TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अर्थशास्त्रम् अध्याय ०८ - भाग ३

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


भाग ३
३.०१
अविद्या.विनयः पुरुष.व्यसन.हेतुः ॥

३.०२
अविनीतो हि व्यसन.दोषान् न पश्यति ॥

३.०३
तान् उपदेक्ष्यामः ॥

३.०४
कोपजस् त्रि.वर्गः, कामजश् चतुर्.वर्गः ॥

३.०५
तयोः कोपो गरीयान् ॥

३.०६
सर्वत्र हि कोपश् चरति ॥

३.०७
प्रायशश् च कोप.वशा राजानः प्रकृति.कोपैर् हताः श्रूयन्ते, काम.वशाः क्षय.निमित्तम् अरि.व्याधिभिर् इति ॥

३.०८
न_इति भारद्वाजः ॥

३.०९
"सत्.पुरुष.आचारः कोपो वैर.यातनम् अवज्ञा.वधो भीत.मनुष्यता च ॥

३.१०
नित्यश् च कोपेन सम्बन्धः पाप.प्रतिषेध.अर्थः ॥

३.११
कामः सिद्धि.लाभः सान्त्वं त्याग.शीलता सम्प्रिय.भावश् च ॥

३.१२
नित्यश् च कामेन सम्बन्धः कृत.कर्मणः फल.उपभोग.अर्थः" इति ॥

३.१३
न_इति कौटिल्यः ॥

३.१४
द्वेष्यता शत्रु.वेदनं दुःख.आसङ्गश् च कोपः ॥

३.१५
परिभवो द्रव्य.नाशः पाटच्चर.द्यूतकार.लुब्धक.गायन.वादकैश् च_अनर्थ्यैः सम्योगः कामः ॥

३.१६
तयोः परिभवाद् द्वेष्यता गरीयसी ॥

३.१७
परिभूतः स्वैः परैश् च_अवगृह्यते, द्वेष्यः समुच्छिद्यत इति ॥

३.१८
द्रव्य.नाशात्_शत्रु.वेदनं गरीयः ॥

३.१९
द्रव्य.नाशः कोश.आबाधकः, शत्रु.वेदनं प्राण.आबाधकम् इति ॥

३.२०
अनर्थ्य.सम्योगाद् दुःख.सम्योगो गरीयान् ॥

३.२१
अनर्थ्य.सम्योगो मुहूर्त.प्रतीकारो, दीर्घ.क्लेश.करो दुःखानाम् आसङ्ग इति ॥

३.२२
तस्मात् कोपो गरीयान् ॥

३.२३
वाक्.पारुष्यम् अर्थ.दूषणं दण्ड.पारुष्यम् इति ॥

३.२४
"वाक्.पारुष्य.अर्थ.दूषणयोर् वाक्.पारुष्यं गरीयः" इति विशाल.अक्षः ॥

३.२५
"परुष.मुक्तो हि तेजस्वी तेजसा प्रत्यारोहति ॥

३.२६
दुरुक्त.शल्यं हृदि निखातं तेजः.संदीपनम् इन्द्रिय.उपतापि च" इति ॥

३.२७
न_इति कौटिल्यः ॥

३.२८
अर्थ.पूजा वाक्.शल्यम् अपहन्ति, वृत्ति.विलोपस् त्व् अर्थ.दूषणम् ॥

३.२९
अदानम् आदानं विनाशः परित्यागो वा_अर्थस्य_इत्य् अर्थ.दूषणम् ॥

३.३०
"अर्थ.दूषण.दण्ड.पारुष्ययोर् अर्थ.दूषणं गरीयः" इति पाराशराः ॥

३.३१
"अर्थ.मूलौ धर्म.कामौ ॥

३.३२
अर्थ.प्रतिबद्धश् च लोको वर्तते ॥

३.३३
तस्य.उपघातो गरीयान्" इति ॥

३.३४
न_इति कौटिल्यः ॥

३.३५
सुमहता_अप्य् अर्थेन न कश्चन शरीर.विनाशम् इच्छेत् ॥

३.३६
दण्ड.पारुष्याच् च तम् एव दोषम् अन्येभ्यः प्राप्नोति ॥

३.३७
इति कोपजस् त्रि.वर्गः ॥

३.३८
कामजस् तु मृगया द्यूतं स्त्रियः पानम् इति चतुर्.वर्गः ॥

३.३९
तस्य "मृगया.द्यूतयोर् मृगया गरीयसी" इति पिशुनः ॥

३.४०
"स्तेन.अमित्र.व्याल.दाव.प्रस्खलन.भय.दिन्.मोहाः क्षुत्.पिपासे च प्राण.आबाधस् तस्याम् ॥

३.४१
द्यूते तु जितम् एव_अक्ष.विदुषा यथा जयत्.सेन.दुर्योधनाभ्याम्" इति ॥

३.४२
न_इत्य् कौटिल्यः ॥

३.४३
तयोर् अप्य् अन्यतर.पराजयो_अस्ति_इति नल.युधिष्ठिराभ्यां व्याख्यातम् ॥

३.४४
तद् एव विजित.द्रव्यम् आमिषं वैर.अनुबन्धश् च ॥

३.४५
सतो_अर्थस्य विप्रतिपत्तिर् असतश् च_अर्जनम् अप्रतिभुक्त.नाशो मूत्र.पुरीष.धारण.बुभुक्षा.आदिभिश् च व्याधि.लाभ इति द्यूत.दोषाः ॥

३.४६
मृगयायां तु व्यायामः श्लेष्म.पित्त.मेदः.स्वेद.नाशश् चले स्थिते च काये लक्ष.परिचयः कोप.भय.स्थानेषु च मृगाणां चित्त.ज्ञानम् अनित्य.यानं च_इति ॥

३.४७
"द्यूत.स्त्री.व्यसनयोः कैतव.व्यसनम्" इति कौणपदन्तः ॥

३.४८
"सातत्येन हि निशि प्रदीपे मातरि च मृतायां दीव्यत्य् एव कितवः ॥

३.४९
कृच्छ्रे च प्रतिपृष्टः कुप्यति ॥

३.५०
स्त्री.व्यसने तु स्नान.प्रतिकर्म.भोजन.भूमिषु भवत्य् एव धर्म.अर्थ.परिप्रश्नः ॥

३.५१
शक्या च स्त्री राजहिते.नियोक्तुम्, उपांशु.दण्डेन व्याधिना वा व्यावर्तयितुम् अवस्रावयितुं वा" इति ॥

३.५२
न_इति कौटिल्यः ॥

३.५३
सप्रत्यादेयं द्यूतं निष्प्रत्यादेयं स्त्री.व्यसनम् ॥

३.५४
अदर्शनं कार्य.निर्वेदः काल.अतिपातनाद् अनर्थो धर्म.लोपश् च तन्त्र.दौर्बल्यं पान.अनुबन्धश् च_इति ॥

३.५५
"स्त्री.पान.व्यसनयोः स्त्री.व्यसनम्" इति वातव्याधिः ॥

३.५६
"स्त्रीषु हि बालिश्यम् अनेक.विधं निशान्त.प्रणिधौ व्याख्यातम् ॥

३.५७
पाने तु शब्द.आदीनाम् इन्द्रिय.अर्थानाम् उपभोगः प्रीति.दानं परिजन.पूजनं कर्म.श्रम.वधश् च" इति ॥

३.५८
न_इति कौटिल्यः ॥

३.५९
स्त्री.व्यसने भवत्य् अपत्य.उत्पत्तिर् आत्म.रक्षणं च_अन्तर्.दारेषु, विपर्ययो वा बाह्येषु, अगम्येषु सर्व.उच्छित्तिः ॥

३.६०
तद् उभयं पान.व्यसने ॥

३.६१
पान.सम्पत् - संज्ञा.नाशो_अनुन्मत्तस्य_उन्मत्तत्वम् अप्रेतस्य प्रेतत्वं कौपीन.दर्शनं श्रुत.प्रज्ञा.प्राण.वित्त.मित्र.हानिः सद्भिर् वियोगो_अनर्थ्य.सम्योगस् तन्त्री.गीत.नैपुण्येषु च_अर्थघ्नेषु प्रसङ्ग इति ॥

३.६२
द्यूत.मद्ययोर् द्यूतम् ॥

३.६३
एकेषां पण.निमित्तो जयः पराजयो वा प्राणिषु निश्चेतनेषु वा पक्ष.द्वैधेन प्रकृति.कोपं करोति ॥

३.६४
विशेषतश् च संघानां संघ.धर्मिणां च राज.कुलानां द्यूत.निमित्तो भेदस् तन्.निमित्तो विनाश इत्य् असत्.प्रग्रहः पापिष्ठतमो व्यसनानां तन्त्र.दौर्बल्याद् इति ॥

३.६५
असतां प्रग्रहः कामः कोपश् च_अवग्रहः सताम् ।

३.६५
व्यसनं दोष.बाहुल्याद् अत्यन्तम् उभयं मतम् ॥

३.६६
तस्मात् कोपं च कामं च व्यसन.आरम्भम् आत्मवान् ।

३.६६
परित्यजेन् मूल.हरं वृद्ध.सेवी जित.इन्द्रियः ॥

(पीडन.वर्गह् - स्तम्भ.वर्गह् - कोश.सन्ग.वर्गह्)

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:25.5000000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

कानाबाहेर-कानावेगळा करणें

  • दुर्लक्ष करणें. उदा. सीन राहणें. 
RANDOM WORD

Did you know?

जुळी मुले झाली असतां शांति करावी काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.