TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अर्थशास्त्रम् अध्याय ०९ - भाग ६

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


भाग ६
६.०१
दूष्येभ्यः शत्रुभ्यश् च द्विविधा शुद्धा ॥

६.०२
दूष्य.शुद्धायां पौरेषु जानपदेषु वा दण्ड.वर्जान् उपायान् प्रयुञ्जीत ॥

६.०३
दण्डो हि महा.जने क्षेप्तुम् अशक्यः ॥

६.०४
क्षिप्तो वा तं च_अर्थं न कुर्यात्, अन्यं च_अनर्थम् उत्पादयेत् ॥

६.०५
मुख्येषु त्व् एषां दाण्ड.कर्मिकवच् चेष्टेत ॥

६.०६
शत्रु.शुद्धायां यतः शत्रुः प्रधानः कार्यो वा ततः साम.आदिभिः सिद्धिं लिप्सेत ॥

६.०७
स्वामिन्य् आयत्ता प्रधान.सिद्धिः, मन्त्रिष्व् आयत्ता_आयत्त.सिद्धिः, उभय.आयत्ता प्रधान.आयत्त.सिद्धिः ॥

६.०८
दूष्य.अदूष्याणाम् आमिश्रितत्वाद् आमिश्रा ॥

६.०९
आमिश्रायाम् अदूष्यतः सिद्धिः ॥

६.१०
आलम्बन.अभावे ह्य् आलम्बिता न विद्यन्ते ॥

६.११
मित्र.अमित्राणाम् एकी.भावात् पर.मिश्रा ॥

६.१२
पर.मिश्रायां मित्रतः सिद्धिः ॥

६.१३
सुकरो हि मित्रेण संधिः, न_अमित्रेण_इति ॥

६.१४
मित्रं चेन् न संधिम् इच्छेद् अभीक्ष्णम् उपजपेत् ॥

६.१५
ततः सत्त्रिभिर् अमित्राद् भेदयित्वा मित्रं लभेत ॥

६.१६
मित्र.संघस्य वा यो_अन्त.स्थायी तं लभेत ॥

६.१७
अन्त.स्थायिनि लब्धे मध्य.स्थायिनो भिद्यन्ते ॥

६.१८
मध्य.स्थायिनं वा लभेत ॥

६.१९
मध्य.स्थायिनि लब्धे न_अन्त.स्थायिनः संहन्यन्ते ॥

६.२०
यथा च_एषाम् आश्रय.भेदस् तान् उपायान् प्रयुञ्जीत ॥

६.२१
धार्मिकं जाति.कुल.श्रुत.वृत्त.स्तवेन सम्बन्धेन पूर्वेषां त्रैकाल्य.उपकारान् अपकाराभ्यां वा सान्त्वयेत् ॥

६.२२
निवृत्त.उत्साहं विग्रह.श्रान्तं प्रतिहत.उपायं क्षय.व्ययाभ्यां प्रवासेन च_उपतप्तं शौचेन_अन्यं लिप्समानम् अन्यस्माद् वा शङ्कमानं मैत्री.प्रधानं वा कल्याण.बुद्धिं साम्ना साधयेत् ॥

६.२३
लुब्धं क्षीणं वा तपस्वि.मुख्य.अवस्थापना.पूर्वं दानेन साधयेत् ॥

६.२४
तत् पञ्च.विधं - देय.विसर्गो गृहीत.अनुवर्तनम् आत्त.प्रतिदानं स्व.द्रव्य.दानम् अपूर्वं पर.स्वेषु स्वयं.ग्राह.दानं च ॥

६.२५
इति दान.कर्म ॥

६.२६
परस्पर.द्वेष.वैर.भूमि.हरण.शङ्कितम् अतो_अन्यतमेन भेदयेत् ॥

६.२७
भीरुं वा प्रतिघातेन "कृत.संधिर् एष त्वयि कर्म.करिष्यति, मित्रम् अस्य निसृष्टम्, संधौ वा न_अभ्यन्तरः" इति ॥

६.२८
यस्य वा स्व.देशाद् अन्य.देशाद् वा पण्यानि पण्य.अगारतया_आगच्छेयुः तानि अस्य "यातव्याल् लब्धानि" इति सत्त्रिणश् चारयेयुः ॥

६.२९
बहुली.भूते शासनम् अभित्यक्तेन प्रेषयेत् "एतत् ते पण्यं पण्य.अगारं वा मया ते प्रेषितम्, सामवायिकेषु विक्रमस्व, अपगच्छ वा, ततः पण.शेषम् अवाप्स्यसि" इति ॥

६.३०
ततः सत्त्रिणः परेषु ग्राहयेयुः "एतद् अरि.प्रदत्तम्" इति ॥

६.३१
शत्रु.प्रख्यातं वा पण्यम् अविज्ञातं विजिगीषुं गच्छेत् ॥

६.३२
तद् अस्य वैदेहक.व्यञ्जनाः शत्रु.मुख्येषु विक्रीणीरन् ॥

६.३३
ततः सत्त्रिणः परेषु ग्राहयेयुः "एतत् पण्यम् अरि.प्रदत्तम्" इति ॥

६.३४
महा.अपराधान् अर्थ.मानाभ्याम् उपगृह्य वा शस्त्र.रस.अग्निभिर् अमित्रे प्रणिदध्यात् ॥

६.३५
अथ_एकम् अमात्यं निष्पातयेत् ॥

६.३६
तस्य पुत्र.दारम् उपगृह्य रात्रौ हतम् इति ख्यापयेत् ॥

६.३७
अथ_अमात्यः शत्रोस् तान् एक.एकशः प्ररूपयेत् ॥

६.३८
ते चेद् यथा.उक्तं कुर्युर् न च_एनान् ग्राहयेत् ॥

६.३९
अशक्तिमतो वा ग्राहयेत् ॥

६.४०
आप्त.भाव.उपगतो मुख्याद् अस्य_आत्मानं रक्षणीयं कथयेत् ॥

६.४१
अथ_अमित्र.शासनं मुख्य.उपघाताय प्रेषितम् उभय.वेतनो ग्राहयेत् ॥

६.४२
उत्साह.शक्तिमतो वा प्रेषयेत् "अमुष्य राज्यं गृहाण, यथा.अस्थितो नः संधिः" इति ॥

६.४३
ततः सत्त्रिणः परेषु ग्राहयेयुः ॥

६.४४
एकस्य स्कन्ध.आवारं वीवधम् आसारं वा घातयेयुः ॥

६.४५
इतरेषु मैत्रीं ब्रुवाणाः "त्वम् एतेषां घातयितव्यः" इत्य् उपजपेयुः ॥

६.४६
यस्य वा प्रवीर.पुरुषो हस्ती हयो वा म्रियेत गूढ.पुरुषैर् हन्येत ह्रियेत वा सत्त्रिणः परस्पर.उपहतं ब्रूयुः ॥

६.४७
ततः शासनम् अभिशस्तस्य प्रेषयेत् "भूयः कुरु ततः पण.शेएषम् अवाप्स्यसि" इति ॥

६.४८
तद् उभय.वेतना ग्राहयेयुः ॥

६.४९
भिन्नेष्व् अन्यतमं लभेत ॥

६.५०
तेन सेना.पति.कुमार.दण्ड.चारिणो व्याख्याताः ॥

६.५१
सांधिकं च भेदं प्रयुञ्जीत ॥

६.५२
इति भेद.कर्म ॥

६.५३
तीक्ष्णम् उत्साहिनं व्यसनिनं स्थित.शत्रुं वा गूढ.पुरुषाः शस्त्र.अग्नि.रस.आदिभिः साधयेयुः, सौकर्यतो वा तेषाम् अन्यतमः ॥

६.५४
तीक्ष्णो ह्य् एकः शस्त्र.रस.अग्निभिः साधयेत् ॥

६.५५
अयं सर्व.संदोह.कर्म विशिष्टं वा करोति ॥

६.५६
इत्य् उपाय.चतुर्.वर्गः ॥

६.५७
पूर्वः पूर्वश् च_अस्य लघिष्ठः ॥

६.५८
सान्त्वम् एक.गुणम् ॥

६.५९
दानं द्वि.गुणं सान्त्व.पूर्वम् ॥

६.६०
भेदस् त्रि.गुणः सान्त्व.दान.पूर्वः ॥

६.६१
दण्डश् चतुर्.गुणः सान्त्व.दान.भेद.पूर्वः ॥

६.६२
इत्य् अभियुञ्जानेषु_उक्तम् ॥

६.६३
स्व.भूमिष्ठेषु तु त एव_उपायाः ॥

६.६४
विशेषस् तु ॥

६.६५
स्व.भूमिष्ठानाम् अन्यतमस्य पण्य.अगारैर् अभिज्ञातान् दूत.मुख्यान् अभीक्ष्णं प्रेषयेत् ॥

६.६६
त एनं संधौ पर.हिंसायां वा योजयेयुः ॥

६.६७
अप्रतिपद्यमानं "कृतो नः संधिः" इत्य् आवेदयेयुः ॥

६.६८
तम् इतरेषाम् उभय.वेतनाः संक्रामयेयुः "अयं वो राजा दुष्टः" इति ॥

६.६९
यस्य वा यस्माद् भयं वैरं द्वेषो वा तं तस्माद् भेदयेयुः "अयं ते शत्रुणा संधत्ते, पुरा त्वाम् अतिसंधत्ते, क्षिप्रतरं संधीयस्व, निग्रहे च_अस्य प्रयतस्व" इति ॥

६.७०
आवाह.विवाहाभ्यां वा कृत्वा सम्योगम् असम्युक्तान् भेदयेत् ॥

६.७१
सामन्त.आटविक.तत्.कुलीन.अपरुद्धैश् च_एषां राज्यानि घातयेत्, सार्थ.व्रज.अटवीर् वा, दण्डं वा_अभिसृतम् ॥

६.७२
परस्पर.अपाश्रयाश् च_एषां जाति.संघाश् छिद्रेषु प्रहरेयुः, गूढाश् च_अग्नि.रस.शस्त्रेण ॥

६.७३
वीतंस.गिलवच् च_अरीन् योगैर् आचरितैः शठः ।

६.७३
घातयेत् पर.मिश्रायां विश्वासेन_आमिषेण च ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:26.3570000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

void coalescence

  • रिक्तता संलयन 
RANDOM WORD

Did you know?

How I do save the text on my computer?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site