अर्थशास्त्रम् अध्याय ०८ - भाग १

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


(प्रकृति.व्यसन.वर्ग:)

१.०१
व्यसन.यौगपद्ये सौकर्यतो यातव्यं रक्षितव्यं वा_इति व्यसन.चिन्ता ॥

१.०२
दैवं मानुषं वा प्रकृति.व्यसनम् अनय.अपनयाभ्यां सम्भवति ॥

१.०३
गुण.प्रातिलोम्यम् अभावः प्रदोषः प्रसङ्गः पीडा वा व्यसनम् ॥

१.०४
व्यस्यत्य् एनं श्रेयस इति व्यसनम् ॥

१.०५
"स्वाम्य्.अमात्य.जन.पद.दुर्ग.कोश.दण्ड.मित्र.व्यसनानां पूर्वं पूर्वं गरीयः" इत्य् आचार्याः ॥

१.०६
न_इति भरद्वाजः ॥

१.०७
"स्वाम्य्.अमात्य.व्यसनयोर् अमात्य.व्यसनं गरीयः ॥

१.०८
मन्त्रो मन्त्र.फल.अवाप्तिः कर्म.अनुष्ठानम् आय.व्यय.कर्म दण्ड.प्रणयनम् अमित्र.अटवी.प्रतिषेधो राज्य.रक्षणं व्यसन.प्रतीकारः कुमार.रक्षणम् अभिषेकश् च कुमाराणाम् आयत्तम् अमात्येषु ॥

१.०९
तेषाम् अभावे तद्.अभावः, छिन्न.पक्षस्य_इव राज्ञश् चेष्टा.नाशश् च ॥

१.१०
व्यसनेषु च_आसन्नः पर.उपजापः ॥

१.११
वैगुण्ये च प्राण.आबाधः प्राण.अन्तिक.चरत्वाद् राज्ञः" इति ॥

१.१२
न_इति कौटिल्यः ॥

१.१३
मन्त्रि.पुरोहित.आदि.भृत्य.वर्गम् अध्यक्ष.प्रचारं पुरुष.द्रव्य.प्रकृति.व्यसन.प्रतीकारम् एधनं च राजा_एव करोति ॥

१.१४
व्यसनिषु वा_अमात्येष्व् अन्यान् अव्यसनिनः करोति ॥

१.१५
पूज्य.पूजने दूष्य.अवग्रहे च नित्य.युक्तस् तिष्ठति ॥

१.१६
स्वामी च सम्पन्नः स्व.सम्पद्भिः प्रकृतीः सम्पादयति ॥

१.१७
स यत्.शीलस् तत्.शीलाः प्रकृतयो भवन्ति, उत्थाने प्रमादे च तद्.आयत्तत्वात् ॥

१.१८
तत्.कूट.स्थानीयो हि स्वामी_इति ॥

१.१९
"अमात्य.जन.पद.व्यसनयोर् जन.पद.व्यसनं गरीयः" इति विशाल.अक्षः ॥

१.२०
"कोशो दण्डः कुप्यं विष्टिर् वाहनं निचयाश् च जन.पदाद् उत्तिष्ठन्ते ॥

१.२१
तेषाम् अभावो जन.पद.अभावे, स्वाम्य्.अमात्ययोश् च_अनन्तरः" इति ॥

१.२२
न_इति कौटिल्यः ॥

१.२३
अमात्य.मूलाः सर्व.आरम्भाः - जन.पदस्य कर्म.सिद्धयः स्वतः परतश् च योग.क्षेम.साधनं व्यसन.प्रतीकारः शून्य.निवेश.उपचयौ दण्ड.कर.अनुग्रहश् च_इति ॥

१.२४
"जन.पद.दुर्ग.व्यसनयोर् दुर्ग.व्यसनम्" इति पाराशराः ॥

१.२५
"दुर्गे हि कोश.दण्ड.उत्पत्तिर् आपदि स्थानं च जन.पदस्य ॥

१.२६
शक्तिमत्तराश् च पौरा जानपदेभ्यो नित्याश् च_आपदि सहाया राज्ञः ॥

१.२७
जानपदास् त्व् अमित्र.साधारणाः" इति ॥

१.२८
न_इति कौटिल्यः ॥

१.२९
जन.पद.मूला दुर्ग.कोश.दण्ड.सेतु.वार्त्ता.आरम्भाः ॥

१.३०
शौर्यं स्थैर्यं दाक्ष्यं बाहुल्यं च जानपदेषु ॥

१.३१
पर्वत.अन्तर्.द्वीपाश् च दुर्गा न_अध्युष्यन्ते जन.पद.अभावात् ॥

१.३२
कर्षक.प्राये तु दुर्ग.व्यसनम्, आयुधीय.प्राये तु जन.पदे जन.पद.व्यसनम् इति ॥

१.३३
"दुर्ग.कोश.व्यसनयोः कोश.व्यसनम्" इति पिशुनः ॥

१.३४
"कोश.मूलो हि दुर्ग.संस्कारो दुर्ग.रक्षणं जन.पद.मित्र.अमित्र.निग्रहो देश.अन्तरितानाम् उत्साहनं दण्ड.बल.व्यवहारश् च ॥

१.३५
दुर्गः कोशाद् उपजाप्यः परेषाम् ॥

१.३६
कोशम् आदाय च व्यसने शक्यम् अपयातुम्, न दुर्गम्" इति ॥

१.३७
न_इति कौटिल्यः ॥

१.३८
दुर्ग.अर्पणः कोशो दण्डस् तूष्णीं.युद्धं स्व.पक्ष.निग्रहो दण्ड.बल.व्यवहार आसार.प्रतिग्रहः पर.चक्र.अटवी.प्रतिषेधश् च ॥

१.३९
दुर्ग.अभावे च कोशः परेषाम् ॥

१.४०
दृश्यते हि दुर्गवताम् अनुच्छित्तिर् इति ॥

१.४१
"कोश.दण्डव्यसनयोर् दण्ड.व्यसनम्" इति कौणपदन्तः ॥

१.४२
"दण्ड.मूलो हि मित्र.अमित्र.निग्रहः पर.दण्ड.उत्साहनं स्व.दण्ड.प्रतिग्रहश् च ॥

१.४३
दण्ड.अभावे च ध्रुवः कोश.विनाशः ॥

१.४४
कोश.अभावे च शक्यः कुप्येन भूम्या पर.भूमि.स्वयं.ग्राहेण वा दण्डः पिण्डयितुम्, दण्डवता च कोशः ॥

१.४५
स्वामिनश् च_आसन्न.वृत्तित्वाद् अमात्य.सधर्मा दण्डः" इति ॥

१.४६
न_इति कौटिल्यः ॥

१.४७
कोश.मूलो हि दण्डः ॥

१.४८
कोश.अभावे दण्डः परं गच्छति, स्वामिनं वा हन्ति ॥

१.४९
सर्व.अभियोग.करश् च कोशो धर्म.काम.हेतुः ॥

१.५०
देश.काल.कार्य.वशेन तु कोश.दण्डयोर् अन्यतरः प्रमाणी.भवति ॥

१.५१
लम्भ.पालनो हि दण्डः कोशस्य, कोशः कोशस्य दण्डस्य च भवति ॥

१.५२
सर्व.द्रव्य.प्रयोजकत्वात् कोश.व्यसनं गरीय इति ॥

१.५३
"दण्ड.मित्र.व्यसनयोर् मित्र.व्यसनम्" इति वातव्याधिः ॥

१.५४
"मित्रम् अभृतं व्यवहितं च कर्म करोति, पार्ष्णि.ग्राहम् आसारम् अमित्रम् आटविकं च प्रतिकरोति, कोश.दण्ड.भूमिभिश् च_उपकरोति व्यसन.अवस्था.योगम्" इति ॥

१.५५
न_इति कौटिल्यः ॥

१.५६
दण्डवतो मित्रं मित्र.भावे तिष्ठति, अमित्रो वा मित्र.भावे ॥

१.५७
दण्ड.मित्रयोस् तु साधारणे कार्ये सारतः स्व.युद्ध.देश.काल.लाभाद् विशेषः ॥

१.५८
शीघ्र.अभियाने त्व् अमित्र.आटविक.अनभ्यन्तर.कोपे च न मित्रं विद्यते ॥

१.५९
व्यसन.यौगपद्ये पर.वृद्धौ च मित्रम् अर्थ.युक्तौ तिष्ठति ॥

१.६०
इति प्रकृति.व्यसन.सम्प्रधारणम् उक्तम् ॥

१.६१
प्रकृत्य्.अवयवानां तु व्यसनस्य विशेषतः ।

१.६१
बहु.भावो_अनुरागो वा सारो वा कार्य.साधकः ॥

१.६२
द्वयोस् तु व्यसने तुल्ये विशेषो गुणतः क्षयात् ।

१.६२
शेष.प्रकृति.साद्गुण्यं यदि स्यान् न_अविधेयकम् ॥

१.६३
शेष.प्रकृति.नाशस् तु यत्र_एक.व्यसनाद् भवेत् ।

१.६३
व्यसनं तद् गरीयः स्यात् प्रधानस्य_इतरस्य वा ॥

(राज.राज्ययोर् व्यसन.चिन्ता)

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP