.संशयम् उपगच्छेत् ॥

७.१४
अर्थो_अर्थ.अनुबन्धः, अर्थो निरनुबन्धः, अर्थो_अनर्थ.अनुबन्धः, अनर्थो_अर्थ.अनुबन्धः, अनर्थो निरनुबन्धः, अनर्थो_अनर्थ.अनुबन्धः इत्य् अनुबन्ध.षड्.वर्गः ॥

७.१५
शत्रुम् उत्पाट्य पार्ष्णि.ग्राह.आदानम् अर्थो_अनर्थ.अनुबन्धः ॥

७.१६
उदासीनस्य दण्ड.अनुग्रहः फलेन अर्थो निरनुबन्धः ॥

७.१७
परस्य_अन्तर्.उच्छेदनम् अर्थो_अनर्थ.अनुबन्धः ॥

७.१८
शत्रु.प्रतिवेशस्य_अनुग्रहः कोश.दण्डाभ्याम् अनर्थो_अनर्थ.अनुबन्धः ॥

७.१९
हीन.शक्तिम् उत्साह्य निवृत्तिर् अनर्थो निरनुबन्धः ॥

७.२०
ज्यायांसम् उत्थाप्य निवृत्तिर् अनर्थो_अनर्थ.अनुबन्धः ॥

७.२१
तेषां पूर्वः पूर्वः श्रेयान् उपसम्प्राप्तुम् ॥

७.२२
इति कार्य.अवस्थापनम् ॥

७.२३
समन्ततो युगपद्.अर्थ.उत्पत्तिः समन्ततो_अर्थ.आपद् भवति ॥

७.२४
सा_एव पार्ष्णि.ग्राह.विगृहीता समन्ततो_अर्थ.संशय.आपद् भवति ॥

७.२५
तयोर् मित्र.आक्रन्द.उपग्रहात् सिद्धिः ॥

७.२६
समन्ततः शत्रुभ्यो भय.उत्पत्तिः समन्त्तो_अनर्थ.आपद् भवति ॥

७.२७
सा_एव मित्र.विगृहीता समन्ततो_अनर्थ.संशय.आपद् भवति ॥

७.२८
तयोश् चल.अमित्र.आक्रन्द.उपग्रहात् सिद्धिः, पर.मिश्र.अप्रतीकारो वा ॥

७.२९
इतो लाभ इतरतो लाभ इत्य् उभयतो_अर्थ.आपद् भवति ॥

७.३०
तस्यां समन्ततो_अर्थायां च लाभ.गुण.युक्तम् अर्थम् आदातुं यायात् ॥

७.३१
तुल्ये लाभ.गुणे प्रधानम् आसन्नम् अनतिपातिनम् ऊनो वा येन भवेत् तम् आदातुं यायात् ॥

७.३२
इतो_अनर्थ इतरतो_अनर्थ इत्य् उभयतो_अनर्थ.आपत् ॥

७.३३
तस्यां समन्ततो_अनर्थायां च मित्रेभ्यः सिद्धिं लिप्सेत ॥

७.३४
मित्र.अभावे प्रकृतीनां लघीयस्य_एकतो_अनर्थां साधयेत्, उभयतो_अनर्थां ज्यायस्या, समन्ततो_अनर्थां मूलेन प्रतिकुर्यात् ॥

७.३५
अशक्ये सर्वम् उत्सृज्य_अपगच्छेत् ॥

७.३६
दृष्टा हि जीवतः पुनर्.आवृत्तिर् यथा सुयात्रा.उदयनाभ्याम् ॥

७.३७
इतो लाभ इतरतो राज्य.अभिमर्श इत्य् उभयतो_अर्थ.अनर्थ.आपद् भवति ॥

७.३८
तस्याम् अनर्थ.साधको यो_अर्थस् तम् आदातुं यायात् ॥

७.३९
अन्यथा हि राज्य.अभिमर्शं वारयेत् ॥

७.४०
एतया समन्ततो_अर्थ.अनर्थ.आपद् व्याख्याता ॥

७.४१
इतो_अनर्थ इतरतो_अर्थ.संशय इत्य् उभयतो_अनर्थ.अर्थ.संशया ॥

७.४२
तस्यां पूर्वम् अनर्थं साधयेत्, तत्.सिद्धाव् अर्थ.संशयम् ॥

७.४३
एतया समन्ततो_अनर्थ.अर्थ.संशया व्याख्याता ॥

७.४४
इतो_अर्थ इतरतो_अनर्थ.संशय इत्य् उभयतो_अर्थ.अनर्थ.संशय.आपद् ॥

७.४५
एतया समन्ततो_अर्थ.अनर्थ.संशया व्याख्याता ॥

७.४६
तस्यां पूर्वां पूर्वां प्रकृतीनाम् अनर्थ.संशयान् मोक्षयितुं यतेत ॥

७.४७
श्रेयो हि मित्रम् अनर्थ.संशये तिष्ठन् न दण्डः, दण्डो वा न कोश इति ॥

७.४८
समग्र.मोक्षण.अभावे प्रकृतीनाम् अवयवान् मोक्षयितुं यतेत ॥

७.४९
तत्र पुरुष.प्रकृतीनां बहुलम् अनुरक्तं वा तीक्ष्ण.लुब्ध.वर्जम्, द्रव्य.प्रकृतीनां सारं महा.उपकारं वा ॥

७.५०
संधिना_आसनेन द्वैधी.भावेन वा लघूनि, विपर्ययैर् गुरूणि ॥

७.५१
क्षय.स्थान.वृद्धीनां च_उत्तर.उत्तरं लिप्सेत ॥

७.५२
प्रातिलोम्येन वा क्षय.आदीनाम् आयत्यां विशेषं पश्येत् ॥

७.५३
इति देश.अवस्थापनम् ॥

७.५४
एतेन यात्रा.आदि.मध्य.अन्तेष्व् अर्थ.अनर्थ.संशयानाम् उपसम्प्राप्तिर् व्याख्याता ॥

७.५५
निरन्तर.योगित्वाच् च_अर्थ.अनर्थ.संशयानां यात्रा.आदाव् अर्थः श्रेयान् उपसम्प्राप्तुं पार्ष्णि.ग्राह.आसार.प्रतिघाते क्षय.व्यय.प्रवास.प्रत्यादेये मूल.रक्षणेषु च भवति ॥

७.५६
तथा_अनर्थः संशयो वा स्व.भूमिष्ठस्य विषह्यो भवति ॥

७.५७
एतेन यात्रा.मध्ये_अर्थ.अनर्थ.संशयानाम् उपसम्प्राप्तिर् व्याख्याता ॥

७.५८
यात्रा.अन्ते तु कर्शनीयम् उच्छेदनीयं वा कर्शयित्वा_उच्छिद्य वा_अर्थः श्रेयान् उपसम्प्राप्तुं न_अनर्थः संशयो वा पर.आबाध.भयात् ॥

७.५९
सामवायिकानाम् अपुरोगस्य तु यात्रा.मध्य.अन्तगो_अनर्थः संशयो वा श्रेयान् उपसम्प्राप्तुम् अनिर्बन्ध.गामित्वात् ॥

७.६०
अर्थो धर्मः काम इत्य् अर्थ.त्रि.वर्गः ॥

७.६१
तस्य पूर्वः पूर्वः श्रेयान् उपसम्प्राप्तुम् ॥

७.६२
अनर्थो_अधर्मः शोक इत्य् अनर्थ.त्रि.वर्गः ॥

७.६३
तस्य पूर्वः पूर्वः श्रेयान् प्रतिकर्तुम् ॥

७.६४
अर्थो_अनर्थ इति, धर्मो_अधर्म इति, कामः शोक इति संशय.त्रि.वर्गः ॥

७.६५
तस्य_उत्तर.पक्ष.सिद्धौ पूर्व.पक्षः श्रेयान् उपसम्प्राप्तुम् ॥

७.६६
इति काल.अवस्थापनम् ॥

७.६७
इत्य् आपदः - तासां सिद्धिः ॥

७.६८
पुत्र.भ्रातृ.बन्धुषु साम.दानाभ्यां सिद्धिर् अनुरूपा, पौर.जानपद.दण्ड.मुख्येषु दान.भेदाभ्याम्, सामन्त.आटविकेषु भेद.दण्डाभ्याम् ॥

७.६९
एषा_अनुलोमा, विपर्यये प्रतिलोमा ॥

७.७०
मित्र.अमित्रेषु व्यामिश्रा सिद्धिः ॥

७.७१
परस्पर.साधका ह्य् उपायाः ॥

७.७२
शत्रोः शङ्कित.अमात्येषु सान्त्वं प्रयुक्तं शेष.प्रयोगं निवर्तयति, दूष्य.अमात्येषु दानम्, संघातेषु भेदः, शक्तिमत्सु दण्ड इति ॥

७.७३
गुरु.लाघव.योगाच् च_आपदां नियोग.विकल्प.समुच्चया भवन्ति ॥

७.७४
"अनेन_एव_उपायेन न_अन्येन" इति नियोगः ॥

७.७५
"अनेन वा_अन्येन वा" इति विकल्पः ॥

७.७६
"अनेन_अन्येन च" इति समुच्चयः ॥

७.७७
तेषाम् एक.योगाश् चत्वारस् त्रि.योगाश् च, द्वि.योगाः षट्, एकश् चतुर्.योगः ॥

७.७८
इति पञ्च.दश.उपायाः ॥

७.७९
तावन्तः प्रतिलोमाः ॥

७.८०
तेषाम् एकेन_उपायेन सिद्धिर् एक.सिद्धिः, द्वाभ्यां द्वि.सिद्धिः, त्रिभिस् त्रि.सिद्धिः, चतुर्भिश् चतुः.सिद्धिर् इति ॥

७.८१
धर्म.मूलत्वात् काम.फलत्वाच् च_अर्थस्य धर्म.अर्थ.काम.अनुबन्धा या_अर्थस्य सिद्धिः सा सर्व.अर्थ.सिद्धिः ॥ <इति सिद्धयह्>

७.८२
दैवाद् अग्निर् उदकं व्याधिः प्रमारो विद्रवो दुर्भिक्षम् आसुरी सृष्टिर् इत्य् आपदः ॥

७.८३
तासां दैवत.ब्राह्मण.र्पणिपाततः सिद्धिः ॥

७.८४
अतिवृष्टिर् अवृष्टिर् वा सृष्टिर् वा या_आसुरी भवेत् ।

७.८४
तस्याम् आथर्वणं कर्म सिद्ध.आरम्भाश् च सिद्धयः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:26.4030000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

gross average

  • स्त्री. (in Marine Insurance) एकूण हानिसरासरी 
RANDOM WORD

Did you know?

आत्म्याची किती आणि कोणती रूपे मानली गेली आहेत?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.