अर्थशास्त्रम् अध्याय ०९ - भाग ५

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


५.०१
संध्य्.आदीनाम् अयथा.उद्देश.अवस्थापनम् अपनयः ॥

५.०२
तस्माद् आपदः सम्भवन्ति ॥

५.०३
बाह्य.उत्पत्तिर् अभ्यन्तर.प्रतिजापा, अभ्यन्तर.उत्पत्तिर् बाह्य.प्रतिजापा, बाह्य.उत्पत्तिर् बाह्य.प्रतिजापा, अभ्यन्तर.उत्पत्तिर् अभ्यन्तर.प्रतिजापा - इत्य् आपदः ॥

५.०४
यत्र बाह्या अभ्यन्तर.अनुपजपन्ति, अभ्यन्तरा वा बाह्यान्, तत्र.उभय.योगे प्रतिजपतः सिद्धिर् विशेषवती ॥

५.०५
सुव्याजा हि प्रतिजपितारो भवन्ति, न_उपजपितारः ॥

५.०६
तेषु प्रशान्तेषु न_अन्यान्_शक्नुयुर् उपजपितुम् उपजपितारः ॥

५.०७
कृच्छ्र.उपजापा हि बाह्यानाम् अभ्यन्तरास् तेषाम् इतरे वा ॥

५.०८
महतश् च प्रयत्नस्य वधः परेषाम्, अर्थ.अनुबन्धश् च_आत्मन इति ॥

५.०९
अभ्यन्तरेषु प्रतिजपत्सु साम.दाने प्रयुञ्जीत ॥

५.१०
स्थान.मान.कर्म सान्त्वम् ॥

५.११
अनुग्रह.परिहारौ कर्मस्व् आयोगो वा दानम् ॥

५.१२
बाह्येषु प्रतिजपत्सु भेद.दण्डौ प्रयुञ्जीत ॥

५.१३
सत्त्रिणो मित्र.व्यञ्जना वा बाह्यानां चारम् एषां ब्रूयुः "अयं वो राजा दूष्य.व्यञ्जनैर् अतिसंधातु.कामः, बुध्यध्वम्" इति ॥

५.१४
दूष्येषु वा दूष्य.व्यञ्जनाः प्रणिहिता दूष्यान् बाह्यैर् भेदयेयुः, बाह्यान् वा दूष्यैः ॥

५.१५
दूष्यान् अनुप्रविष्टा वा तीक्ष्णाः शस्त्र.रसाभ्यां हन्युः ॥

५.१६
आहूय वा बाह्यान् घातयेयुः ॥

५.१७
यत्र बाह्या बाह्यान् उपजपन्ति, अभ्यन्तरान् अभ्यन्तरा वा, तत्र_एकान्त.योग उपजपितुः सिद्धिर् विशेषवती ॥

५.१८
दोष.शुद्धौ हि दूष्या न विद्यन्ते ॥

५.१९
दूष्य.शुद्धौ हि दोषः पुनर् अन्यान् दूषयति ॥

५.२०
तस्माद् बाह्येषु_उपजपत्सु भेद.दण्डौ प्रयुञ्जीत ॥

५.२१
सत्त्रिणो मित्र.व्यञ्जना वा ब्रूयुः "अयं वो राजा स्वयम् आदातु.कामः, विगृहीताः स्थानेन राज्ञा, बुध्यध्वम्" इति ॥

५.२२
प्रतिजपितुर् वा दूत.दण्डान् अनुप्रविष्टास् तीक्ष्णाः शस्त्र.रस.आदिभिर् एषां छिद्रेषु प्रहरेयुः ॥

५.२३
ततः सत्त्रिणः प्रतिजपितारम् अभिशंसेयुः ॥

५.२४
अभ्यन्तरान् अभ्यन्तरेषु_उपजपत्सु यथा.अर्हम् उपायं प्रयुञ्जीत ॥

५.२५
तुष्ट.लिङ्गम् अतुष्टं विपरीतं वा साम प्रयुञ्जीत ॥

५.२६
शौच.सामर्थ्य.अपदेशेन व्यसन.अभ्युदय.अवेक्षणेन वा प्रतिपूजनम् इति दानम् ॥

५.२७
मित्र.व्यञ्जनो वा ब्रूयाद् एतान् "चित्त.ज्ञान.अर्थम् उपधास्यति वो राजा, तद् अस्य_आख्यातव्यम् इति ॥

५.२८
परस्पराद् वा भेदयेद् एनान् "असौ च_असौ च वो राजन्य् एवम् उपजपति" - इति भेदः ॥

५.२९
दाण्डकर्मिकवच् च दण्डः ॥

५.३०
एतासां चतसृणाम् आपदाम् अभ्यन्तराम् एव पूर्वं साधयेत् ॥

५.३१
अहि.भयाद् अभ्यन्तर.कोपो बाह्य.कोपात् पापीयान् इत्य् उक्तं पुरस्ताद् ॥

५.३२
पूर्वां पूर्वां विजानीयाल् लघ्वीम् आपदम् आपदाम् ।

५.३२
उत्थितां बलवद्भ्यो वा गुर्वीं लघ्वीं विपर्यये ॥

(दूष्य.शत्रु.सम्युक्ताह् <आपदह्>)

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP