TransLiteral Foundation

अर्थशास्त्रम् अध्याय ०८ - भाग ४

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


भाग ४
४.०१
दैव.पीडनं - अग्निर् उदकं व्याधिर् दुर्भिक्षं मरक इति ॥

४.०२
"अग्न्य्.उदकयोर् अग्नि.पीडनम् अप्रतिकार्यं सर्व.दाहि च, शक्य.अपगमनं तार्य.आबाधम् उदक.पीडनम्" इत्य् आचार्याः ॥

४.०३
न_इत् कौटिल्यः ॥

४.०४
अग्निर् ग्रामम् अर्ध.ग्रामं वा दहति, उदक.वेगस् तु ग्राम.शत.प्रवाही_इति ॥

४.०५
"व्याधि.दुर्भिक्षयोर् व्याधिः प्रेत.व्याधित.उपसृष्ट.परिचारक.व्यायाम.उपरोधेन कर्माण्य् उपहन्ति, दुर्भिक्षं पुनर् अकर्म.उपघाति हिरण्य.पशु.कर.दायि च" इत्य् आचार्याः ॥

४.०६
न_इति कौटिल्यः ॥

४.०७
एक.देश.पीडनो व्याधिः शक्य.प्रतीकारश् च, सर्व.देश.पीडनं दुर्भिक्षं प्राणिनाम् अजीवनाय_इति ॥

४.०८
तेन मरको व्याख्यातः ॥

४.०९
"क्षुद्रक.मुख्य.क्षययोः क्षुद्रक.क्षयः कर्मणाम् अयोग.क्षेमं करोति, मुख्य.क्षयः कर्म.अनुष्ठान.उपरोध.धर्मा" इत्य् आचार्याः ॥

४.१०
न_इति कौटिल्यः ॥

४.११
शक्यः क्षुद्रक.क्षयः प्रतिसंधातुं बाहुल्यात् क्षुद्रकाणाम्, न मुख्य.क्षयः ॥

४.१२
सहस्रेषु हि मुख्यो भवत्य् एको न वा सत्त्व.प्रज्ञा.आधिक्यात् तद्.आश्रयत्वात् क्षुद्रकाणाम् इति ॥

४.१३
"स्व.चक्र.पर.चक्रयोः स्व.चक्रम् अतिमात्राभ्यां दण्ड.कराभ्यां पीडयत्य् अशक्यं च वारयितुम्, पर.चक्रं तु शक्यं प्रैयोद्धुम् उपसारेण संधिना वा मोक्षयितुम्" इत्य् आचार्याः ॥

४.१४
न_इति कौटिल्यः ॥

४.१५
स्व.चक्र.पीडनं प्रकृति.पुरुष.मुख्य.उपग्रह.विघाताभ्यां शक्यते वारयितुम् एक.देशं वा पीडयति, सर्व.देश.पीडनं तु पर.चक्रं विलोप.घात.दाह.विध्वंसन.अपवाहनैः पीडयति_इति ॥

४.१६
"प्रकृति.राज.विवादयोः प्रकृइति.विवादः प्रकृतीनां भेदकः पर.अभियोगान् आवहति, राज.विवादस् तु प्रकृतीनां द्वि.गुण.भक्त.वेतन.परिहार.करो भवति" इत्य् आचार्याः ॥

४.१७
न_इति कौटिल्यः ॥

४.१८
शक्यः प्रकृति.विवादः प्रकृति.मुख्य.उपग्रहेण कलह.स्थान.अपनयनेन वा वारयितुम् ॥

४.१९
विवदमानास् तु प्रकृतयः परस्पर.संघर्षेण_उपकुर्वन्ति ॥

४.२०
राज.विवादस् तु पीडन.उच्छेदनाय प्रकृतीनां द्वि.गुण.व्यायाम.साध्य इति ॥

४.२१
"देश.राज.विहारयोर् देश.विहारस् त्रैकाल्येन कर्म.फल.उपघातं करोति, राज.विहारस् तु कारु.शिल्पि.कुशीलव.वाग्.जीवन.रूप.आजीवा.वैदेहक.उपकारं करोति" इत्य् आचार्याः ॥

४.२२
न_इति कौटिल्यः ॥

४.२३
देश.विहारः कर्म.श्रमम् अवधा.अर्थम् अल्पं भक्षयति भक्षयित्वा च भूयः कर्मसु योगं गच्छति, राज.विहारस् तु स्वयं वल्लभैश् च स्वयं.ग्राह.प्रणय.पण्य.अगार.कार्य.उपग्रहैः पीडयति_इति ॥

४.२४
"सुभगा.कुमारयोः कुमारः स्वयं वल्लभैश् च स्वयं.ग्राह.प्रणय.पण्य.अगार.कार्य.उपग्रहैः पीडयति, सुभगा विलास.उपभोगेन" इत्य् आचार्याः ॥

४.२५
न_इति कौटिल्यः ॥

४.२६
शक्यः कुमारो मन्त्रि.पुरोहिताभ्यां वारयितुम्, न सुभगा बालिश्याद् अनर्थ्य.जन.सम्योगाच् च_इति ॥

४.२७
"श्रेणी.मुख्ययोः श्रेणी बाहुल्याद् अनवग्रहा स्तेय.साहसाभ्यां पीडयति, मुख्यः कार्य.अनुग्रह.विघाताभ्याम्" इत्य् आचार्याः ॥

४.२८
न_इति कौटिल्यः ॥

४.२९
सुव्यावर्त्या श्रेणी समान.शील.व्यसनत्वात्, श्रेणी.मुख्य.एक.देश.उपग्रहेण वा ॥

४.३०
स्तम्भ.युक्तो मुख्यः पर.प्राण.द्रव्य.उपघाताभ्यां पीडयति_इति ॥

४.३१
"सम्निधातृ.समाहर्त्रोः सम्निधाता कृत.विदूषण.अत्ययाभ्यां पीडयति, समाहर्ता करण.अधिष्ठितः प्रदिष्ट.फल.उपभोगी भवति" इत्य् आचार्याः ॥

४.३२
न_इति कौटिल्यः ॥

४.३३
सम्निधाता कृत.अवस्थम् अन्यैः कोश.प्रवेश्यं प्रतिगृह्णाति, समाहर्ता तु पूर्वम् अर्थम् आत्मनः कृत्वा पश्चाद् राज.अर्थं करोति प्रणाशयति वा, पर.स्व.आदाने च स्व.प्रत्ययश् चरति_इति ॥

४.३४
"अन्त.पाल.वैदेहकयोर् अन्त.पालश् चोर.प्रसर्ग.देय.अत्यादानाभ्यां वणिक्.पथं पीडयति, वैदेहकास् तु पण्य..प्रतिपण्य.अनुग्रहैः प्रसाधयन्ति" इत्य् आचार्याः ॥

४.३५
न_इति कौटिल्यः ॥

४.३६
अन्त.पालः पण्य.सम्पात.अनुग्रहेण वर्तयति, वैदेहकास् तु सम्भूय पण्यानाम् उत्कर्ष.अपकर्षं कुर्वाणाः पणे पण.शतं कुम्भे कुम्भ.शतम् इत्य् आजीवन्ति ॥

४.३७
अभिजात.उपरुद्धा भूमिः पशु.व्रज.उपरुद्धा वा_इति "अभिजात.उपरुद्धा भूमिः महा.फला_अप्य् आयुधीय.उपकारिणी न क्षमा मोक्षयितुं व्यसन.आबाध.भयात्, पशु.व्रज.उपरुद्धा तु कृषि.योग्या क्षमा मोक्षयितुम् ॥

४.३८
विवीतं हि क्षेत्रेण बाध्यते" इत्य् आचार्याः ॥

४.३९
न_इति कौटिल्यः ॥

४.४०
अभिजात.उपरुद्धा भूमिर् अत्यन्त.महा.उपकारा_अपि क्षमा मोक्षयितुं व्यसन.आबाध.भयात्, पशु.व्रज.उपरुद्धा तु कोश.वाहन.उपकारिणी न क्षमा मोक्षयितुम्, अन्यत्र सस्य.वाप.उपरोधाद् इति ॥

४.४१
"प्रतिरोधक.आटविकयोः प्रतिरोधका रात्रि.सत्त्र.चराः शरीर.आक्रमिणो नित्याः शत.सहस्र.अहपारिणः प्रधान.कोपकाश् च व्यवहिताः प्रत्यन्तर.अरण्य.चराश् च_आटविकाः प्रकाशा दृस्याश् चरन्ति, एक.देश.घातकाश् च" इत्य् आचार्याः ॥

४.४२
न_इति कौटिल्यः ॥

४.४३
प्रतिरोधकाः प्रमत्तस्य_अपरहन्ति, अल्पाः कुण्ठाः सुखा ज्ञातुं ग्रहीतुं च, स्व.देशस्थाः प्रभूता विक्रान्ताश् च_आटविकाः प्रकाश.योदिनो_अपहर्तारो हन्तारश् च देशानां राज.सधर्माण इति ॥

४.४४
मृग.हस्ति.वनयोः मृगाः प्रभूताः प्रभूत.मांस.चर्म.उपकारिणो मन्द.ग्रास.अवक्लेशिनः सुनियम्याश् च ॥

४.४५
विपरीता हस्तिनो गृह्यमाणा दुष्टाश् च देश.विनाशाय_इति ॥

४.४६
स्व.पर.स्थानीय.उपकारयोः स्व.स्थानीय.उपकारो धान्य.पशु.हिरण्य.कुप्य.उपकारो जानपदानाम् आपद्य् आत्म.धारणः ॥

४.४७
विपरीतः पर.स्थानीय.उपकारः ॥

४.४८
इति पीडनानि - आभ्यन्तरो मुख्य.स्तम्भो बाह्यो_अमित्र.अटवी.स्तम्भः ॥ [इति स्तम्भ.वर्गह्]

४.४९
ताभ्यां पीडनैर् यथा.उक्तैश् च पीडितः, सक्तो मुख्येषु, परिहार.उपहतः, प्रकीर्णो, मिथ्या.संहृतः, सामन्त.अटवी.हृत इति कोश.सङ्ग.वर्गः ॥

४.५०
पीडनानाम् अनुत्पत्ताव् उत्पन्नानां च वारणे ।

४.५०
यतेत देश.वृद्ध्य्.अर्थं नाशे च स्तम्भ.सङ्गयोः ॥

(बल.व्यसन.वर्गह् - मित्र.व्यसन.वर्गह्)

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:25.5600000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

खाऊ डाऊ

  • एकसारखी सतत जाचणी, गांजणूक. 
RANDOM WORD

Did you know?

एका क्षणासाठी निमिष ही संज्ञा कशी प्राप्त झाली?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site